लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १७३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १७३
[[लेखकः :|]]
अध्यायः १७४ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं दम्पत्योर्योगिनोः पुरा ।
सम्वादं कथयाम्यत्र श्रवणाऽर्हं गतिप्रदम् ।। १ ।।
पुरा श्रुतिफलानाम्नी योगिनी योगिनं पतिम् ।
सद्विद्यायननामानं ज्ञानविज्ञानपारगम् ।। २ ।।
पप्रच्छ संशयारूढा लोकशिक्षार्थमेव सा ।
देहत्रयसमाधिस्था वर्तेऽहं नाथ सर्वदा ।। ३ ।।
पतिसेवापरा चापि वर्तेऽहं हरिसेविनी ।
देहधर्मपरा त्रापि वर्तेऽहं कामधर्मिणी ।। ४ ।।
देवसेवापरा चापि वर्तेऽहं शुद्धभावना ।
मोक्षज्ञानपराऽसङ्गा वर्तेऽहं पतिबोधिता ।। ५ ।।
अथापि मानसं कान्त देहविषयमार्गगम् ।
क्वचित् क्वचिद् धातुपुष्ट्या प्रवर्तते हि निम्नगम् ।। ६ ।।
अधःस्रोतस्वभावं तन्मानसं मां विकर्षति ।
ऊर्ध्वस्रोतोवती नाथ भविष्यामि कदा ततः ।। ७ ।।
कदा मुक्तिं गमिष्यामि कदा वै शाश्वतं सुखम् ।
कं वा लोकं गमिष्यामि त्वां कान्तं तु समाश्रिता ।। ८ ।।
भवानास्ते त्यक्तकर्मा योग्यपि कामवानपि ।
भार्या त्वनन्यगतिका भर्तारमन्तरा सदा ।। ९ ।।
साऽहं योगं च कामं च पतियोगेन वै वृषम् ।
पालयामि तथाऽप्येषा कर्मबन्धनता मम ।। 3.173.१ ०।।
न भोगयोगमापन्नः कश्चिन्मोक्षं प्रविन्दते ।
नाथ त्वं वेत्सि सर्वं तत् कथं कर्मणा मोक्षणम् ।। ११ ।।
भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् ।
पतिश्चेल्लोकहीनोऽत्र भार्यायास्तत्र का गतिः ।। १ २।।
त्वादृशं पतिमासाद्य का गमिष्यामि वै गतिम् ।
इतिपृष्टो मुनिश्रेष्ठः सद्विद्यायननामकः ।। १ ३।।
प्राह श्रुतिफलां पत्नीं शान्तात्मा तु हृदा हसन् ।
न मे कामो न मे बन्धो देहधर्मो न मे मतः ।। १४।।
नाऽयमात्मा भवेत् पत्नी नाऽयमात्मा पतिः स्मृतः ।
पुंसो देहः पतिश्चेति नारीदेहस्तु पत्निका ।। १५।।
एव लोके व्यवहारः कृतः सोऽयं भवः स्मृतः ।
संसारबन्धनं चापि दाम्पत्यं तु विशेषतः ।। १ ६।।
सापत्यकत्वं ततोऽपि बन्धनाय प्रकल्प्यते ।
कामा योगो वासनाद्या देहधर्मा न चात्मनः ।। १७।।
पश्य त्वं मां दिव्यदेहं नारायणस्वरूपिणम् ।
पतिर्ब्रह्मा पतिर्विष्णुः पतिर्देवो महेश्वरः ।। १८।।
पतिं मत्वा परब्रह्म सेवते सा प्रमुच्यते ।
गोप्यः कामात् प्रमुच्यन्ते प्रतिकल्पं मुहुर्मुहुः ।। १९।।
श्रीकृष्णस्य प्रयोगेण लक्ष्मीर्नारायणस्य च ।
