लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०९५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ९४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ९५
[[लेखकः :|]]
अध्यायः ९६ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि भगवान् पौषमासके ।
जनलोकं साध्यदेवाश्रितं समाययौ ततः ।। १ ।।
तत्र देवाः साध्यसंज्ञा जयाख्याः पितरस्तथा ।
यज्ञभाजः परदेवाः स्वागतं श्रीहरेर्व्यधुः ।। २ ।।
ब्रह्मणो ये मुखाज्जाता जया देवाः प्रजेप्सवः ।
सर्वे मन्त्रशरीरास्ते हरेः स्वागतमाचरन् ।। ३ ।।
दर्शाख्यः पूर्णमासाख्यो बृहद्वर्यो रथन्तरः ।
चितिश्चापि विचित्तिश्च आकूतिः कूतिरित्यपि ।। ४ ।।
विज्ञातश्च मनो यज्ञश्चैते जयाख्यदेवताः ।
यज्ञनारायणसौधे राजाधिराजशोभिते ।। ५ ।।
यज्ञदेवो हरिं तत्र निवासं समकारयत् ।
पुपूज परया प्रीत्याऽऽरार्त्रिकं च व्यधात्तथा ।। ६ ।।
भोजयामास पीयूषं सेवयामास भावतः ।
तुषिता नाम देवाश्च ततो निन्युर्निजालये ।। ७ ।।
पुपूजुः परया प्रीत्या नीराजनं व्यधुर्हरेः ।
ततश्च हरयो देवा निन्युर्नारायणं प्रभुम् ।। ८ ।।
आनर्चुर्बहुसम्पत्त्या भोजयामासुरच्युतम् ।
वैकुण्ठा नाम वै देवा जनलोकनिवासिनः ।। ९ ।।
निन्युः स्वमन्दिरे कृष्णं पुपूजुः परमादृताः ।
हंसः प्राणः प्रभवश्चारार्त्रिकं श्रीहरेर्व्यधुः ।। 4.95.१ ०।।
अष्टापि वसवः कृष्णं निन्युर्निजालायन् प्रति ।
धरो ध्रुवश्च सोमश्च आपश्चाप्यनिलोऽनलः ।। १ १।।
प्रत्यूषश्च प्रभासश्चाऽऽनर्चुः श्रीपुरुषोत्तमम् ।
मणिरत्नानि बहूनि प्रददुः परमात्मने ।। १२।।
अथ निन्युविश्वदेवाः क्रतुर्दक्षः श्रवः स्तवः ।
कामः सत्यो धुनिः कालः कुरुः प्रभुश्च रोचनः ।। १३।।
पुपूजुः परमीशानं श्रीकान्तं कम्भरात्मजम् ।
आरार्त्रिकं व्यधुश्चापि भोजयामासुरच्युतम् ।। १४।।
विष्णुर्वै मानसाख्यश्चाऽजितश्चापि हरिस्तथा ।
सत्यो विष्णुश्च वैकुण्ठः साध्यो विष्णुस्त्रिविक्रमः ।। १५।।
त एते विष्णवः सर्वे जनलोके कृतालयाः ।
अनादिश्रीकृष्णन रायणमाहूय मन्दिरे ।। १६ ।।
पुपूजुर्विष्णुयन्तारं परब्रह्म पुमुत्तमम् ।
अभिषेकं प्रचक्रुस्ते श्रीगोपालात्मजस्य वै ।। १७।।
शृंगारं शोभनं पूजामारार्त्रिकं ततो व्यधुः ।
भोजनानि प्रददुश्च ताम्बूलकानि वै ततः ।। १८।।
वैष्णवाश्च जनाः सर्वे तथाऽऽनर्चुः परेश्वरम् ।
वैष्णव्य इन्दिराः सर्वाः पुपूजुः श्रीरमाप्रियाः ।। १९।।
लक्ष्मीराधाब्रह्मप्रिया हरिप्रियाश्च योषितः ।
