लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १७४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १७४
[[लेखकः :|]]
अध्यायः १७५ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं यथा देहं प्रपद्यते ।
केवलात्माऽपि कर्माढ्यः कथयामि यथातथम् ।। १ ।।
आत्माऽम्बरे कर्मभिः स्वैः सूक्ष्मेण सह वर्तते ।
संकल्पाज्जायते हर्षस्तेन कामे प्रवर्तते ।। २ ।।
शुक्रशोणितसंसृष्टस्ततः प्राणः प्रवर्तते ।
प्राणेन विधृते शुक्रे तत्राऽपानः प्रवर्तते ।। ३ ।।
अपानात् प्रेर्यते शुक्रं रजश्चाकर्षयत्यपि ।
समानस्तेन मिश्रे च जायते बीजताधरः ।। ४ ।।
उदानश्चोदरे गर्भं प्रति नयति मिश्रणम् ।
नालार्थं मिश्रणं स्थाने नाभौ योजयति ध्रुवम् ।। ५ ।।
व्यानश्च मिश्रणे तत्र व्याप्नोति पाकहेतवे ।
पक्वं चापत्यरूपं वै पुष्टं नालेन योषितः ।। ६ ।।
जन्म प्राप्य बहिर्याति षाट्कौशिकं हि तन्मतम् ।
मातृतो रोमलोहितमांसानि सन्ति तत्र ह ।। ७ ।।
पितृतः स्नाय्वस्थिमज्जा सन्ति तत्र बलान्विताः ।
एवंविधे भौतिकेऽत्र देहे माया निरुच्यते ।। ८ ।।
देहो मायाऽऽत्मनः प्रोक्ता निर्देहोऽमायिकः स तु ।
मां याति नित्यदा चेन्द्रियाद्यैरात्मा प्रपुष्टये ।। ९ ।।
अहं देहः पोष्यधर्मो मायारूपोऽस्मि तेन वै ।
मम देहस्य सत्त्वेन जीवात्माऽस्ति समश्नुते ।। 3.174.१ ०।।
तस्माद्देहः सदा माया सर्वविषयमोदिका ।
आत्मा स्वकर्मणा प्राणैर्देहबन्धं प्रपद्यते ।। ११ ।।
चतुर्होत्रं वर्ष्म चेतद्धोता बन्धनमृच्छति ।
करणं कर्म कर्ता च मुक्त एतच्चतुष्टयम् ।। १२।।
चत्वार एते होतारः प्रत्येकं सप्त सप्त वै ।
घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन इत्यपि ।।१ ३।।
बुद्धिश्चेतिकरणानि सप्तैते गुणहेतवः ।
गन्धो रसश्च रूपं च स्पर्शः शब्दश्च वै तथा ।। १४।।
मन्तव्यं चापि बोद्धव्यं कर्मैते कर्महेतवः ।
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता तथा ह्यपि ।।१५।।
मन्ता बोद्धा च कर्तारः सप्तैते कर्तृहेतवः ।
एवंविधा निजान् भावान् भक्षयन्ति च जुह्वति ।। १६।।
सप्तस्वेतेष्वसंगो यः सप्तधा मुक्त एव ह ।
कारणादिविहीनोऽहं कर्माऽलिप्तो भवाम्यहम् ।। १७।।
कर्तृत्वं मे न चैवाऽस्ति तस्मान्मुक्तः सदाऽस्म्यहम् ।
अहंममत्वहीनोऽहं मुक्तभावं भजाम्यहम् ।। १८।।
अन्यथा तु चतुर्होत्रो मायाबद्धो भवाम्यहम् ।
अदन्नन्नानि चाऽविद्वान् ममत्वेन विहन्यते ।। १ ९।।
