लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १७६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७५ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १७६
[[लेखकः :|]]
अध्यायः १७७ →

श्रीपुरुषोत्तम उवाच-
श्रुतिफला पुनः श्रुत्वा पप्रच्छ स्वामिनं पुनः ।
कृतार्थाऽस्मि तथाऽप्येष गहनो ज्ञानमार्गणः ।। १ ।।
नेदमल्पात्मना शक्यं वेदितुं वर्तितुं च वा ।
बहु चाल्पं च संक्षिप्तं मुक्तिधर्मं वदाऽत्र मे ।। २ ।।
एवं लक्ष्मि सद्विद्यायनर्षिः श्रुत्वा प्रियावचः ।
सर्वासां योषितां चापि हितकृत्प्राह वै स्फुटम् ।। ३ ।।
अरणिः स्त्रीबुद्धिरूपा गुरुः पतिः परोऽरणिः ।
तपःश्रतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ।। ४ ।।
बुद्धिर्नारी नरश्चात्मा दम्पतीति निगद्यते ।
तयोरान्तरवासश्च परमात्मा परो गुरुः ।। ५ ।।
सर्वक्रियाभिरात्मात्मा तोषणीयो जनार्दनः ।
नारीदेहस्थिताभ्यां नृस्थाभ्यां ताभ्यां तु वा सदा ।। ६ ।।
एषा संक्षेपतो विद्या ब्रह्मविद्या मयोदिता ।
सा त्वं भवसि नित्यैव मुक्ता बुद्ध्या प्रवर्धिता ।। ७ ।।
अहं भवामि मुक्तश्च बुद्ध्या संवर्धितः सदा ।
पतिश्चात्मा प्रिया बुद्धिस्ताभ्यां ब्रह्माऽभिगम्यते ।। ८ ।।
श्रुतिफला भवेद् बुद्धिः सद्विद्यायनश्चेतनः ।
तयोरात्मा परब्रह्म लक्ष्म्यहं पुरुषोत्तमः ।। ९ ।।
मामुपाश्रित्य विज्ञानं मुक्तं दिव्यं प्रजायते!
सद्विद्यायनकश्चात्मा महामुक्तः प्रजायते ।। 3.176.१ ०।।
शृणु लक्ष्मि कथयामि गुरुशिष्यकथां शुभाम् ।
मुक्तिस्तोतायनाख्यस्य गुरोः शिक्षां सुतं प्रति ।। ११ ।।
सिद्धिवेशायनः शिष्यः पप्रच्छ स्वगुरुं प्रिये ।
किंस्विच्छ्रेयः परं प्रोक्तं परः कश्चाऽपरश्च कः ।। १२।।
कुतश्चाऽहं कुतस्त्वं च किं सत्यं परमं सुखम् ।
कुतो जातानि भूतानि केन जीवन्ति जन्तवः ।। १३ ।।
किं सत्यं च तपः किं च के गुणाः सद्भिरीरिताः ।
के पन्थानः शिवाः स्युश्च किं सुखं शाश्वतं मतम् ।। १४।।
एतत् सर्वं ब्रूहि विद्वन् येन मुक्तिः प्रजायते ।
संसारभीरवो लोका मोक्षकामा भवन्ति च ।। १५ ।।
गुरवस्तारकाः सन्ति मोक्षदा वै दयालवः ।
शरणागतसंरक्षाकर्तारः पावना यतः ।। १६ ।।
मुक्तिस्रोतायनः श्रुत्वा सिद्धिवेशायनस्य तत् ।
मुमुक्षान्वितकोशाय शिष्यायोपादिदेश ह ।। १७।।
शृणु सिद्धिवेश सर्वं कथयामि यथातथम् ।
परमेशोपासना वै परं श्रेयो मतं मम ।। १८।।
परः स एव भगवान् सर्वकारणकारणम् ।
परब्रह्म परमात्माऽनादिकृष्णनरायणः ।। १९ ।।
अनादिश्रीकृष्णनारायणः श्रीकृष्णमाधवः ।