इन्दिराभिश्चार्पिताश्चोपदा लक्ष्म्यादिसन्निधौ ।।4.95.२० ।।
भोजिताः पूजिताश्चापि सेविता मातरोऽखिलाः ।
प्रददुर्विष्णवश्चापीन्दिराद्या भूषणानि ह ।। २१ ।।
सौवर्णं मुकुटं दिव्यं साग्रं रत्नादिसंभृतम् ।
कुण्डले शोभने दिव्ये कर्णपूरौ च कानकौ ।।।२२।।
कण्ठहारान् कौस्तुभाढ्यान् मणिरत्नादियोजितान् ।
भुजबन्धौ हीरकाद्यैः खचितौ कानकौ ददुः ।।२३।।
प्रकोष्ठशृंखले स्वर्णमौक्तिकादिविभूषिते ।
कटके कानके चाप्यङ्गुलीयकानि चोर्मिकाः ।।२४।।
पद्मानि रशना हारान् सुदर्शनानि वै ददुः ।
वेत्रं यष्टिं कानकीं च नक्तकं दिव्यतन्तुजम् ।।२५।।
पादुके पादभूषे च सौवर्णे दिव्यकानके ।
प्रददुर्हरये बद्रि विष्णवस्ते हरिप्रियाः ।।२६।।
हरिप्रियाभ्यः प्रददुरिन्दिराद्या महोपदाः ।
कुचलीः कुतलध्रीश्च शाटिका कञ्चुकीस्तथा ।।२७।।
घर्घरीश्चान्तरपटान्यपि ददुः सुभाविताः ।
केशभूषाश्चन्द्रकानि चिपिटिकाः सुगुच्छकान् ।। २८।।
वेणीवेषान् कानकाँश्च धम्मिलध्रान् सुवर्णजान् ।
चूडामणीन् तैजसाँश्च नन्दमौक्तिकभूषितान् ।। २९।।
दिव्या ललन्तिकाश्चापि गण्डपद्मललन्तिकाः ।
चिबूकचन्द्रिकाश्चापि कर्णशृंखलिकाः शुभाः ।।4.95.३ ०।।
श्रावणीः कानकीश्चाप्याऽऽलम्बराणीः सुशोभिताः ।
पुष्पकाणि कानकानि स्थलकानि शुभान्यपि ।।।३ १ ।।
तारका वर्धिकाश्चापि चन्द्रिका प्रददुः स्त्रियः ।
पत्रिकाः पञ्चसरिकाः सूक्ष्मतिलाँश्च कानकान् ।।३२।।
मुद्गमालाः स्वस्तिमाला बदरीमालिका ददुः ।
यवमालाः स्वर्णमाषाः सुवर्णकण्ठिका ददुः ।।।३३।।
पत्रमालाः शृंखलाश्च मणिमौक्तिकमालिकाः ।
ददुरिन्दिवरश्यामा वैष्णव्यः पद्ममालिकाः ।। ३४।।
स्फाटिकानां शुभान् हारान् सूर्यमुखीं ददुस्तदा ।
स्तनचन्द्रौ मणिरत्ननद्धकानकनिर्मितौ ।।३५।।।
नत्थिका वालिकाः स्वर्णजन्या मणिविभूषिताः ।
पाटलीमालिकाश्चापि मणिहारान् ददुः स्त्रियः ।। ३६।।
कण्ठवलयान् सौवर्णतिलस्रजश्च मादलीः ।
प्लक्षदलीं महाहारान् रशना मेखला ददुः ।।।३७।।
स्वर्णगुच्छान् कन्दुकाँश्च सौवर्णान् चक्रकान् ददुः ।
सक्थिपट्टान् जानुपट्टान् प्रकोष्ठशृङ्खला ददुः ।।३८।।
झांझरीः काम्बिकाश्चापि ददुः कदलिकाः शुभाः ।
पादभूषांऽगुलिभूषांऽगुष्ठभूषा ददुः स्त्रियः ।। ३९।।
अलक्तकान् कज्जलानि शृंगारकुंकुमानि च ।
रंगान् द्रवान् द्रवसारान् तैलसाराणि वै ददुः ।।4.95.४०।।
रससारान् गन्धसारान् मिष्टसाराणि संददुः ।
अम्बराणि भास्वराणि स्वर्णतारमयानि च ।।४१।।