देहार्थे भक्षयन्नन्नं पोषयन् ममतान्वितः ।
अनात्मभक्षणं कुर्वन्माययाऽयं विहन्यते ।।3.174.२० ।।
माया तृष्णा तृषारूपा विषयाणां विवर्धते ।
अपेयपानं कुर्वंश्च माययाऽयं विहन्यते ।।२१ ।।
अपेयं नाऽर्पितं देवे ह्यभक्ष्यं चाऽनिवेदितम् ।
यद्वाऽपेयं रस्यमेतद् दैह्यमैन्द्रियिकं जलम् ।।२२।।
अभक्ष्यं स्वादु चैतद्वै दैह्यं भौतिकमित्यपि ।
आत्मार्थे पाचयन्नाऽयं बध्यते न तु मुच्यते ।।२३।।
मनसा गम्यते सूक्ष्मं भक्ष्यं पेयं शुभाऽशुभम् ।
वाचा वा चक्षुषा चापि श्रोत्रेण च त्वचापि च ।।२४।।
जिह्वया गृह्यते यच्च घ्राणेन यत्तु गृह्यते ।
करेण पद्भ्यां लिंगेन पायुना यच्च गम्यते ।।२५।।
बुद्ध्या चित्तेन चाहंकारेण यद्बाह्यगोलकैः ।
गृह्यते भुज्यते व्यस्तैः समस्तैर्वाऽपि यद् यदा ।।२६।।
स्वप्ने जाग्रति चान्ते वा मध्ये चादौ च यद् यदा ।
सर्वं भक्ष्यं च पेयं च स्वार्थं मायामयं हि तत् ।।२७।।
पच्यमानं देहिनं वै हन्ति पाशकशादिभिः ।
तत्सर्वं त्यज्यते स्वार्थं विहाय परमात्मनि ।।२८।।
भक्ष्यं पेयं भवत्येव तदेव खलु निर्गुणम् ।
एवं निर्गुणयोगज्ञं ज्ञानवह्निः प्रवर्तते ।।।२९।।
सर्वभस्मकरश्चापि मायाबन्धननाशकः ।
हरेर्योगमखश्चापि सर्वस्वत्यागदक्षिणः ।।3.174.३ ०।।
सत्सेवाऽवभृथस्नानो मोक्षनद्यवगाहनः ।
न तस्य विद्यते चाऽयं संसारो भक्ष्यपानजः ।। ३१ ।।
सक्रियो वर्तमानोऽपि निष्क्रियः स तु पूरुषः ।
पुरुषोत्तमयोगेन कोटिमोक्षप्रदोऽत्र सः ।।३२।।
कामिन्या वर्तमानोऽपि कामनाऽस्य न मायिकी ।
पत्या च वर्तमानाया रतिर्नास्यास्तु मायिकी ।।३३ ।।
आत्मार्थं चापि कृष्णार्थं परव्रह्मार्थमेव ह ।
देहान्तरगमः स्वार्थः शुभाऽशुभप्रभोगकृत् ।।३४।।
कृष्णार्थः सर्वथा लक्ष्मि परब्रह्मालयप्रदः ।
स्वार्थे तृष्णामये जीवे सवासने सरागके ।।३५।।
कर्म तिष्ठति पूर्वार्ज्यं मदाश्रयेण नश्यति ।
मयि सर्वार्पणेनैव कर्मफलं विनश्यति ।।३६।।
साधूनां मम मूर्तेश्चाश्रयेण दिव्यता भवेत् ।
यथा यथा मम योगस्तथा तथा हि दिव्यता ।।३७।।
पुंयोगेन यथा पत्न्या दिव्यता लौकिकी शुभा ।
सूर्ययोगेनाऽम्बरस्य दिव्यता सुप्रभान्विता ।।३८।।
स्वर्णयोगेन ताम्राणां दिव्यता रमणीयता ।
गुणयोगेन लोकानां दिव्यता विद्यया कृता ।।३९।।
वेषयोगेन राज्ञां च दिव्यताऽलंकृतिकृता ।
स्वर्णयोगेन देवानां पुण्येन पितृवर्गिणाम् ।।3.174.४० ।।
ऐश्वर्येण तु सिद्धानां तपोभिश्च तपस्विनाम् ।