मायाऽक्षरादिशास्ता चाऽवतारकारणं प्रभुः ।।3.176.२०।।
साधुस्वभावाः सन्न्यासाः स्वरूपाणि हरेस्तथा ।
साधवश्चावताराश्चेश्वरा व्यूहाश्च तेऽपराः ।।२ १ ।।
अपरं चाक्षरं ब्रह्म मुक्ताश्चाप्यपरा हि ते ।
अपराश्चापि सर्वे ये मुमुक्षवस्ततोऽपि च ।।।२२।।
आत्मानश्चापराः सर्वे बुभुक्षवः सतृष्णकाः ।
आत्मतत्त्वं परं प्रोक्तमनात्म त्वपरं सदा ।। २३।।
अहं जातो ह्यहंकारो महत्तत्त्वात् त्रिमायिकः ।
त्वंभावोऽपि ततो जातो भेददृष्ट्या ह्यनात्मनि ।। २४।।
अहं त्वं चेति निर्देशो मायिको न तु चात्मनः ।
जायमानं महत्तत्त्वमहंकारमवासृजत् । । २५ ।।
अहंकाराद्भेदभावो भ्रान्तिरूपोऽस्ति सर्वथा ।
तत्त्यागेऽहन्त्वममतात्यागे निजात्मनः सुखम् ।। २६ । ।
परमात्मनाऽर्पितं भुंक्ते चात्मा तत्परमं सुखम् ।
त्रिकालाऽबाध्यमेवैतच्छ्रीहरेर्योगतो हि तत् ।। २७ । ।
सत्यं सुखं हि तत्प्रोक्तं भगवद्योगजं सदा ।
न नाश्यं नापि हार्यं च न क्षय्यं न विशीर्यते । । २८ ।।
एतादृशं महानन्दसन्दोहात्मकमेव तत् ।
तल्लब्ध्वाऽन्यन्निर्मनस्कं नीरसं जायतेऽत्र वै । । २९ ।।
तद्दाता भगवान् साक्षाच्छ्रीहरिः परमेश्वरः ।
अनादिश्रीकृष्णनारायणः श्रीपतिरच्युतः ।। 3.176.३० । ।
ततोऽवतारा जायन्ते हीश्वरा अपि वै ततः ।
ईश्वर्यश्चापि तस्माद्वै माया ततः प्रजायते । । ३१ ।।
ऋषयश्च तथा देवा मानवाः स्थावरादयः ।
खनयंश्चापि सर्वा वै सर्वभूतानि देहिनः । । ३२। ।
जायन्ते श्रीहरेस्ते वै जीवन्ति तत्प्रवेशिताः ।
आपूरकेण तत्त्वेन मायया सन्निवेशिताः । । ३३ । ।
पराप्मनाऽऽन्तरव्याप्ता जीवन्ति तु चिराचिरम् ।
जीवनं कर्मसंघातः पुण्यं पापं निजाऽर्जितम् । । ३४। ।
यावद्भवन्ति कर्मोत्थाऽदृष्टानि तावदेव ते ।
जीवन्ति चाऽथ तन्नाशे म्रियन्ते देहिनः सदा । । ३५। ।
सत्यं ब्रह्म तु परमं सत्या मुक्तिः सदा मता ।
सत्य आत्मा चिदानन्दः सत्या श्रीरनपायिनी । । २६ । ।
सत्यः धर्मः सतां नित्यो मोक्षदो यो निगद्यते ।
तपः श्रेष्ठं हि साधुत्वं सन्न्यासस्तप उत्तमम् ।। ३७ ।।
सामर्थ्ये सति सहनं परमं तप उच्यते ।
ज्ञानं विद्या तपः प्रोक्तं मोक्षदं तत् सदा भवेत्। ।। ३८ । ।
यो वेत्ति ब्रह्मसंवासं विवासं प्रकृतेस्तथा ।
तथा चिदचितोर्भेदं स याति परमां गतिम् । । ३९ । ।
यो न कामयते किञ्चिन्न किञ्चिदभिमन्यते ।
इह लोके स्थितश्चैव ब्रह्मभूयाय कल्पते । । 3.176.४० ।।
चिदानन्दस्य परमे कृष्णनारायणे मयि ।
कृत्वा समर्पणं तिष्ठेन्मुच्यते नात्र संशयः । ।४ १ । ।
पुरा ब्रह्मर्षिभिर्ब्रह्मा पृष्टो नैःश्रेयसे परे ।
