लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १८६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८५ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १८६
[[लेखकः :|]]
अध्यायः १८७ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कथां भक्तस्य पावनीम् ।
वैराढ्यग्रामवासस्य नाम्ना बाणांगणस्य तु ।। १ ।।
बाणांगणोऽभवच्छूद्रो ह्यसच्छूद्रो ध्वजीश्वरः ।
मद्यं करोति वृक्षाणां रसानां बहुधा स हि ।। २ ।।
वंशपरम्पराप्राप्तं कुरुते कर्म नित्यदा ।
विक्रयं च क्रयं कृत्वा कुटुम्बं निर्वहत्यपि ।। ३ ।।
अथैकदा ययौ सार्थसंघातं प्राप्य रैवतम् ।
तीर्थं कर्तुं तथा कर्तुं विक्रयं च प्रदक्षिणम् ।। ४ ।।
सहस्रशो जना यान्ति कार्तिके रेवताचलम् ।
सौराष्ट्रे वामने तीर्थे नारायणह्रदे तथा ।। ५ ।।
रेवतीकुण्डके चापि भवेश्वरे मृगीस्थले ।
दामोदरे नारसिंहे स्वयंभूपरमेष्ठिनि ।। ६ ।।
राधालये स्वर्णरेखानद्यां श्रीहनुमत्स्थले ।
गंगायां चापि चाऽम्बायां दत्तपादे वने वने ।। ७ ।।
सीतावने रामवने पूर्वजाम्बूवने तथा ।
बोरियाद्रोणिकास्थल्यां काष्ठहारिवने तथा ।। ८ ।।
देवसरोवरे चाम्रवणे भवेश्वरे पुनः ।
कुमुदाचलमावृत्य प्रदक्षिणं दधत्यपि ।। ९ ।।
बाणांगणोऽपि मद्यानि विक्रेतुं शकटान्वितः ।
अयुताऽयुतसंख्याकैर्मानवैः सह याति ह ।। 3.186.१० ।।
तामसा ये रुद्रभक्ताः शाक्ता वा भैरवाश्रिताः ।
मद्यं पिबन्ति बहुधा तीर्थं कुर्वन्ति कार्तिके ।। ११ ।।
साध्व्यश्च साधवश्चापि गृहस्था यतिनोऽपि च ।
वैष्णवा अपि तीर्थार्थं यान्ति प्रदक्षिणं तदा ।। १ २।।
ऋषयः साधवः सत्यः कथाश्च विविधाः शुभाः ।
लक्ष्म्या नारायणस्यापि सत्याश्च शंकरस्य च ।। १ ३।।
सरस्वत्या वेधसश्च गायत्र्या रैवतस्य च ।
रेवत्या वामनस्यापि सतीनां च सतामपि ।। १४।।
द्विजाश्च पण्डिताश्चापि कुर्वन्ति च स्थले स्थले ।
पण्डिताश्चापि विद्वांसो वृद्धाश्च योगिनस्तथा ।। १५।।
योगिन्यो मातरश्चापि गायन्ति कीर्तनानि च ।
बाणांगणो दिव्यदृष्ट्या भक्त्या पानं ददाति च ।। १ ६।।
ये त्वायान्ति निजाऽनसः समीपे भिक्षुका जनाः ।
तेभ्यो ददाति पानानि पुण्यदृष्ट्या च सेवया ।। १७।।
अथ रात्रौ तथा प्रातः शृणोति कीर्तनानि च ।
भजनानि विविधानि दिव्यानि मोक्षदानि च ।। १८।।
कथायां तत्र वैष्णव्यां शुश्राव विष्णुकीर्तिताम् ।
वाणीं धर्मात्मिकां लक्ष्मि भक्त्यन्वितां हितावहाम् ।। १ ९।।
तीर्थं सदा प्रकर्तव्यं संसारं तर्तुमिच्छुकैः ।