शिष्याणां दासवर्गाणां दिव्यता सेवया कृता ।।४१ ।।
गन्धर्वाणां गीतिकाभिः साधूनां त्वच्युताऽर्पणात् ।
दिव्यता तु सतीनां वै सत्येन च व्रतेन च ।।४२।।
ब्रह्मव्रतेन सर्वत्र दिव्यता ब्रह्मचारिणाम् ।
ईश्वराणां पदप्राप्त्या मुक्तानां मम योगतः ।।४३।।
दिव्यता सर्वदा चास्ते लक्ष्मीनां तु ममांऽगतः ।
मम सा दिव्यता लक्ष्मि शाश्वती स्वनिसर्गगा ।।४४।।
एतादृशं तु मां प्राप्य भक्तो मे दिव्यतान्वितः ।
शाश्वतीं दिव्यतां प्राप्य मोदते मम धामनि ।।४५।।
मायेन्द्रियाऽन्तःकरणभूतमात्रादयोऽस्य च ।
मम योगेन दिव्यास्ते ततो नारायणो ह्यहम् ।।४६।।
मम योगेन वै जीवा अनन्ताः शिवतां गताः ।
मद्योगेन नरा भक्त्या नारायणास्त्वसंख्यकाः ।।४७।।
जाताश्चापि च जायन्ते वैकुण्ठवासिनो हि ते ।
गोलोकवासिनश्चापि परधामनिवासिनः ।।४८।।
अक्षरे वासकर्तारस्तथाऽन्यधामवासिनः ।
ईशलोकनिवासाश्च मायालोकनिवासिनः ।।४९।।
विष्णुरूपा विष्णवश्च जायन्तेऽसंख्यकोटयः ।
ब्रह्माणश्चापि जायन्ते वैराजाश्चाप्यसंख्यकाः ।।3.174.५०।।
प्रधानपुरुषाश्चापि जायन्तेऽनन्तसंख्यकाः ।
मुक्ताश्चापि प्रजायन्तेऽनन्तसंख्या हि धामगाः ।।५१ ।।
गायन्त्यपि प्रमोदन्ते नृत्यन्ति हर्षिता हरौ ।
का तत्र तु कथा लक्ष्मि मायायाः स्पर्शलेशिका ।।५२-।।
मायाऽपि मोदते तत्र मामासाद्य महेश्वरी ।
आक्षरी परमा विद्या मायाऽपि परिवर्तते ।।९३।।
एवं दिव्यविधानं यो जानाति भक्तराड् यदि ।
अस्य योगः सदा दिव्यस्तत्र का परिदेवना ।।५४।।
एवं मम प्रतापेन योगात्मकेन दिव्यता ।
सर्वोत्कृष्टा भवत्येव नारायणपरायणा ।।५५।।
एकः शास्ता हृदयस्थः सोऽहं नारायणः परः ।
मया युक्तो मम भक्तो वहत्यथ करोति च ।।५६।।
एको गुरुर्हृदयस्थः सोऽहं कृष्णनरायणः ।
मयाऽनुशिक्षितो भक्तो वहत्यथ करोति च ।।५७।।
एको बन्धुर्हृदयस्थः श्रीपतिः पुरुषोत्तमः ।
तेन मयाऽनुशिष्टोऽयं वहत्यथ करोति च ।।५८।।
एकः स्वामी हृदयस्थोऽनादिकृष्णनरायणः ।
तेन मयाऽनुसंश्लिष्टो भक्तश्चानन्दमश्नुते ।।।५९।।
एकश्चान्तर्नियन्ताऽहं परमात्मा हृदि स्थितः ।
मया संप्रेरितश्चाऽयं प्रवर्तते करोति च ।।3.174.६० ।।
एकः श्रोता भक्षयिता बोद्धा मन्ताऽहमेव ह ।
घ्राता स्प्रष्टा तथा द्रष्टा रसयिताऽहमेव ह ।।६१ ।।
आनन्दयिता ग्रहिता गन्तोत्स्रष्टाऽहमेव च ।
मयाऽनुभुक्त एवाऽयं भुंक्ते वेत्ति प्रमोदते ।।६२।।
अहं गुरुः परब्रह्म मयि वासोऽस्य सर्वथा ।
