लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १८२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८१ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १८२
[[लेखकः :|]]
अध्यायः १८३ →

श्रीपुरुषोत्तम उवाच-
आकर्णय कथां नारायणीश्रि त्वं तथाऽपराम् ।
आसीत् कर्णपुरे राजा पृथ्वीधराभिधः पुरा ।। १ ।।
खण्डराज्यं पालयन् स प्रजां ररक्ष धर्मतः ।
प्रातर्यस्यांऽगणे नित्यं भिक्षुकास्तु शताधिकाः ।। २ ।।
तृप्यन्ति त्वन्नलाभेन ह्यनाथा बालबालिकाः ।
ह्यनाथा विधवाश्चापि भुंजतेऽस्याऽन्नसत्रके ।। ३ ।।
विष्णोस्तु मन्दिरे गत्वा राजा पृथ्वीधरः स्वयम् ।
नारायणस्य मूर्तेर्वै पूजनं तुलसीदलैः ।। ४ ।।
सहस्रैकमितैर्नित्यं करोति विष्णवे नमः ।
वदन् ध्यायन् स्मरन् मां वै श्रीपतिं पुरुषोत्तमम् ।। ५ ।।
धूपं दीपं च नैवेद्यं जलं ताम्बूलकं तथा ।
नीराजनं स्तुतिं प्रदक्षिणां कृत्वा च दण्डवत्। ।। ६ ।।
शतरूप्यकदानं चाम्बराणां शतकं तथा ।
एकां गां च ददात्येव दाने नित्यं ततः परम् ।। ७ ।।
पुष्पाञ्जलिं श्रीहरये दत्वा याति निजालयम् ।
एवं मां भजते नित्यं मन्निवेदितभोजनः ।। ८ ।।
वर्तते स्म सदा भक्तो हिंसाव्यवायवर्जितः ।
यस्य पुण्यं पुराजन्मकृतं तस्य तु भक्तता ।। ९ ।।
धर्मे मतिश्च भवति सत्यपि राज्यवैभवे ।
एवं लक्ष्मि सदा पृथ्वीधरः कृत्वा शुभाह्निकम् ।। 3.182.१ ०।।
याति न्यायालयं तत्र ददात्येव च निर्णयम् ।
अथ सायं नित्यमेव कथां शृणोति मामकीम् ।। ११ ।।
लक्ष्मीनारायणसंहितायाः सतां सभागतः ।
सन्तोऽस्य साधवो धीराः छिन्दन्ति संशयान् बहून् ।। १२।।
सतां पादजलानां च पानं गृह्णाति भूपतिः ।
कथान्ते कीर्तनं वाद्यसहितं प्रकरोति सः ।।१३।।
सहस्रशो जना नार्यो नराः कुर्वन्ति कीर्तनम् ।
'हरे कृष्ण हरे कृष्ण बालकृष्ण हरे हरे ।। १४।।
हरे विष्णो हरे जिष्णोऽनादिकृष्ण हरे हरे' ।
एवंविधं भजनं ते सतालाद्यं प्रचक्रिरे ।। १५।।
अथ सन्तः प्रयान्त्येव मठेषु च नृपस्ततः ।
सायं देवार्चनं कृत्वा लब्ध्वा सद्भोजनं ततः ।। १६।।
ध्यानमग्नो भवत्येव मालामावर्तयन्मम ।
अनादिश्रीकृष्णनारायणेत्येवं जपन्मुहुः ।। १७।।
स्वपित्येवेति राजाऽपि साधुचर्यां प्रसेवते ।
अस्य राज्ञी मधुविन्दानाम्नी भक्ता तु वैष्णवी ।। १८।।
पातिव्रत्यान्विता यद्वत् साध्वी विप्रा सती यथा ।
