लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १८०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७९ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १८०
[[लेखकः :|]]
अध्यायः १८१ →

श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि कथां चान्यां मम भक्तस्य शोभनाम् ।
मायाख्ये नगरे त्वासीद् भक्तो मे व्याघ्रसंज्ञकः ।। १ ।।
आबाल्याद् दैवभावश्च साधुषु स्नेहवान् शुचिः ।
यतयो ये समायान्ति वैष्णवा न्यासिनीऽपि च ।। २ ।।
दर्शनार्थं प्रयात्येव साधूनां शीघ्रमेव सः ।
पादसंवाहनं वारिसमानयनमित्यपि ।। ३ ।।
करोति पात्रशुद्ध्यादि मार्जनं च सदाश्रमे ।
प्रसादं च समश्नाति सेवते च सतः सदा ।। ४ ।।
एवं भक्तियुतो भक्तो महाशीर्वादमाप ह ।
चिरं जीव चिरं तिष्ठ सुखी भव समृद्धिमान् ।। ५ ।।
अथाऽयं साधुसेवायां वर्तमानोऽपि चैकदा ।
बालभावेन लोभेन पतितां स्वर्णशृंखलाम् ।। ६ ।।
जग्राह चौर्यरूपेण वासुदेवविभूषणम् ।
साधवस्तु गताश्चान्यग्रामं व्याघ्रस्तु शृंखलाम् ।। ७ ।।
मार्जनादौ लब्धवाँश्चाऽप्रकाशेऽरक्षयद्धि ताम् ।
आनीय स्वगृहे स्वर्णशृंखलां निदधे पुटे ।। ८ ।।
नैव जानाति कश्चिद्वै तथाऽयं समरक्षयत् ।
माता वै त्वस्य पेटायां नैव जानाति शृंखलाम् ।। ९ ।।
पितापि चारणो नाम्ना कूटदेवो न शृंखलाम् ।
जानाति तद्विधां स्वर्णशृंखलां काष्ठपेटके ।। 3.180.१ ०।।
धृतां स्वयं विजानाति चाऽप्रकाशे प्रपश्यति ।
पुनश्च तत्र पेटायां गुप्तां तां निदधाति च ।। ११ ।।
अथ साधुः श्यामनामा विष्णुमूर्तेः प्रपूजकः ।
ग्रामान्तरे तु पूजायां यावदिच्छति शृंखलाम् ।। १ २।।
अदृष्ट्वा पूजने कालेऽतर्कयत् पतिता भवेत् ।
पृच्छां चाऽकारयद् भक्तैर्द्वारा मायापुरे मुहुः ।। १ ३।।
व्याघ्रं भक्ताः समपृच्छन् व्याघ्रो दृष्टा न चेति वै ।
प्रत्युत्तरं ददौ तेभ्यो लोभेन च भयेन च ।। १ ४।।
एवमसत्यभावस्य व्याघ्रस्य चौर्यपापतः ।
स्वर्णचौरस्य करयोद्वयश्चांऽगुलिकासु तु ।। १ ५।।
गलत्कुष्ठान्यभवँश्चांऽगुष्ठयोरपि सर्वथा ।
शरीर श्वेतकुष्ठाश्चाऽभवन् चौर्याघजं फलम् ।। १६ ।।
भजते भगवन्तं मां तथौषधं करोत्यपि ।
कुष्ठा नैव विलीयन्ते दुःखी चातीव सोऽभवत् ।। १७ ।।
साधुसेवाफलभाक् च स्वर्णचौर्याघभागपि ।
शुश्राव स कथां लक्ष्मीसंहितायाश्च तत्र ह ।। १८ ।।
श्रुतवान् स्वर्णचौर्यस्य फलं कुष्ठो भवेदिति ।
प्रायश्चित्तं तस्य चापि श्रुतवान् स्वर्णदानकम् ।। १९ ।।
ब्रह्मकृच्छ्रव्रतं चापि ब्रह्मकूर्चव्रतं तथा ।
सप्ताहिकं प्रकुर्याच्चेत् स्वर्णस्तेयी प्रमुच्यते ।। 3.180.२ ० ।।
अथाऽयं चाऽप्रकाशे वै छद्मनोदरपीडनम् ।
बहिः प्रकाशयित्वैव ब्रह्मकूर्चव्रतं व्यधात् ।। २१ ।।
पपौ वारि दिने त्वाद्ये खदिरपत्रपाचितम् ।
द्वितीये तु पपौ वारि किंशुकपुष्पपाचितम् ।। २२।।
तृतीये तु पपौ वारि बिल्वपत्रप्रपाचितम् ।
चतुर्थे तु पपौ वारि पद्मफलप्रपाचितम् ।। २३ ।।
