लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १८४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १८४
[[लेखकः :|]]
अध्यायः १८५ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं वृक्णदेवस्य पावनीम् ।
भक्तस्य मे कथां पूर्वे जातां पापप्रणाशिनीम् ।। १ ।।
ध्रुवालये तु नगरे जात्या शूद्रोऽतिधर्मवान् ।
वृक्णदेवाभिधानोऽभूद् भृत्यः सन्देशहारकः ।। २ ।।
भावशूराभिधानस्य नृपतेर्नास्तिकस्य वै ।
वृक्णदेवो मम भक्तो भावशूरस्तु नास्तिकः ।। ३ ।।
द्वयोर्नित्यं मित्रयोस्तु विवादः परिजायते ।
वृक्णदेवः सदा वक्ति भज राजन् प्रभुं हरिम् ।। ४ ।।
भावशूरः प्रतिवक्ति भज भाग्यं च कर्म च ।
वृक्णदेवो व्रते प्राप्ते महोत्सवे नृपं मुहुः ।। ५ ।।
वक्ति दानं पूजनं च धर्मकार्यं विधेहि वै ।
राजा सर्वं मन्यते वै मृषा दानं च पूजनम् ।। ६ ।।
न स्वर्गं नापि पुण्यं वा नास्ति धर्मादिकं तथा ।
स्वभावाज्जायते सर्वं यथाक्षेत्रं तथोद्भवः ।। ७ ।।
येन केनापि बीजेन राज्ञ्या तु जनितः सुतः ।
राजा प्रजायते तद्वद् वंशानुकारिणी स्थितिः ।। ८ ।।
राजबीजं दरिद्रायां जातं दीनः प्रजायते ।
स्वभावो वा निजं कर्म भाग्यं सर्वत्र तिष्ठति ।। ९ ।।
अभाग्यस्य कृते नैव राज्यं समुपतिष्ठते ।
राज्यभाग्यस्य दारिद्र्यं नैव क्वाप्युपतिष्ठति ।। 3.184.१० ।।
सूर्यस्य किरणं वारौ प्रविष्टं शीतता व्रजेत् ।
शीतं जलं महावह्नेः प्रसंगादुष्णतां व्रजेत् ।। ११ ।।
पृथ्वीजन्यं समस्तं वै पृथ्व्यां पृथ्वीत्वमेति हि ।
एवं खनिप्रभावेण निसर्गेण महान् लघुः ।। १२।।।
जायते वै यथाक्लृप्त भक्तेस्तत्र न गौरवम् ।
भाग्यस्य गौरवं यद्वा कर्मणश्चास्ति गौरवम् ।। १ ३।।
कर्म निसर्गजन्यं वै स्वभाववत् प्रवर्तते ।
द्विपदो द्वाभ्यां यात्येव चतुर्भिस्तु चतुष्पदः ।। १४।।
शतपादः शतेनैव तथा क्लृप्तिः गतिस्तथा ।
गजो भुंक्ते द्व्याननाभ्यां वृक्षः सहस्रमूलकैः ।। १५।।
षडाननैः कार्तिकस्तु ब्रह्माचतुर्मुखैस्तथा ।
यथा क्लृप्तिस्तथा ग्रासो वाडवाग्नेस्तु सागरः ।। १ ६।।
देशे काले कृतं कर्म भाग्यरूपं प्रजायते ।
तेन राज्यं सुखं स्वंर्ग पितृवंशागतं मिलेत् ।। १७।।
भक्तेस्तत्र न हेतुत्वं वृक्णदेव निबोध तत् ।
इत्येवं नृपतिर्नित्यं वृक्णदेवं निरस्यति ।। १८।।
अथैवं पुष्कले काले याते नृपतिरेकदा ।
पप्रच्छ वृक्णदेवं त्वं कथं वृक्णोऽसि मे वद ।। १ ९।।