भजते मां परात्मानं मत्वा संसारमुल्बणम् ।।१ ९।।
बन्धनं दुःखदोषाढ्यं वासनावासितं क्षयम् ।
नित्यं तु परमात्मानं मुक्तिं चात्मानमेव सा ।।3.182.२०।।
मनुते मोक्षदातॄँश्च सतो जनान् प्रसेवते ।
शान्तशीला नृपवत्सा भजते मां जनार्दनम् ।।२१ ।।
यथा राजा तथा लक्ष्मि प्रजा गुणवती भवेत् ।
अस्य पुत्रादयश्चापि भेजिरे मां श्रियः पतिम् ।।२२।।
प्रजाः सर्वाः सर्ववर्णा भजन्ते स्म च मां तथा ।
दानं कुर्वन्ति च जपं कुर्वन्ति स्म प्रसेवनम् ।।२३।।
सतां च साधुवासादौ मार्जनादि दधत्यपि ।
एवं वै वर्तमानानां वैष्णवानां निरन्तरम् ।।२४।।
प्रसन्नो भगवान्नास्ते पर्जन्यश्चापि वर्षति ।
सम्पदः सम्प्रमोदन्ते यथा लक्ष्म्यः सचेतनाः ।।२५।।
धेनवः कामवर्षिण्यो वृक्षाश्च फलदायिनः ।
सस्यानि कणदान्येव रसदा च रसाऽभवत् ।।२६।५
मम भक्तस्य तस्य श्रि रिपवो नाऽभवँस्तथा ।
ईतयो नाऽभवँश्चापि सुखाढ्यः सोऽभवन्नृपः ।। २७।।
तस्य पुत्रोऽभवत् काले जन्मान्धः प्रथमः सुतः ।
जन्मोत्सवाः कृतास्तेन यथाकालं सुतः स तु ।।२८।।
नेत्रे नोद्धाटयत्येव जन्मान्धो विदितोऽभवत् ।
राज्ञा विष्णोरनुष्ठानं कृतं वै वैष्णवे मखे ।।२९।।।
चक्षुषोरुद्धाटनार्थं सूर्यचन्द्रप्रपूजनम् ।
घृतस्य दीपदानं चाऽखण्डितं देवमन्दिरे ।।3.182.३०।।
कृतं च वत्सरं तस्य गतं चान्ध्ये ततो नृपः ।
आशां विहाय सहसा तपस्येव मनोऽकरोत् ।।३ १ ।।
राजसौधं विहायैवोद्याने वृक्षघटान्तरे ।
छायायां चासनं कृत्वा निषसाद तपस्ययम् ।।३ २।।
मालामावर्तयत्येषो रटन् कृष्णनरायाणम् ।
फलाहारोऽभवद् राजा त्वेकभुक्तो हि निर्जने ।।३३।।
शालग्रामं पुरो धृत्वा भजते मां स्मरत्यपि ।
वल्कलाम्बर एवापि मृगचर्मासनस्तथा ।।३४।।
सर्वभोगविहीनश्च पुत्रनेत्रसमीहनः ।
दिवारात्रौ भजते मां तत्राश्रमे द्रुमालये ।।।३५।।।
वर्षा शैत्यमातपं च सहते भजते च माम् ।
पूजां करोति भावेन शालग्रामस्य मे नृपः ।।३६ ।।
करोति त्रिषवणं च सूर्यं नमस्करोति च ।
पञ्चकेशी पितृपूजी सम्वत्सरं व्यवर्तत ।।३७।।
एवं वर्षोत्तरे राजा रात्रौ ध्यात्वा तु मां मुहुः ।
अस्तौत् कृष्ण तव नाम हरिः दुःखहरं हि तत् ।।३८।।
कथं भक्तस्य मे दुःखं नैव हरसि माधव ।
कर्तुमकर्तुमन्यथाकर्तुं शक्तोऽसि सर्वथा ।।३९।।
पुण्यं यत्तत्तव कृष्ण प्रसन्नता ह्यनुग्रहः ।
पापं यत्तत्तव कृष्ण प्रातिकूल्यं ह्युदासिता ।।3.182.४०।।
