लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १७८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७७ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १७८
[[लेखकः :|]]
अध्यायः १७९ →

श्रीपुरुषोत्तम उवाच-
श्रृणु लक्ष्मि कथयामि कथां भक्तस्य शोभनाम् ।
गृहस्थस्य सदा चात्मनिवेदिनः प्रमुक्तिदाम् ।। १ ।।
आसीद् भक्तो भिक्षुको मे भिक्षायनो मुनीश्वरः ।
अयाचिताञ्जलिनाम्नी भार्या तस्याऽभवच्छुभा ।। २ ।।
भिक्षायनस्त्रिषवणं स्नाति नित्यं सरोवरे ।
अश्वपट्टे च तत्पत्नी जलं चादाय मन्दिरे ।। ३ ।।
करोति मम पूजां वै नित्यं त्रिषवणे स्थिता ।
एवं तयोर्हि दम्पत्योर्मन्दिरे मम सर्वदा ।। ४ ।।
पूजयतोर्मम मूर्तिं वृत्तिस्तु जीविकात्मिका ।
निर्वहते भक्तलोकैर्दत्तैरन्नजलाम्बरैः ।। ५ ।।
प्रातः प्रपूज्य तौ मां च मन्दिरस्य प्रसेवनम् ।
मार्जनं लेपनं धूपदानं दीपप्रकाशनम् ।। ६ ।।
पुष्पाद्याहरणं चापि पाचनं पात्रमर्षणम् ।
आरार्त्रिकं तथा स्थालनिवेदनं जलार्पणम् ।। ७ ।।
ताम्बूलदानकं चापि कुरुतोऽथ विसर्जनम् ।
नित्यमेवं चात्मनिवेदित्वं कुरुत आदरात् ।। ८ ।।
अहमाभ्यां प्रत्यहं वै भिक्षायोगं करोमि च ।
कश्चिद् भक्तः समागत्य यात्रालुर्वा परोऽपि वा ।। ९ ।।
अर्पयत्येव भोज्यादि प्रणिर्बृहतस्तावुभौ ।
सन्तुष्टौ मम भक्तौ तौ यदृच्छालाभतोषिणौ ।। 3.178.१० ।।
गार्हस्थ्यधर्ममेवाऽपि समाचरत आदरात् ।
कामः क्रोधस्तथा लोभो मोहो नात्मार्थमेतयोः ।। ११ ।।
मां हरिमुररीकृत्य मत्वा चाऽन्तःस्थितं सदा ।
कुरुतः सर्वकार्याणि देहजानीतराणि च ।। १२।।
भोजनं जलपानं च तैलाभ्यंगं शङ्गारकम् ।
सद्वेषं चोत्सवं चापि प्रमोदं रमणं तथा ।। १ ३।।
सर्वं मामेव संस्मृत्य कुरुतो दिव्यदृष्टितः ।
आत्मार्पणं विना क्वापि नैवाचरत ऐच्छिकम् ।। १४।।
व्यवसायोऽपि सर्वो वै मदात्मकस्तयोरभूत् ।
यदा भिक्षां गृह्णतस्तौ कवले कवले हरिम् ।। १५।।
अनादिश्रीकृष्णनारायणं मां स्मरतश्च तौ ।
शय्यायां चापि दोलायां प्रयासे चेतरेऽपि च ।। १ ६।।
मां स्मृत्वैव प्रवर्तेते न मां विहाय कर्हिचित् ।
आतपे मम प्रीत्यर्थं जलकटादिबन्धनम् ।। १७।।
शीतवारिप्रद्पानादि मदर्थं कुरुतः सदा ।
शैत्ये चोष्णसलिलं च तथोष्णभोजनादिकम् ।। १८।।
मदर्थे तौ हि कुरुतश्चोर्णवस्त्रादिकार्पणम् ।
वर्षायां छत्रदानादि चैकादश्यां च जागरम् ।। १ ९।।
व्रतेषु फलपुष्पाणां मदर्थानयन तथा ।
गीतं नृत्यं वाद्यशब्द तालं च रञ्जनादिकम् ।। 3.178.२० ।।
मदर्थं कुरुतो नित्य कथां च कुरुतो मम ।
एवं वै वर्तमानौ तौ कथां संशृणुतो मम ।।२१ ।।
कामो वै निरयो लोके वासनामूलको मतः ।
कामिनां नैव मोक्षोऽस्ति तस्मात् कामं परित्यजेत् ।।२२।।