यदि भक्तिः कारणं वै सुखे स्वष्टे तदा भवान् ।
कथं भक्तेः प्रतापेन वृक्णत्वं न जहाति वै ।।3.184.२० ।।
वृक्णदेवस्ततः प्राह भावशूरं नृपं प्रति ।
वृक्णत्वं कर्मणा जातं भक्त्या मार्ष्टुं हि शक्यते ।।२१ ।।
राजन्नारायणो विष्णुर्भक्तेच्छापूरकोऽस्ति हि ।
भक्तश्चेच्छति साम्राज्यं ददात्येव हरिः प्रभुः ।।२२।।
भक्तश्चेच्छति चारोग्यं ददात्येव नरायणः ।
यान् यान् कामान् कामयते पूरयत्येव तान् हरिः ।।२३।।
सकामस्य तु कामानां पूरकः परमेश्वरः ।
अकामस्य महानन्दप्रदाता परमेश्वरः ।।।२४।।
सत्यं वै वर्तते सर्वं भक्त्या तुष्यति माधवः ।
प्रतोषितो हरिः सर्वं ददात्येव न संशयः ।।२५।।
भावशूरस्तदा प्राह सर्वं मृषा प्रभाषसे ।
न वृक्णत्वं तिरोयाति स्वास्थ्यं नांऽके प्रतिष्ठते ।।२६।।
भक्तौ मे नास्ति विश्वासो यथा कर्मणि वर्तते ।
तथापि वृक्णदेवाऽत्र पणं किञ्चित्करोमि वै ।।२७।।
अहं राजाऽस्म्यवृक्णस्त्वं भृत्यो वृक्णः प्रवर्तसे ।
कर्मणा नियतं त्वेतन्नैतद् विपरिवर्तते ।।२८।।
यदि भक्तिबलं हेतुर्भवेद् विपरिवर्तने ।
अवृक्णवृक्णभावस्याऽऽवयोर्विनिमयोऽस्त्विह ।।२९।।
तदा भक्तिबलं मत्वा करिष्ये भजनं हरेः ।
अन्यथा ते वचः सत्यं नैव मन्ये कथंचन ।।3.184.३०।।
इत्येवं नृपतेर्वाक्यं श्रुत्वा वृक्णोऽपि मां प्रभुम् ।
सस्मार परया भक्त्या सन्निधौ नृपतेस्तदा ।। ३१ ।।
प्रकाशे सर्वलोकानां व्याजहार नृपो यथा ।
तथा भवतु सर्वात्मन्नेवं प्राह पुनः पुनः ।।३२।।
वृक्णदेवस्य भक्त्यैव स्नेहेन वशतां गतः ।
अहं लक्ष्मि तदा गुप्तस्तिष्ठँस्तत्रैव वृक्णताम् ।।३३।।
वृक्णदेवस्य चाकृष्य नृपहस्तद्वयेऽक्षिपम् ।
राजा तूर्णं तदा वृक्णोऽभवत् प्रकोष्ठयोस्तथा ।।३४।।
कफोणिकयोः कुब्जश्चाऽभवश्चाऽऽकृष्टनाडिकः ।
शुष्ककाष्ठायितं हस्तद्वयं तानायितं द्रुतम् ।।३५।।
सर्वेषां पश्यतां तत्र भूमिपतेर्व्यजायत ।
वृक्णदेवस्य हस्तो तु वृक्णतावर्जितौ द्रुतम् ।।३६।।
अभवतां यथाकार्यकरौ निर्बन्धनाडिकौ ।
सुरक्ताढ्यौ पुष्टियुक्तौ यथेष्टकार्यकारिणौ ।।३७।।
एतादृशं महाश्चर्यं वीक्ष्य सिष्मियिरे जनाः ।
राजा मेनेऽतिवादस्य फलं नास्तिकतोद्भवम् ।।३८।।
भक्तिं मेने तथा सत्यां कर्मणां परिवर्तिनीम् ।
भक्तेर्बलं परं मेने नास्तिक्यं प्रमुमोच सः ।।३९।।
एवं वै वृक्णतारोगो जन्मजोऽस्य मया रमे ।
तदा भक्तेर्गौरवार्थं तद्द्वयोः परिवर्तितः ।।3.184.४० ।।
अथ राजाऽभवद्भक्तस्त्यक्त्वा गर्वं तु कर्मणः ।
