लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १८१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८० लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १८१
[[लेखकः :|]]
अध्यायः १८२ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं विरालस्य कथां शुभाम् ।
विरालनामको भक्तो माञ्जुष्ठग्रामवासकृत् ।। १ ।।
अभूत् कुटुम्बसहितो धनाढ्यो वैश्य एव सः ।
अन्नानां चाम्बराणां च पात्राणां विक्रयादिकृत् ।। २ ।।
लक्षाऽधिद्रव्यवान् धर्मी साधुसेवापरायणः ।
येन निर्मापिता रम्या धर्मशालाऽतिशोभना ।। ३ ।।
यत्राऽतिथयश्चागत्य विश्रान्तिं यान्ति साधवः ।
प्रवासिनो यतयश्च साध्व्यो यात्रालवस्तथा ।। ४ ।।
येनाऽन्नसत्रं श्रेष्ठं च तत्र निर्मापितं शुभम् ।
यत्र मिष्टं रसयुक्तमन्नं दुग्धं तथौदनम् ।। ५ ।।
पूरिकाः सूपशाकादि लभन्ते भिक्षवः सदा ।
भुञ्जते शतशो नित्यं ददात्याशीर्वचांसि च ।। ६ ।।
नित्यं विरालवैश्योऽपि स्वहस्तेन तु दक्षिणाम् ।
दानं ददाति बालेभ्योऽनाथेभ्यः स्त्रीभ्य इत्यपि ।। ७ ।।
कृष्णनारायण विष्णो कीर्तनं कारयत्यपि ।
पूजनं मे करोत्येवं कारयत्यपि प्रत्यहम् ।। ८ ।।
पुत्रास्तस्याऽभवन् पञ्च पुत्र्यः सप्त स्त्रियावुभे ।
सर्वे ते मां पूजयन्ति श्रीपतिं पुरुषोत्तमम् ।। ९ ।।
सायं मिलित्वा मेऽग्रे ते कीर्तनं विदधत्यपि ।
कथां कुर्वन्ति च रम्यां शृण्वन्ति च परस्परम् ।। 3.181.१० ।।
एवं वै पुण्ययुक्तस्य विरालस्य सुसम्पदः ।
अनतिप्राप्तवृद्धत्वे राजयक्ष्मा दरोऽभवत् ।। ११ ।।
नित्यं विवर्धमानेन रोगेण शुष्कतां गतः ।
ओषधानि बहून्येव कृतानि मानतास्तथा ।। १ २।।
कृता बह्व्यः साधवश्च तदर्थम सेविता ह्यति ।
रोगो नाशं न च याति श्रेष्ठी चिन्तापरोऽभवत् ।। १३ ।।
कुटुम्बं चिन्तया ग्रस्तं पिता पूज्यो मरिष्यति ।
किं कर्तव्यं क्व गन्तव्यं रक्षार्थम तु पितुः खलु ।। १४।।
एवं विचिन्तयतां तु कुंकुमवापिका शुभा ।
तीर्थं रोगहरं चास्ते साक्षाद् यत्र श्रियः पतिः ।। १५।।
इत्येवं मानसं जातं ततस्ते जनकेन वै ।
सहिताः प्रययुस्तीर्थमश्वपट्टसरोवरम् ।। १ ६।।
कीर्तयन्तो मम नाम स्मरन्तो मां प्रभुं तथा ।
अनादिश्रीकृष्णनारायणं रोगहरं हरिम् ।। १७।।
अश्वपट्टसरस्तीरं समागत्य च ते ततः ।
निषेदुर्वटवृक्षाधो मां स्मरन्तो जलं पपुः ।। १८।।
अक्षय्यघाटमासाद्य सस्नुः सर्वे प्रभाविणः ।
दानानि स्वर्णरूप्याणि चाऽम्बराणि ददुस्तदा ।। १९ ।।