एवं मां त्वं ब्रह्मरूपं मत्वा सेवय भामिनि ।।3.173.२०।।
तदा लोकं योगिनीनां सतीनां प्राप्स्यसे ध्रुवम् ।
नैर्गुण्यं वा समाश्रित्य भज मां परमेश्वरम् ।। २१ ।।
तदा त्वं ब्रह्मनिर्वाणं ह्यवाप्स्यसि न संशयः ।
इत्युक्त्वा निजदेहात् स योगी कामं सुरूपिणम् ।।२२।।
पृथक्कृत्वा ददाहैव कामो भस्मनिभोऽभवत् ।
कामपिण्डं सुसम्पन्नं ददौ पत्न्यै तु निर्गुणम् ।।२३।।
तत्स्पर्शेनाऽभवद् दिव्यो मुक्तः सुमूर्त एव सः ।
कामो दिव्यस्वरूपोऽभूत् सद्विद्यायनवाञ्च्छया ।।२४।।
चमत्कारं परं दृष्ट्वा श्रुतिफलाऽऽह तं पतिम् ।
अहो नाथ जितामर्ष जितकाम जितेन्द्रिय ।।२५।।
जितसर्वस्व त्वयात्से दिव्यं जानामि साम्प्रतम् ।
शंका मे कामनाजन्या निवृत्ता दिव्यदर्शनात् ।।२६।।
पश्यामि त्वां कृष्णरूपं चतुर्भुजात्मकं प्रभुम् ।
क्रियाः सर्वाश्च ते दिव्याः प्रपश्यामि न संशयः ।।२७।।
चाञ्चल्यं मम विगतं स्त्रीबुद्धिश्चाऽद्य निर्गता ।
दिव्यां रतिं समासाद्य दिव्या भवामि ते बलात् ।।२८।।
वद मे तु यथायोग्या तथा ज्ञानं सुखावहम् ।
इत्युक्त्वा सा प्रणनाम कामोऽपि दिव्यमूर्तिमान् ।।।२९।।
विवेश सहसा देहे सद्विद्यायनवाञ्च्छया ।
वीक्ष्य श्रुतिफला तत्र निःसंशयाऽभवत्ततः ।।3.173.३०।।
यथा कृष्णे तथा भक्ते दिव्यास्ते देहवर्तिनः ।
भवन्त्येव गुणाः सर्वे दुर्गुणा अपि सद्गुणाः ।।३ १ ।।
कामः स्नेहः सुखं सेवा पोषणं रमणं शुभम् ।
योजिताः श्रीहरौ भक्ते दिव्या भवन्ति साधुषु ।।३२।।
ये संगाः स्त्रीपुत्रबन्धुपुत्रोकुटुम्बिषु कृताः ।
त एव साधुषु कृता मोक्षद्वारमपावृतम् ।।३३ ।।
योगी पतिर्मया प्राप्तो धन्याऽहं दिव्यतां गता ।
देहक्रिया न मे चास्ति दिव्याऽहं नास्मि भामिनी ।।३४।।
आत्माऽहं नैव योषिद्वै मुक्ताऽहं नित्यमोदिनी ।
देहो देहार्थसम्पन्नश्चात्माऽऽत्मार्थविभूषितः ।।३7५।।
द्वयोः पन्था विभिन्नोऽस्ति का नैसर्गिकवेदना ।
एवं ब्रह्मस्वरूपा सा क्षणमात्रेण भामिनी ।।३६।।
ब्राह्मणी ब्रह्मवेत्त्री च सम्पन्ना संगवर्जिता ।
आहैवं ज्ञानमापन्नां पत्नीं विद्यायनस्ततः ।। ३७।।
सुभगे! देहसंलग्ना क्रिया सर्वा न चात्मनि ।
ग्राह्यं दृश्यं भवेत् कर्म कर्मज्ञानेन्द्रियैरिह ।। ३८।।
देहात्मा कर्मकर्मेति व्यवस्यतीति बन्धनम् ।
मोहं तत्रापि चाप्नोति कर्मप्रधानभावतः ।।३९।।
ज्ञानहीनो जनः सर्वो देहबन्धनमोहवान् ।