स्वभावस्य तथा गर्वं तत्याज वृक्णताबलात् ।।४१ ।।
ऽअथ राज्ञी शीलधर्मानाम्नी शुशोच वै तदा।
पुत्रपुत्र्यश्च भृत्याश्च प्रजाश्च शुशुचुर्ह्यति ।।४२।।।
वृक्णदेवोऽपि नृपतिं वीक्ष्य वृक्णं शुशोच ह ।
प्रार्थयत् परमात्मानं राज्ञो रोगस्य नुत्तये ।।४३।।
राजापि वृक्णदेवान्मे मन्त्रं जग्राह वै तदा ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।४४।।
जजाप मालिकामात्रमष्टोत्तरशतं तदा ।
तावदहं भक्तरक्षाकृत् प्रादुरभवं क्षणात् ।।४५।।
शंखचक्रगदापद्मवैजयन्तीधरः प्रभुः ।
श्रीलक्ष्मीसहितस्तूर्णं ब्रह्मतेजोऽन्तरेऽम्बरे ।।४६।।
राजा ददर्श मां दिव्यं वृक्णदेवो ददर्श माम् ।
प्रजाः सर्वास्तदा मां चालोकयामासुरीश्वरम् ।।४७।।
जयकारं जगदुश्च नेमुस्तुष्टुवुरच्युतम् ।
मेनिरे धन्यभाग्यं च दर्शनं यत्परात्मनः ।।४८।।
एकभक्तस्य योगेन बहूनां दर्शनं ह्यभूत्। ।
मया दिव्यं तु मद्रूपं तिरोभाव्य शुभं वपुः ।।४९।।
कृत्वा राज्ञः सन्निधौ च गत्वा स्पृष्टो नृपस्तदा ।
नास्तिक्यं सहसा नष्टं राजा धर्मपरोऽभवत् ।।3.184.५० ।।
यथा भक्तस्तथा राजा धार्मिकौ तौ बभूवतुः ।
राजा प्रजादयः सर्वे परं मोदं प्रपेदिरे ।।५१।।
आनन्दमुत्सवं चक्रुर्मम दर्शनलाभतः ।
नारायणं च मां सर्वे पूजयामासुरादरात् ।।५२।।
अथ भृत्यो वृक्णदेवः पप्रच्छ मां ततः प्रभुम् ।
कथं मे वृक्णता चासीत् कथं गता वदाऽत्र मे ।।५३।।
तदाऽहं कमले सर्वं वृत्तान्तं पूर्वजन्मजम् ।
श्रावयामास भक्तेभ्यो वृक्णतादायकं ह्यघम् ।।५४।।
पूर्वमासीद् भवान् कीशभिक्षुकः कीशरक्षकः ।
वानरान् खेलयित्वा च वसतौ च प्रजाजनात् ।।५५।।
ग्रामीणेभ्योऽन्नवस्त्राद्यैर्लब्धैर्वृत्तिं समाचरत् ।
भल्लुकौ द्वौ नकुलाश्च पञ्च सप्त तु वानराः ।।५६।।
द्वौ सर्पौ वृश्चिका अष्टौ वशे ते ह्यभवंस्तदा ।
तेषां खेलविशेषैस्त्वं कुटुम्बवृत्तिमाचरः ।।५७।।
कुटुम्बिनस्ते सर्वेऽपि तत्तज्जन्तुप्रशिक्षकाः ।
आसँस्तेऽपि च तान् जन्तून् खेलयित्वाऽम्बराऽन्नकम् ।।।५८।।
उपार्जयँस्तदा वृत्तिं जीविकां चाभ्यवर्तयन् ।
एवं वै वर्तमानेषु ग्रामान्ते संस्थितेषु च ।।५९।।
रात्रौ सुप्तेषु सर्वेषु वृकोऽरण्यात् समागतः ।
तस्य गन्धं विदित्वैव वानरः प्रथम द्रुतम् ।।3.184.६० ।।
अप्लवत भयात्तस्याऽपतत्तव तु वक्षसि ।
हस्तौ कीशस्य ते भाले नेत्रयोः पतितौ तदा ।। ६१ ।।
नखैश्चर्म ललाटस्य भिन्नाऽभवत्तदा तव ।
