लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०९३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ९२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ९३
[[लेखकः :|]]
अध्यायः ९४ →

श्रीपद्मावतीप्रज्ञे प्रोचतुः-
भक्तप्रियहरिकृष्णस्वामिन्नारायणप्रभो ।
ब्रह्मा पितामहः कस्माद् रक्षितोऽत्र स्वसन्निधौ ।। १ ।।
श्रीकृष्णनारायण उवाच--
शर्करानगरेऽहं श्रीकृष्णनारायणो महे ।
देवेशपितृनागादीन् तेषां स्वीकृत्य चाऽर्थनाम् ।। २ ।।
तेषां तेषां भवनानि ततश्चिद् गन्तुमाह तान् ।
तल्लक्ष्यीकृत्य भगवानियेषैतुमजाऽऽस्पदम् ।। ३ ।।
सत्यलोकं प्रगन्तुं वै ब्रह्मणा सह कार्तिके ।
ब्रह्मणो मानसपूर्त्यै प्रारूरुधं निजान्तिके ।। ४ ।।
ऊर्जकृष्णनवम्यां मां हरिं ब्रह्मा प्रणम्य तु ।
अपृच्छत् कारणं स्वस्य निरोधस्य सुखासने ।। ५ ।।


अहं न्यवेदय तत्राऽस्मारयं च तदर्थनाम् ।
सर्वब्रह्मप्रियाहरिप्रियाद्याभिः सहैव ह ।। ६ ।।
कृतप्रार्थनस्थानीशालयान् गन्तुं तु वेधसम् ।
ब्रह्मापि च कृपां लब्ध्वाऽतुष्यच्चातीव तत्क्षणम् ।। ७ ।।
मह्यं न्यवेदयत्तत्र यथायोग्यं हितं निजम् ।
भगवन् सत्यलोके मे दीपोत्सवं विधापय ।। ८ ।।
अन्नकूटान् दिव्यभोगानर्पयिष्यामि भावतः ।
सेवालाभो हि गायत्र्याः सावित्र्याश्च भविष्यति ।। ९ ।।
सत्यवासिसमस्तानां तत्र सेवा भविष्यति ।
तवाऽङ्गनानां सर्वासां दर्शनं च भविष्यति ।। 4.93.१ ०।।
यदिष्टं तत् सत्वरं वै विधेहि भगवन् प्रभो ।
मत्प्रियेऽहं तदा कृष्णनारायणोऽगदं तमोम् ।। ११ ।।
सुस्वीकृतवान् ब्रह्मोक्तं तस्मात् सज्जेऽद्य तिष्ठतम् ।
सर्वाभिश्चांऽगनाभिर्वै स्वस्रा सन्तुष्टया सह ।। १२।।
दासीभिः सेविकाभिश्च लोमशादिमहर्षिभिः ।
पार्षदैर्भृत्यवर्गैश्च सह सज्जो भवाम्यहम् ।। १ ३।।
श्रीश्वेतायनव्यास उवाच-
कृत्वा चैकादशीं कृष्णनारायणो जगत्प्रभुः ।
शतयोजनविस्तारं विमानं सूक्ष्मभावगम् ।। १४।।
वर्धयामास सहसा व्योम्नि सर्वाऽऽसनाऽर्हकम् ।
दिव्यं वैकुण्ठतुल्यं वै हिरण्यब्रह्मनामकम् ।। १५।।
सर्वर्द्धिसर्वभोगाढ्यं सर्वकामप्रपूरकम् ।
विमानेऽत्राऽनादिकृष्णोनारायणःश्रीवल्लभः ।। १६।।
निषसाद द्रुतं सर्वदासदासीप्रसेवितः ।
अथ हलहलाशब्दो यात्रार्थं चाऽऽज्ञया हरेः ।। १७।।
अभवत् कुंकुमवापीनगरेऽभित ऊर्ध्वगः ।
नार्यः समस्तवेषाढ्या नीतभूषाम्बरास्तथा ।। १८।।
सर्वशृङ्गारकरणा ह्यतिष्ठन् यानसन्निधौ ।
आज्ञां ददौ स तास्तूर्णं चारुरुहुर्विमानकम् ।। १९।।
श्रीहरिः स्वपितरौ सम्प्रणम्याऽपि विमानके ।
द्वितीयेन स्वरूपेण ब्रह्मणा लोमशेन च ।।4.93.२० ।।
सद्भिः स्वपार्षदैः सर्वप्रियाभिः संव्यराजत ।
