लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १८५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १८५
[[लेखकः :|]]
अध्यायः १८६ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कथां भक्तस्य शोभनाम् ।
नाम्ना मञ्जुलकेशस्य हलवाद्ग्रामवासिनः ।। १ ।।
हलवानगरे लक्ष्मि विप्रो मञ्जुलकेशवान् ।
वर्तते स्याऽतिभक्तो मे धर्मेऽत्यन्तकृतश्रमः ।। २ ।।
नित्यं त्रिषवणस्नायी त्रिसन्ध्यावन्दनाऽर्हणः ।
विष्णुं शिवं गणेशं च सतीमर्कं प्रगेऽर्चयन् ।। ३ ।।
स्तोत्रपाठं प्रकुर्वंश्च नित्यमर्थयते हरिम् ।
हरेकृष्ण हरेविष्णो त्वद्भक्तिः सर्वदाऽस्तु मे ।। ४ ।।
माहात्म्यं च तव श्रेष्ठमेकान्तिकी तु दासता ।
भक्तेषु ते तथा कृष्ण त्वयि दोषमतिर्न मे ।। ५ ।।
त्वदेकान्तिकभक्तानां सतां संगोऽस्तु मे सदा ।
दर्शनं सर्वदा चास्तु मूर्तीनां ते सतामपि ।। ६ ।।
धर्मे मतिर्दृढा मेऽस्तु व्यवसायो ममाऽस्तु मे ।
मद्यमांसादिकस्पर्शोऽपि मे माऽस्तु कदाचन ।। ७ ।।
अभक्ष्याणां भक्षणं मे पलाण्डोर्लशुनस्य च ।
माऽस्तु माऽस्तु तथा चौर्ये मनो मे चञ्चलं क्वचित् ।। ८ ।।
निन्दने तव भक्तानां प्रवृत्तिर्मे च माऽस्त्वपि ।
देवानां निन्दने चापि संकल्पोऽपि च माऽस्तु मे ।। ९ ।।
आसुराणां नास्तिकानां संगो माऽस्त्वपि मे क्वचित् ।
रागोऽपि विषये माऽस्तु स्नेहस्त्वयि सदाऽस्तु मे ।। 3.185.१ ०।।
आत्मनिवेदिता कृष्ण त्वयि चाऽस्तु सदा मम ।
पातिव्रत्यं कृष्णनारायण त्वयि सदाऽस्तु मे ।।१ १ ।।
एवं कुटुम्बसहितो नित्यमर्थयते हि मत् ।
अगालितं जलं नैव पिबत्यप्यनिवेदितम् ।। १२।।
अन्नं फलादिकं नैव भुनक्त्यप्यनिवेदितम् ।
वस्त्राम्बरविभूषादि न युंक्तेऽप्यनिवेदितम् ।। १ ३।।
यानं वाहनमेवापि न युंक्ते चाऽनिवेदितम् ।
शृंगारं चोपकरणं यत्तद् भोग्यं निवेद्य वै ।। १४।।
उपयुंक्ते निजार्थे वै महाभागवतो यथा ।
करोति पूजनं नित्यं मम नारायणस्य सः ।। १५।।
भिक्षार्थं च ततो याति नगरे प्राप्य भिक्षितम् ।
गृहमागत्य तत् पच्यं पाचयित्वा निवेद्य मे ।।१ ६।।
भुंक्ते कुटुम्बसहितस्तुलसीपत्रसंयुतम् ।
लक्ष्मीनारायणसंहिताकथां वाचयत्यपि ।। १७।।
प्रजाजनान् चागतांश्च श्रावयत्येव चाश्रमे ।
पत्नीयुतोऽयं भूदेवो लक्ष्मि पुत्रादिसंयुतः ।। १८।।
महाभागवतो धर्मं दृढं सम्पालयत्यथ ।
क्वचिज् ज्ञातिजना ज्ञातिभोजने चाह्वयन्त्यपि ।। १९।।