त्वं सहसा निद्रितोऽपि भयं मत्वा परं पशुम् ।।६२।।
अपश्यन् तं निजं कीशं लोहयष्ट्या ह्यताडयः ।
भग्नौ त्वग्रपदौ तस्य तावत्तु भल्लुकोऽपि च ।।६३।।
भयशब्दं सम्प्रचक्रे पशवोऽन्येऽपि चुक्रुशुः ।
त्वयोत्थाथ भयं प्राप्य वीक्षितो भयकृद् वनी ।।६४।।
वृकः क्रूरो वानरादो नातिदूरे ह्युपस्थितः ।
आक्रोशं त्वं परं कृत्वा तीक्ष्णकुन्तेन तं वृकम् ।।६५।।
प्रधाव्य भेदयामासिथैव त्वं हृदये तदा ।
पपाताऽपि ममाराऽपि वृकस्त्वं निर्भयोऽभवः ।।६६।।
भल्लुकाद्याः प्राणिनस्ते निर्भयाश्च तदाऽभवन् ।
वानरस्य सदा नैजबन्धनस्थस्य वै तदा ।।६७।।
विना विचारं सहसा पादौ भग्नौ रुषा त्वया ।
वानरश्चाति वै कष्टं प्राप तत्र तवाऽऽश्रितः ।।६८।।
शरणस्थाऽऽश्रितश्चापि जीविकासाधनं तथा ।
पुत्रवत् पालितश्चापि लोहदण्डेन ताडितः ।।६९।।
हस्तयोर्भञ्जितस्तस्य कष्टाक्रोशनकारिणः ।
वस्त्रखण्डौषधाद्यैश्च पादप्रसेवनं कृतम् ।।3.184.७०।।
मासान्ते चाग्रपादौ तौ नीरुजौ समजायताम् ।
किन्तु भुग्नौ वृक्णरूपौ वक्रौ सदा ह्यतिष्ठताम् ।।७१ ।।
तत्फलं तु त्वया लब्धं चात्र जन्मनि वृक्णताम् ।
इदानीं यावदेवैतद् दुःखं ते तद् व्यजायत ।।७२।।
अथापि त्वं वानरस्य भल्लुकस्य च खेलने ।
पूर्वयुगोद्भवां गाथां जाम्बवतो हनूमतः ।।७३।।
अगायथा युद्धरूपां द्रोणाद्र्युद्धरणान्विताम् ।
मम सम्बन्धरूपां वै भक्तिभावसमन्विताम् ।।७४।।
तेन कीर्तनपुण्येन वृक्णोऽपि त्वं सुसम्पदा ।
युक्तो भवसि राज्ञोऽस्याश्रयेऽपि धनवानसि ।।७५।।
भक्तिमान् वर्तसे चात्र भक्तिं कारयसि ध्रुवाम् ।
भक्तिबलं तु ते जातं येनाऽहं ते वशेऽस्मि वै ।।७६।।
आगतस्तव रक्षार्थं वृक्णता वारिता तव ।
शृणु चायं नृपो योऽयं वृको मृतो व्यजायत ।।७७।।
सोऽयं साकं त्वया चास्ते राजा नास्तिकभाववान् ।
द्वेषवान् धर्मकार्यादौ वर्तते प्राक् स्वभावतः ।।७८।।
वृकस्यैव निमित्तेन कीशस्य करभग्नता ।
अभवत् तत्फलं चार्धं वृकस्यैव भवेदिति ।।७९।।
राज्ञोऽस्य वृक्णता प्राप्ता तव पापं नृपे गतम् ।
शृणु चापि वृकश्चायं कथं वै नृपतां गतः ।।3.184.८०।।
तृतीये प्राग्भवे चायं क्रोधी विप्रोऽभवत्तदा ।
नाम्ना प्राणधरश्चापि लोकाः प्राणहरं जगुः ।।८१ ।।
उद्वेजनः क्लेशदश्च धर्मे कर्मणि चोत्सवे ।
विवाहे वाचने दाने बलाद् गृह्णाति चाधिकम् ।।८२।।
अतृप्तश्चातिवादेन हठेन कलिनाऽपि च ।
धनं चान्नं वस्तुजातं प्रसह्याऽऽदत्त एव सः ।।८३।।
तपस्व्यपि तपस्तस्य क्रोधेन निष्फलं यथा ।
