लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १८३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १८३
[[लेखकः :|]]
अध्यायः १८४ →

पुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं शत्रूंजयानदीतटे ।
आसीद् भक्तः सागराख्यः शूद्रोऽरण्यप्रपालकः ।। १ ।।
सपुत्रपरिवारोऽयं सशस्त्रोऽरण्यरक्षणम् ।
करोति पालिकाताने पालिकाराज्ययोजितः ।। २ ।।
एकदाऽरण्यभागेषु पालिकातानजो नृपः ।
ययौ वै मृगयार्थं सः परिमेयसुभृत्ययुक् ।। ३ ।।
अरण्यं तत्प्रविष्टोऽयं राजा च सागरं तु तम् ।
भृत्यं निन्ये सह तत्र मृगादिमार्गदर्शकम् ।। ४ ।।
शूद्रोऽप्ययं हरेर्भक्तो हिंसां नैव करोति सः ।
अहिंसको हि राजानं हिंसापापभयात् खलु ।। ५ ।।
उद्वाटं मृगशून्यं वै प्रदेशं प्रति नीतवान् ।
अत्र मृगाः समायान्ति प्रयान्ति च वसन्त्यपि ।। ६ ।।
इत्युक्त्वा नीतवान् क्ष्मेशं वनपालाभिधं नृपम् ।
यत्र जलं वनं रम्यं प्रदेशाश्चापि सुन्दराः ।। ७ ।।
क्वचित् क्वचिज्जनवासास्तं प्रदेशं तु नीतवान् ।
आसायं तु समारण्येऽटवीतोऽप्यटवीं भ्रमन् ।। ८ ।।
अत्र मृगस्तत्र मृगश्चेत्येवं सम्प्रदर्शयन् ।
राजानं भ्रामयामास जपन् श्रीपुरुषोत्तमम् ।। ९ ।।
आन्तरे प्रार्थयन् मां वै क्षमस्व भगवन्मम ।
अपराधं नृपेणात्र सार्धं वै मृगयोद्भवम् ।। 3.183.१ ०।।
नाऽहमिच्छामि वनजान् मृगान् हन्तुं स्वयं क्वचित् ।
अन्यद्वारा तथा हिंसा कारयितुं क्वचित् प्रभो ।। ११ ।।
अतो मया नृपश्चाऽयमुद्वाटेन प्रणीयते ।
यत्र मृगा न प्राप्यन्ते हिंसा मे न यथा भवेत् ।। १२।।
हिंसापापं नैव स्यात्तत्तथा रक्ष हि माधव ।
कश्चिद्वन्यः पशुस्त्वत्र मार्गे नैव मिलेन्नृपम् ।। १३ ।।
अन्तर्यामिंस्तथा सर्वं विधेहि क्लृप्तनं प्रभो ।
एवं मां प्रार्थयन् भक्तः शूद्रोऽपि धर्मवान् शुचिः ।।१४।।
यात्यग्रे तं नृपं कर्षन् मृगवासोऽत्र तत्र च ।
वर्णनं बहुधा कुर्वन् राजन् खड्गोऽत्र वै भवेत् ।। १५।।
अत्र चित्रमृगः स्याच्च शृंगी सृमरश्चात्र तु ।
गवयश्चात्र शशको गेण्डुको वा भवेदिह ।। १६।।
तरक्षुर्वा कृष्णमृगो वराहो वा भवेदिह ।
एवमाशां बन्धयँश्च यात्यग्रेऽग्रे समुत्सुकः ।।१७।।
जलं फलानि राज्ञेश्चार्पयत्यपि प्रसेवते ।
तथापि स तु राजा न तुष्टिमेति मृगान् विना ।। १८।।
एवं सायं समयो वै वनान्तरे व्यजायत ।
मृगाऽलब्धौ नृपश्चापि निराशोऽप्यभवत्तदा ।।१ ९ ।।
