लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १७९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १७९
[[लेखकः :|]]
अध्यायः १८० →

श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि भावुकाख्ये पुरे वैश्यो ह्यनाथकः ।
आबाल्यान्मृतजनको जननीपोषितो ह्यमुम् ।। १ ।।
माता नित्याश्रयानाम्नी पुत्रं तु वेशिनं सदा ।
पालयत्येकमेवेयं वंशवृद्धिप्रमूलकम् ।। ९ ।।
नित्यं सा विधवा कृष्णमन्दिरे विप्रसन्निधो ।
कथां श्रोतुं प्रयात्येव यया दुःखं प्रणश्यति । 9 ।।
कथाज्ञानेन सहसा धैर्यं प्रजायते शुभम् ।
तापा नश्यन्ति दुःखानि चिन्तालयो भवत्यति ।। ४ ।।
सा संहितां प्रशुश्राव लक्ष्मीनारायणाभिधम् ।
वर्षद्वयं प्रशुश्राव सर्वाख्यानानि भामिनी ।। ५ ।।
कथास्ता विविधाः श्रुत्वा ब्रह्मरूपा व्यजायत ।
सती साध्वीधर्मयुत्ता वर्तते सा विदेहिनी ।। ६ ।।
नित्याश्रयेति स्वनाम्नोऽर्थं विवेद ततो हि सा ।
नित्ये हरौ स्वामिदेवे त्वाश्रयो मम विद्यते ।। ७ ।।
हरिः पतिः प्रभुः स्वामी पत्नी तस्य भवाम्यहम् ।
सेवनीयः सदाऽनादिकृष्णनारायणः प्रभुः ।। ८ ।।
गोपालबालकः साक्षात् कम्भरानन्दनोऽव्ययः ।
कोट्यर्बुदाब्जलक्ष्मीनां पतिः श्रीपतिरीश्वरः ।। ९ ।।
स एव निजभक्तानां सर्वकामप्रपूरकः ।
भुक्तिमुक्तिप्रदः स्वामी नारायणः प्रियः पतिः ।। 3.179.१० ।।
एवं ज्ञानं समापन्ना व्रतं तपसि संस्थिता ।
चक्रेऽनादिकृष्णनारायणमूर्तिप्रसेवनम् ।। ११ ।।
तया वै ताम्रपत्रे मे कारिता प्रतिमा शुभा ।
तत्पूजा वै व्रतं नित्यं पालितं स्वार्पणात्मकम् ।। १२ ।।
शृणु लक्ष्मि यथासेवां कृतवती तु साऽभवत् ।
प्रातरुत्थाय पृथ्व्यां सा ओं श्रीकृष्णनरायण ।। १३ ।।
इतिनाम्नामष्टोत्तरशतं जपति मालया ।
ततो ध्यानं मम मूर्तेः करोति शयने स्थिता ।। १४।।
पादौ जंघे जानुनी च सक्थिनी जघनादिकम् ।
कटि नाभिमुदरं च वक्षः पृष्ठं द्विपार्श्वकम् ।। १५।।
कण्ठं मुखं कपोलौ च गण्डौ भालं च चक्षुषी ।
कर्णौ शिखां ध्यायतीति ततः स्नानं करोति सा ।। १६।।
अनाथमाता भक्ता मेऽनादिकृष्णनरायण ।
नामजपं करोत्येव स्नाने वारिघटं तु सा ।। १७।।
सूर्याय पितृभ्यश्चापि ददाति द्युनिवासिने ।
तुलसीपत्रपुष्पाणि स्तम्बेभ्यः स्वयमेव हि ।।१८।।
आचित्वा चन्दनं घृष्ट्वा नीरवा चायाति वै गृहम् ।
मूर्तिं मे त्वासने न्यस्याऽऽवाहनं चासनादिकम् ।।१ ९।।
पाद्यमर्घ्यमाचमनीयकं जलं ददाति मे ।
जलेन चन्दनेनापि वारिणा कुसुमैस्तथा ।।3.179.२०।।।
विना पञ्चामृतं पञ्चामृतनाम्नाऽर्चयत्यपि ।
वस्त्रं यज्ञोपवीतं चाऽमलकं भूषणार्थकम् ।।२१ ।।
तण्डुलान् सर्वशृंगारार्थं च कुंकुममुत्तमम् ।
अर्पयत्येव मे साध्वी धूपं चन्दनचूर्णजम् ।।२२।।
दीपं तैलेनाऽर्पयति नैवेद्यं चणकादिकम् ।
फलं वा तिलपात्रं वा गूडं वा प्रातरेव सा ।।२३।।
ददात्यपि यथालब्धं जलं तथाऽर्पयत्यपि ।
नीराजनं करोत्येव घण्टीनादप्रपूर्वकम् ।।२४।।