अथ वाद्यान्यवाद्यन्त पुष्पचन्दनवृष्टयः ।।।२१।।।
अम्बरादभवँस्तत्र जयनादास्ततोऽभवन् ।
अथ श्रीबदरी बद्रिकाश्रमे श्रीनरायणम् ।।२२।।
श्रुत्वा घोषान् दिव्यशक्त्या पप्रच्छ श्रीहरेः कथाम् ।
क्व यानादितदाऽऽह श्रीनरनारायणोऽपि ताम् ।।२३।।
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये कृष्णो द्वाविंशं स्वजनेर्महम् ।
कृत्वा पुरञ्जनमोक्षोत्तरं सत्यस्तरं प्रति ।।२४।।
गन्तुं सज्जोऽभवत्तत्र सेवका अपि सर्वशः ।
द्वादश्यां ते कृताहारा विमानस्थाः सरोवरम् ।।२५।।।
वापीं क्षेत्राणि नत्वाऽपि नत्वा स्वद्विस्वरूपिणम् ।
नरा नार्यो हर्षयुक्ता यात्रार्थं निर्ययुर्हि खे ।।२६।।
विमानं जयनादैश्च सहितं चाऽम्बरेऽग्रगम् ।
शनैर्गतिपरं जातं विमुच्याऽभ्राणि वै क्षणात् ।।२७।।
मनोवेगेन च भुवः स्वर्गं महर्जनं तपः ।
सत्यं प्राप मुहूर्तेन महाश्चर्यमभूद्धि तत् ।।२८।।।
सर्वासां योषितां दासीदासानां वेगदर्शिनाम् ।
उद्धोषः सर्वतो जातो यात्रायां भगवान् ययौ ।।।२९।।
सर्वलोकेषु सर्वत्र सा वार्ता प्रासरत् क्षणात् ।
योगिनो देवताश्चापि दिव्यज्ञा विविदुः क्षणात् ।।4.93.३ ०।।
आययुः सत्यलोके ते हरिं नेतुं निजालयान् ।
क्रमात् कृष्णोऽपि तानाह समागन्तुं यथायथम् ।।३ १ ।।
सत्यलोके तदा साध्वि! सत्यलोकनिवासिनाम् ।
श्रीकृष्णस्याऽऽगमे जाते महानन्दो व्यजायत ।।३२।।
स्वागतं सत्यलोकस्था ब्रह्मपुत्राः सनातनाः ।
सिद्धाः सनत्कुमाराद्यास्तथा सत्याधिकारिणः ।।३३।।
देवाश्चक्रुर्हरेस्तत्र वाद्यमालाऽर्हणादिभिः ।
फलाऽक्षतसुपुष्पाद्यैर्लाजासुगन्धिसद्द्रवैः ।।३४।।
ब्रह्मा ब्रह्मपुरीं सर्वां शृङ्गारशोभितां व्यधात् ।
सुगन्धिसिक्तमार्गां च ध्वजपताकिकोर्जिताम् ।।३५।।
सुवर्णकलशै रम्यां हारतोरणशोभिताम् ।
सत्याभिर्देविकाभिश्चसुवेषाभिरलंकृताम् ।।३६।।
मन्दिरागारसुन्यस्तस्वस्तिकादिविराजिताम् ।
कदलीस्तम्भशाखाढ्यगोपुरैः शोभितां तदा ।। ३७।।
विमानैर्वाहनैर्हंसैर्बहुभिः सङ्कुलाम् ।
विविधैर्दिव्यवाद्यैश्च नादितां सुमनोहराम् ।। ३८।।
सत्यदेवैर्देविकाभिश्चाप्सरोभिरलंकृताम् ।
सिंहव्याघ्रहंसहस्तिमृगवेषितसैन्यिकाम् ।। ३९।।
दिव्यकुसुमैर्गुच्छैश्च विकीरितां समन्ततः ।
दधिमांगल्यसंशोभदगारसौधराजिताम् ।।4.93.४०।।
कराऽऽत्ताऽक्षतपुष्पादिसिद्धाभिः सुप्रतीक्षिताम् ।
कृत्रिमोद्यानसंशोभच्चत्वराऽऽवासशान्तिदाम् ।।४१।।
कामकल्पलतावृक्षमालाभिरभिराजिताम् ।
सत्यां ब्रह्मपुरीं कृष्णनारायणो हि वेधसा ।।४२।।
नीयमानश्चाविवेश वर्धितः पूजितः सुरैः ।
भ्रमित्वा श्रीहरिर्दीर्घां सत्यां वै लक्षयोजनाम् ।। ४३ ।।
विमानं तु स्थिरीकृत्य हंसयानमुपाविशत् ।