यदि भक्तं प्रति चैवमौदासीन्यं प्रदर्श्यसे ।
का गतिस्तर्हि भक्तस्य त्यक्तस्य रक्षकेन वै ।।४१।।
रक्षां कुरु सुतस्यापि चक्षुर्दानेन माधव ।
पापं विधूय तस्यैव सदृष्टिं तं विधापय ।।४२।।
इत्युक्त्वा दण्डवच्चक्रे श्रुत्वाहं प्रार्थनां द्रुतम् ।
तपो विलोक्य पुत्रस्य नेत्रार्थं त्वागतोऽभवम् ।।४३।।
जटिलो दण्डवान् साधुर्भस्माक्तो मृगचर्मवान् ।
कमण्डलुं करे धृत्वाऽदृश्ये वै वृक्षमण्डले ।।४४।।
हरे नारायण विष्णो वदन् सत्सन्निधौ ययौ ।
जयोऽस्तु योगिनः क्षितिपतेस्तापसवेषिणः ।।४५।।
इत्यहं शब्दमुच्चार्य कमण्डलुजलं शुभम् ।
ददौ तस्मै स राजाऽपि विस्मयं परमं गतः ।।४६।।
आकस्मिकः साधुवेषश्चातिथिः कुत आगतः ।
भवेद्वा मे मनःपूर्तिकरो दिव्योऽयमच्युतः ।। ४७।।
अतिथिः पूजनीयो वै साधुस्तत्र विशेषतः।
विचार्येत्थं समुत्थाय राजा पपात पादयोः ।।४८।।
आसनं प्रददौ चार्घ्यं मधुपर्कं ददौ तथा ।
पूजनं प्रचकारापि पुष्पगन्धफलादिभिः ।।४९।।
नमस्कारं विधायाऽथ पप्रच्छागमनं प्रति ।
धन्योऽहं कृतकृत्योऽहं साधुजनस्य दर्शनात् ।।3.182.५०।।
तीर्थरूपं परं वारि प्राप्तं यस्य कमण्डलोः ।
दर्शनं पावनं लब्धं सर्वेन्द्रियपवित्रकृत् ।।५१।।
स्पर्शनं पापहारं च लब्धं साधुपदस्य ह ।
सेवनं च प्रसादं च लप्स्येऽद्य भाग्यवैभवात् ।।।५२।।
कृपया चापि च दिव्यानुग्रहात् पुण्यसञ्चयात्। ।
इत्युक्त्वा मौनमास्थाय तस्थावग्रे कृताञ्जलिः । ।।५३।।
अहं साधुस्वरूपश्चाऽवदं श्रेयोयुतो भव ।
कुशलं ते भूप किंवा ब्रूहि तपसि कारणम् ।।।५४।।
राजोवाच हि साधूनां कृपया कुशलं मम ।
पुत्रवान् धनवानस्मि भक्तिमानस्मि साधुषु ।।५५।।
तथाप्यकुशलं चास्ते पुत्रः पश्यति नैव मे ।
जन्मान्धो विद्यते साधो वद् किं कारणं भवेत् ।।५६।।
तस्य वै दृष्टिमत्वार्थं तपः करोमि माधवे ।
आराधनात्मकं नान्यकांक्षा मे वर्तते प्रभो ।।५७।।
पुत्रोऽचक्षुर्भवेद् यस्य राज्यमन्धं तु तस्य वै ।
अनन्धस्य गृहे चाऽऽन्ध्यं वंशे चान्ध्यं हि दुःखदम् । ।५८।।
आन्ध्यमेतत् कथं दूरं यायाज्जानासि दर्शय ।
कृतकृत्यो भवाम्येवं साधोस्तेऽत्र समागमात् ।।५९।।
साधूनां वचनं दिव्यं सत्यार्थं सिद्धिदं सदा ।
साधूनां हृदयं सौम्यं सर्वदुःखहरं खलु ।।3.182.६०।।।
साधूनां दर्शनं पुण्यं सेवनं मोक्षदं तथा ।
सर्वाशापूरकः साधोरनुग्राहः समर्जितः ।।६१ ।।
इत्युक्त्वा विररामाऽसौ लक्ष्मि चाऽहं तदाऽवदम् ।