पञ्चमे तु पपौ वारि ह्युदुम्बरप्रपाचितम् ।
षष्ठे पपौ दर्भपत्रपाचितं च ततः परम् ।। २४।।
उपोषणं सप्तमे तु चकार मां भजन् मुहुः ।
आराधना चकाराऽपि मूर्त्यग्रे मम चाघहाम् ।। २५ ।।
हरे स्वर्णं मया चाऽऽप्तं मार्जनं तत्र कुर्वता ।
तत्पाप कुष्ठरूपं वै लग्नं मे तत्क्षमापय । । २६ ।।
स्वर्णमालां प्रदास्यामि तस्मै तु साधवे पुनः ।
ब्रह्म कूर्चव्रतेनापि प्रायश्चित्तं कृतं मया ।। २७ ।।
रोगोऽयं मे नाशमेतु भक्तार्थं त्वं कृपां कुरु ।
त्राहि पाहि जगन्नाथ श्रीहरे पुरुषोत्तम ।। २८ ।।
पाप्युद्धारप्रकर्तस्त्वं भक्तं मां परिरक्षय ।
एवं मां च ऽर्थयामासाऽत्यर्थमश्रूणि वाहयन् । । २९ । ।
चिन्तयामास मरणं यदा कुष्ठो न नश्यति ।
सुष्वापैवं चिन्तयानः स्वप्नेऽहं तस्य सन्निधौ । । 3.180.३० । ।
दर्शयामास रूपं मे शंखचक्रगदाधरम् ।
हसन्नहं जगादैनं भक्त शोचसि किं वद । । ३१ ।।
स आह मां कृपासिन्धो लोभात् स्वर्णस्य शृंखला ।
साधोर्विष्णोर्मया चाप्ता पतिता भूतले तु सा ।। ३२ ।।
रक्षिता मे गृहे चास्ते फलं भुनज्मि कुष्ठकम् ।
श्रुत्वा कथां स्वर्णचौर्यप्रायश्चित्तं मया कृतम् ।।३३।।
ब्रह्मकूर्चव्रतं कृष्ण पापं नाशय मे प्रभो ।
इत्येवं प्रार्थयामास ततोऽहं तस्य सन्निधौ ।। ३४।।
स्वप्नं विलुप्य सहसा जागरे तं समानयम् ।
सोऽपि तत्रोत्थितस्तूर्णं मां विलोक्य परेश्वरम् ।।३५।।
प्रेमगद्गदपूर्णोऽभूत्तुष्टाव दण्डवत्तथा ।
ननर्त प्रेमपूर्णश्च ययाचे च क्षमां तथा ।।३६।।
ततोऽहं तस्य दोषस्य नुत्तये तं जगाद ह ।
स्वर्णस्य शृंखला मह्यं देहि तेऽघं गतं खलु ।।३७।।
अथ व्याघ्रो ददौ मह्यं समुत्थाय तु शृंखलाम् ।
मया धृता स्वकण्ठे सा तावत् सा शृंखला तदा ।।३८।।
ते साधवो यत्र गता अभवँस्तत्र तत्स्थले ।
मूर्तिकण्ठे गता चासीत् साधुस्तु दृष्टवाँश्च ताम् ।।३९।।
जहर्ष तां स्वर्णमालां विलोक्य च मुहुर्मुहुः ।
कथयामास सर्वेभ्यश्चमत्कारं हरेः परम् ।।3.180.४० ।।
भक्तार्थं भगवानेव योगं क्षेमं करोति हि ।
सम्पदि विपदि चापि चिन्तयत्येव भक्तकम् ।।४१ ।।
यो यस्य वै भवेद् भक्तस्तदर्थं भगवान् स्वयम् ।
भगवत्त्वं ददात्येव नैजैश्वर्यं समस्तकम् ।।४ ।।
एवं लक्ष्मि परेशस्य कृपया व्याघ्रभक्तराट् ।
द्रागेव कुष्ठताहीनो जातः पापविवर्जितः ।।४३।।
सुभगो रूपवाँश्चापि यथापूर्वं व्यजायत ।
तस्मादहं स्वयं नारायणो रक्षामि चाश्रितम् ।।४४।।
पापिनं वा कल्मषाढ्यं मायादोषाभिसंप्लुतम् ।
वासनाशतकोट्याढ्यं धर्मकर्मादिवर्जितम् ।।४५।।
अपि मां शरणं प्राप्तं मदर्थत्यक्तजीवितम् ।
मदर्थसर्वव्यापारं मदर्थध्यानपूजनम् ।।४६ ।।
मयि सर्वस्वार्पणं च रक्षामि सर्वथा जनम् ।
शृणु चान्यां कथां दिव्यां पापतापप्रणाशिनीम् ।।४७।।
धनग्रामेऽभवद् विप्रो ग्रामयाजक उत्तमः ।
उत्तमाख्यः सकुटुम्बः कर्मकाण्डप्रधानकः ।।४८।।
सर्ववर्णजनानां वै कर्मकाण्डप्रसाधकः ।
नृपस्यापि गुरुः सोऽपि नृपकार्यं करोति च ।।४९।।