पात्राण्यन्नानि मिष्टानि कम्बलानि ददुस्तथा ।
अनादिश्रीकृष्णनारायणो नः प्रीयतामिति ।।3.181.२० ।।
अथाऽहं भक्तिमालोक्य विप्ररूपधरो हरिः ।
अश्वपट्टसरस्तीरं जगाम तस्य सन्निधौ ।।२१ ।।
क्षयी विरालनामा स मत्वा तीर्थमृतिं तदा ।
सस्मार मां स्वहृदये नारायणः प्ररक्षतु ।।२२।।
मया गत्वा सन्निधौ वै पृष्टो विरालकस्तदा ।
कुतः कस्मात् कथं चात्र समायातोऽसि भो धनिन् ।।२३।।
कथं रोगः कियत्कालाद् वर्तते तव तीर्थकृत् ।
विरालकोऽतिकष्टेन मृत्युं स्मृत्वा रुरोद ह ।।।२४।।
शुशोच बहुधा तत्र पप्रच्छ मां तु भूसुरम् ।
नमस्ते विप्र वृद्धोऽसि यदि जानासि दैवतम् ।।२५।।
वद मे बहुपुण्यस्य कथं रोगो व्यजायत ।
नाऽत्र जन्मनि भूदेव पातकं वै कृतं मया ।।२६।।
पुण्यदानानि बहुधा कृतानि विविधानि वै ।।
आबाल्यात् साधुसेव्यस्मि श्रीहरेः पूजकोऽस्मि च ।।२७।।
कुटुम्बं मे भक्तियुतं परमेशे सदाऽस्ति वै ।
व्रतानि भक्तियुक्तानि करोमि सकुटुम्बकः ।।२८।।
तथापि क्षयरोगो मे कथं प्राप्तः प्रदर्शय ।
श्रुत्वाऽऽहं विप्ररूपस्तु विरालस्य समस्तकम् ।।२९।।
वृत्तान्तं पूर्वजन्मीयं समुवाच हि पद्मजे ।
शृणु श्रेष्ठिन् सुपुण्योऽसि सर्वथा चात्र जन्मनि ।।3.181.३ ० ।।
पुरा कृतं तु यत्कर्म केनापि न वियुज्यते ।
पूर्वजन्मनि विप्रस्त्वं नाम्ना गंगेश्वरोऽभवः ।। ३१ ।।
साभ्रमतीतटे पुण्ये विष्णोस्तु मन्दिरेऽभवः ।
पूजकस्तत्र वै पार्श्वे सस्यक्षेत्राणि वाटिकाः ।।३२।।
आसन् वैश्यस्य रम्याश्च वैश्यस्तु मृतिमाप्तवान् ।
तत्पत्नी मन्दिरे दासी भूत्वा सेवां ततोऽकरोत् ।। ३३ ।।
गाश्च वृषाश्च सा तत्र मन्दिरे प्रददौ सती ।
क्षेत्राणि वाटिकाश्चापि मन्दिरे प्रददौ तथा ।।३४।।
अशक्ता सा कृषिं कर्तुं भूत्वा भृत्या तु मन्दिरे ।
अवसद्देवशरणे त्वदाधारा निराश्रया ।। ३५।।
गोवृषाणां तृणाद्यैः सा सेवनं दोहनादिकम् ।
करोत्येव तथा वार्याहरणं मार्जनादिकम् ।।३ ६।।
गंगेश्वरस्य ते सेवां करोत्याज्ञासुवर्तिनी ।
धान्यशाकफलादीनि जायन्ते यानि भूमिषु ।। ३७।।
तान्याहृत्य च प्रथमं ददाति भूसुराय ते ।
त्वं प्रपाच्य सुमिष्टान्नं नैवेद्यं विष्णवे सदा ।। ३८।।
दत्वा तस्यै प्रसादं च ततो जग्रहिथाऽदनम् ।
पुष्पहारादिकं भृत्या कृत्वाऽर्पयति विष्णवे ।। ३९।।
एवं सा सेवते नित्यं त्वां तथा विष्णुमीश्वरम् ।
निश्छद्मा भक्तियुक्ता च सर्वार्पणा वृषान्विता ।।3.181.४० ।।