ब्रह्मणो भवनं ब्रह्माऽनयच्छ्रीपरमेश्वरम् ।। ४४ ।।
ब्रह्मा च ब्रह्मपुत्राश्च सनकाद्या महर्षयः ।
ऋभुश्च नारदाद्याश्च पुपूजुः परमेश्वरम् ।।४५।।
पादामृतं पपुश्चारार्त्रिकं चक्रुः समुत्सुकाः ।
हारान् भूषाश्चन्दनादि समर्प्य च ततोऽस्तुवन् ।। ४६।।
पावितः सत्यलोकोऽयं भगवन् कृपया त्वया ।
सेवायां न समर्थाः स्म क्षमस्वाऽशक्तिमच्युत ।।४७।।
ब्रह्मा दिव्यसभायां च निन्ये श्रीपुरुषोत्तमम् ।
विश्रामं प्राप भगवान् भोजितश्चामृतादिभिः ।।४८ ।।
अथ सावित्रिकागायत्रिकासरस्वतीस्त्रियः ।
साध्व्यश्च सिद्धयश्चापि सुराण्यः कोटिशोऽपि च ।।४९ ।।
पुपूजुः श्रीहरिं तत्र तथा श्रीं माणिकीं रमाम् ।
लक्ष्मीं प्रज्ञां पाशवतीं राधां च शारदां सतीम् ।। 4.93.५० ।।
कृष्णनारायणपत्नीः पूजयामासुरेव ताः ।
उपदा विविधाश्चापि ददुर्दिव्यास्तदुद्भवाः ।।।५१ ।।
ततश्चारार्त्रिकं चक्रुर्भोजयामासुरीश्वरीः ।
ब्रह्मप्रियादिकाः सर्वा दासीर्दासान् समस्ततः । । ५२।।
विश्रान्तिमन्दिरेष्वेता ददुर्विश्रमणं तथा ।
सर्वप्रदानकैर्देव्यो भगवत्योऽर्हणां व्यधुः ।।५३ ।।
सेवां चक्रुर्महीमानयोषितां सर्वतोऽर्पणैः ।
ब्रह्माऽभवत् कृतकृत्यः सावित्र्याद्या मुदान्विताः ।। ५४।।
सनकाद्याः साधवश्चाऽभवन् कृतार्थकास्तदा ।
बद्रिप्रिये! ब्रह्मसत्ये क्षणमात्रं तु भूतले ।। ५५।।
युगाऽयुतायते चापि मानवस्य कृते खलु ।
न तु योगवतां चापि भगवतां तथाविधा ।।५६।।
ईश्वराणां न च तथा सुतरां श्रीहरेर्नहि ।
काले दैर्घ्यं कृतं येन वामनत्वं कृतं तथा ।। ५७।।
संकल्पाधीनमस्याऽस्ति का तत्र कालकल्पना ।
बद्रिप्रिये हरिकृष्णः प्रपूर्य ब्रह्मणो मनः ।।५८ ।।
ब्रह्मणाऽऽदिष्टदेवानां मन्दिरेषु ययौ ततः ।
सौधेषु सनकादीनां साधूनां प्रययौ पुरा ।।५ ९।।
ब्रह्मशीलव्रतानां च नैष्ठिकानां महात्मनाम् ।
सिद्धानामाश्रमश्रेष्ठेष्वपि नारायणो ययौ ।। 4.93.६० ।।
पूजितः साधुसंघैश्च ततो गृहिगृहाण्यपि ।
सत्यावसानिकदेवालयेषु भगवान् ययौ ।। ६१ ।।
पूजितो वन्दितः सर्वैर्भोजितोऽमृतसद्रसैः ।
नीराजितो वर्धितश्चाऽऽययौ ब्रह्मालयं पुनः ।। ६२।।
धनलक्ष्मीमहापूजां ब्रह्माद्याश्चक्रिरे ततः ।
त्रयोदश्यां चतुर्दश्यां कृष्णपूजां प्रचक्रिरे ।। ६३ ।।
दीपावल्यां शारदाश्रीमहापूजां प्रचक्रिरे ।
कोटिसिद्धाः कोटिसन्तो नैष्ठिका ब्रह्मकोटिकाः ।। ६४।।
ऋभुर्नीराजनं चक्रे ब्रह्माऽप्यपूजयन् मुदा ।
सावित्र्याद्याः सतीनार्यो लक्ष्मीपूजां प्रचक्रिरे ।। ६५।।
दिव्यसारैरमृताद्यैरभिषेकं प्रचक्रिरे ।
शृङ्गाराणि समस्तानि समस्तभूषणानि च ।। ६६ ।।
समस्तवेषसौभाग्यं लक्ष्म्या देव्याः प्रचक्रिरे ।