अयाचिताऽञ्जलिः पत्नी श्रुत्वा पप्रच्छ तं मुनिम् ।
भूदेव! भिक्षुकश्चास्से पतिर्मे भवतारकः ।।२३।।
सन्देहं कथया जातं पृच्छामि तं निवर्तय ।
कामना नरकं प्रोक्तं कामिनां मुक्तिरेव न ।।२४।।
आवां गार्हस्थ्यधर्मस्थौ कामस्तत्र तु विद्यते ।
कथंकारं भवेन्मुक्तिस्त्याज्यस्तस्मान्मनोभवः ।।२५ ।।
भिक्षायनस्तु तच्छ्रुत्वोवाच पत्नीं निजां प्रियाम् ।
सत्यं भार्ये निरया वै लोकाः सर्वे तु मायिकाः ।।२६।।
हर्यर्पणमृते पत्नि हर्यर्पणे तु निर्गुणाः ।
कामः क्रोधश्च लोभश्च त्यक्तव्यो लोभ इत्यपि ।। २७।।
नारायणे परे तत्त्वे निर्गुणतां भजेद्धि सः ।
स्वात्मसुखार्थमेवाऽयं बन्धनो निरयप्रदः ।।२८।।
परात्मन्यर्पितो भार्ये परमात्मप्रसंगदः ।
हरेः प्रसंगतो भार्ये माया तत्र विनश्यति ।।२९।।
अमायिकाः क्रियाः सर्वा भवन्त्येव हि निर्गुणाः ।
यथा शाकादिकं सर्वं मिष्टान्नं सलिलं फलम् ।।3.178.३०।।
मायिकं भौतिकं चापि कृष्णार्पितं तु निर्गुणम् ।
तथा चक्षुः करो वक्षः पादौ कटिर्मनस्तथा ।।३ १।।
हर्यर्पितं क्रियाद्यं च सर्वं भवति निर्गुणम् ।
आवाभ्यां श्रीहरेर्नित्यं पूजने सेवने प्रिये ।।३२।।
देहेन्द्रियस्वभावाद्या अर्प्यन्ते निर्गुणा हि ते ।
ततो नास्ति निरयो नः किन्तु धर्मः सनातनः ।।३३।।।
तेन सेवादिधर्मेण पुण्यं हरेः प्रसंगतः ।
भिक्षुकोऽहं भिक्षुकी त्वं भिक्षा हरेः सदा हि नौ ।।३४।।
आवयोर्भिक्षुकः कृष्णो निर्गुणः परमेश्वरः ।
तद्योगेनाऽऽवयोश्चेष्टा कृष्णात्मिका तु निर्गुणा ।।३५।।
तस्मात् पत्नि सर्वकार्ये स्मर कृष्णं परेश्वरम् ।
न मां न त्वां किन्तु कृष्णं श्लेषे विश्लेषणेऽपि च ।।३६।।
एवं नैवाऽस्ति लोकेऽत्र देहे वा बन्धनं तव ।
ममापि बन्धनं नास्ति परार्थकर्मणोः प्रिये ।।३७।।
इत्येवं बोध्यमानाऽपि लक्ष्मि सा मुनिभिक्षुकी ।
साध्वी विश्वासमापन्ना मनागपि च वै ततः ।।३८।।
पुनः सञ्चिन्तयामास कामोऽयं कल्मषात्मकः ।
पापमेवाऽस्ति निरयप्रदो दुःखप्रदोऽपि च ।।३९।।
एवं चिन्तयते नित्यं भजते मां सती सदा ।
एकदाऽहं तयोः साक्षादभवं नेत्रगोचरः ।।3.178.४० ।।
तस्याः शंकाविनाशार्थं चाऽस्पृशं स्वकरेण ताम् ।
सा मुमोह स्वरूपे मे सर्वशृंगारशोभिते ।।४१ ।।
समाश्चिषत्तूर्णमेव मां मुग्धा पतिसन्निधौ ।
मया तस्यै विना भोगं स्पर्शमात्रेण सर्वथा ।।४२।।
सर्वानन्दाः प्रदत्ता वै सुखिनी सा पराऽभवत् ।
दिव्याऽभवत्तत आरभ्यैव निष्कामभावना ।।४३ ।।
संकल्पः कामनाजन्यस्तस्या नष्टोऽन्तरात् सदा ।
निष्कामा सा मुक्तरूपा ब्रह्मव्रतोर्जिताऽभवत् ।।४४।।
भिक्षुकोऽपि तया स्पृष्टो निष्कामः सर्वथाऽभवत् ।
ब्रह्मशीलव्रतौ तौ तु तदारभ्याऽर्कभास्वरौ ।।४५।।
विलक्षणौ देवपूज्यौ लोकपूज्यौ बभूवतुः ।