नैष्कर्म्यं नाऽस्य जायेत यावद्देहाभिमानिता ।।3.173.४०।।
देहेन्द्रियैर्मानसाद्यैः शुभाशुभानि विन्दति ।
जन्मभोगजराव्याधिकराणि बन्धदानि च ।।४१।।
तत्त्वानां वै स्वभावोऽस्ति नैष्कर्म्ये न वसन्ति वै ।
तिष्ठन्ति कर्मयुक्तानि भूतेषु कर्म वर्तते ।।४२।।
देहभेदान् प्रापयन्ति कर्माणि सर्गजानि वै ।
अग्निहोत्रादिकं विप्रे वेदाऽध्ययनमित्यपि ।।३ ।।
शासनं क्षत्रिये वैश्ये वाणिज्यं कृषिरित्यपि ।
सेवा शूद्रे ब्रह्मशीले स्वाध्यायो हवनादिकम् ।।४४।।
सदारे सत्कृतिर्दानं चोपार्जनं प्रपोषणम् ।
वन्ये वने वन्यवृत्तिः साधौ भिक्षाटनादिकम् ।।४९।।
ब्रह्मशीलनमेवाऽपि नैष्कर्म्यं नैव विद्यते ।
नैसर्गिकी चञ्चलेयं प्रकृतिर्देहरूपिणी ।।४६।।
विकृतयश्चञ्चलाश्च मानसं चञ्चलं तथा ।
बुद्धिरिन्द्रियस्तबकश्चित्तं विषयचञ्चलम् ।।४७।।
संस्काराः कोशवल्लोला ज्ञानधाराऽपि चञ्चला ।
ज्ञानेच्छाकृतिभावाश्च द्वेषाद्या गोचराश्रिताः ।।४८।।
विषयाननुजीवन्ति चाञ्चल्यं धर्मणि स्थितम् ।
क्रियास्वभाव सर्वं वै तत्त्वजं मर्कटं त्विदम् ।।।४९।।।
कथं क्रियाविहीनं सत्तिष्ठेच्छान्तिप्रलब्धये ।
तस्मात्तत्परिवृत्त्यर्थं निश्चाञ्चल्यं समाश्रयेत् ।।3.173.५०।।
निश्चंचलप्रवेशेन निश्चञ्चलतां व्रजेत् ।
सर्वत्र परिपूर्णं तत्परब्रह्म तथाविधम् ।।५१ ।।
निश्चञ्चलं सदा सौम्ये सौम्यं तदर्थमाश्रयेत् ।
कर्मणा मनसा वाचा हृदाऽऽत्मना समस्तकैः ।।५२।।
एवं यथा निवातस्थः कुसूलस्थो निरोधितः ।
चञ्चलोऽपि प्रदीपो वै स्वयं मूर्च्छा हि तैलजः ।।५३।।
गच्छत्येव तथा स्याच्च चाञ्चल्यरहितः क्षणम् ।
लयं गच्छेच्च वा तत्राऽम्बरे निष्क्रियतां व्रजेत् ।।५४।
एवं चाऽयं चञ्चलैश्चावृतोऽपि चेतनः स्वयम् ।
चिदम्बरे निरोधं तु सम्प्राप्य निष्क्रियो भवेत् ।।५५।
स्थिरो भवेच्च मणिवन्मणिप्रदीपभासमः ।
नैसर्गिकप्रभायुक्तो मणिदीपो यथा स्थिरः ।।५६।
वायुस्तैलं भवेद्वा न भवेत् तदपि भायुतः ।
वर्तते सर्वदा कान्तिप्रदस्तथाऽयमच्युतः ।।६७।
वायुतुल्या हि विषयाः सौम्ये देहस्थिताः सदा ।
भुज्यन्ते वा न भुज्यन्ते मणिस्तु निरपेक्षकः ।।।५८।
देहधर्मास्तथा पत्नि भुज्यन्ते वा न वाऽपि च ।
आत्मा मणिस्तु ते मेऽपि निरपेक्षो न कर्मवान् ।।१९।
परब्रह्म समासाद्य कथं लोकान् विशंकसे ।
क्व गमिष्यामीतिशंकां त्यज मुक्ते परेश्वरि ।।3.173.६० ।।
अहं ब्रह्म सदा चास्मि यास्यामि च परं पदम् ।