सत्यलोकं ब्रह्मदीपावलिकोटिसमुज्ज्वलम् ।। ६ ७।।
चक्रिरे दीपनिवहैः पुण्यात्मकैः समस्ततः ।
नृतगीतमहामोदाऽमृतादिमिष्टभोजनैः ।। ६८ ।।
महीमानमहानन्दं जनयामासुरीशिकाः ।
अन्नकूटोत्सवं ब्रह्मा चकार बहुवस्तुकम् ।।६९।।
सत्यलोकान्ननिवहान् पाचितान् सुसुधाभृतान् ।
मिष्टान्नानि समस्तानि क्षारान्नानि तथैव च ।।4.93.७० ।।
रस्यान्नानि च भक्ष्याणि भोज्यानि विविधान्यपि ।
लेह्यानि रसयुक्तानि पेयानि विविधानि च ।।७ १ ।।
आस्वाद्यानि समस्तानि चोष्याणि चोत्तमानि च ।
तिक्तमिष्टाम्ब्लकटूनि प्रवाहितानि यान्यपि ।७२।।
सहायकानि सर्वाणि रूक्षशुष्काणि यानि च ।
भर्जितानि संस्कृतानि दिव्यगन्धरसानि च ।।७ ३ ।।
शाकपत्राणि रम्याणि भाजा भाजीः रसप्लुताः ।
कन्दमूलानि सर्वाणि फलपुष्पाणि यान्यपि ।।७४।।
उत्कृष्टोत्कृष्टरूपाणि सर्वकलाकृतानि च ।
स्वर्णपात्रेषु महास्थालेषु कोट्यर्बुदेषु च ।।७५।।
दिव्यभाजनवर्येषु कलशेषु जलानि च ।
साक्षात्फलानि पुष्पाणि बीजानि मञ्जरीस्तथा ।।७६।।
संस्कृत्य शिम्बिकाश्चापि न्यधुः श्रीहरिसन्निधौ ।
स्वर्णहंसासने राजत्कृष्णो ब्रह्मप्रियादिभिः ।।।७७।।
बुभुजे ब्रह्मणाऽऽदिष्टः सावित्र्यादिभिरर्चितः ।
प्रशंस्याऽन्नानि भगवान् श्रीप्रज्ञामाधवीधवः ।।७८ ।।
गायत्र्याद्या ब्रह्मपत्न्यो व्यजनैः पवनं ददुः ।
सावित्र्याद्याः पुनस्तत्र परिवेषणमाचरन् ।।७९ ।।
हरिस्तृप्तो हरेः पत्न्यो दास्यो दासाश्च सेवकाः ।
साधवः पार्षदास्तृप्ताश्चुलुकं च व्यधुस्ततः ।।4.93.८ ० ।।
वार्यमृतं पपुश्चापि मुखवासं च जगृहुः ।
ताम्बूलकं तु भगवान् सर्वाश्च श्रीहरिप्रियाः ।।८ १।।
मुखवासानि चान्यानि दिव्यपूगीफलान्यपि ।
तथा सुगन्धिबीजानि शीतकणांश्च जगृहुः ।।८२।।।
भुक्त्वोत्थाय हरिकृष्णो निषसाद महासने ।
ब्रह्मा च ब्रह्मपत्न्यश्च ब्रह्मपुत्रादयस्तथा ।।८ ३।।।
प्रसादं श्रीहरेः सर्वे वुभुजिरेऽतिभावतः ।
सनकाद्या ऋषयश्च ऋभ्वाद्या नैष्ठिकोत्तमाः ।।८४।।
सत्यः साध्व्यः शारदाद्या बुभुजिरे प्रसादकम् ।
ततः श्रीभगवान् सत्यलोकवासिभ्य आदरात् ।।।८५।।।
शरण्यः शरणे प्राप्तान् ददौ मन्त्रं निजं स्वयम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।८६।।
'ओं बालकृष्णाय विद्महेऽनादिकृष्णाय धीमहि ।
तन्नः श्रीशः प्रचोदयादि'ति मन्त्रं ददौ तथा ।।८९।।।
सत्यलोके कोटिशोऽपि सिद्धाः साध्याश्च नैष्ठिकाः ।
पूर्वप्रपूर्वकल्पीयदेवाद्या न्यवसँश्च ये ।।८८।।
सर्वे ते वैष्णवा जाताः कृष्णनारायणाश्रिताः ।
देवा देव्यः समस्ता वै नामधुन्यं प्रचक्रिरे ।।८९।।
कृष्णनारायणकृष्णनारायण नरायण ।
अनादिश्रीकृष्णनारायणस्वामिन् रमायण ।।4.93.९० ।।