एवं नित्यं सेवया मे मया निष्कामिनौ कृतौ ।।४६।।
मम योगेन नार्योऽपि नराश्चापि ह्यकामिनः ।
भवन्त्येवेति ते सर्वे प्रयान्ति परमं पदम् ।।४७।।
कालेन निधनं प्राप्तौ दिव्यविमानसंस्थितौ ।
मुक्तरूपौ तु तौ भूत्वा ययतुर्धाम मेऽक्षरम् ।।४८।।
एवं लक्ष्मि चात्मनिवेदिनोः स्त्रीनरयोरिह ।
सर्वदोषान्नाशयामि गुणान् दिव्यान् करोमि च ।।४९।।
सर्वं कर्तुं समर्थस्य दयालोः परमात्मनः ।
भक्ताय त्वागमो लोके भक्तान् सन्तारयामि वै ।।3.178.५ ० ।।
भिक्षा बहुविधा लक्ष्मि दातव्या पतये तु मे ।
सर्वा सा निर्गुणा तेन जायते मम योगतः ।।५ १।।
समाकर्णय कमले विविधां कथयामि ते ।
यद्यदिष्टतमं स्वस्य सर्वं भिक्षात्मकं मतम् ।।।५२।।
स्वप्ने जाग्रति सौषुप्ते तुर्ये मुक्तौ यदिष्टकम् ।
अनर्पितं न वै ग्राह्यं मह्यं दत्वा समालभेत् ।।५३ ।।
भोजनं रासनं सर्वं मिष्टं मिष्टं दिशेन्मयि ।
पानं स्वादु यदिष्टं च दद्यान्मह्यं ममाश्रयी ।।५४।।
वस्त्राणि यानि रम्याणि वेषाश्च भूषणादिकम् ।
स्वर्णरूप्यहीरकादि रत्नानि चार्पयेन्मयि ।।५५।।
अभ्यंगादि सुगन्धादि कज्जलादि दिशेन्मयि ।
मुकुटादि शयनादि गेन्दुकादि च मेऽर्पयेत् ।।।५६।।
वितानादि चासनादि यानाद्यपि च मेऽर्पयेत् ।
मन्दिरादि वाहनादि विमानादि च मेऽर्पयेत् ।।५७।।
धूपदीपादि पुष्पादि चन्दनादीनि मेऽर्पयेत् ।
गजवाजिगवादीनि दासदासीश्च मेऽर्पयेत् ।।५८।।
रूपाणि सर्वरम्याणि शब्दान् श्राव्याँश्च मेऽर्पयेत् ।
स्पर्शान् सर्वविधाँश्चापि ग्राह्यान् सर्वांश्च मेऽपयेत् ।।।५९ ।।
गन्तव्यान् सुखभाजश्चाऽऽनन्दितव्याँश्च मेऽर्पयेत् ।
मिष्टान्नानि समग्राणि तुलसीमञ्जरीर्दिशेत् ।।3.178.६० ।।
तैलसारान् कर्पूरादि दद्यान्मह्यं तु भिक्षवे ।
पुत्रं पुत्रीं पतिं पत्नीं सर्वस्वं मेऽर्पयेत् सदा ।। ६१ ।।
मह्यं सर्वाण्यायुघानि सर्वयन्त्राणि मेऽर्पयेत् ।
यज्ञयागादिकार्याणि हवनादीनि मेऽर्पयेत् ।। ६२।।
अर्पयेन्मेऽपि सस्यानि कणिशाँश्च कणाँस्तथा ।
मिष्टरसाढ्यौषधीश्च मध्वादीनि च मेऽर्पयेत् ।।६३ ।।
अष्टषष्टिकलाश्चापि नववस्तूनि मेऽर्पयेत् ।
प्रकाशं चाऽप्रकाशं च सर्वं मह्यं दिशेज्जनः ।।६४।।
आयश्चोत्पादनं सर्वं वृद्धिर्द्रव्यस्य वस्तुनः ।
हार्दिकं दैहिकं चाप्यैन्द्रियकं मे समर्पयेत् ।।६५।।
पत्रं पुष्पं फलं वारि मह्यं दत्वा सुयोजयेत् ।
विद्यां ज्ञानं विवेकं च कौशल्यं गुणशालिताम् ।।६६।।
न्यायं परोपकारं च सर्वं मह्यं समर्पयेत् ।
संकल्पा विफला ये च ये चान्ते फलदायिनः ।।६७।।
कृतयश्चापि यत्नाश्च तान्मे सर्वान् समर्पयेत् ।
ऐश्वर्याणि समस्तानि सर्वाण्यपि बलानि च ।। ६८।।
अवस्थाश्चापि सर्वाश्च चमत्काराः समस्तकाः ।