प्रदक्षिणां नमस्कारं स्तुतिं विसर्जनं शुभम् ।
पुष्पाञ्जलिप्रपूर्वं च करोत्येवं सदा प्रगे ।। २५।।
ततो वै गृहकार्यं सा करोति बाललालनम् ।
बालस्य रक्षणं स्तन्यदानं बालस्य भोजनम् ।।२६।।
भृत्यतालब्धसन्तुष्टा पोषणं सा करोति वै ।
अन्नवस्त्रादिसन्तुष्टा पतिं कृष्णं प्रसेवते ।।२७।।
ततो दासीस्वरूपा सा भृत्या भृत्यत्वकर्मणे ।
याति श्रेष्ठिगृहे पात्रमञ्जनादिविधित्सया ।।२८।।।
भृत्याकार्यं विनिर्वर्त्य मध्याह्नेऽन्नफलादिकम् ।
प्राप्यते श्रेष्ठिभार्यातस्तदादाय गृहं निजम् ।।२९।।
समायाति मद्भजनाऽनादिकृष्णनरायण ।
नित्यं श्रेष्ठिकुटुम्बं तच्छृणोति नामकीर्तनम् ।।3.179.३ ०।।
मद्भक्तं तदभूत् सर्वं श्रेष्ठी वृद्धोऽपि रूपशः ।
कालेन निधनं यातस्तदा नित्याश्रया गृहे ।।३ १ ।।
अनादिश्रीकृष्णनारायणेति धुन्यमाचरत् ।
अहं तया समाकृष्टो ययौ वै श्रेष्ठिनोऽन्तिकम् ।।।३२।।
साक्षादभवं तस्याऽग्रे तस्याश्चाग्रे स्त्रियास्तथा ।
दिव्यं मे मर्शनं दत्वा निन्ये धामाऽक्षरं हि तम् ।।३ ३।।
विमानेन सुदिव्येन कुटुम्बं तद् व्यलोकयम् ।
सर्वं मद्भक्तिमज्जातं तया ह्यनाथया रमे ।।३४।।
मध्याह्ने ह्येवमेवेयं नित्यं श्रेष्ठिगृहक्रियाम् ।
कृत्वाऽऽयाति गृहं नैजं भोजयित्वा निजं सुतम् ।।३५।।
दुग्धं संपाययित्वा च भुंक्ते कृष्णस्मृतिस्थिता ।
सायं निराजनं चापि करोति भजनं मम ।।३६।।
भोजनं सा ततो दत्वा मह्यं कृत्वा स्वयं ह्यपि ।
स्वपिति बालकं कृत्वा पार्श्वेऽपरे च मामपि ।।३७।।
एवं नित्यं भजते मां नित्याश्रया तु वैष्णवी ।
बालोऽपि मातृभक्तिं वै दृष्ट्वा भक्ततमोऽभवत् ।।३८।।
यथा माता तथा पुत्रः संस्कृतश्चात्मवेदनः ।
महाभागवतो बाल्ये रोमेऽर्हणादिखेलनैः ।।३९।।
कृत्रिमां मृत्तिकामूर्तिं संस्थाप्य- वालुकासने ।
कर्दमादिचन्दनाद्यैः पुपूज प्रतिमां मम ।।3.179.४०।।
तृणपत्राणि भूस्थानि धृत्वाऽर्पयति भावतः ।
पुष्पाणीति प्रमत्वैव मातृवत् सलिलं तथा ।।४१ ।।
मृत्तिकाभग्नपात्रादौ समर्पयति सादरम् ।
भोजनं निम्बपक्वसत्फलं चान्यद् ददाति च ।।४२।।
प्रदक्षिणां दण्डवच्च करोति मालिकां तथा ।
क्षमां सम्प्रार्थयत्येव दयां प्रसन्नतां हरेः ।।४३।।
विसर्जयति सर्वं तत् ततो मित्रैः सहापि च ।
रमते तु गृहाग्रे वै भजन्नारायणं तु माम् ।।४४।।
एवं काले गते सोऽपि युवाऽभवत्प्रभक्तराट् ।
माताऽपि भजते मां च प्रसन्नोऽहं तयोस्तदा ।।४५।।
अभवं चागतस्तत्र विप्ररूपधरो हरिः ।
भिक्षां तत्राऽर्थयामास नित्याश्रया तु मां तदा ।।४६।।
ददौ वै रोटकं त्वेकं तक्रं ददौ प्रभुक्तये ।
अहं गृहांगणे तत्र निषद्य भुक्तवान् मनाक् ।।४७।।
अर्धं तु रोटकं तस्मै बालाय चार्पयं तथा ।
तक्रं प्रददौ स्वल्पं च दुग्धं तत्कृतवानहम् ।।४८।।
युवा पुत्रो विस्मितश्चोवाच त्वमातरं मुहुः ।
मातस्तक्रमिदं दुग्धं जातं विप्रप्रसादतः ।।४९।।
रोटकोऽयं मिष्टमिश्रो घृताक्तोऽपि व्यजायत ।