तीर्थं द्वेधा भवत्येव पृथ्व्यां द्वयं हि लभ्यते ।।3.186.२०।।
स्थावरं जङ्गमं चेति तीर्थद्वयं भुवि स्थितम् ।
स्थावरं जलतीर्थादि पर्वतादि च मन्दिरम् ।।२१ ।।
अर्चा वनान्यरण्यानि वृक्षाश्चैत्याश्च भूमिकाः ।
जन्मस्थानानि देवानां सतां जन्मादिभूमयः ।।२२।।।
तपःस्थानानि विप्राणां रजांसि गोस्थलानि च ।
तीर्थान्येतानि सर्वाणि स्थावराणि भवन्ति हि ।।२३।।
तेषु गत्वा स्नानपानावगाहनविलोकनैः ।
तरन्ति मानवाः शुद्धभावाः स्थावरसेविनः ।।२४।।
स्थावरेभ्यः प्रथमं वै पापानि प्रज्वलन्ति हि ।
ततः पुण्योदयश्चापि ततो भक्तिरुदेति च ।।२५।।
भक्त्या च देवतातुष्टिस्तुष्ट्या देवादिदर्शनम् ।
साक्षाद् दिव्यं जायते वै दिव्यता च ततो भवेत् ।।२६।।
दिव्यभावनया भक्तो वैराग्यं लभतेऽभितः ।
स्नेहं लभते चोत्कृष्टं परां भक्तिं प्रविन्दति ।।२७।।
पराभक्त्या भवेन्मोक्षः शनैः कालान्तरेऽपि च ।
तीव्रसंवेगिनो मोक्षः शीघ्रं स्थावरतोऽपि वै ।।२८।।
भवेत् क्वचित् कस्यचित्तु सर्वेषां नतु मोक्षणम् ।
तस्मात् स्थावरतीर्थानि न शीघ्रमोक्षदानि हि ।।२९।।
मन्दमध्यादिवेगानां श्रद्धामान्द्ये तु मन्दता ।
मोक्षेऽपि जायते लक्ष्मि चिरपावनलब्धितः ।।3.186.३०।।
ततः स्थावरतीर्थेभ्यो जंगमान्युत्तमानि वै ।
माताऽत्र जंगमं तीर्थं पिता तीर्थं च जंगमम् ।।३ १ ।।
पतिस्तीर्थं जंगमं च सतीतीर्थं च जंगमम् ।
ऋषितीर्थं जंगमं च साध्वीतीर्थं च जंगमम् ।।३२।।
साधुतीर्थं जंगमं च योगितीर्थं च जंगमम् ।
संघतीर्थं जंगमं च यात्रातीर्थं च जंगमम् ।।३३ ।।
भक्ततीर्थं जंगमं च तपस्वितीर्थमुत्तमम् ।
आत्मनिवेदिभक्तस्तु तीर्थं श्रेष्ठं हि जंगमम् ।।३४।।
हरेरंशा देवताश्च ब्रह्मविष्णुमहेश्वराः ।
सतीलक्ष्मीसरस्वत्यस्तीर्थानि जंगमानि हि ।।३५।।
योगिन्यः सांख्ययोगिन्यस्तीर्थानि जंगमानि च ।
कामदुघा धेनवश्च मानवा व्रतशीलिनः ।।३६।।
ब्रह्मचर्यपरा मांसमद्यदोषविवर्जिताः ।
धर्माढ्याश्च जना भक्तास्तीर्थानि जंगमानि वै ।।३७।।
पुनन्ति दर्शनादेते स्पर्शात्प्रसेवनात्तथा ।
येषु मद्यं तथा मांसं पापरूपं न विद्यते ।।३८।।
अहिंसाव्रतमास्थाय भजन्ते परमेश्वरम् ।
सत्यं व्रतं समास्थाय कुर्वन्ति कीर्तनं कथाः ।।३९।।
अस्तेयव्रतमास्थाय दानं कुर्वन्ति वस्तुनः ।
ब्रह्मचर्यं प्रपाल्यैव सेवन्ते गुरुसत्तमान् ।।3.186.४० ।।
दयां व्रतं समास्थायाऽनाथसेवां दधत्यपि ।
आचार्यसेवनं गुरोः सेवनं धर्मसंयुतम् ।।४१।।