कथं कर्म क्रियात् साधु कथं मुच्येत किल्बिषात् ।।४२ ।।
के पन्थान शिवा नश्च कौ मार्गौ दक्षिणोत्तरौ ।
श्रुत्वा जगाद तान् ब्रह्मा गुरुसेवां सदा क्रियात् ।।४३।।
गुरवो मोक्षदातारः सन्तः साधुजनाः शुभाः ।
पापप्रक्षालकाः सर्वे पुण्यशेवधिदायिनः ।।४४।।
हिते चाऽप्रेरिता ये स्युस्ते सन्तो गुरवोऽमलाः ।
तैर्दत्ता ये चोपदेशा ग्राह्यास्ते ते गुणा मताः ।।४५।।
सत्त्वे चित्त्वे तथाऽऽनन्दे पुष्टिं यैश्चेतनो व्रजेत् ।
ते गुणा दिव्यरूपा वै तदन्ये दुर्गुणा इति ।।४६।।
गुणैः सम्प्रेरितश्चात्मा क्रियात् कर्म सुखावहम् ।
परलोकप्रदं यद्वा परधामप्रदं शुभम् ।।४७।।
परधामप्रद कर्म साधु साधुत्तमं मतम् ।
परलोकप्रदं कर्म साधु साधुतरं मतम् ।।४८।।
इह धर्मयुतं कर्म सत्कर्म साधु कथ्यते ।
ब्रह्म सत्यं तपः सत्यं सत्यं च गुरुसेवनम् ।।४९।।
सत्यं साधु निजं कर्म तेन मुच्येत किल्बिषात् ।
तीर्थसेवा सतां सेवा पितृसेवा हि पावनी ।।3.176.५० ।।
आत्मज्ञानं हरेर्ज्ञानं भक्तिः किल्बिषनाशिनी ।
मातृसेवा च गोसेवा सतीसेवा हि पावनी ।।५१ ।।
देवभक्तिर्गुरोर्भक्तिः समाधिः किल्बिषापहा ।
ब्रह्मचर्यं च सन्न्यासः सर्वकिल्बिषनाशकौ ।।५२।।
गार्हस्थ्यं स्वर्गदं चापि मय्यर्पितं तु मोक्षदम् ।
वानप्रस्थं विरागाणां मायावृत्तिविनाशकम् ।।५३ ।।
श्रद्धालक्षणमित्येवं धर्मं ज्ञात्वा चरन्ति तम् ।
दानं सेवा दक्षिणा च सत्यं पुण्यं च साधुता ।।।५४।।
परोपकारस्तीर्थानि देवयाना भवन्ति ते ।
ज्ञानं विरागश्चैश्वर्यं ध्यानं समाधिरर्पणम् ।।।५५।।
मन्त्रजपोऽतिसन्तोषः सिद्धयाना भवन्ति ते ।
उपासना परा भक्तिः प्रीतिश्चाराधना तथा ।।५६।।
प्रपत्तिः शरणे पातो मुक्तियाना भवन्ति ते ।
शिवाः सर्वे ते पन्थानो हरिः शिवतमः सदा ।।५७।।
तत्सुखं शाश्वतं दिव्यं गत्वा धीरः समश्नुते ।
नारायणमयो भूत्वा सर्वामृद्धिं समश्नुते ।।५८।।
उक्तास्ते तु पन्थानः प्रोक्ताश्चाऽन्यांस्तथाऽपरान् ।
दक्षिणान् गर्भदातॄँश्च कथयामि सुचक्रिणः ।।५९।।
मानवं पुण्यमादाय देवो भवति वै चिरम् ।
शेषमादाय चायाति मानवे दक्षिणे पथि ।।3.176.६०।।
पापमादाय याम्यं वै राज्यं याति निवृत्तये ।
शेषमादाय तिर्यक्षु ततो वा मानवे क्वचित् ।।६१।।
एवं वै दक्षिणे मार्गे चतुरशीतिलक्षके ।
आवर्तते चक्रवच्च दक्षिणो मार्ग एव सः ।।६२।।
तत्र तत्त्वानि तिष्ठन्ति दक्षिणे देहमार्गके ।
अव्यक्तं मूलमाया वै त्रिगुणात्मा प्रतिष्ठति ।। ६३ ।।
साम्यावस्थं पूर्वभागं विषमावस्थमुत्तरम् ।
ध्रुवं चाऽऽपूरकं तत्त्वं स्थिरं प्रसवधर्मि च ।। ६४।।