शृणु राजँस्तव पुत्रः पूर्वजन्मनि तापसः ।।६२।।
यथाऽहं तापसवेषस्तथा स तापसोऽभवत् ।
नाम्ना दुर्वोढको विप्रो दरिद्रो राज्यवा़ञ्छया ।।६३।।
अकरोत् स तपो रेवातटे तीर्थे तु शुक्लके ।
बहवो यत्र चायान्ति यान्ति तीर्थार्थिमानवाः ।।६४।।
नरा नार्यस्तत्र तीर्थे स्नान्ति प्रयान्ति पार्श्वतः ।
दुर्वोढकः प्रपश्यन् वै तपःस्थले प्रतिष्ठति ।।६५।।
बलवच्चेन्द्रियं लक्ष्मि मानसं बलवत्तथा ।
विषये पुरतो याते चागते चञ्चलं भवेत् ।।६६।।
तन्निरोधस्तापसेन कर्तव्यः सर्वदा रमे ।
इन्द्रियाणां मनसश्चाऽनिरोघे निष्फलं तपः ।।६७।।
प्रमाथि मानसं कस्मिन् क्षणे नेष्यति दुष्पथम् ।
निश्चयश्चापि विश्वासो नास्ति तन्मनसः सदा ।।६८।।
एकदा त्वं स्वयं राजा तीर्थार्थं सकुटुम्बकः ।
यथापेक्षितवस्त्वाढ्यः परिमेयपुरःसरः ।।६९।।
गतो रेवां प्रति शुक्लतीर्थं स्नातुं तु पर्वणि ।
यत्राऽयं तापसः साधुर्विप्रस्तपति तत्स्थले ।।3.182.७०।।
मनाग् दूरे चाम्रवणे त्वं निवासं तदाऽकरोः ।
ज्ञात्वा तपस्विनं साधुं जटिलं त्वं च तत्पुरः ।।७१ ।।
सपत्नीको नमस्कारमकरोः पूजनं तथा ।
फलादिकं चाऽऽर्पयश्च राज्ञी च भावपूरिता ।।७२।।
साधोश्चरणौ प्रक्षाल्य जलं पपौ तव प्रिया ।
रूपयौवनसौन्दर्यपुष्टिशृंगारशालिनीम् ।।।७३ ।।
वीक्ष्य तां मोह उत्पन्नो विप्रस्याऽस्य तपस्विनः ।
सकामं चापि प्रच्छन्नं चक्षुर्द्वयं प्रयोजितम् ।।७४।।
तेन विप्रेण शिष्यायां राज्ञ्यां तदा तु तीर्थके ।
पुण्यायां सेविकायां च तथैव राजमातरि ।।७५।।
सकामस्तपसि दृब्धो राज्यार्थं लालसान्वितः ।
अजितेन्द्रियचित्तश्च दृष्टिपापं तदा व्यधात् ।।७६।।
भवन्ति खलु जात्यन्धा जन्मान्धा रागिणस्तु ते ।
परस्त्रियां तु ये मुग्धा दुष्टचक्षुः प्रयुञ्जते ।।७७।।
एवमेतस्य विप्रस्य तापसस्य तदा खलु ।
रूपसौन्दर्यमुग्धस्य मोहपापं तदा ह्यभूत् ।।७८।।
तस्मान्मोहाऽनुद्भवार्थं रूपवत्यः स्त्रियः सदा ।
धर्मरक्षार्थमेवापि दर्शयन्ति मुखं नहि ।।७९।।
लज्जावस्त्रं प्रावरणं मुखोपरि प्रकाशने ।
सदा रक्षन्ति सन्नार्यः पातिव्रत्यादिगुप्तये ।।3.182.८०।।
दर्शनं मोहकृत्तस्माद्दर्शनं न ददत्यपि ।
असूर्यम्पश्यास्तिष्ठन्ति प्रावरणेन चावृताः ।।८ १ ।।
अथ राजन् तापसः स कालेन निधनं गतः ।
तव पुत्रो ह्ययं जातो यस्यां मुग्धस्तद्गर्भजः ।।८२।।
तपःफलं राज्यमेतल्लब्धं तेन महात्मना ।
