लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १७५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १७५
[[लेखकः :|]]
अध्यायः १७६ →

श्रीपुरुषोत्तम उवाच--
इत्येवं पद्मजे पत्नीं श्रतिफलां पतिः स्वयम् ।
सद्विद्यायनसंज्ञो वै प्राह मुक्तिवृषान् बहून् ।। १ ।।
प्राहैवं चापि संसारवारिधिं गाधतोज्झितम् ।
इन्द्रियझषसंजीवं तरंगान्तर्विलोलितम् ।। २ ।।
भूतनौकाकृतमार्गं विषयाऽऽशानुसन्धितम् ।
तन्मात्राहारमत्स्याढ्यं शोकहर्षादिमारुतम् ।। ३ ।।
कामक्रोधादिमकरं मोहभ्रमादिदिग्भ्रमम् ।
रागद्वेषादिकावर्त्तं वासनाजलशैत्यदम् ।। ४ ।।
अपारं पुण्यपापादिकर्माख्यतरणान्वितम् ।
समतीत्य हरेर्योगात् प्रविष्टोऽस्म्यपरां स्थलीम् ।। ५ ।।
दिव्यां दिव्यगुणोपेतां दिव्यगोमद्विराजिताम् ।
शाश्वतीं स्वर्णवर्णां वै निर्भयां निगमोचिताम् ।। ६ ।।
सुखमय्यो यत्र नद्यो यत्राऽऽनन्दभृतो द्रुमाः ।
प्रमोदकल्पलतिका यत्र स्नेहरसालयाः ।। ७ ।।
यत्रोत्सवाः स्वामिना वै सर्वसद्गुणशालिना ।
नित्ययौवनसौन्दर्यवात्सल्यप्रेमशालिना ।। ८ ।।
नास्ति तस्मात् सुखदोऽन्यो नास्त्यन्यत्र सुखं त्विदम् ।
न तं सम्प्राप्य शोकोऽस्ति न दुःखं न भयं तथा ।। ९ ।।
न तत्राऽनित्यबीजं वै न त्रिशाखोऽस्ति तत्र ह ।
न सप्ताप्युपशाखाश्च नाऽन्तशाखाश्च षोडश ।। 3.175.१० ।।
नाऽत्र जटिलाः ऋषयो मानसाह्वानयोगिनः ।
न वंशस्तम्बवाट्यश्च न गोत्रोच्छ्रयभूतलम् ।।१ १।।
न कण्टकास्तीक्ष्णधाराः कंकरा न च तत्र वै ।
नाऽतपः सौरमूलोत्थो न शैत्यं चन्द्रिकाकृतम् ।। १२।।
न धूमश्चापि वाह्नेयो न छायापि वितानजा ।
न मेघास्तत्र मेहाश्च पञ्चाग्नयो न सन्ति च ।। १ ३।।
न रंगाः संगमिश्रोत्था न च शृंगारराशिनः ।
न तत्र पाशवं क्षेत्रं पाशास्तत्र न रोधिनः ।। १४।।
पद्मरागादिमणयो न च तत्र भवन्ति हि ।
पञ्चरंगाणि पुष्पाणि त्रिरसानि फलानि च ।। १५।।
न तत्र सन्ति वृक्षाश्च पादपाः सन्ति तत्र ते ।
पद्मरागा मधुरसा हंसा वसन्ति तत्र ह ।। १६।।
मौक्तिकाहारतृप्तास्ते सोऽहं सोऽहं प्रवादिनः ।
अनावृताः प्रभास्तत्र भवन्ति सीमवर्जिताः ।। १७।।
भूरिशृंगास्तत्र गावो भवन्ति कामपूरिताः ।
नारायण्यो महासत्यो भवन्ति तापहारिकाः ।। १८।।
कृष्णदेवा अतिथयो भवन्ति व्योमवासिनः ।
दीक्षिताश्चेक्षिताश्चापि स्वामिना नित्यदर्शिना ।। १९।।
नित्योत्सवाः सखीनां वै तत्र भवन्ति शाश्वताः ।
इष्टपतिप्रयोगेषु विलासास्तृप्तिवर्जिताः ।।3.175.२०।।
अकम्पां चाऽविकारां चाऽक्षरीं स्थलीं परात्पराम् ।
प्रपन्नोऽस्मीति सद्विद्यायनः श्रुतिफलां जगौ ।।२१ ।।