दिव्यमौक्तिकनद्धानि ददुस्ताभ्यस्तु चेन्दिराः ।
पात्राणि कुन्दनजानि दिव्योपकरणान्यपि ।।४२।।।
सर्वसारातिसाराणि गृहोपकरणानि च ।
इन्दिराः इन्दिराभ्यः सन्ददुः शय्याः समुज्ज्वलाः ।।४३।।
आसमानि विचित्राणि केशसाधनकान्यपि ।
आदर्शान् सौरभचूर्णान् पूजायां प्रददुः स्त्रियः ।।४४।।
पादत्राणानि रम्याणि कोमलानि मृदूनि च ।
आलेखनानि रम्याणि किरीटान् प्रददुः स्त्रियः ।।४५।।
इत्येवं जनलोकस्था विष्णवश्चेन्दिरास्तथा ।
हरये हरिपत्नीभ्य उपदाः सुभगा ददुः ।।४६ ।।
सेवयामासुरत्यर्थं जनलोके तु बद्रिके ।
पोषमासं जनलोके भगवान् पुरुषोत्तमः ।। ४७।।
व्यत्ययामास जनिनां स्नेहाग्रहप्रसेवनैः ।
पर्वतोद्यानसरितो लोकयामास सर्वतः ।।४८ ।।
दर्शयामास भगवान् सर्वा भगवतीर्निजाः ।
जनलोकनिवासिभ्यो ददौ मन्त्रं हरिः स्वयम् ।।४९।।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।
'बालकृष्णाय विद्महेऽनादिकृष्णाय धीमहि ।।4.95.५० ।।
तन्नः श्रीशः प्रचोदयादि'तिमन्त्रं जगाद तान् ।
कृष्णनारायणकृष्णनारायण नरायण ।।५१ ।।
अनादिश्रीकृष्णनारायणस्वामिन् रमायण ।
इतिधुन्यं ददौ तेभ्यः पावयित्वा ततो हरिः ।।५२।।
बहुभ्यः प्रेषयामास धामाऽक्षरं निजं द्रुतम् ।
यज्ञदेवादयो देवा विदायं हरये ददुः ।।५३ ।।
हरिर्माघे जनलोकान्महर्लोकं समाययौ ।
कल्पाधिकारिदेवानां द्विजानां यत्र वासिता ।।५४।।
रुद्रा एकादश ये ते ब्रह्मपुत्रास्तु भालजाः ।
पूर्वकल्पोद्भवाः कल्पावसानिका महर्गताः ।।५५।।
तेषां राज्येषु भगवान् रुद्रार्थित उपाययौ ।
नीललोहितरुद्रस्य महापुर्यां जनार्दनम् । ।५६।।
नीललोहितरुद्रो वै पुपूज रुद्रिकायुतः ।
आरार्त्रिकं प्रचकार भोजयामास केशवम् ।।५७।।
वासमामास सौधे स्वे सेवयामास सप्रियः ।
ददौ कृष्णाय बहुलोपदा दिव्याः प्रपूजने ।।५८ ।।
मुकुटाऽम्बरभूषादि मणिरत्नविभूतिकाः ।
अथाऽन्ये ये रुद्रवर्या निन्युर्नारायणं हरिम् ।। ५९।।
निजालयेषु विधिवत् पूजयामासुरच्युतम् ।
सहस्रैकवृषभाणां धवलानां प्रभाजुषाम् ।।4.95.६० ।।
ककुद्वतां सुरूपाणां गिरिशृंगाभदेहिनाम् ।
व्योमगानां हि धुर्याणां योजिते कानके रथे ।। ६१ ।।
सहस्रैककलशाढ्ये सहस्रैकध्वजान्विते ।
शतकम्मानिकाजुष्टे वर्तुले पद्मसदृशे ।। ६२।।
स्वर्णव्याघ्रासने कृष्णं रुद्रा न्यषादयन् हरिम् ।
अभ्रामयन्निजपुर्यां रौद्र्यां सर्वत्र मेश्वरम् ।। ६३ ।।
गृहे गृहे च रथ्यासु चत्वरे चत्वरे तथा ।
उद्यानेषु निवासेषु रुद्रा निन्युर्हरिं प्रभुम् ।। ६४।।