नृपान्नं वै गुरु प्रोक्तं चौराणामन्नमित्यपि ।
अदातॄणां जनानां च पतितानां तथा गुरु ।।3.180.५०।।
भुक्तं न जीर्यति लक्ष्मि पीतं चापि न जीर्यति ।
वस्त्रपात्रादिकं दाने गृहीतं नापि जीर्यति ।।५१ ।।
शय्यागोस्वर्णदानादिः परिग्रहो न जीर्यति ।
ग्रामयाजकएवाऽसावुत्तमो नाम भूसुरः ।।५२।।
लोभेन सर्ववर्णानामग्राहयद्धनादिकम् ।
भुंक्ते पिबति चाश्नाति रमते मोदते गृहे ।।५३।।
सम्पत्तिश्चास्य वै श्रेष्ठाऽभवन्नृपाधिका गृहे ।
रत्नहाराः स्वर्णमालाः स्वर्णपर्यंककासनम् ।।५४।।
भवनानि विचित्राणि दासा दास्यो ह्यनेकशः ।
गोमहिष्यादिकाश्चापि गजवाजिरथादयः ।।५५।।
सर्वमस्याऽभवद् ऋद्धं पुत्राः पुत्र्योऽपि सौख्यदाः ।
भार्याऽपि भक्तिसम्पन्ना धर्मयुता पतिव्रता ।।५६।।
अथाऽस्य दानभारेण पापिनां द्रव्यसञ्चयैः ।
पापिनामन्नपानाद्यैर्जलोदरं दरोऽभवत् ।।५७।।।
उदरं पीड्यते तेन महोदरं हि लम्बते ।
पच्यते नहि भुक्तं वा पीतं जीर्यति नैव च ।।५८।।
सुखं नाऽस्य क्षणं चापि जायते ऋद्धिभिस्तदा ।
वैद्याश्रमान् ययौ रोगशान्त्यर्थं च तथाप्यपि ।।५९।।
औषधानां प्रयोगेषु बहुष्वपि जलोदरम् ।
नष्टं नैव हि प्रत्युत व्यवर्धत दिने दिने ।।3.180.६०।।
अथैकदा ययौ देवायनर्षिं प्रति भूसुरः ।
न्यवेदयन्निजं रोगं साधवे प्रप्रणम्य सः ।।६ १ ।।
साधुर्ददौ हरेर्नाम मालां च तुलसीजनिम् ।
ओहरे श्रीकृष्णनारायण मां निरुजं कुरु ।।६२।।
इति जापं भूसुरायोपादिदेश सहस्रकम् ।
नित्यमेवेति सोऽप्येवं जजाप प्रत्यहं मुदा ।।६३।।
भजते मां सदा सोऽयं रोगनाशार्थमेव ह ।
आर्तो भजते मां नित्य वैभवी भजते न वै ।।६४।।
वैभव्यार्तो भजते मां स्वार्थार्थं सोऽभजद् यथा ।
एवं वर्षोत्तरे काले भक्तिं प्रकुर्वतः पुरः ।।६५।।
दययाऽहं दर्शनं स्वं ददौ रोगप्रशान्तये ।
साधूनां मण्डलं कृत्वा ययौ तस्य गृहं प्रति ।।६६।।
सोऽपि रोगप्रशान्त्यर्थं भोजनादि ददौ मुदा ।
स्वर्णरूप्याम्बराद्यं च साधुभ्यो विविधं ददौ ।।६७।।
प्रार्थयामास चात्यर्थं रोगशान्त्यर्थमित्यपि ।
अहं साधुगुरुर्भूत्वा हस्तं तस्योदरेऽदधम् ।।६८।।
चमत्कारो यथा स्याद्वै तथाऽस्योदरतस्तदा ।
जलोदरो महान् रोगो मूर्तिमान् समपासरत् ।।६९।।
कद्रूपः सभयश्चापि दुद्राव च दधाव च ।
गतो रोगो भूसुरश्च स्वस्थोऽभवत् क्षणान्तरे ।।3.180.७० ।।
जलं शुष्कं तदा जातं जाठरश्चाऽभवच्छुभः ।
वयं सर्वे साधवस्तु शीघ्रमदृश्यतां गताः ।।७१ ।।
सोऽपि विज्ञाय मां नारायणं ततोऽभजन् मुहुः ।
एवं लक्ष्मि मया भक्तो निरामयस्तदा कृतः ।।७२।।
सोऽपि चान्ते ययौ धामाऽक्षरं मे परमात्मनः ।
पठनाच्छ्रवणाच्चाऽस्याऽऽरोग्यं भुक्तिश्च मोक्षणम् ।।७३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने कुष्ठिनो व्याघ्राख्यस्य स्वर्णचौरस्य चारणभक्तस्य कुष्ठितानाशनम् उत्तमाख्यस्य ग्रामयाजकविप्रस्य भक्तस्य जलोदरनाशनं भगवद्दर्शनं मुक्तिश्चेत्यादिनिरूपणनामा अशीत्यधिकशततमोऽध्यायः ।। १८० ।।