हा३उ हा३उ प्रफुल्लितः स्मरन् शुभस्थलीम् ।
जगौ पुनःपुनः प्राह स्थलीं श्रुतिफलां स्मरन् ।।२२।।
ननर्त चापि तालेन वदन्नुपदिशन्नपि ।
आर्द्रभावं प्राप चापि श्रुतिफलान्तिके तदा ।।२३।।
स्वस्थो भूत्वा पुनः प्राह धन्या त्वं परमेश्वरी ।
योऽहं सा त्वं सोऽहं स त्वं ह्ययमात्मा परेश्वरः ।।२४।।।
येऽधिगच्छन्ति सन्तस्तं तेषां नास्ति भयं क्वचित् ।
ऊर्ध्वं चाऽधश्च तिर्यक् च स्थल्या नान्तोऽधिगम्यते ।।।२५।।।
हरेः पादपारण्यानि सन्ति दिव्यानि तत्र वै ।
यत्र त्रिमुखी प्रमदा ह्यवाङ्मुखी न रोहति ।।२६।।
गिरयाः पर्वतानाश्च सन्तो वसन्ति तत्र ह ।
स्नान्ति ब्रह्मवहानद्यां संगमे पारमेश्वरे ।।२७।।
स्नानतृप्ताः कृशाशाश्च सुव्रता देवभासुराः ।
आत्मन्यात्मानमाविश्य परात्मानमुपासते ।।।२८।।।
विहरन्ति रमन्तेऽत्र पादपारण्यवेदिनः ।
एतादृशं पदारण्यं ब्रह्मिष्ठा विविदुः परम् ।।२९।।।
प्राप्तोऽहं मम योगेन त्वं प्राप्ता श्रुतिसत्फले ।
विद्यायनं परब्रह्म प्राप्तोऽस्मि निर्भयोऽस्मि च ।।3.175.३० ।।
रूक्षं गन्धं न गृह्णामि रूक्षं रसं न वेद्मि च ।
रूक्षं रूपं न पश्यामि ब्रह्मानन्दपरिप्लुतः ।।३ १ ।।
रूक्षं स्पर्शं न स्पृशामि रूक्षं शब्दं शृणोमि न ।
रूक्षं न संकल्पयामि ब्रह्मानन्दपरिप्लुतः ।।३२।।
कामये नाऽप्यनिष्टं च द्वेष्यं तत्र न विद्यते ।
ब्रह्मजाले निवसामि ब्रह्मानन्दपरिप्लुतः ।।३३।।
ब्रह्मयज्ञे जुहोम्येव परमेशे समस्तकम् ।
पार्थिवं वा जलीयं वा ब्रह्मानन्दपरिप्लुतः ।।३४।।
तैजसं वायवीयं वा गगनीयं गुणादिकम् ।
सौक्ष्म्यं वा चान्तरं वापि कर्म वा संविदं च वा ।।।३५।।
स्वभावं वा कृत्रिमं वा जडं वा चेतनं च वा ।
चैतन्यं वा जुहोम्येव ब्रह्मानन्दपरिप्लुतः ।।३६।।
क्षरं स्वभावं हुत्वैवाऽक्षरभावेन चाऽच्युते ।
जुहोमि मां विमुक्तोऽस्मि ब्रह्मानन्दपरिप्लुतः ।।३७।।
समस्य सर्वभूतेषु निर्मायस्य जितात्मनः ।
समन्तात्परिमुक्तस्य भयं मे विद्यते न वै ।।३८।।
सद्भिरेव हि संवासो मुक्तैरेव समागमः ।
भक्तैस्तादात्म्यभावश्च श्रीहरौ चाऽप्यभिन्नता ।।३९।।
एवं लब्ध्वा परान् लाभान् प्रमोदमेमि सर्वथा ।
श्रुतिफले फलं मिष्टं स्वादे सद्विद्ययाऽऽप्लुतः ।।3.175.४०।।
एवं पत्नीं ब्रह्मरूपामुपदेशेन सर्वथा ।
लक्ष्मि चक्रे श्रुतिफलां सद्विद्यायन एव ह ।।४१ ।।
अथैकदाऽलर्कनामा महाभागवतो नृपः ।
मदालसायाः पुत्रो वै जित्वा वै सकलां महीम् ।।।४२।।
वृक्षाऽधोभूतले स्थित्वा शान्त्यर्थं स मनो दधे ।
चिन्तयामास शान्त्यर्थं जिता वै सकला मही ।।४३।।
निषितैर्मार्गणैः शस्त्रैस्तथापि शान्तिरेव न ।