पुपुजुः परया प्रीत्या रुद्रास्तत्र स्थले स्थले ।
रुद्राण्यो धवलाभाश्च पुपूजुः पार्वतीश्वरम् ।।६५।।
चन्दनाक्षतगन्धैश्च फलपुष्पैर्विभूतिभिः ।
भूषावस्त्रनाणकैश्च दिव्यमानसभावनैः ।।६६ ।।
पूवकल्पान्तिका देवा अष्टाविंशतिकोटयः ।
नीत्वा नीत्वाऽऽलयान् नैजानानर्चुर्बहुरूपिणम् ।।६७।।
भोजयामासुरिष्टान्नान्यतिदिव्याऽमृतान्यपि ।
सेवयामासुरीशेशं देवास्ते देवतायुताः ।।६८।।
आनन्दाख्याश्च ये देवा भावदेवाश्च ये तथा ।
रांभदेवा आर्तवाश्च आश्वराः पावकाः सुराः ।।६९।।
हव्यवाहाश्च सावित्रा औशिकाः कौशिकास्तथा ।
निन्युर्नारायणं स्वस्वमन्दिरेष्वभ्यपूजयन् ।।4.95.७० ।।
भोजयामासुरीशेशं सिषेविरे समादृताः ।
अथ गान्धारदेवाश्च षड्जना आर्षभाः सुराः ।।७ १ ।।
मार्जालीयास्तथा देवा माध्यमा निन्युरच्युतम् ।
दिव्ययाने हरिं नैजनगरेषु व्यवर्तयन् ।।७२।।
अपूजयँश्च विविधैरुपहारैरनुत्तमैः ।
अभोजयँश्च बहुधा दिव्यान्नैर्दिव्यभोजनैः ।।७३ ।।
अथ वैराजकाश्चान्ये नैषादा मेघवाहनाः ।
प्राणदेवाश्चिन्तकाश्चाऽऽकूतिका मानसाः सुराः ।। ७४।।
निन्युर्नारायणं स्वस्वसौधेषु चाभ्यपूजयन् ।
राथन्तराः सुराश्चापि सद्योजाता हरास्तथा ।।७५।।
वीराश्च वामदेवाश्च पीतवासादयः सुराः ।
सितकल्पा अघोराश्च विश्वरूपाश्च ये सुराः ।।७६।।
निन्युस्ते परमात्मानं स्वस्वालयेषु भाविताः ।
अभ्रामयन् हरिं नैजे नैजे तु पत्तने गृहे ।।७७।।
अपूजयन् मणिरत्नैर्दिव्यैः सर्वोपचारकैः ।
अभोजयन् सुधान्नैश्चातर्पयन्नमृतैर्जलैः ।।७८।।
रुद्राश्चक्रुस्ताण्डवानि नारायणसमीपगाः ।
नीललोहितरुद्रो वै सुचक्रे ताण्डवं शुभम् ।।७९।।
श्रीबद्रीप्रियोवाच-
कीदृशं ताण्डवं चक्रे कीदृग्रूपो हरस्तदा ।
वद मे तत्स्वरूपं वै नारायणपरेश्वर ।।4.95.८० ।।
श्रीनरनारायण उवाच-
रुद्रो हरिं प्रपूज्याऽत्मानन्दमग्नो बभूव ह ।
प्रसन्नात्मा प्रणिपत्य स्वामिकृष्णनरायणम् ।।८ १ ।।
धन्योऽस्म्यद्य हरेः प्राप्तेः कृतकृत्योऽस्मि सर्वथा ।
यन्मे गृहे कृपासिन्धुः परमेश उपागतः ।।।८२।।
इत्युक्त्वा हर्षपूर्णश्च स्मयन् ताण्डवमाचरत् ।
तत्र स्थिताः शृङ्गिभृङ्गिरीटिकिरीटिनामकाः ।।८३।।
अम्बाकार्तिकविघ्नेशा अभवन्नृत्ययोगिनः ।
रूपं दधार रुद्रोऽत्र चार्धनारीनरात्मकम् ।।८४।।
मन्दस्मिताननं भस्मगौरं यथार्हभूषणम् ।
वामपादांगुष्ठसंस्थो दक्षपादं समुन्नयन् ।।८५।।
इषदूर्ध्वाननश्चोर्ध्वहस्तो वक्रश्च जानुनोः ।
समुद्भिन्नभालचक्षुर्जटासरत्सुरापगः ।।८६।।