तथाऽभवत् सतृष्णस्य क्रोधितस्य वृथा तपः ।।८४।।
तथापि देवपूजाद्यैर्लेशेन तपसाऽपि च ।
तथैव पापपुञ्जेन मृतो यमालयं ययौ ।।८५।।
चित्रगुप्तः शुभं चास्याऽशुभं न्यवेदयत्तदा ।
पूर्वं किं ते प्रभोक्तव्यं यथेष्टं वद पारये ।।८६।।
इत्येवं यमराजस्य श्रुत्वा वचोतिरोषवान् ।
जगाद् प्रथमं पापं भोक्तव्यं तु मया यम ।।८७।।
ततो याम्यानि दुःखानि भोक्तुं यमेन योजितः ।
भुक्त्वा निरयदुःखानि शेषेण वृकतां गतः ।।८८।।
तत्र तव करेणाऽस्य मरणं समजायत ।
पुण्यैः पूर्वकृतैरस्य राज्यं स्वल्पं हि वर्तते ।।८९।।
स्वभावाः प्राग्जन्मजातास्त्यज्यन्ते नैव केनचित् ।
पूर्वस्वभावदोषेण कलहश्चास्य रोचते ।।3.184.९०।।
तथापि वृक्णदेव त्वं निबोधयसि प्रत्यहम् ।
भक्त्यर्थं शुभवाक्याद्यैस्तेनाऽस्य वर्धते शुभम् ।।९१।।
शनैः फलं द्रुमादौ वै शनैर्घृतं पयस्यपि ।
शनैः पुत्रफलं पत्न्यां शनैः संस्कारशोधनम् ।।९२।।
शनैर्ज्ञानं शनैर्विद्या शनैर्द्रव्यार्जनादिकम् ।
शनैः समागमै रंगो जायतेऽभ्यासवर्तिनाम् ।।९३।।
एवं राज्ञोऽस्य कालेन पुण्यं चापि प्रवर्तते ।
पापं वृक्णत्वमात्रं च वर्ततेऽद्य मनागपि ।।९४।।
तथापि भक्तयोगेन भक्तियोगेन मे तथा ।
मम योगेन सर्वं तत्पापं विनाशमेष्यति ।।९५।।
श्वप्रातश्चास्य नृपतेर्वृक्णभावो गमिष्यति ।
क्रौर्यं नास्तिकता चापि सर्वं नष्टं भविष्यति ।।९६।।
ऐकान्तिको मम भक्तो भविष्यति यथा भवान् ।
उभयोश्चापि मे धामवासोऽन्ते वै भविष्यति ।।९७।।
वानराद्या इमे पुत्रा वृक्ण ते क्रूरभावनाः ।
इदानीं मानवा जातास्तेऽपि यास्यन्ति मोक्षणम् ।।९८।।
इत्येवं वरदानं वै दत्वाऽहं च तिरोऽभवम् ।
श्वोजाते प्रातरेवाऽस्य राज्ञस्तु वृक्णता गता ।। ९९।।
भजनं मे चकाराति हरे कृष्णनरायण ।
कालेन मे धाम दिव्यं भावशूरो नृपो ययौ ।। 3.184.१० ०।।
वृक्णदेवादयश्चापि मुक्तिं कालेन ते ययुः ।
एवं लक्ष्मि प्रभक्तस्य रक्षां करोमि नित्यदा ।। १०१ ।।
भक्तयोगेन जीवानां कल्याणं जायते ध्रुवम् ।
भक्तयोगेन भक्तिः स्यान्मम योगस्तथा भवेत्। ।। १ ०२।।
पापनाशो भवेच्चापि सत्संगः शेवधिर्नृणाम् ।
स्वल्पः कृतोऽपि फलति श्रोतुर्वक्तुश्च मोक्षदः ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वृक्णदेवाख्यभक्तस्य भक्त्या वृक्णतानाशो भक्तयोगेन भावशूरनृपतेर्मोक्षणं प्राग्जन्मवृत्तान्तादि चेतिनिरूपणनामा चतुरशीत्यधिकशततमोऽध्यायः ।। १८४ ।।