मनो वै चपलं दुष्टं तज्जित्वा शान्तिमुत्तमाम् ।।४४।।
प्राप्स्यामीति शरैस्तीक्ष्णैरेषः छिनद्मि मानसम् ।
इन्द्रियाणि करणानि छिनद्मि मार्गणैरिह ।।४५।।
विचार्येत्थं सूक्ष्मसूक्ष्मान् बाणान् धनुषि सन्दधे ।
मनः समूर्तं भूत्वाऽथ तदग्रे समुपस्थितम् ।।४६।।
बाणानामविषयं तत् प्राहाऽलर्कं तु पद्मजे ।
नेमे बाणा हनिष्यन्ति मामलर्क निरावरम् ।।४७।।
निष्फलास्ते परावृत्त्य भेत्स्यन्ति त्वां मरिष्यसि ।
अन्यान् बाणान् प्रमुञ्चस्व यैरहं स्यां निषूदितम् ।।४८।।
श्रुत्वाऽलर्कः प्रत्युवाच मनस्त्वं घ्राणसंयुतम् ।
बहून् गन्धान् प्रगृह्णासि तत्सहायं तु जीवसि ।।४९।।
ततः घ्राणं हनिष्यामि तीक्ष्णबाणैश्च ते मृतिः ।
घ्राणं श्रुत्वा तदाऽलर्कं प्रत्युवाच हि निर्भयम् ।।।५०।।
नेमे बाणास्तव राजन् मां हनिष्यन्त्यगोचरम् ।
प्रत्यावृत्य तव मर्म भेत्स्यन्ति त्वं मरिष्यसि ।।५१ ।।
अन्यान् बाणान् प्रमुञ्चस्व यैस्त्वं मां सूदयिष्यसि ।
श्रुत्वाऽलर्कस्ततः प्राह जिह्वेयं हि सहायदा ।।५२।।
मनसः प्रियसत्कर्त्री रसदानेन सर्वदा ।
तथेयं त्वक् प्रियकर्त्री स्पर्शदानेन वै सदा ।।५३।।
तथेदं श्रवणं चास्मै शब्दार्जनसहायदम् ।
तथेदं नेत्रमेवाऽपि रूपार्जनसहायकृत् ।।।९४।।।
तथैवेमानि सर्वाणि लिंगादीन्यपराणि च ।
इन्द्रियाणि मनसो वै साहाय्यकानि सन्ति हि ।।५५।।।
इयं बुद्धिर्मनो दत्तं गृह्णाति चौर्यकर्मिणी ।
अहंकारोऽपि तेष्वत्र मिलितोऽश्नाति गर्ववान् ।।५६।।
तानेतान् सर्वथा सूक्ष्मैर्हनिष्यामि प्रसायकैः ।
श्रुत्वैवं सर्वसहिता बुद्धिरलर्कमाह यत् ।।५७।।
नैते बाणास्तवाऽलर्क स्पृक्ष्यन्त्यपि च नः क्वचित् ।
स्थूला ह्येते वयं सूक्ष्मा न स्पर्शो न मृतेः कथा ।।५८।।
विफलाश्च विवृत्तास्ते त्वां हनिष्यन्ति रोषिणः ।
मुमोचाऽपि तदा बाणान् प्रत्यावृत्ताश्च तेऽफलाः ।।५९।।
अलर्कं तु प्रजघ्नुस्तेऽलर्को मूर्छां जगाम ह ।
सस्मार श्रीहरिं मां स दत्तात्रेयस्वरूपिणम् ।।3.175.६०।।
आविर्भूय मया तस्मै जीवनं दत्तमेव ह ।
बाणा निष्कासिता देहात् समुत्थितोऽभवद्धि सः ।।६१ ।।
ददौ बाणानहं तस्मै चैकाग्र्यबलरूपिणः ।
द्रष्टृदृश्याद्यनारक्तान् स्वरूपमात्रनिष्ठितान् ।।६२।।
योगबाणान्मम मन्त्रैर्युतान् ब्रह्मास्त्रयोजितान् ।
मुक्तास्त्रप्लावितान् सूक्ष्मानान्तरान् सोऽपि तान् शितान् ।।६३ ।।
प्राप्यात्मना मुमोचाऽऽशु सर्वेन्द्रियादिकान् प्रति ।
निजघ्नुस्ते द्रुतं सर्वान् केचित् पलायिता ह्यपि ।।६४।।
तान् पुनः पाशबद्धाँश्च कृत्वा समाधिरश्मिभिः ।