अथ त्वं रसनालुब्धो मिष्टान्नं प्रकरोषि यत् ।
निवेद्य विष्णवे श्रेष्ठं प्रच्छन्नं मन्दिरान्तरे ।।४१ ।।
भुक्त्वा तृप्तिं समासाद्य ततो ददासि योषिते ।
भृत्यायै तदपि रूक्षमन्नं गोधूमपोलिकाः ।।४२।।
एवं त्वं कृतवान्नित्यं पक्षपातं तु दातरि ।
दात्रे देयं तु प्रथमं तत् त्वया न कृतं तदा ।। ४३ ।।
पंक्तिभेदः कृतस्तत्र तत्पापं ते पुराऽभवत् ।
एकदा वृष्टिबाहुल्ये साभ्रमत्या महाजलम् ।।४४।।
क्षेत्रं च वटिकां चापि मन्दिरं व्याप्य चागतम् ।
उद्वेलं तु महावेगं व्यवर्धत द्रुत हि तत् ।।४५।।।
गावश्च वृषभा भृत्या मन्दिरस्योच्छ्रये स्थले ।
जगत्यां सुस्थले सर्वेऽध्यरोहन् सुभयार्दिताः ।।४६ ।।
भृत्या सा कर्षुकी भीता त्वां ववल्गे जलागते ।
आश्लिष्टा त्वां जीवनार्थं प्राणरक्षणलालसा ।।४७।।
त्वं तथा सा कर्षुकी वै रत्नमाला च घेनवः ।
वृषाश्चेति जीवनार्थं सस्मरुर्मां तु मूर्तिगाम् ।।४८।।
व्यचिन्तयं तदा चाऽहं रक्षार्थं भक्तयोगिनाम् ।
किन्तु श्रेष्ठिन् चान्तकाले समागतेऽपि देहिनः ।।४९।।
मनो मलिनं प्रबलं दुर्निर्ग्राह्यं सवासनम् ।
नार्या देहस्य संस्पर्शे विकृतिं विन्दति द्रुतम् ।।3.181.५० ।।
तत्ते मनस्तदा तत्र विकृतिं प्रजगाम ह ।
वारिपूरे समाश्लेषे कामनाधर्षितो भवान् ।।५१ ।।
मया ज्ञात्वा परित्यक्तो भृत्याऽपि वर्जिता तदा ।
रक्षार्थमागतेनापि रक्षा ते तत्र न कृता ।।५२।।
धर्मनाशं विलोक्याऽहं रक्षां न कृतवान् द्विज ।
पूरवेगेन कर्षुक्या सह त्वं वाहितोऽभवः ।।५३।।
गावश्च वृषभाश्चापि पूरे तत्र प्रवाहिताः ।
मृताः सर्वे पुण्ययुक्ता मनाक्पापसमन्विताः ।।५४।।
गंगेश्वरो भवान् विप्रः पंक्तिभेदकरस्तदा ।
इदानीं त्वं हरेः सेवापुण्यवान् धनवान्किल ।।५५।।
क्षेत्रदेयं कर्षुकी च भृत्या ते गृहिणी किल ।
द्वितीया तव पत्नीयं ब्राह्मणी या तव मृतेः ।।५६।।
अनन्तरं मृता शोकात् सेयं श्रेष्ठिन् विराजते ।
पञ्च पुत्रा वृषास्ते वै ये मृताः पूरवारिषु ।।५७।।
सप्त पुत्र्य इमाः श्रेष्ठिन् गावौ मृताश्च वारिषु ।
मम पूजाफलेनैषा सम्पत् स्मृद्धिर्हि वर्तते ।।५८।।
रोगोऽयं पंक्तिभेदेन स्वार्थमिष्टान्नभोजिनः ।
तवाऽद्य वर्तते श्रेष्ठिन् निश्छद्मेयं तु मोदते ।।५९।।
कर्षुकी क्षेत्रवाट्यादिदानपुण्यं समश्नुते ।
ब्राह्मणी धर्मपुण्यं तु पातिव्रत्यं समश्नुते ।।3.181.६० ।।
देवधनं पशवश्च मानुष्यं भुञ्जते सुखम् ।