सर्वे तेऽस्तंगते चार्के विशश्रमुर्वनान्तरे ।
सरस्तटे वटाधो वै बुभुक्षिता निराशयाः ।।3.183.२०।।
अथात्र भाग्ययोगेन वनेचरस्तदा परः ।
अरण्यं स्वं भ्रमित्वैव स्वगृहं प्रतियाति यः ।।२१ ।।
स तत्र वटवृक्षाऽधः श्रुत्वा शब्दाँस्तु मानवान् ।
पार्श्वसृत्या निर्गतोऽपि वटाश्रयं समाययौ ।।।२२।।
अपश्यत्तत्र राजानं परिमेयजनान्वितम् ।
ननाम भावतश्चैतान् तस्थौ पप्रच्छ तं नृपम् ।।२३ ।।
कथं राजन्नत्र रात्रौ विश्रामश्चाद्य विद्यते ।
दासवर्गस्य कार्यं चेत्तिष्ठामि सेवनाऽऽज्ञया ।।२४।।
दासोऽहं वनमार्गज्ञो वन्यज्ञो वनवासकृत् ।
वने सर्वं विजानामि नृपाज्ञां वितरामि च ।।२५।।
श्रुत्वा राजा तु वृत्तान्तं दिनचर्यां च निष्फलाम् ।
मृषामृगयाभ्रमणं सर्वं जगाद वै तदा ।।२६।।
अथ श्रुत्वा दक्षगर्वोऽपरो वनेचरो नृपम् ।
राजन्नैतद्वनं तादृङ् मृगाधिवासितं क्वचित् ।।२७।।
केनाऽयं दर्शितः पन्थाः केवलक्लेशदायकः ।
वनेऽत्र न मृगाः सन्ति काष्ठहारा भ्रमन्ति यत् ।।२८।।
मृगाणां तु वनं चान्यद् दक्षिणे सरितस्तटे ।
वर्तते तत्र मृगयासाफल्यं जायते सदा ।।२९।।
केनचिद् भ्रामितस्त्वं वै राजन्नत्र प्रवर्तसे ।
वृथाप्रयासो भवतो वनेऽत्र कष्टमेव ह ।।3.183.३ ०।।
एवमुक्तस्तदा राजा ज्ञातवान् स्वप्रतारणम् ।
सागरेण हि शूद्रेण कृतं वृथाऽटनं प्रति ।।३ १ ।।
अहो विश्वासघाता वै मानवा नृपतिं क्वचित् ।
विमार्गे सम्प्रकृष्यैव नयन्ति मरणं प्रति ।।।३२।।।
विश्वासो नैव कर्तव्यो वने गृहे रणे तथा ।
अज्ञातानां क्वचिद् भूपैर्विश्वासे कष्टमाप्नुयात् ।।३३।।
सागरेण वयं चात्र प्रतारिता मृगार्थिनः ।
अमृगाढ्ये वने दूरं भ्रामिता निष्फलीकृताः ।।३४।।
सोऽयं दण्डस्य पात्रं वै विद्यते छद्मवृत्तवान् ।
त्यक्तव्यो दण्डदानेन शिक्षा देया मयाऽत्र ह ।।३५।।।
एवं विचार्य नृपतिर्दक्षगर्वाभिधं परम् ।
वनेचरं तदा प्राह तिष्ठ वा याहि ते गृहम् ।।३६।।
प्रातश्चात्र समायाहि मृगयार्थं वने सह ।
दास्येऽहं चेप्सितं ते वै पारितोषिकमुत्तमम् ।।३७।।
मृगयाणां सुलाभे वै नान्यथा याहि तिष्ठ वा ।
दक्षगर्वो नमस्कृत्याऽऽवश्यकतां प्रदर्श्य च ।।३८।।
ययौ नैजं गृहं रात्रौ नाऽऽयात् प्रातश्च तत्स्थलम् ।
राजाऽपि क्रोधमापन्नः प्रातरेव तु सागरम् ।।३९।।
पप्रच्छ त्वं कथं त्वत्र वने मां नीतवान् वद ।
मृगया यत्र नैवास्ति वृथाऽरण्ये भ्रमोऽभवत् ।।3.183.४० ।।