ब्रह्मह्रदे निचिक्षेप ते च तत्र लयं ययुः ।।६५।।
अथ दिव्यानि भूत्वैवाऽलर्कं मुक्तं सिषेविरे ।
ततो दिव्यस्वरूपः सन् सिद्धिं परमिकां गतः ।।६६।।
मात्रा साकं भ्रातृभिश्च सह मोक्षं जगाम ह ।
वदन्नेवं ह्युपदेशं शृणु लक्ष्मि विवेकदम् ।।६७।।
अहो सर्वमध्रुवं वै बाह्यं बाणैर्विनिर्जितम् ।
दैह्यमनुष्ठितं सर्वमद्यावधि न चान्तरम् ।।६८।।
सद्गुरोः कृपया त्वद्य जितानि दोषवन्ति तु ।
इन्द्रियादीनि सर्वाणि गुणवन्ति तु वै पृथक् ।।६९।।
ब्रह्मह्रदे विनिक्षिप्य दिव्यतां प्रापितानि ह ।
तथा दिव्यस्वरूपोऽहं भूत्वा भजामि केशवम् ।।3.175.७०।।
सर्वार्पणं विना नास्ति चान्यत्र वै सुखं क्वचित् ।
कृष्णे स्वात्मार्पणं श्रेष्ठं शाश्वतं सुखमाप्यते ।।७१ ।।
शाश्वतो विजयश्चापि मायाकृते रणे भवेत् ।
अनादिश्रीकृष्णनारायणे योगनिषेवया ।। ७२।
एवं लक्ष्मि नृपोऽलर्कः शान्तिं जगाम शाश्वतीम् ।
श्रुतिफलाऽपि शान्तिं वै जगाम पतिसेवया ।।७३ ।।
शृणु लक्ष्मि त्रिशत्रून् वै त्रिगुणान् सर्वतः स्थितान् ।
सत्त्वं रजस्तमश्चेति मायाप्रेरितबन्धदान् ।।७४।।
त्रयस्ते रिपवो लोके त्रिरावृत्ता नवाऽपि ते ।
प्रहर्षः प्रीतिरानन्दस्त्रप्रयस्ते सत्त्वबालकाः ।।७५।।।
तृष्णा क्रोधो द्वेषवेशस्त्रयस्ते तु रजोद्भवाः ।
श्रमस्तन्द्रा च मोहश्च त्रयस्ते तु तमोभवाः ।।७६।।
नवैते शत्रवो देहे चेतनं रोधयन्ति हि ।
स्वस्वभावेषु नित्यं वै केवलं कुर्वते न तम् ।।७७।।
कैवल्यगोष्ठी पुरुषो यदा तान् जेतुमिच्छति ।
पुरं हातुमुत्सहते तदा तानर्पयेन्मयि ।।७८।।
त एव विजिता यावत्तावन्मुक्तः प्रजायते ।
लोभो नाम महान् दोषो यदि नैव जितो भवेत् ।।७९।।
अन्येषां विजये लक्ष्मि नैष्फल्यं तृष्णया भवेत्। ।
यत्प्रयुक्तो जनः क्वापिवै तृष्ण्यं नैव विन्दति ।।3.175.८०।।
तृष्णार्त्त इह निम्नानि धावमानः पतत्यपि ।
बुध्यते नाऽप्यकार्यं हि निम्नान्निम्नं प्रसेवते ।।८१ ।।
ततश्चिन्ता भयदा च राजसी च गतिस्ततः ।
तामसी च ततो भूयो जायते कर्म चेहते ।।८२।।
जन्मकर्मक्षये मृत्युः पुनर्जन्म पुनर्मृतिः ।
लोभजये तु वैतृष्ण्यं महासुखं हि शाश्वतम् ।।८३।।
साम्राज्यं चात्मनस्तत्तु ब्रह्मानन्दप्रदं ततः ।
महाराज्यं दिव्यराजं परब्रह्मप्रियात्मकम् ।।८४।।
राजा परेश्वरः कृष्णस्तद्राज्यं मम राज्यकम् ।
मनुते तु यथावद्वै राजा वाऽऽत्मा भवन् स्वयम् ।।८५।।
यदि चेत्परमात्मानं सत्यं नृपं विहाय वै ।
जीवो राजा भवत्येवं निर्मूलो भ्रामको हि सः ।।८६।।
किमत्र राज्यं जीवस्य पितृपैतामहागतम् ।
पृथ्वी वा पार्थिवं वर्ष्म कर्म वा धर्म एव वा ।।८७।।