ज्ञानोपासनभक्त्याद्यैस्त्वं मया सह यास्यसि ।।६ १।।
गृहधर्मा हि धर्मास्ते नाऽधर्मा न हि नारकाः ।
ऋतुधर्मा मनोधर्मा मद्योगे दिव्यतां गताः ।।६२।।
ज्ञानयोगेन योगेन ब्रह्मणः परमात्मनः ।
दिव्योऽहं मम योगेन त्वं पत्नि दिव्यतां गता ।।६ ३ ।।
एतां गुप्तां तु परमां सरहस्यां निजां स्थितिम् ।
मोक्षदां बन्धनहीनां को भोक्ता चाभिधास्यति ।।६४।।
अभोक्तुः परमां श्रेष्ठां दशां भोक्ता न विन्दति ।
कुतः प्राभिकथयेद् या मया तेऽभिहिता प्रिये ।।६५।।
रक्षांसि सर्वविघ्नानि भवन्ति सर्वदेहिनाम् ।
ब्रह्ममार्गे स्वर्गमार्गे तानि त्यक्त्वा सुखी भवेत् ।।६६।।
आत्मस्थं परमात्मानं समाश्रित्य मया प्रिये ।
रक्षांसि कामरूपाणि वशे कृतानि सर्वथा ।।६७।।
भ्रुवोर्मध्ये गुरोर्ध्यानं लब्धं श्रीपरमात्मनः ।
यत्र तत्परमं ब्रह्माऽनादिकृष्णनरायणः ।।६८।।
सर्वदा दृश्यते भार्ये तं भजस्वाऽतिनिर्गुणा ।
इडा च पिङ्गला चापि सुषुम्णा सृतयस्त्विमाः ।।६९।।
यथा प्रियया संगम्य ब्रह्मादयोऽपि देवताः ।
यदक्षरपरं कृष्णमुपासते महर्षयः ।।3.173.७०।।
विद्वांसः सुव्रताः शान्ता जितार्था यमुपासते ।
तमुपास्स्व सदा सुभ्रु त्यज दैहिकचिन्तनम् ।।७१ ।।
घ्राणेन न तदाघ्रेय नाऽऽस्वाद्यं चापि जिह्वया ।
स्पर्शनेन तदस्पृश्यं चक्षुषा दृश्यमेव न ।।७२।।
श्रवणाच्च परं तद्वै परब्रह्म प्रसेवय ।
आत्मना मनसा साकं बुद्ध्या ब्रह्मगृहीतया ।।७३ ।।
प्राप्यते कृपया तस्य तत्परब्रह्म सेवय ।
अगन्धमरसस्पर्शमरूपं शब्दवर्जितम् ।।७४।।
यतः प्रवर्तते तन्त्रं यत्र पुनः प्रतिष्ठति ।
प्रवर्तन्ते च मरुतः प्राणाद्या यद्व्यपेक्षया ।।७५।।
तं सर्वसाक्षिणं कृष्णनारायणं परेश्वरम् ।
भजस्व भामिनि स्वाम्युत्तमं श्रीपतिमच्युतम् ।।७६।।
नाऽहं पतिर्न भार्या त्वं पतिः श्रीपुरुषोत्तमः ।
आवयोरात्मनोर्दिव्ये भज तं पुरुषोत्तमम् ।।७७।।
हृदि प्राणं गुदेऽपानं समानं नाभिसंस्थितम् ।
उदानं कण्ठदेशस्थं व्यानं सर्वशरीरगम् ।।७८।।
विजित्वा तेषु चाऽऽत्मानं परमेशं विभावय ।
सप्तधाऽग्निर्वैश्वानरः प्राणेषु देहचारिषु ।।७९।।
घ्राता घ्राणेन घ्रेयं वै गन्धं पृथ्व्यां समश्नुते ।
पाता रसनया पेयं रसं जले समश्नुते ।।3.173.८०।।
द्रष्टा नेत्रेण दृश्यं तु रूपं तेजसि चाऽश्नुते ।
स्प्रष्टा त्वचा स्पृश्यं स्पर्शं मारुते वै समश्नुते ।।८१ ।।
श्रोता कर्णेन श्रव्यं शब्दमाकाशे समश्नुते ।