गुर्वर्पणविधाताऽयं कर्मणा नहि लिप्यते ।।।६३।।
एवमस्य भवेदत्र जीवतो जीवमुक्तता ।
देहान्ते मम धाम्न्येव स्यादस्य नित्यमुक्तता ।।६४।।
अहं ददाम्यखण्डं मे धामाऽक्षरं सुखाश्रयम् ।
नित्यं चाऽस्य भवेत् सर्वसौख्याढ्याऽक्षरवासिता ।।६५।।
मम ध्यानेन मुक्तोऽयं मत्सारूप्यं प्रपद्यते ।
मदैश्वर्याणि सर्वाणि लभते मदनुग्रहात् ।।६६।।
एषा ब्राह्मी महाविद्या लक्ष्मि तेऽत्र निवेदिता ।
यां प्राप्यैव नरो नारी ब्रह्मरूपः प्रजायते ।।६७।।
एतदर्थं मया पूर्वं मम विद्याऽत्र गोलके ।
ओमित्येकाक्षरं ब्रह्म दकाराख्या प्रवर्तिता ।।६८।।
श्रेयःप्रदां च तां प्राप्याऽसुरदेवर्षिभोगिनः ।
प्राप्य ते प्राद्रवन् सर्वे यथास्वभावमादरात् ।।६९।।
नानाव्यवसिताः सर्वे सर्पदेवर्षिदानवाः ।
दकारं विविधं मत्वा यथास्वभावमास्थिताः ।।3.174.७०।।
सर्पाणां तु दकारेण दंशने भाव उद्गतः ।
प्रवृत्तस्त्वसुराणां वै दम्भभावः स्वभावजः ।।७१ ।।
देवानां तु तदा दाने भावनाऽभूत् स्वभावजा ।
महर्षीणां स्वभावात्तु दमेऽभूद् भावना तदा ।।७२।।
सतां तदनु भावस्तु दयाया समजायत ।
मानवानां दक्षिणायां ततो भावो व्यजायत ।।७३।।
नारीणां दर्शने भावो दकारेण व्यजायत ।
शृंगारमाचरन्त्येव सर्वाग्र्यं ताः स्वभावजम् ।।७४।।
राज्ञां तु दोहने भावः पृथ्व्या राष्ट्रस्य चाप्यभूत्। ।
रक्षसां चापि दैत्यानां दण्डे भावो व्यजायत ।।७५।।
गुरूणां तु दक्षभावे भावः स्वभावजोऽभवत् ।
कर्मिणां दैवभावे तु भाग्येऽभूद् व्यवसायिनाम् ।।७६।।
कृपणानां दैन्यभावो दकारेण स्वभावजः ।
ईश्वराणां दिव्यभावः स्वभावजस्ततोऽभवत् ।।७७।।
पिशाचानां तु दुर्गन्धे भावः स्वभावजोऽभवत् ।
कितवानां तु दुष्टत्वे भावः स्वभावजोऽभवत् ।।७८।।
आचार्याणां देशनायां भावः स्वभावजोऽभवत् ।
दानवानां दोर्बलत्वे दिग्जये भावनाऽभवत् ।।७९।।
गृहस्थानां दौर्हृदत्वे सुपुत्रे भावनाऽभवत् ।
पशूनां दन्तविषये भक्ष्ये सा भावनाऽभवत् ।।3.174.८० ।।
पितॄणां दर्शपर्वादिश्राद्धे भावस्ततोऽभवत् ।
प्रजानां देशवसतौ भावना दोत्थिताऽभवत् ।।८ १ ।।
एवं लक्ष्मि विविधा वै दब्रह्मभावनास्तदा ।
स्वभावजा हि सर्वेषामभवत् कर्मकारिणी ।।८२।।
केषामपि न त्वभूत्सा दिव्यमोक्षाभिगामिनी ।
ततो मया पुनर्ब्रह्म ह्युपदिष्टं 'स' इत्यपि ।।८३।।
सकारेण मुमुक्षूणां साधुसेवा स्वभावजा ।
गृहस्थानां साधुभावो मोक्षदश्चेत्यभूत्तदा ।।८४।।