पूजकस्त्वं धनधान्यरत्नस्त्रीवंशसंयुतः ।।६ १ ।।
पंक्तिभेदस्य पापस्य क्षयरोगं फलं गतः ।
अहं ते च कुटुम्बस्य भक्तियोगेन वै पुनः ।।६२।।
तीर्थागतस्य मोक्षार्थं समायातोऽस्मि माधवः ।
वद विरालक त्वं मे मोक्षं वा तु नीरुग्णताम् ।।।३३।।
किमिच्छसीति दास्येऽत्र विप्ररूपधरो हरिः ।
पापं प्रच्छन्नभोज्यस्य क्षयं नेष्यामि सर्वथा ।।६४।।
निरामयो भव श्रेष्ठिन् मोक्षगो वा भवाऽत्र वै ।
श्रुत्वैवं सहसा हृष्टः प्रणम्य पुरुषोत्तमम् ।।६५।।
मां पप्रच्छ स लोकेऽत्राऽऽयुष्यं मे वर्तते न वा ।
सोऽहमाह न ते चायुविद्यतेऽतः परं मनाक् ।।६६।।
किन्तु भक्तोऽसि मद्वासे चागतोऽस्यपि तैर्थिकः ।
रोगनाशेच्छया तस्मात् कृपया ते ददामि तत् ।।६७।।
आयुर्वा मोक्षणं वापि ह्युभयं चापि वाञ्च्छसि ।
जन्ममृत्युजराव्याधीन् हरामि शरणार्थिनः ।।६८।।
इत्युक्तः श्रेष्ठिवर्योऽसौ विप्ररूपाय मे तदा ।
दत्त्वाऽऽसनं तथाऽर्घ्यं च पाद्यं जलं फलानि च ।।६९।।
कस्तूरीं कुंकुमं चापि कर्पूरं केसराँस्तथा ।
चन्दनं गन्धसाराँश्च रत्नहाराँस्तथोत्तमान् ।।3.181.७०।।
पुष्पहारान् कम्बलानि मुकुटं कटके तथा ।
कुण्डले चोर्मिकाश्चापि शृंखलाः स्वर्णनिर्मिताः ।।७१ ।।
सुगन्धसारान् छत्रं च चामरे स्वर्णपादुके ।
उपदा विविधाश्चापि पुत्रान् पुत्रीः स्त्रियावुभे ।।७२।।
सर्वं श्रेष्ठी तदा लक्ष्मि चार्पयामास मे धनम् ।
पूजयामास विधिना तवाऽस्मीति जगाद ह ।।७३।।
त्राहि पाहि दयासिन्धो यथेष्टं कुरु तेऽस्मि वै ।
इत्येवमुक्तवान् विरालकस्तदाऽहमच्युतः ।।७४।।।
प्राह तं सर्वथा श्रेष्ठिन् नीरोगी भव सत्वरम् ।
वर्षमात्रं भूतले त्वं तिष्ठ ततश्च मोक्षणम् ।।७५।।
यास्यस्येव न सन्देहस्तीर्थं कृत्वा गृहं व्रज ।
'अनादिश्रीकृष्णनारायणः स्वामी पतिर्मम' ।।७६।।
मन्त्रमेनं जप नित्यं कृष्णं भजस्व वल्लभम् ।
स्मर मां नित्यदा श्रेष्ठिन् पञ्चतीर्थी विधेहि च ।।७७।।
नित्यं सतां च साधूनां साध्वीनां सेवनं कुरु ।
देवयज्ञं पितृयज्ञं भूतयज्ञं तथा कुरु।।७८।।
दानं च हवनं चापि नैवेद्यं मेऽर्हणं कुरु ।
असारे चात्र संसारे सारं सेवा हरेः सदा ।।७९।।
सतां सेवा परं सारं सतां संगो हि भेषजम् ।
मम सेवा मोक्षदा वै वासनाक्षयिणी सताम् ।।3.181.८०।।
सतां सेवाबलेनाऽत्र वासना लयमेति ह ।
अनन्तजन्मपापानां नाशोपायः सदर्हणम् ।।८१।।
प्रारब्धानां दरिद्राणां नाशकृच्च सदर्हणम् ।
विघ्नानां रोगजालानां नाशकृच्च सदर्हणम् ।।८२।।