मन्ता मनसा मन्तव्यं विषयं मनुते निजम् ।।८२।।
बोद्धा बुद्ध्या तु बोद्धव्यं विषयं बोधयत्यपि ।
आत्मा परात्मना सर्वं भुंक्ते भोक्तव्यमेव तत् ।।८३।।
परात्मना तु यद् भुक्तं दिव्यं तन्न तु लौकिकम् ।
लौकिकं स्याद् बन्धनाय दिव्यं मोक्षाय चार्पितम् ।।८४।।
अनेनैव प्रकारेण चरणाभ्यां गतिः क्रिया ।
हस्ताभ्यां चाप्युपादानं वाचा संवादशब्दनम् ।।८५।।
पायुनोत्सर्ग उपस्थेनाऽऽनन्दानुभवादिकम् ।
गन्ताऽऽदाता च वक्ता विस्रष्टाऽऽनन्दयिता हि सः ।।८६।।
वैश्वानरोऽन्तरात्मा हि परमात्मा करोति तत् ।
नाहं कर्ता न त्वं कर्त्री ततो न कर्मबन्धनम् ।।८७।।
विज्ञातृत्वाभिमानं वै परात्मनि समर्पयेत् ।
भोक्तृत्वाभिमतिं चापि परात्मनि समर्पयेत् ।।८८।।
एवंभावे नरो नाहं नारी न त्वं कदापि वै ।
यश्चाऽहं स एव तु त्वं द्वावावां परमे स्थितौ ।।८९।।
परमात्माऽतिरिक्तत्वं नावयोरस्ति किञ्चन ।
आत्मा त्वं च तथाऽऽत्माऽहं परमात्मनि तिष्ठतः ।।3.173.९०।।
यत्र तिष्ठाव एतस्मिन् धार्यं सर्वं समर्पितम् ।
एवं सति कुतो मे ते कर्माऽपि चावशिष्यते ।। ९१ ।।
निष्कर्मात्मनि देवेशे सर्वं परिसमर्प्यते ।
सत्येवं तस्य यो लोकः स लोकोऽप्यावयोः सदा ।।९२।।
परं पदं चिदाकाशोऽक्षरधाम हि शाश्वतम् ।
परब्रह्मण एवाऽस्ति तदस्ति चावयोरपि ।।९३।।
यत्राऽनादिकृष्णनारायणः श्रीपुरुषोत्तमः ।
तत्राऽहं चापि तत्र त्वं गमिष्यावो न संशयः ।।९४।।
भज त्वं तं परात्मानं पत्यात्मकं प्रभुं पतिम् ।
त्यज दैन्यं संशयं च भयं निम्नगतिप्रदम् ।।९५।।
गृह्ण ज्ञानं च वैराग्यं धर्मं भक्तिं निरामयाम् ।
निर्भया परमस्यैव धाम्नो दात्रीं विधेहि वै ।।९६।।
इत्युक्ता सा निजपत्नी श्रुतिफलाऽतिवेदिनी ।
हर्षं तु परमं लेभे ब्रह्मबोधाभिमोदिनी ।।९७।।
ननाम पादयोः पत्युर्लक्ष्मि लक्ष्मीरिवाऽभवत् ।
दिव्या मदर्पणेनैव क्रियाणां सर्वथा ततः ।।९८।।
श्रुतिवद् वर्तते नित्यं भजते मां परेश्वरम् ।
लभते परमानन्दं ब्रह्मरसं समश्नुते ।।९९।।
गृहयुक्तापि सततं गृहाऽलुब्धा ततोऽभवत् ।
पतियुक्ताऽपि सततं कृष्णयुक्ता सदाऽभवत् ।। 3.173.१० ०।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने श्रुतिफलापत्न्याः सद्विद्यायनर्षिं पतिं प्रति कृतस्य क्वलोकगमानादिप्रश्नस्य नैष्कर्म्यसर्वसमर्पणविधया परब्रह्मलोकगतिरित्यादिप्रत्युत्तरमितिनिरूपणनामा त्रिसप्तत्यधिकशततमोऽध्यायः ।। १७३ ।।