सर्वार्पणात्मकं पुण्यं कुर्वन्ति धार्मिका जनाः ।
देहभावं विहायैव सेवन्ते ब्रह्मभावनाः ।।४२।।
आत्मभावेन सेवन्ते प्रभुभावेन वै तथा ।
मोक्षभावेन सेवन्ते मुक्तभावेन वै तथा ।।४३।।
एवं प्रसेवितं लक्ष्मि जंगमं तीर्थमुत्तमम् ।
आशु धुनोति पापानि मोक्षमाशु ददात्यपि ।।४४।।
दृष्टाः स्पृष्टा नताश्चापि पूजिता भोजितास्तथा ।
पायिता वाहिताश्चापि सम्मर्दिताश्च चर्चिताः ।।४५।।
प्रसादिताश्चाम्बरिताः शृंगारिताश्च साधवः ।
रमिताश्चानन्दिताश्च हासिताः कीर्तितास्तथा ।।४६।।
आर्पिता आदिताश्चापि संवाहिताश्च शायिताः ।
भूषिता वन्दिताश्चापि सेविता धारिता हृदि ।।४७।।
सम्बन्धिताः संसर्गिता आश्लिष्टा निजवक्षसि ।
नीराजिता हारिताश्च सुगन्धिता द्रवादिभिः ।।४८।।
स्नापिताः स्नेहिताश्चापि पुनन्त्याशु हि साधवः ।
वासिता क्षमिताश्चापि स्मृता आचामिता ह्यपि ।।४९।।
धूपिता दीपिताश्चापि कुंकुमिताश्च चन्द्रिताः ।
प्रदक्षिणीकृताश्चापि दण्डवत्प्रणतास्तथा ।।3.186.५०।।
हृदये स्वे धृताश्चापि पुनन्त्याशु हि साधवः ।
साधुतीर्थं परं तीर्थं साक्षान्नारायणात्मकम् ।।५१।।
अग्नितीर्थं पावनं वै सूर्यतीर्थं तथाविधम् ।
साधुतीर्थ पावनानां पावनं पंक्तिपावनम् ।।५२।।
साधुप्रसादः पुण्याढ्यः सर्वपापविनाशकृत् ।
साघुस्पर्शो महादीक्षा सर्वपापप्रणाशिनी ।।५३।।
साधुदर्शनमेवापीन्द्रियपापप्रणाशकम् ।
साधूपदेशस्तीर्थं तु चात्मकल्मषनाशकम् ।।५४।।
साधुसंकल्प एवाऽऽस्ते हरेः संकल्प उत्तमः ।
साधूनां हृदये चाऽहं लक्ष्मि वसामि सर्वथा ।।५५।।
साधूनां चरणे सर्वतीर्थानि निवसन्ति वै ।
साधूनां जंघयोः सर्वपुण्यानि निवसन्ति च ।।५६।।
जान्वोस्तु वै सतां सर्वयज्ञा वसन्ति पुण्यदा ।
साधुसक्थ्नोः सर्वदेवा वसन्ति देविकास्तथा ।।५७।।
साधुगुप्ते चास्ति शीलं व्रतानि च तपांसि च ।
साधुकट्यां सिद्धयश्च वसन्ति सर्वसम्पदः ।।५८।।
साधूदरे सर्वर्षयो वसन्ति जठरेऽनलाः ।
साधोर्नाभौ निवसन्ति योगैश्वर्याणि सर्वथा ।।५९ ।।
साधोर्वक्षसि पितरो निवसन्ति सुधार्मिकाः ।
पार्श्वयोश्च सतां सर्वदानानि निवसन्ति वै ।।3.186.६०।।
कुक्ष्योः सतां निवसन्ति सागराः सर्व एव च ।
साधोर्नितम्बयोः सर्वधिष्ण्यानि निवसन्ति ह ।।६ १ ।।
साधोः पृष्ठे मेरुशैलः सर्वाश्रयो वसत्यपि ।
साधोस्तु स्कन्धयोः सर्वबलानि निवसन्त्यपि ।।६२।।
साधोः कण्ठे ब्रह्मधाम वसत्यपि परात्परम् ।
बाह्वोः सतां महेन्द्राद्या दिक्पाला निवसन्ति वै ।।६३।।