यद्भोगस्तद्भवेद्राज्यं यत्सत्ता नृपतिः स वै ।
न राज्यं वै शरीरेऽस्ति न राज्यं मानसेऽपि च ।।८८।।
न राज्यं चेन्द्रियवर्गे न राज्यं विषयेष्वपि ।
सर्वाधीनो जीव एव जीवाधीनां न ते मताः ।।८९।।
कुतो राज्यं हि जीवस्य राजत्वं वा वृषेऽपि च ।
नैकान्ततो ह्यधीनास्ते जीवस्य सन्ति कर्हिचित्। ।।3.175.९ ० ।।
ततो राज्यं त्वनवाप्य त्यक्त्वा च विषयं मृषा ।
राजानं परमात्मानं समाश्रित्य सुखी भवेत् ।।९१।।
अन्तवत्यः सदाऽवस्थाः कर्मजन्या हि देहजा ।
भौतिक्यश्चापि तादृश्यस्तत्र राज्यं न चात्मनः ।।९२।।
ममेदमिति मन्वानो मृषा तदवलम्बते ।
अपृष्ट्वा तं यदा याति नाशं तदाऽवबुद्ध्यते ।।९ ३ ।।
न मे राज्यं न मे किञ्चिन्न मे देहः कुतोऽपरम् ।
एवं मत्वा दिव्यराज्यं चिनुयाज्ज्ञानवाञ्जनः ।।९४।।
न स्वार्थं गन्धमश्नीयाद्भूमिः सा वशमागता ।
न स्वार्थं रसमादद्यादापस्ता वशमागताः ।।९५।।
न स्वार्थं रूपमादद्यात्तेजस्तद् वशमागतम् ।
न स्वार्थं स्पर्शमादद्याद् वायुः स वशमागतः ।।९६।।
न स्वार्थं शब्दमादद्याद् व्योम तद् वशमागतम् ।
न स्वार्थं मननं कुर्वं मनो मे वशमागतम् ।।९७।।
न स्वार्थं मम यत्नोऽस्ति ह्यात्मा मे वशमागतः ।
देवार्थं चाप्यतिथ्यर्थं भूतार्थं च पित्रर्थकम् ।।९८।।
समारम्भा मम सर्वेऽर्पणं मोक्षार्थमित्यपि ।
ब्रह्मार्पणं मम सर्वं धर्मोऽपि मुक्तये मम ।।९९।।
एवं मत्वा जनो लक्ष्मि मुच्यते भवसागरात् ।
एवमुक्त्वा निजपत्न्यै सद्विद्यायननामकः ।।3.175.१ ०० ।।
पुनराह श्रुतिफले तथा वर्तामि सर्वदा ।
विप्रोऽस्मि चापि मुक्तोऽस्मि गृहस्थधर्मकोऽस्मि च ।। १०१ ।।
अनादिश्रीकृष्णनारायणपरायणोऽस्मि च ।
नाऽहमस्मि यथा मां त्वं पश्यसि कामनायुतम् ।। १ ०२।।
राज्यं श्रीकमलेशस्य सर्वं मयि त्वयि क्षितौ ।
तथाबुद्धिर्भवती च वेत्स्यतीदं न चान्यथा ।। १०३ ।।
धनं नारायणो मेऽस्ति तेनाऽहं धनवान् प्रिये ।
एकः पन्थाः परब्रह्म येन गच्छन्ति तद्विदः ।। १ ०४।।
गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ।
तथाऽन्येषु निवासेषु राज्यं श्रीपरमात्मनः ।। १०५।।
तत्र स्थित्वा विदायं च लब्ध्वा गन्तव्यमुत्तरम् ।
दिव्यस्थलं दिव्यधाम मध्ये नान्यस्थलाद् भयम् ।।१ ०६।।
श्रुतिफले प्रिये भार्ये ब्रह्मिष्ठे ब्रह्मवादिनि ।
सद्विद्यायनयोगेन परलोकभयं न ते ।।१ ०७।।
मद्भावभावनिरता ममैवात्मानमेष्यसि ।
अहमात्मा परात्मानं सम्प्राप्तोऽस्मि न संशयः ।।१०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मुक्तिधर्मे संसारवारिधितरणविज्ञानादिनिरूपणनामा पञ्चसप्तत्यधिकशततमोऽध्यायः ।। १७५ ।।