नागराजाढ्यकण्ठश्च कृष्णबिन्दुगलोज्ज्वलः ।
भालनेत्रोद्भववह्निरेखाभासितभूतलः ।।८७।।
सिंहचर्मार्धसम्पन्नः शाटिकाऽर्धाऽऽवृतांऽगकः ।
हुङ्कारनादसंघुष्टसभास्थलः स्वरान्वितः ।।८८।।
प्रकोष्ठयोर्दधन्नागकुण्डले भुजयोरपि ।
पादप्रकोष्ठयोश्चापि घुर्घुरानद्धभूषणः ।।८९।।
महाकिंकणिकाव्याप्तरशनाकटिवर्तुलः ।
मुण्डास्थिमालिकाराजद्वक्षःस्थलातिशोभनः ।।4.95.९० ।।
कर्णयोः प्रान्तयोर्लम्बस्वर्णकुण्डलराजितः ।
कर्णयोः परितो यस्य भोगिबालौ भ्रमायितौ ।।९ १ ।।
भाले तिलकचन्द्राभ्यां सुशोभो मानसाऽऽहरः ।
नेत्रप्रान्तदधत्स्निग्धनीलकज्जलरेखकः ।।९२।।
फणिबद्धजटाजूटः स्कन्धयोः फणिविग्रहः ।
इषद्वक्राग्रनमनः कट्या धवलनीलया ।।९३ ।।
धृतार्धकौपीनश्चार्धबद्धान्तर्वस्त्रगुह्यकः ।
धृतार्धाऽलकमूर्धा च तथाऽर्धे जटया युतः ।।९४।।
वामे स्त्रीभूषणैर्युक्तो दक्षे पुंभूषणान्वितः ।
सतीस्तनपटप्रान्तयोजितोत्तरकञ्चुकः ।।९५।।
कार्तिकस्य मयूरेण फुंकारितोऽतिभोगराट् ।
सुधां लिहन् नृत्यजातां स्वेदात्मिकां तु वक्षसि ।।९६।।
राजते रज्जुरूपोऽपि भ्रमन् कण्ठेऽस्य कर्बुरः ।
गणेशस्योन्दुरुर्यत्र चिंचिंकरोति नृत्यवित् ।।९७।।
शिवाऽऽसनो मृगेन्द्रोऽपि करोति गर्जनां तदा ।
नृत्यमेलान्वितां चौजोवर्धिनीं दिङ्निनादनाम् ।।९८।।
धवलो वृषभो यत्र भां करोति तदन्विताम् ।
तेषां तालप्रदानोऽयं डमरूं वादयन् हरः ।।९९।।
हृष्टरोमा हृष्टगात्रः कम्पयन् धरणिश्रयम् ।
पाद विक्षेपयन् चैकपादांऽगुष्टेन तोलयन् ।। 4.95.१० ०।।
ननर्त भ्रामयन् देहं भ्रमन् रराज नृत्यकृत् ।
प्रदक्षिणेन दक्षेण वामेनापि ततः पुनः ।। १०१ ।।
पृष्ठवंशेन चाग्रेण पार्श्वदानेन वै पुनः ।
पदेनापि च पादाभ्यां दत्तकृष्णेक्षणो हरिः ।। १० २।।
ननर्त चञ्चलस्त्यक्तलज्जः सर्वांगकम्पनः ।
क्वचित् स्तनं क्वचिल्लिङ्गं क्वचित्कराग्रमात्रकम् ।। १ ०३।।
क्वचिन्नितम्बमात्रं च कम्पयन् शुशुभे हरः ।
क्वचिद् भुजां क्वचित् सक्थि क्वचिद् गण्डं च गालकम् ।। १ ०४।।
क्वचिद् भ्रुवं क्वचिज्जंघां कम्पयन् शुशुभे हरः ।
क्वचिद्वक्रां क्वचिन्नीचां दृष्टिं तु सरलां क्वचित् ।। १ ०५।।
क्वचिदूर्ध्वामभितश्च ददत् ननर्त शंकरः ।
क्वचिल्लज्जां क्वचित् सार्धां क्वचित्तु द्विगुणां गतिम् ।। १ ०६।।
क्वचिन्मन्दां स्थिरां वापि दर्शयन् स ननर्त ह ।
क्वचिन्नमन् क्वचित्प्रेम्णा भावं स्नेहं च दर्शयन् ।। १० ७।।
आकर्षयन्निव कृष्णं स्वामिनाथं ननर्त सः ।