साधोः कफोणिकयोस्तु व्यूहा वसन्ति नित्यशः ।
साधोस्तु करयोर्लक्ष्मि श्रियः सर्वा वसन्ति च ।।६४।।
साधोर्हस्ततलयोस्तु भुक्तिर्मुक्तिश्च वर्ततः ।
साधोरङ्गुलिकासङ्घे चन्द्रसूर्यादयो ग्रहाः ।।६५।।
साघोर्नाडीसु सर्वासु नद्यः सर्वा वसन्ति च ।
साधोः रोमसु सर्वेषु वसन्ति कल्पपादपाः ।।६६।।
साधोर्ग्रीवापृष्ठभागे महारुद्रो विराजते ।
साधार्मले महामाया साधोर्वीर्ये हिरण्मयः ।।६७।।
पुरुषो राजते लक्ष्मि मायापाशविवर्जितः ।
साधोस्तु कर्मणोर्लक्ष्मि चिदाकाशो विराजते ।।६८।।
साधोश्चिबुके कमला राजते स्मृद्धिदायिनी ।
साधोरोष्ठे दिव्यविभूतयो वसन्ति सर्वदा ।।६९।।
साधोर्मुखेऽहमस्म्येव सर्वकार्यप्रवर्तकः ।
जिह्वायां तु सतां सर्वे वेदा वसन्ति मद्गिरः ।।3.186.७०।।
नासिकायां सतां भूमा वैराजश्च विराजतः ।
कपोलयोः सतां वैकुण्ठश्च गोलोक इत्युभौ ।।७१ ।।
गण्डयोश्च सतां महापुरुषश्च सदाशिवः ।
भ्रुकुटौ तु महाकालः संकर्षणो विराजते ।।७२।।
नेत्रयोर्ब्रह्मविद्या च साक्षात्कारोऽपि वर्ततः ।
ललाटे ब्रह्मतेजश्च सर्वधामानि सन्ति च ।।७३।।
मस्तके त्वक्षरं ब्रह्म ब्रह्मरन्ध्रे परः पुमान् ।
केशेषु सर्वमुक्ताश्च साधूनां निवसन्ति हि ।।७४।।
इच्छायां शक्तयः सर्वा मानसे ईश्वराः सताम् ।
बुद्धावुपासना चास्ते चित्ते ब्रह्मप्रियाः सताम् ।।७५।।
साधौ श्रीभगवान्नास्ते निर्वाणः साधुसंगतौ ।
साधोः प्रसन्नतायां वै सर्वस्वर्गाणि सन्ति हि ।।७६।।
साधोः शयने प्रलयाः प्रबोधने तु सृष्टयः ।
समाधयः सुषुप्तौ तु ध्याने ब्रह्मपदं सताम् ।।७७।।
विवेके चोपनिषदो मालिकायां सुदर्शनम् ।
ब्रह्मशस्त्रं तु विज्ञाने नारायणास्त्रमात्मनि ।।७८।।
सर्वाऽस्थिष्वमृतह्रदा विराजन्ते सतां सदा ।
साधोर्मूर्तौ दिव्यभावाः कल्पलतास्तु पत्तले ।।७९।।
वक्षोर्मध्ये धर्मवंशः पन्थानौ स्तनयोरुभौ ।
आसने तु सतां सर्वदेवतानां तु पीठिकाः ।।3.186.८०।।
क्रियायां सर्वदेव्यश्च वसन्ति हि सतां सदा ।
भजने च सतां तत्र हरेस्तोषो हि वर्तते ।।८१।।
इत्येवं वै कथां रम्यां शुश्राव स ध्वजीश्वरः ।
मद्यविक्रयपापं च ज्ञातवान् शास्त्रवाक्यतः ।।८२।।
सोऽयं शुशोच हृदये मद्यविक्रयणं मया ।
त्यक्तव्यं सर्वदा चान्योद्यमो ग्राह्यो विकल्मषः ।।८३।।
कुलालस्य यथा मद्यं तथा मृत्पात्रघट्टना ।
कार्यं संविद्यते तस्मात् त्याज्यं पापं तु मद्यकम् ।।८४।।
विचार्येत्थं सन्तदासं साधुं भक्तिपरायणम् ।
नारायणह्रदे स्नात्वा प्रार्थयामास मद्यपः ।।८५।।