दुःखं त्वया कृतं त्वेतत्तस्माद्दण्ड्योऽसि सर्वथा ।
मासिकं वेतनं त्वं वै प्राप्नोसि मम कोशतः ।।४१ ।।
अहं प्रतारितश्चात्र त्वया भृत्येन वै यतः ।
ततोऽहं प्रकरोम्यत्र दण्डं ते कपटार्थिनम् ।।४२।।
इत्युक्त्वा भूपतिश्चान्यान् भृत्यानाह द्रुतं वचः ।
पाषाणैरस्य दुष्टस्य प्रकोष्ठौ पादयोरिह ।।४३।।।
चूर्णयन्तु निक्षिपन्तु वटोऽधो दुष्टमानवम् ।
इत्युक्तास्ते परे भृत्या भटा आसन् प्ररोषिणः ।।४४।।
ते धृत्वा प्रस्तरान् कष्टाँश्चूर्णयामासुरुल्बणाः ।
पादयोर्घूटिके चोभे भङ्क्त्वा तं वटमूलके ।।४५।।
प्रक्षिप्य प्रययुः सर्वे सनृपास्ते ततः स्थलात् ।
मृगयार्थं चापरं वै वनं गर्वान्विताः खलाः ।।४६।।
अथाऽयं सागरस्तत्र मत्वा दैवात् समागतम् ।
कष्टं रुरोद बहुधा स्मृत्वा मां पुरुषोत्तमम् ।।४७।।
कथं हे भगवन्नत्र भक्तरक्षां करोषि न ।
पापिनां तु तथा नाशं कृष्ण कथं करोषि न ।।४८।।
हिंसायां तु महत्पापं विदित्वा मृगरक्षया ।
मया राजा तूद्वारं वै प्रवर्तितो दयालुना ।।४९।।
त्वद्भक्तोऽहं दयासिन्धो दयावान् मृगबालकान् ।
मृगान् हन्तुं कथंकारं नयामि हिंसकं नृपम् ।।3.183.५० ।।
अहिंसायाः फलं हिंसात्मकं प्राप्तं मयाऽद्य तत् ।
कष्टं कृष्ण त्वया चापि सह्यते स्वाश्रितस्य यत् ।।५१ ।।
आश्चर्यं परमं त्वेतद् भक्तरक्षां करोषि न ।
हरे कृष्ण हरे विष्णो हरे नारायण प्रभो ।।५२।।
अनादिश्रीकृष्णनारायण जिष्णोऽवनं कुरु ।
वने वटेऽत्र गहने यदि नायास्यसि द्रुतम् ।।५३ ।।
कश्चिज्जनोऽपि दिवसे तदा मे मृत्युरत्र वै ।
भवेच्चरणकष्टेन जलं कश्चिन्न दास्यति ।।५४।।
प्राणावने प्रयास्यन्ति गतिर्दुष्टा भविष्यति ।
कुटुम्बिनो मे नैवापि वेत्स्यन्ति मृत्युमत्र मे ।।५५।।
हरेनाथ हरेकृष्ण बालकृष्ण प्रभो हरे ।
हरे श्रीकम्भरापुत्र राधापते रमापते ।।५६।।
शीघ्रमायाहि कमलापते लक्ष्मीपते प्रभो ।
पद्मावतीपते प्रज्ञापते श्रीमाणिकीपते ।।५७।।
मुक्तपते ब्रह्मपते सृष्टिपते जगत्पते ।
भक्तपते दीनपते ब्रह्मप्रियापते हरे ।।५८।।
शीघ्रमायाहि भगवन् भक्तरक्षार्थदेहवान् ।
सौराष्ट्राधिपते श्रीमद्गोपालबालकप्रभो ।।५९।।
कथंकारमिदं कष्टं पादसन्धिप्रचूर्णजम् ।
सहे वै भगवन्नत्र प्राणा मूर्छा प्रयान्ति वै ।।3.183.६०।।
इत्युक्ता मां प्रणम्यैव मूर्छाभावमुपागतः ।
लक्ष्मि यावत् सागरो मे भक्तस्तावदहं द्रुतम् ।।६१ ।।