दुष्टचक्षुर्दृष्टिफलं जन्माख्यं लब्धमेव च ।।८३।।
तपसा ते प्रभक्तस्य पूजादिभिः प्रतोषितः ।
समायातोऽस्मि भगवान् शालग्रामे तु यः स्थितः ।।८४।।
सोऽहं नारायणकृष्णो भवामि ते ह्यभीष्टदः ।
ब्रूहि राजन् ददाम्यत्र यत्ते मनसि रोचते ।।८५।।
भक्तार्थं त्वागतोऽस्म्यत्र यदिच्छसि ददामि ते ।
इत्युक्तः स तु राजर्षिः पृथ्वीधराभिधस्तदा ।।८६।।
ययाचे सुतदृष्टिं च भक्तिं मे पादयोस्तथा ।
अन्ते धामाऽक्षरं चापि वंशं च भक्तमेव ह ।।८७।।
श्रुत्वाऽहं प्रददौ तस्मै तथाऽस्त्वेवं भविष्यति ।
जलं कमण्डलोर्दत्वा तिरोभावं ततः स्थलात् ।।८८।।
राजा प्रसन्नचित्तस्तु तपः पूर्णं विधाय च ।
ययौ सवल्कलो नैजं ग्रामस्थं भवनं प्रति ।।८९।।
प्रजाभिः पूजितश्चापि लक्षितो वरपात्रकः ।
प्राप्तमनोरथश्चापि जयशब्दैः प्रवर्धितः ।।3.182.९० ।।
ययौ स्वभवनं तावद् वाद्यानि चोत्तमानि वै ।
अवाद्यन्त समन्तात्तु राज्ञी प्रसन्नतां ह्यगात् ।।९ १ ।।
राजा सुतं प्रति गत्वा मया दत्तं जलं द्रुतम् ।
पुत्रनेत्रे ददौ नेत्रं जलस्पर्शात् सदृष्टिकम् ।।९२।।
दक्षं ह्यभूत् ततो वामं जलस्पर्शात् सदृष्टिकम् ।
जातं महोत्सवश्चासीत्तपःफलं समर्जितम् ।।९३।।
अथ पुत्रो युवा जातो जातिस्मरो हि सर्वदा ।
दुष्टचक्षुःफलं नैजं स्मरत्येव सदा ततः ।। ९४।।
महाभागवतः सोऽपि जातो धर्मसमन्वितः ।
नाम्ना चित्रध्वजो राजा साधुभक्तः प्रतापवान् ।।९५ ।।
भजते मां सदा लक्ष्मि राज्यं पित्रा समर्पितम् ।
सञ्चालयति नीत्या वै प्रजास्तोषयत्येव सः ।।९ ६ ।।
पिताऽस्य निधनं यातो विमानेन तदाऽप्यहम् ।
स्वधामाऽक्षरमेवैनं प्रापयामास वैष्णवम् ।। ९७।।
एवं मया स्वभक्तस्य तपसा ह्येधितस्य च ।
इच्छापूर्तिः कृता पुत्रचक्षुर्दानेन विष्णुना ।।९८।।
भक्तानां सर्वथा लक्ष्मि चान्ध्यं बाह्यं च वाऽऽन्तरम् ।
नाशयामि प्रसन्नोऽहं भक्तिवश्यो भवन् भुवि ।।९९।।
आत्मप्रकाशं दिव्यं च ददामि ज्ञानशेवधिम् ।
येन मायातमस्तीर्त्वा प्रयान्ति परमं पदम् ।। 3.182.१० ०।।
पठनाच्छ्रवणाच्चास्य स्मरणाद् भजनान्मम ।
भुक्तिमुक्तिर्भवेच्चापि सम्पत् सौख्यं प्रमोक्षणम् ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पृथ्वीधराभिधनृपतेर्जन्मान्धपुत्रस्य प्राग्जन्मवृत्तान्तं भगवता कृतसदृष्टिकत्वं चेत्यादिनिरूपणनामा द्व्यशीत्यधिकशततमोऽध्यायः ।। १८२ ।।