सोऽयमतश्चमत्कारी विद्यते ब्राह्मणोत्तमः ।।3.179.५०।।
माताऽऽश्चर्यं परं श्रुत्वा मुग्धा व्यलोकयत् प्रभुम् ।
दृष्ट्या दृष्टिं सम्प्रयोज्य तावच्चतुर्भुजोऽभवम् ।।५१।।
दिव्यो दिव्यावयवश्च दिव्यसर्वांगभूषणः ।
दिव्यचिह्नोऽभवं लक्ष्मीसहितः पुरुषोत्तमः ।।५२।।
तदा सा मां विलोक्यैव श्रीपतिं परमेश्वरम् ।
पपात पादयोर्मे च त्रायस्व व्याजहार च ।।५३ ।।
पुत्रः केशीसंज्ञकश्च ज्ञात्वा मां परमेश्वरम् ।
अनाथनाथं श्रीकृष्णं पपात पादयोर्मम ।।५४।।।
तुष्टाव मां बालकश्च माता तुष्टाव विह्वला ।
कृष्ण कृष्णकृपासिन्धो ह्यनाथनाथ माधव ।।५५।।
तव स्वो भवसंसारात् तारय श्रीर्हरे पते ।
अनादिश्रीकृष्णनारायणश्रीकृष्णमत्प्रभो ।।५६ ।।
भवता विप्ररूपेण तारितौ मातृपुत्रकौ ।
अनाथानां भवान् नाथश्चेति सत्यं वचस्तव ।।५७।।
मया कथा हि बहुधा श्रुता ते परमेश्वर ।
विरागं परमं प्राप्य सेवितोऽसि जनार्दन ।।५८ ।।
ज्ञानं प्राप्य पतिं ज्ञात्वा त्वां भजामि च नित्यदा ।
बालोऽयं भवतो नाथ त्वं निभालय पुत्रकम् ।।५९।।
मां धामाऽक्षरसंज्ञं ते नय श्रीपुरुषोत्तम ।
स्वामिन् कान्त सुहृद् बन्धो रक्षक श्रीहरेऽव माम् ।। 3.179.६० ।।
इत्येवमुक्त्वा सा लक्ष्मि पुष्पाञ्जलिं ददौ मयि ।
पादौ जग्राह मे चापि रुरोद प्रेमविह्वला ।। ६१ ।।
प्लावितौ मम पादौ तु तदश्रुभिस्तया रमे ।
पुत्रोऽपि चात्मनिवेदी प्रेमाश्रूणि मुमोच ह ।।६२।।।
मुक्तिं देहि कृपासिन्धो परमेश श्रियः पते ।
इत्युवाच करौ धृत्वा वक्षो वक्षो नियुज्य च ।। ६३ ।।
आश्लिष्टवान् यथा पुत्रः पितरं तत्तथा स माम् ।
मयाऽश्रूणि प्रमुक्तानि पुत्रं भक्ततमं प्रति ।। ६४।।
स तैराप्लुत एवाऽभूद् दिव्यदृष्टिस्ततोऽभवत् ।
निभालिता च तन्माता कृपादृष्ट्या मया रमे ।। ६7१।।
साऽपि दिव्या दिव्यदृष्टिस्तदा तूर्णं व्यवर्तत ।
त्रिकालज्ञौ कृपया मे निर्बन्धो सिद्धिसंश्रितौ ।।६६ ।।
लक्ष्मीवन्मुक्तवत् तौ तु जातौ दिव्यविहारिणौ ।
दिव्योपकरणैस्तत्र संकल्पितैः समाहृतैः ।। ६७।।
पूजयामासतुर्मां च मुमुचतुर्न मां हि तौ ।
अत्र वासं कुरु कृष्णेत्याहतुस्तौ मुहुर्मुहुः ।। ६८ ।।
यद्वा नय नौ सहैवेत्येव जगदतुस्तदा ।
अहं रूपं सुसंकुच्य विप्ररूपः पुनस्तदा ।।६९।।
अभवं तौ सिषेवाते व्यजनेन करैस्तथा ।
अहं विचार्य मुक्तिं वै तयोर्दिव्यस्वरूपिणौ ।।3.179.७ ० ।।
सहैव नीत्वा सूर्याभे विमाने चाऽध्यरोहयम् ।
पुत्रं तु केशिनं प्रसूं नित्याश्रयां ह्यनाथिनीम् ।।७ १ ।।
प्रापयामास तूर्णं मे धामाऽक्षरं परं पदम् ।
एवं लक्ष्मि ह्यनाथानां नाथोऽहं भवतारकः ।।७२।।
वल्लभोऽस्मि प्रभक्तानां मोक्षदः सुदयावशः ।
पठनाच्छ्रवणाच्चाऽस्य भुक्तिर्मुक्तिर्भवेच्छुभा ।।७३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने अनाथाया नित्याश्रयायास्तत्पुत्रस्य केशिनश्च भागवतीं भक्तिं दृष्ट्वा भगवता दत्तं दर्शनं मोक्षणं
चेत्यादिनिरूपणनामा नवसप्तत्यधिकशततमोऽध्यायः ।। १७९ ।।