विप्रं तं किन्तु विप्रोऽसौ भुंक्ते न ज्ञातिभोजनम्
अगालितैर्जलैश्चाप्यसंस्कृतान्नादि रन्धितम् ।।3.185.२०।।
मत्वा भुंक्ते न तत्रापि पलाण्डवादिप्रदूषितम् ।
लशुनादिविमिश्रं वा भुंक्ते नैव कदाचन ।।२१।।
इतिहेतोर्ज्ञातिजना शोषं कुर्वन्ति तं प्रति ।
स च मञ्जुलकेशो वै सहते सर्वमेव ह ।।२२।।
अथैकदा स्वसम्बन्धिगृहे ययौ तु मञ्जुलः ।
सम्बन्धिनस्तु तं प्राहुर्भवदर्थं तु शुद्धिमत् ।।२३ ।।
पाचयित्वा भोजनं वै दास्यामो भुङ्क्ष्व तृप्तिदम् ।
विश्वासयित्वैव ततो रन्धितान्ने मनागपि ।।२४।।
सुरां ददुस्ते ज्ञात्वैव रुषान्विताः सुभोजने ।
मञ्जुलकेशो गन्धेन ज्ञात्वा पात्रस्थभोजने ।।२४६ ।।
सुरासम्मिश्रणं स्वल्पं शर्कराकेसरान्वितम् ।
तत्याज भोजनं तद्वै जलं तत्याज तद्गृहे ।।२६।।
विश्वासघातरुष्टश्च शशाप मञ्जुलस्तदा ।
योऽयं सुरां ददौ मह्यं विश्वास्य भोजनेन वै ।।२७।।
सोऽयं विचित्तो भवतु प्रमत्तोन्मत्त एव च ।
एवमुक्ते तु सहसा जनानां सन्निधौ तदा ।।२८।।
मञ्जुलपुत्रश्वशुरो विचित्तोन्मत्ततां गतः ।
भ्रान्तचित्तोऽभवत्तूर्णं मर्यादां परिहाय च ।।२९।।।
वाणीं दुष्टां तथा चेष्टां दुष्टां निरम्बरां व्यधात् ।
नाम्ना पाशुपतेशाख्यः श्वशुरः शापदण्डितः ।।3.185.३०।।
विमना भ्रष्टभानश्चोपद्रवं बहुधाऽकरोत् ।
जनानां सन्निधौ तिष्ठन् विवस्त्रश्च प्रमेहति ।।३ १।।
रौति नृत्यति तालैश्च कूर्दत्यपि च धावति ।
आक्रोशति प्रहसति चाऽसम्बद्धं प्रगायति ।।।३२।।।
पात्रवस्त्राणि सम्प्राप्य विभिद्य स्फोटयत्यपि ।
अवाच्यवाचं वदति चेष्टां करोति पाशवीम् ।।३३।।
एवं वै शापदोषेण वैचित्त्यं सहसा गतः ।
उपद्रवान् बहुशस्तु करोत्यतर्कितानपि ।। ३४।।
कुटुम्बं बहुधा तस्योद्विग्नं जातमुपद्रवात् ।
प्रार्थयामास विप्रं तं शापनिवृत्तये तदा ।।३५।।
आह मञ्जुलकेशोऽपि त्यजन्त्वभक्ष्यभक्षणम् ।
कुर्वन्तु शुद्धिमेवापि प्रायश्चित्तं व्रतं महत् ।।३६।।
ब्रह्मकूर्चाख्यमेवाऽतः शुद्ध्युत्तरं मखं शुभम् ।
वैष्णवं सम्प्रकुर्वन्तु गोदानानि ददत्वपि ।।३७।।
मन्त्राँश्च वैष्णवाँस्तत्र कृष्णनारायणस्य ह ।
गृह्णन्तु भक्तिकार्यार्थं ततः स्वास्थ्यं भविष्यति ।।३८।।
एवं तु कथिताः पाशुपतेशस्य कुटुम्बिनः ।
अभक्ष्यभक्षणं तत्यजुश्चक्रुर्ब्रह्मकूर्चकम् ।।३९।।
वैष्णवं च मखं चक्रुर्ददुर्दानानि सद्गवाम् ।