सन्न्यासः सर्वकर्मादिधर्माणां च ततोऽभवत् ।
सत्यं व्रतं सत्यधर्मः सत्यलोकः सदात्मता ।।८५।।
सनातनत्वमेवाऽपि सच्चिदानन्दता तथा ।
सर्वात्मकत्वं साकारमूर्तित्वं सगुणत्वकम् ।।८६।।
सौभाग्यं सुमनस्कत्वं सतीत्वं समता तथा ।
समदर्शित्वमेवाऽपि सारग्राहित्वमित्यपि ।।८७।।
सिद्धिमत्त्वं स्रावशून्यब्रह्मचर्यव्रतं तथा ।
सुरेश्वरार्हणं सेवा श्रीहरेः सर्वदर्शिनः ।।८८।।
सोऽहं जपस्तथा सौरोपासना तु हिरण्मयी ।
सनातनार्षवृत्तिश्च सायुज्यं सार्ष्टिमित्यपि ।।८९।।
सालोक्यं चापि सारूप्यं सहभावोऽपि सर्वथा ।
स्वामिसेवकभावश्चेत्येवं धर्मान् सकारजान् ।।3.174.९०।।
जगृहुर्मानवा देवाः ऋषयः पितरोऽपि च ।
मुनयो भक्तजीवाश्च मोक्षमार्गं हि जगृहुः ।।९ १ ।।
श्रवणं सेवनं सर्वार्पणं समर्पणं व्यधुः ।
एवं गुरुं परब्रह्म मोक्षदं प्राप्यते ततः ।।९२।।
निजात्मानं ब्रह्मभावापन्नं मत्वा तु भेजिरे ।
परमेशं निजस्थं च समनुभूय भेजिरे ।।९३।।
एवं लक्ष्मि जीवलोको यथास्वभावमात्मनः ।
गुरोः सकाशाल्लब्ध्वाऽपि सन्तमसन्तमश्नुते ।।९४।।
शुभेन विचरन् लोकः शुभचारी प्रजायते ।
ब्रह्मचारी सदैवैषो य इन्द्रियजये रतः ।।९५।।
पापेन विचरन् लोकः पापचारी भवत्युत ।
कामचारी तु कामेन य इन्द्रियसुखे रतः ।।९६।।
धर्मचारी तु धर्मेण यज्ञयागादिके रतः ।
पुण्यचारी तु तपसा यस्तु व्रतादरे रतः ।।९७।।
अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः ।
ब्रह्मरूपश्चरन् लोके ब्रह्मनिष्ठो भवत्यपि ।।९८ ।।
ब्रह्मचर्यं ब्रह्मरूपं ब्रह्मशीलः सदा सुखी ।
ब्रह्मैव समिधश्चास्य ब्रह्माग्निर्ब्रह्मसंभवः ।।९९।।
सर्वं ब्रह्म समवाप्य परब्रह्माऽधिगच्छति ।
आत्मा ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समस्थितः ।। 3.174.१०० ।।
समाहितः परे तत्र ब्रह्मणि ब्रह्मशीलवान् ।
परब्रह्म ब्रह्मचर्यं तद्रतो मां प्रपद्यते ।। १०१ ।।
नरो वापि तथा नारी नपुं वा न मानवः ।
यः कोऽपि स्याज्जातिगन्ता जातिस्मरः प्रवित्तिमान् ।। १० २।।
परब्रह्म समवाप्य मोदते हि मया सह ।
अत्र वा तत्र वाऽप्यस्य क्रियाः सर्वा हि मोक्षदाः ।। १० ३।।
इतिश्रीलक्ष्मीनारायणीयंसंहितायां तृतीये द्वापरसन्ताने मुक्तिधर्मे यथादेहप्राप्तिः शुभाशुभकर्मभोगो ब्रह्माऽवाप्तिः कर्मप्रतिष्ठानं फलार्पणं दिव्यतालाभो नित्यमुक्तताऽक्षरवासिता सारूप्यावगमश्चेत्यादिनिरूपणनामा चतुसप्तत्यधिकशततमोऽध्यायः ।। १७४ ।।