तत्पार्श्वे प्रययौ शीघ्रं वनेचरस्वरूपवान् ।
पत्राणि सन्धिनीवल्ल्या नीत्वा तद्रसमुत्तमम् ।।६२।।
निष्कास्याऽङ्गुलिभिस्तत्र ददौ भग्नप्रदेशयोः ।
तावत् प्रघूटिके चापि प्रकोष्ठौ सन्धितौ द्रुतम् ।।६३।।
अस्थिनी च यथापूर्वं जातौ स्वस्थौ नीरुग्णकौ ।
सशक्तौ चापि रक्ताढ्यौ मया स्पृष्टौ पुनः पुनः ।।६४।।
मूर्छाया वारणं चापि कृतं भक्तस्य वै मया ।
उत्थापितश्च कष्टं तद् दूरीकृतं समस्ततः ।।६५।।
भोजितः सुप्रसादं च जलं तदा प्रपायितः ।
स्नेहितः प्रेमदृष्ट्या च प्रापितश्च गृहं निजम् ।।६६ ।।
वनेचरस्वरूपं मां पुपूज बहुभावतः ।
गृहे रम्यासनं दत्वा परिचर्यां चकार मे ।।६७।।
तस्य पत्नी हीरुकाऽपि पुत्राः पुत्र्यश्च सेवनम् ।
चक्रुर्मे बहुधा लक्ष्मि मध्याह्ने भोजनादिभिः ।।६८।।
मया भुक्तं जलं पीतं सेवा चांगीकृता तथा ।
पादसम्मर्दनगात्रमर्दनादिस्वरूपिणी ।।६९।।
अथाऽयं सागरो भक्तः पप्रच्छ मां निजं प्रति ।
हरे नाथ कृपासिन्धो कष्टमेतत् कथं मम ।।3.183.७० ।।
पादभञ्जनरूपं वै केन पापेन चागतम् ।
न हिंसिता मया जीवा न मांसमदिरादिकम् ।।७१ ।।
स्पृश्यतेऽपि हरेकृष्ण नाऽसत्यं क्रियते क्वचित्। ।
न चौर्यं पारदार्यं वा क्रियते वै कदाचन ।।७२।।
प्राणिरक्षाकृते त्वेतत् प्रतारणं नृपस्य तु ।
कृतं मया प्रभो नाऽत्र पापं मया कृतं भवेत् ।।७३ ।।
कथं मे पादहननं कथं कष्टं जनस्य ते ।
वद नाथ यथार्थं मे कर्म वा तादृशं भवेत् ।।७४।।
अत्र जन्मनि नैवाऽहं कृतवान्न स्मराम्यपि ।
अज्ञातेन कृतं चेत् स्याद् वद मे संशयापहम् ।।७५।।
तदाऽहं कमले तस्मै न्यवेदयं पुराकृतम् ।
नाऽत्र जन्मनि तस्याऽभूत् कर्म क्रूरं हि तादृशम् ।।७६।।
ततोऽहं कथयामास शृणु सागर प्राक्कृतम् ।
त्वमासीर्वै हस्तिपको राज्ञो गजस्य रक्षकः ।।७७।।
अस्य राज्ञः पितुर्धर्मपालस्य गजरक्षकः ।
नाम्ना धरोदरस्त्वं वै शूद्रः कुटुम्बवानिह ।।७८ ।।
भृत्यतां विदधन् हस्तिपालने त्वेकदा भवान् ।
गजस्य तु मदप्राकट्ये युवानं गजं तदा ।।७९।।
उन्मादिनं वशं कर्तुं प्रयत्नं बहुधा व्यधात् ।
गोक्षुराद्यैर्लोहजैश्च न्यस्तैः पादतलेषु वै ।।3.183.८०।।
तथा लोहार्गलैश्चापि लोहशृंखलिकादिभिः ।
भल्लैश्चोग्रैश्च वंशैश्च दीर्घैश्च लोहजैः फलैः ।।८ १ ।।
पादौ विभिद्य करिणः कृत्वा शक्तिविहीनकम् ।
गतिशून्यं गतं तत्र भवान् रुरोध सर्वथा ।।।८२ ।।