'ओमनादिकृष्णनारायणः स्वामी पतिश्च मे' ।।3.185.४०।।
इतिमन्त्रं तथा चान्यान् मन्त्राँश्च जगृहुस्तदा ।
वैष्णवास्ते च सञ्जाता हरेकृष्ण जपन्ति च ।।४१ ।।
सर्वमेतत् कृतं चापि वैचित्त्यं न निवर्तते ।
तदा मञ्जुलकेशोऽपि निराहारोऽतिभक्तिमान् ।।४२।।
सप्ताहं चासने तिष्ठन् बालकृष्णजपान् व्यधात् ।
प्रार्थयामास चात्यर्थं सम्बन्धिनः समेत्य च ।।४३।।
अथाऽहं भक्तरक्षार्थं भक्तेच्छापूरणाय वै ।
ययावदृश्यरूपश्च शुश्राव कीर्तनादिकम् ।।४४।।
सप्ताहे तु व्यपगतेऽष्टमे दिने प्रगेऽर्चने ।
आरार्त्रिकोत्तारणेऽहं शालग्रामे स्वरूपवान् ।।४५।।
दिव्यरूपं मम तेभ्योऽदर्शयं श्रीप्रसेवितम् ।
तेजोमण्डलमध्यस्थं स्वर्णहारालिराजितम् ।।४६ ।।
दिव्यवेषं भूषणाढ्यं किरीटवरशोभितम् ।
शंखचक्रगदापद्मधरं चाशीःप्रदं शुभम् ।।४७।।
प्रसन्नवदनं कान्तं रक्षार्थं समुपागतम् ।
एतादृशं तु ते मां संवीक्ष्य मोहमुपाययुः ।।४८।।
लग्नास्तेषां तु सर्वेषां श्रीकृष्णे चित्तवृत्तयः ।
इन्द्रियाणि समस्तानि लीनानि मयि भासुरे ।।४९।।
यथा समाधिमाप्तास्ते तथा लग्नास्तदाऽभवन् ।
मूर्तेर्मे परमानन्दं प्रापुस्तेऽलभ्यमुत्तमम् ।।3.185.५०।।
सुखिता मे सुखेनैव ब्रह्मानन्दयुजोऽभवन् ।
मदन्यस्मृतिशून्याश्च स्वरूपमात्रवेदिनः ।।५१ ।।
अभवँस्ते यथा मुक्ता धामस्थाः स्थिरचेतनाः ।
एवं क्षणं सुखं दत्वा कृत्वा तेजोलयं ततः ।।५२।।।
साधुरूपोऽभवं तूर्णं काषायाम्बरधृङमुनिः ।
मालां करे दधन् कृष्णनारायणेति संजपन् ।।५३।।।
श्रावयन् भगवन्नाम चेतयन् बहिरानयन् ।
ते सर्वे मत्स्वरं श्रुत्वोत्तस्थुः समाधिभावतः ।।५४।।
अग्रे विलोकयामासुः साधुरूपं हरिं तु माम् ।
प्रणेमुः प्रेमयुक्तास्ते विह्वला दिव्यमानसाः।।५५।।
श्रीकृष्णकृष्णकृष्णेति जपन्तो मामुपाययुः ।
चक्रिरे दण्डवत् सर्वे निपेतुः पादयोश्च मे ।।।९६।।
मुखं समाधौ यद् दृष्टं तद् दृष्ट्वा साधुवेषिणः ।
औज्ज्वल्यं चापि तद् दृष्ट्वा दृष्ट्वा प्रसन्नतां च ताम् ।।५७।।
युवत्वं चापि तद् दृष्ट्वा निश्चिक्युः प्रभुरागतः ।
साधुरूपो रक्षणार्थं भक्तेच्छापूरणाय वै ।।५८।।।
अर्घ्यं च मधुपर्कं च श्रेष्ठासनं जलं ददुः ।
फलं च भोजनं योग्यं हृदयानि च ते ददुः ।।५९।।
सर्वस्वमर्पणं चक्रुर्निपेतुः पादयोर्मुहुः ।
पादसंवाहनं चक्रुर्भुजाभ्यां मां समाश्लिषन् ।।3.185.६०।।
प्रक्षाल्य पयसा पादौ दुग्धं पपुश्च ते तदा ।