साधो कुलालकर्माऽस्मि मद्यपो मद्यकारकः ।
अद्य श्रुत्वा कथां स्नात्वा नारायणह्रदे त्वहम् ।।८६।।
भवच्छरणमापन्नः शुद्धं कुरु धुनोत्वघम् ।
श्रुत्वैवं सन्तदासस्तु ददौ वै वैष्णवं जलम् ।।८७।।
प्रसादं प्रददौ चापि ब्रह्मकूर्चव्रतं ददौ ।
ददौ मन्त्रं वैष्णवं च मालां च तौलसीं ददौ ।।८८।।
सकुटुम्बस्य तु बाणांगणाय शरणार्थिने ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।८९।।
 'हरे कृष्ण हरे विष्णो बालकृष्ण नमोऽस्तु ते' ।
इतिकीर्तनमन्त्रं च ददौ चक्रे सुवैष्णवम् ।।3.186.९० ।।
आशीर्वादं ददावस्मै गुरुर्हरिर्मिलिष्यति ।
आशीर्वादं परं प्राप्य बाणांगणो निजालयम् ।।९१ ।।
प्रययौ चापि तत्याज मद्यस्य व्यवसायकम् ।
मृत्तिकापात्रनिर्माणव्यवसायं चकार ह ।।९२।।
भेजे मां परमात्मानं नित्यं करोति कीर्तनम् ।
कुटुम्बसहितस्तस्य स्नेहिभक्तस्य वै मया ।।९३।।
भक्तिर्दृष्टा परा शुद्धिसहिता नित्यमेव हि ।
भजते मां मे निवेद्य भुंक्ते पाति युनक्ति च ।।९४।।
चातुर्मास्यव्रतं चक्रे सकुटुम्बः फलादिभुक् ।
कार्तिके पूजनं चोद्यापनं चक्रे यथाव्रतम् ।।९५।।
एकादश्यां च वै रात्रौ चक्रे जागरणं ततः ।
द्वादश्यां प्रातरेवाऽहं प्रसन्नोऽस्मै स्वदर्शनम् ।।९६।।
ददौ लक्ष्मि श्रिया युक्तः शंखचक्रगदाधरः ।
वीक्ष्य मां दण्डवच्चक्रे पुपूज परमादरात् ।।९७।।
कुटुम्बसहितो मे च शरणं पतितो मुहुः ।
प्रार्थयामास च तदा समुद्धर भवार्णवात् ।।९८।।
हरे कृष्ण बालकृष्ण समुद्धर भवार्णवात् ।
अथाऽहं मे चरणस्य वारि पाने ददौ तदा ।।९९।।
पपौ कुटुम्बसहितः पुण्यात्मा ह्यभवत्तदा ।
निवृत्तबन्धनस्तूर्णं मुक्त्यर्थं नद्धमानसः ।। 3.186.१० ०।।
त्वरितोऽभूत्तदा लक्ष्मि देहमत्याजयं त्वहम् ।
विमानवरमेवैनमध्यारोहयमाश्रितम् ।। १० १।।
अप्रेषयं मम धामाऽक्षरं तं पार्षदैः सह ।
अथाऽस्याऽपि कुटुम्बं वै यथाऽऽयुष्यक्षयागते ।। १ ०२।।
अनयं क्रमशो धामाऽक्षरं मे सद्वचःस्थितः ।
एवं भक्तस्य तस्यैव सतां योगेन कल्मषम् ।।१ ०३।।
प्रज्वाल्य सर्वमेवाऽस्मै ददौ धामाऽक्षरं मम ।
बाणांगणो ययौ मोक्षं कुटुम्बं चोत्तरोत्तरम् ।। १ ०४।।
मोक्षं ययौ वैष्णवं तद् भूत्वा पावनमक्षरम् ।
पठनाच्छ्रवणाच्चास्य स्मरणान्मोक्षणं भवेत् ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने बाणांगणाख्यस्य मद्यविक्रेतुः साधुसमागमेन भगवता मोक्षः कृतः साधोः मूर्तेर्विभूतयश्चेत्यादिनिरूपणनामा षडशीत्यधिकशततमोऽध्यायः ।। १८६ ।।