सन्तश्चिन्तामणितुल्याः प्रयच्छन्ति सुचिन्तितम् ।
सन्तः कल्पप्रतरवो ददत्यर्थितमुत्तमम् ।।८३।।
सन्तो वै कल्पवल्ल्यश्चाऽमृतं फलं ददत्यपि ।
साधवः कामगावस्ते दुहन्ति शाश्वतं सुखम् ।।८४।।
सन्तः सिद्धिप्रदाश्चापि सम्पदां च प्रदा हि ते ।
आशीर्वादैः स्वल्पभाग्यं बहुभाग्यं दधत्यपि ।।८५।।
दिव्यतां मम योगेन प्रापयन्त्यक्षरं पदम् ।
याम्यदूतान् वारयन्ति सन्तस्ते हृदयं मम ।।८६।।
प्रज्वालयन्ति पापानि पुण्यानि वर्धयन्त्यपि ।
सौभाग्यानि चार्पयन्ति हरन्ति चापदो हि ते ।।८७।।
तेषां सेवा सदा श्रेष्ठिन् कुरु प्रसाददायिनीम् ।
पञ्चयज्ञान् सदा सौम्यान् विधेह्यपि च भावतः ।।८८।।
गोसेवां धर्मसेवां च कुरु स्वर्गप्रदायिनीम् ।
आत्मज्ञाने कथासेवां सदा प्राप्नुहि गङ्गक ।।८९।।
ममाऽऽराधनमेवापि सदा विधेहि भाववान् ।
अन्ते ते दर्शनं दत्वा नेष्ये धामाऽक्षरं मम ।।3.181.९०।।
ब्रह्महत्यासुरापानव्यवायाश्चौर्यमित्यपि ।
भ्रूणहत्येतिपापानां याम्ये निष्कृतिरित्यपि ।।९ १ ।।
साधुसेवा कृता येन प्राप्ता प्रसन्नता तथा ।
आशीर्वचो येन लब्धं सर्वार्पणेन सत्सु यत् ।।९२।।
तेषां तेषां तु पापानां दग्धता जायते द्रुतम् ।
निष्कृतिः सर्वथा साधोः सेवातुल्या न चाऽपरा ।।९३।।
याम्यलोको नाऽस्य लक्ष्मि सेवामग्नस्य वै सताम् ।
अपि कीटपतंगाद्याः श्वपचा घातका अपि ।।९४।।
गणिका हारकाश्चापि सत्सेवाभिः समुद्धृताः ।
पशवः पक्षिणश्चापि वृक्षाश्च वल्लिका द्रुमाः ।।९५।।
साधुयोगेन कमले परं श्रेयः प्रभेजिरे ।
कृष्णभक्तेर्महामार्गः साधुष्वेव प्रवर्तते ।।९६।।
साधुभ्यः सर्वलोकेषु प्रवर्तते ततः परम् ।
लोकास्तरन्ति संसारं पारं प्रयान्ति तस्य च ।।९७।।
मम लोकं प्रयान्त्येव सतां सेवापरायणाः ।
भुक्त्वा स्वर्गान्यनन्तानि तथैश्वरपदान्यपि ।।९८।।
मोदन्ते चापि वैकुण्ठे गोलोकेऽक्षरधामनि ।
एवं मयोपदिष्टः स विरालकोऽहि भक्तराट् ।।९९।।
मदाज्ञया ययौ नैजं गृहं सन्तोषवान् धनी ।
भेजे मां सर्वथा तत्र वर्षान्ते मृत्युमाप्तवान् ।।3.181.१ ० ०।।
साधुसेवां परां कृत्वा ययौ धामाऽक्षरं मम ।
एवं लक्ष्मि व्रजेद्धाम श्रोता वक्ताऽस्य भाववान् ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विरालनामकस्य वैश्यस्य प्राग्जन्मकथा, कुंकुमवापिकाक्षेत्रे श्रीहरेः प्राप्तिः, तस्य राजयक्ष्मनाशः, मुक्तिश्चेत्यादिनिरूपणनामा एकाऽशीत्यधिकशततमोऽध्यायः ।। १८१ ।।