अधिकं पादयोस्तस्य मूढमारममारयत् ।
भग्नमस्थि गजस्यापि पादस्यैकस्य वै तदा ।।८३ ।।
अथाप्युत्थातुकामं तं हस्तिनं तु भवान् पुनः ।
लोहदण्डैश्चाग्रपदे मारयामास निर्दयः ।।८४।।
अस्थि द्वितीयपादस्य चूर्णतां पार्श्वतोऽगमत् ।
एवं पादद्वयास्थिनी भग्ने ते क्रूरतावशात् ।।८५ ।।
हस्तिना त्वं तदा शप्तो रक्षको मारको भवान् ।
ममैव तु करेणैव भग्नपादो भविष्यसि ।।८६ ।।
स त्वं कालेन निधनं गतोऽसि सागरोऽद्य वै ।
हस्ती च निधनं प्राप्रो राजपुत्रोऽयमस्ति सः ।।८७।।
वनपालाभिधः सोऽयं भग्नपादः पुरा गजः ।
राजाऽद्य वर्तते त्वं चारण्यपालोऽद्य वर्तसे ।।८८ ।।
तव पादौ तेन भग्नौ पुराभग्नस्य तत्फलम् ।
मा शोकं कुरु भक्तोऽसि रक्षितोऽसि मयाऽद्य वै ।।८९।।
न कृतं तु पुरा कर्म कंचित् त्यजति देहिनम् ।
त्वया प्राप्तं कृतं कर्म फलरूपेण भक्तक ।।3.183.९०।।
किन्तु भक्त्या मया रक्षा कृता चाहिंसया तव ।
राज्ञोऽपराधः स्वल्पोऽपि निमित्तोऽत्र व्यजायत ।।९१ ।।
अरण्ये पादभंगे ते मा शोकं कर्तुमर्हसि ।
भज मां परमात्मानं पश्य मे रूपमैश्वरम् ।।९२।।
अहं नारायणः साक्षाच्चतुर्भुजोऽस्मि चागतः ।
याहि त्वद्यैव राजानं सायं गृहं समागतम् ।।९३।।
वद मे सर्ववृत्तान्तं रक्षाकरं सुखप्रदम् ।
सोऽपि श्रुत्वा नृपो मे संभजनं वै करिष्यति ।।९४।।
तव योगेन मुक्तिं वै करिष्यामि नृपस्य ह ।
मा भयं कुरु भक्तेन्द्र त्वया साकं भवाम्यहम् ।।९५।।
इत्युक्त्वा भगवाँस्तत्र तिरोदधे तु पद्मजे ।
भक्तो ययौ निशायां तु नृपगृहं स्मरन् हरिम् ।।९६।।
राज्ञे सर्वं तु वृत्तान्तं कथयामास शोभनम् ।
श्रुत्वा राजा विस्मितोऽभूद् ययाचे च क्षमां मुहुः ।।९७।।
भक्तरक्षाकरं मां च तुष्टाव शरणं गतः ।
विदित्वा प्राग्जन्म नैजं गजात्मकं मुहुर्मुहुः ।।९८।।
आश्चर्यं परमं प्राप्य मत्वा देहं तु गत्वरम् ।
भक्तो भूत्वा प्रभेजे मां कुटुम्बसहितो नृपः ।।९९।।
पिता च बान्धवाश्चापि भेजिरे मां ततः सदा ।
कृत्वा राज्यं सतां सेवां भक्तिं कृत्वा यथाक्षणम् ।। 3.183.१०० ।।
प्रापुस्ते मां परमेशं श्रीधामाऽक्षरसत्पदम् ।
पठनाच्छ्रवणाच्चास्य लक्ष्मि भुक्तिश्च मोक्षणम् ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सागराख्यशूद्रस्य भग्नपादस्य भगवत्कृतनीरुजपादत्वं तत्पूर्वभववृत्तान्तं चेत्यादिनिरूपणनामा त्र्यशीत्यधिकशततमोऽध्यायः ।। १८३ ।।