धन्याः स्म भक्तयोगेन भगवन्तमुपागताः ।।६१ ।।
धन्यो मञ्जुलकेशोऽयं भक्तः पुत्रीपतेः पिता ।
धन्योऽस्माकं च जामाता यत्पिता हरितत्परः ।।६२।।
धन्या पुत्री सती साध्वी कृष्णलीलाभिधानिका ।
यस्याः श्वशुरो भगवत्प्रसन्नतां समार्जयत् ।।६३ ।।
अहो भक्तप्रसंगेन शतानां तु कुटुम्बिनाम् ।
सम्बन्धिनां शतानां च मोक्षणं जायते ध्रुवम् ।।६४।।
यत्र भक्तो भागवतो ग्रामेऽपि वसति प्रभुः ।
ग्रामीणास्ते भक्तयोगान्मुक्तिं यान्ति न संशयः ।।६५।।
यत्र भक्तो भवेद् ग्रामे तत्र पापानि देहिनाम् ।
नैव तिष्ठन्ति कमले नश्यन्ति भक्तकीर्तनैः ।।६६।।
यत्र भक्तस्य सञ्चारो मार्गे वाट्यां गृहान्तिके ।
तत्र विघ्नानि नश्यन्ति मांगल्यं तु पदे पदे ।।६७।।
यद्ग्रामे भक्तवसतिस्तस्य सीम्नोऽन्तरे स्थले ।
याम्यदूता भयं प्राप्ताः प्रविशन्ति न वै क्वचित् ।।६८।।
यत्र भक्तनिवासो वै भूतले वा जलेऽम्बरे ।
तत्तीर्थं सर्वथा पापिदेहिनां तारकं शुभम् ।।६९ ।।
यत्र भक्तस्तत्र देवाः समायान्ति समर्हिताः ।
मुक्ता नारायणो लक्ष्म्यः समायान्ति वसन्ति च ।।3.185.७० ।।
सिद्धयश्चापि योगाश्चैश्वर्याणि विविधान्यपि ।
वसन्ति भक्तसार्थास्ते स्मृद्धयः कल्पपादपाः ।।७१ ।।
वसवः पार्षदाश्चापि भक्तगृहे वसन्ति च ।
जंगमं चेतनं तीर्थं भक्तो भवति सर्वथा ।।७२।।
जयस्तत्र श्रियस्तत्र रसास्तत्र महर्द्धयः ।
धर्मस्तत्र महामोक्षो यत्र भक्तो विराजते ।।७३।।।
भक्तापराधकर्तारो भक्तस्य कृपया हि ते ।
पापा अपि सुपुण्याः स्युर्भक्ता दयालवो यतः ।।७४।।
अस्माकं पापभाग्यं वै पुण्यात्मकं व्यवर्तत ।
अद्य भक्तप्रसंगेन धन्यो भक्तसमागमः ।।७५।।
द्वेषिणामपि मुक्तिर्वै श्रीकृष्णेन विधीयते ।
तथा नो द्वेषिणां मुक्तिर्मञ्जुकेशेन कार्यते ।।७६।।
अद्य यज्ञोऽपि सफलो दानानि सफलानि च ।
ब्रह्मकूर्चव्रतं चापि सफलं सफलं जनुः ।।७७।।
सफलाः स्मृद्धयोऽस्माकं चक्षूंषि सफलान्यपि ।
येषां गेहे हरिः साक्षात् साधुरूपो विराजसे ।।७८।।
पापं क्षमस्व भगवन् मद्यपानादिजं तु नः ।
भक्तापराधं भगवन् क्षमस्व पुरुषोत्तम ।।७९।।
शापो मञ्जुलकेशेन दत्तः पाशुपतेशके ।
वृद्धे चोन्मत्ततारूपो निवर्त्यतां रमापते ।।3.185.८० ।।
यथा स्वास्थ्यं भवेदस्य विलीयेत विचित्तता ।
तथा साधो हरेकृष्ण शीघ्रं कृपां विधेहि नः ।।८१ ।।
एवं ते चार्थयामासुर्मञ्जुकेशोऽपि मां तदा ।