अर्धांगे भामिनीरूपे प्रसन्नास्ये हिरण्यभे ।। १ ०८।।
दर्शयन् सेविकाभावं ननर्त शंकरो मुदा ।
विशालनेत्रा सुभगा पद्मपत्रनिभेक्षणा ।। १ ०९।।
आरक्तकरचरणतला मिष्टस्वरा सती ।
सर्वांगसुन्दरी भूतिसितस्तनाभिशोभना ।। 4.95.११ ०।।
प्रियार्धं सस्वजाना च सर्वांगरागभासुरा ।
चन्द्रचूडा रूपरूपाभिरूपकृतमोहिका ।। १११ ।।
ननर्ताऽङ्गगता देवी शिवा शिवमयी तदा ।
परमेशप्रसन्नत्वकृते ननर्त सा तदा ।। ११२।।
लज्जां विहाय कृष्णाग्रे सर्वभावसमन्विता ।
हावभावयुता सर्वनृत्यांगरससंभृता ।। ११ ३।।
कण्ठे तु शंभुवत् कण्ठीं तौलसीं दधती तदा ।
नारायणहरे विष्णो कृष्णनारायणेति च ।। १ १४।।
बालकृष्णेति तानेषु वदमाना ननर्त सा ।
रुद्राज्ञया सवाद्या या पृथक्स्थिताऽभवत् तु सा ।। १ १५।।
ननर्ताऽधि तदा भावपूर्णा नारायणान्तिके ।
रुद्राश्चान्ये रुद्रगणा गणिकाश्चापि ननृतुः ।। ११ ६।।
कृष्णकरे करान् न्यस्य चूम्बनान्यपि जगृहुः ।
सवाद्यघोषगीतैश्च सतालगालवादनैः ।। १ १७।।
सर्वथा रुद्रदेवानां मण्डलं तन्ननर्त ह ।
अथ वाहनरूपा ये ननृतुस्ते समुत्सुकाः ।। १ १८।।
धृतरुद्रस्वरूपा वै पृथग्भावो न यत्र तु ।
आश्चर्यं परमं त्वेतन्महर्लोके हरैः कृतम् ।। ११ ९।।
नृत्यात्मकं वीक्षितं श्रीहरिणा सार्थसंयुजा ।
प्रसन्नो भगवान् स्वामी समुत्थाय निजासनात् ।। 4.95.१ २०।।
आश्लिष्यच्छंकरं धृत्वा निजवक्षसि तन्मयः ।
समाश्लिष्यत् कृष्णनारायणः सर्वान् कृपावशः ।। १२१ ।।
रुद्राणीश्च समाश्लिक्षँल्लक्ष्मीपद्मावतीप्रियाः ।
अन्या समाश्लिषन् रुद्राणिकाश्चाशीःपरायणाः ।। १२२।
उपदाः प्रददुर्हारान् दिव्यान् मणीन् विभूषिकाः ।
नृत्यान्ते श्रीहरिः प्राह तुष्टोऽस्मि वरदानकृत् ।। १२३।।
वरं वृणुत सर्वेऽत्र यदिच्छथ ददामि तत् ।
रुद्राश्चाहुस्तव सेवां भक्तिं त्वय्यविनाशिनीम् ।। १ २४।।।
अन्ते ब्रह्मगतिं चापि देहि धाम्न्यक्षरे तव ।
इत्युक्त्वाऽऽरार्त्रिकं चक्रुर्विदायं प्रददुस्ततः ।। १२५।।
तेभ्यो मन्त्रं ददौ कृष्णो नैजं नाम ददावपि ।
'श्रीकृष्णन्रायणस्वामी श्रीहरिः शरणं मम' ।। १ २६।।
दिव्यभावं तथाऽऽशीर्वाणीं ददौ परमेश्वरः ।
अथ विमानमारुह्य जयनादैः स्वराययौ ।। १ २७।।
स्वर्गं कृष्णविमानेन बद्रिके चाऽक्षरप्रभम् ।
व्यद्योतत सुरा वीक्ष्याऽभीयु स्वागतसिद्धये ।। १२८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने महर्लोकनिवासिनां मन्दिरेषु भगवतः पूजनादि रुद्रस्य ताण्डवं चेतिवर्णननामा पञ्चनवतितमोऽध्यायः ।। ९५ ।।