इत्येवमुत्सवं ब्रह्मा चान्नकूटस्य संव्यधात् ।
दक्षाद्याः ब्रह्मपुत्राश्च नारदाद्या महर्षयः ।।९ १ ।।
सत्यलोकगताः कृष्णप्रसादं जगृहुर्मुदा ।
नृत्यं च कीर्तनं चक्रुर्गान्धर्वा नारदादयः ।।९२।।
ब्रह्मसरसोऽप्सरसो व्यधुर्नृत्यानि वै मुदा ।
योगिनो यतयः सिद्धास्तापसा ब्रह्मचारिणः ।।।९३।।
चक्रिरे नामधुन्यं च कृष्णनारायणप्रभोः ।
अपुनर्मारका देवाः सत्याः सत्यनिवासिनः ।।९४।।
पूजनं श्रीहरेश्चक्रुरागत्य ब्रह्ममन्दिरम् ।
प्रसादं जगृहुस्ते च मन्त्रं च जगृहुर्हरेः ।।९५।।
अथ श्रीमत्कृष्णनारायणः प्रसाद्य वेधसम् ।
विष्णुनाऽभिष्टुतः प्रायान्नारायणालयं ततः ।।९६।।
विष्णुलोकं विशालं वै प्राप्य विष्णोस्तु मन्दिरे ।
विष्णुना च श्रिया सर्वपार्षदैः कृतमुत्तमम् ।।९७।।
स्वागतं पूजनं दिव्यकौस्तुभाद्यर्पणं मुदा ।
जग्राहोर्जस्य पूर्णायां तिथौ पद्मावतीपतिः ।।९८।।
भोजनं च शुभं पानं प्राप्य पूजां श्रिया कृताम् ।
विमानेन ययौ ज्योतिर्मयं हरपुरं प्रभुः ।।९९।।
कोटिकोटिगणोऽध्यक्षो हरो मुदितमानसः ।
अभ्याययौ हरिं चक्रे दण्डवत् गणकोटिभिः ।। 4.93.१ ००।।
ज्योतिर्मये पुरे कृष्णं भ्रामयित्वा विमानगम् ।
नैजे स्वर्णालये निन्ये पुपूज पुष्परत्नकैः ।। १०१ ।।
आरार्त्रिकं चकारापि भोजयामास चाऽमृतम् ।
सर्वानुगयुतं कृष्णं सेवयामास शंकरः ।। १०२।।
गणा गणिकाः सत्यश्च श्रीसतीसहिता हरेः ।
लक्ष्म्यादीनां च शुश्रूषां चक्रिरे ह्यतिभावतः ।। १ ०३।।
हरिस्तेभ्यो ददौ मन्त्रं ताभ्यश्च नैजमुत्तमम् ।
वैष्णवान् संविधायैवाऽऽसाद्य पूजां ततः परम् ।।१०४।।
स्वयंभूमनुनाऽऽगत्याऽर्थितः कृष्णो ययौ सह ।
अर्चितः पूजितः सर्वसम्पद्भिर्वर्धितः प्रभुः ।। १ ०५।।
सेवितः शतरूपादिनारीभिः श्रीप्रमापतिः ।
प्रतोष्य तं मनुं चान्यमनूनामालयान् ययौ ।। १ ०६।।
सर्वे ते मनवः स्वस्वमन्दिरे चांगनायुतम् ।
अवस्थाप्य मनुं प्राप्य पुपूजुः सम्पदा हरिम् ।। १ ०७।।
मनूनां पत्निकाः कृष्णपत्नीः पुपूजुरादरात् ।
आरार्त्रिकं ततश्चक्रुर्भोजनानि व्यधुस्तथा ।। १ ०८।।
तेभ्यः प्रसन्नो भगवान् ददौ पादौ तु वक्षसि ।
प्रस्थापितस्ततः कृष्णो विमानेन निजेन तु ।। १ ०९।।
समाप्य भ्रमणं सत्ये तपोलोकमुपागमत् ।
बद्रीप्रिये! मार्गशीर्षे सर्वस्ववर्गसंयुतः ।। 4.93.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने ब्रह्मणाऽर्थिंतो भगवान् कोट्यर्बुदादिपत्न्यादिसहितः शतयोजनविमानेन सत्यलोकं ययौ, तत्र दीपोत्सवाऽन्नकूटादिमहोत्सवे ब्रह्मसिद्धयतिमनुप्रभृतिभिः पूजितो हरिस्तान् सुखयित्वा तपोलोकमाजगामेत्यादिनिरूपणनामा त्रिनवतितमोऽध्यायः ।। ९३ ।।