पाशुपतेशवैचित्त्यनाशार्थमार्थयन्मुहुः ।।।८२।।
श्रुत्वा भक्तस्य वाञ्च्छार्थं दत्वा कमण्डलोर्जलम् ।
पाययित्वा द्रुतं पाशुपतेशं विप्रमेव च ।।८३।।
वैचित्त्यं नाशयामास तदाऽहं कमले द्रुतम् ।
अथ स्वस्थोऽभवत् सोऽपि सहसा भानवान् शुचिः ।।८४।।
पादसंवाहनं चक्रे मे ततो दण्डवन्नमः ।
गद्गदाक्षरवाण्या च क्षमस्वेति जगाद ह ।।८५।।
मोक्षं देहि कृपापारावार कृष्णेति चाह माम् ।
मया धैर्यं प्रदत्तः स पुपूज परमादरात् ।।८६।।
साघुयोग्यं समस्तं वै ददौ हृद्यं तु भावनम् ।
एवं विचित्ततां तस्य भक्तयोगादपाहरम् ।।८७।।
भक्तिं प्रदत्तवाँश्चापि मन्त्रं च दत्तवाँस्तदा ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।८८।।
अगृह्णँस्ते मन्त्रमिमं जेपुश्च परमादरात् ।
ग्रामीणाश्च चमत्कारं साधुं श्रुत्वा समाययुः ।।८९।।
सहस्रशो जना लक्ष्मि विप्राद्या वीक्ष्य मां तथा ।
चमत्कारं शुभं साक्षाद् वीक्ष्य मा शरणं ययुः ।।3.185.९०।।
सर्वे मन्त्रेण च मया संस्कृतास्ते तु वैष्णवाः ।
भूत्वा मां भेजिरे लक्ष्मि मयाऽऽशीर्वादयोजिताः ।।९१ ।।
अथाऽहं सम्प्रदायैव मज्जुकेशाय सद्वरम् ।
यथेच्छसि तथा सर्वं वचनात्ते भविष्यति ।। ९२।।
अयं पाशुपतेशोऽपि कुटुम्बसहितः खलु ।
भक्त्या मे चान्तकाले वै मुक्तिमेष्यति चोत्तमाम् ।।९३।।
अत्र ग्रामे तु ये भक्ता भजिष्यन्ति परेश्वरम् ।
ते ते सिद्धीः सुसंसिद्धाः प्राप्स्यन्ति पारमार्थिकीम् ।।९४।।
अत्र याम्या न यास्यन्ति विघ्ना यास्यन्ति दूरतः ।
भक्तिश्चात्र प्रतापात्ते भक्त लोकेषु वत्स्यति ।।९५।।
इत्युक्त्वाऽहं साधुरूपं संजहार तिरोऽभवम् ।
भक्तास्ते भक्तिमापन्ना भजित्वा मां ततोऽन्तिमे ।।९६।।
समये च विमानेन पार्षदैः सह पार्षदाः ।
भूत्वा धामाऽक्षरं मे ते ययुर्लक्ष्मि सुवर्चुलाः ।।९७।।
मञ्जुकेशोऽपि भक्तो मे ययौ धामाऽक्षरं मम ।
तद्योगेन मनुष्याश्च परेऽपि पदवीं पराम् ।।९८।।
नारायणस्य शरणं वैकुण्ठादौ ययुस्तथा ।
एवं भक्तस्य कमले दुःखहा सर्वदाऽस्म्यहम् ।।९९।।
पठनाच्छ्रवणादस्य स्मरणान्मननादपि ।
भुक्तिर्मुक्तिर्भवेदेव श्रीहरेर्मे प्रतापतः ।। 3.185.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मञ्जुलकेशाख्यभक्तविप्रशापेनोन्मत्तता प्राप्तस्य पाशुपतेशविप्रस्य भगवता शापमोक्षणं परममोक्षणं च कृतमित्यादिनिरूपणनामा पञ्चाशीत्यधिकशततमोऽध्यायः ।। १८५ । ।