सौन्दर्यगुणयोगाश्च तान्मे सर्वान् समर्पयेत् ।। ६९ ।।
अहं परार्थो भवतां भिक्षुश्चानन्तसंख्यदः ।
गृहीत्वा प्रददाम्येव शाश्वतं भिक्षयाऽर्थितम् ।।3.178.७०।।
राज्यं स्वर्गं दिव्यलोकान् भोगाँश्च सम्पदो नवाः ।
सुखानि चोत्सवान्मोदान् हर्षान् प्रतिददाम्यहम् ।।७१ ।।
धनं धान्यं चाम्बराणि भवनान्युत्तमानि च ।
गोधनं दासदासीश्च पुत्रान् पुत्रीर्ददाम्यहम् ।।।०२।।
धिष्ण्यं चापि च माहेन्द्रं वैष्णवं ब्राह्ममित्यपि ।
दिक्पालत्वं चैश्वरं वा वैराजं पदमुत्तमम् ।।७३।।
ऐशं वा लोकपालत्वं महर्षित्वं गुरोः पदम् ।
ध्रौव्यं वा सौरमेवाऽपि चान्द्रं राज्यं ददाम्यहम् ।।७४।।
वैकुण्ठं चामृतं चाव्याकृतं गोलोकमक्षरम् ।
श्रीपुरं ब्रह्मलोकं वा परंधाम ददाम्यहम् ।।७५।।
भिक्षयामि भवद्भ्योऽहं सर्वं मे रोचते सदा ।
दाने लभे भुनज्म्येतद् भुक्त्वा ददाम्यनन्तकम् ।।७६।।
पुण्यं पापं शुभं चाप्यशुभं संभिक्षयाम्यहम् ।
अनिष्टं जनतादत्तं लब्ध्वेष्टं प्रतिसन्ददे ।।७७।।
अलाभं प्राप्य लाभात्मं फलं प्रतिददाम्यहम् ।
स्वल्पं प्राप्य च बहुधा यथेष्टं प्रददाम्यहम् ।।७८।।
लक्ष्मीं ददामि विपुलां सम्पदश्चातिवर्चुलाः ।
शक्तीर्ददामि बहुधा जयं ददामि नित्यदा ।।७९।।
मदीयं यद्भवेत् सर्वं सर्वं तस्मै ददाम्यहम् ।
यो मह्यं प्राऽर्पयेत् सर्वं मम भूत्वा च वर्तते ।।3.178.८०।।
लक्ष्मीत्येवं समर्थोऽस्मि सर्वं दातुमनन्तकम् ।
भिक्षुकाश्चेन्मदर्थं वै भिक्षयन्त्यर्पयन्ति च ।।८ १ ।।
ततश्च भुञ्जते तेभ्यः फलं ददाम्यनन्तकम् ।
बहवो नाम राजानो विप्राश्चर्षय इत्यमी ।।८२।।
तपसोऽन्ते तु भिक्षयामासुर्मामेव पुत्रकम् ।
पुत्रोऽभवं भिक्षुकाणां मुहुर्वै भिक्षितो मुधा ।।८३।।
गणेशोऽहं शंकरस्य हरिः कृष्णो वृषस्य च ।
अदितेर्वामनश्चापि कपिलः कर्दमस्य च ।।८४।।
वसुदेवस्य गोपालो नाभेः ऋषभ इत्यपि ।
कंभराया अनादिश्रीकृष्णनारायणोऽस्मि च ।।८५।।
दत्तोऽत्रेर्जमदग्नेश्च पर्शुरामस्तथाऽभवम् ।
रामः शतरथस्यापि कुमारो ब्रह्मणस्तथा ।।८६।।
एवमाद्यानि जन्मानि भिक्षारूपाणि तानि वै ।
भिक्षायां वर्तते सर्वं भिक्षायां चाहमित्यपि ।।८७।।
भिक्षुका मेऽतिवात्सल्यपात्राणि मम रूपिणः ।
भिक्षायां भृगुणा दत्ता भार्गवी त्वं परेश्वरी ।।८८।
पद्माऽपि भिक्षया लब्धा नारायणो तथैव च ।
दुःखहाश्रीस्तथा लब्धा लक्ष्मीश्च माणिकी तथा ।।८९ ।।
प्रज्ञा पद्मावती लब्धा भिक्षाया कमला रमा ।
पठनाच्छ्रवणादस्य भोगवान् मोक्षवान् भवेत् ।। 3.178.९० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने भिक्षायनर्षेः अयाचिताञ्जलिनामभार्याया गार्हस्थ्येऽपि श्रीहर्यर्पणक्रियादिभिर्मुक्तिर्भिक्षामहिमा चेत्यादिनिरूपणनामा अष्टसप्तत्यधिकशततमोऽध्यायः ।। १७८ ।।