गुणेभ्यो विषमेभ्यस्तु महत्तत्त्वं प्रजायते ।
देहे बुद्धिस्वरूपं तत् स्त्रीरूपं वै चिदात्मनः । । ६५। ।
ततोऽहंकारनामा वै पुत्रस्त्र्यवस्थवर्तनः ।
त्रिगुणो जायते सर्वदेहेष्वपि प्रवर्तते ।।६ ६ ।।
तस्मात् प्रजायते सूक्ष्मभूतानीन्द्रियकाणि च ।
मनोऽपि जायते तस्माद् व्योम प्राणस्ततोऽपि च ।। ६७।।
ततो तेजो जलं तस्मात् ततः पृथ्वी प्रजायते ।
तानि सर्वाणि देहेऽत्र भवन्ति दक्षिणापथे ।।६८ ।।
उद्घाटितनवद्वारं नद्धद्वारद्वयं तथा ।
एकद्वाराऽधिकं यद्वा न्यूनद्वारादिकं च वा ।। ६९ ।।
षाट्कौशिकं पञ्चरूक्षं सुसूक्ष्मैकोनविंशतिम् ।
सचेतनं चाष्टधर्मं बहुधर्मं सधर्मकम् ।। 3.176.७० ।।
असमानधर्मवच्च कल्मषं मलिनं सदा ।
त्रीणि स्रोतांसि धर्माणि चाप्यान्ते पुनस्त्विदम् ।।७ १ ।।
शुक्लकृष्णाऽशुक्लकृष्णात्मकानि संस्कृतानि च ।
संस्कारैस्तानि नित्यं वै नवोद्भवानि सन्ति हि ।। ७२ ।।
सत्त्वं दीपो भवत्येव रजो गतिं ददाति हि ।
तमो निरोधं कुरुते ह्येवं सक्रियमेव तत् । । ७३ ।।
सत्त्वगुणे वर्तमाने प्रीतिरानन्द उत्सवः ।
सुखं प्रकाश उदयश्चौदार्यं निर्भयत्वकम् ।।७४ ।।
श्रद्धा क्षमा धृतिः सत्यं सन्तोषं आर्जवं तथा ।
दया समता चाऽहिंसा शुद्धिर्दाक्ष्यं सुकर्मता ।।७५ ।।
व्रतं सेवा परिचर्या ह्यकामो ह्रीस्तितिक्षणम् ।
विश्वासश्चोपकारश्च त्यागस्तुष्टिः प्रमोदनम् ।। ७६ ।।
साधुवृत्तित्वमनघं शान्तं कर्म शुभेक्षणम् ।
उपेक्षा ब्रह्मचर्यं च ममाऽहंकारवर्जिता ।।७७।।
दानं मखोऽध्ययनं चेत्येते गुणास्तु सात्त्विकाः ।
एभिर्गुणैर्धीरभावा जायन्ते साधुवृत्तयः ।। ७८ ।।
विशोका धर्मबहुलाः स्वर्गं यान्ति सुराश्च ते ।
भूत्वेशित्वं वशित्वं च लघुत्वं लभते दिवि ।। ७९ ।।
ऊर्ध्वस्रोतस इत्येते देवाः श्रेष्ठा मता हि ते ।
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च ।।3.176.८ ० ।।
अथ राजसभावान् वै कथयामि समासतः ।
प्रवर्तनं व्यवहारश्चोत्साहो वेग उद्यमः ।।८ १ ।।
सन्तापो रूपमायासो दुःखमातप ऊर्ध्वता ।
ऐश्वर्यं मेलनं हेतुवादो रतिर्बलं मदः ।।८ २ ।।
शौर्यं रोषश्च कलहः पिशुनं पालनं रणः ।
ईर्ष्येप्सा बन्धनं घातो विक्रयश्च निकृन्तनम् ।। ८३ ।।
परच्छिद्रावमर्षश्च चिन्ता च मत्सरो मृषा ।
निन्दा स्तुतिः प्रशंसा च विकल्पो धर्षणं तपः ।। ८४।।
शुश्रूषा च परिचर्या भृत्यता च परिग्रहः ।
प्रमादः परिवादश्च नयो व्यूहो नमस्क्रिया ।।।८५।।
आशीर्वादाः पौर्त्तकर्म स्वाहास्वधावषट्ऽक्रियाः ।
विद्या च मंगलं स्नेहो ममेदमितिलालसा ।।८ ६।।
मानं माया जुगुप्सा च जागरः स्तैन्यमित्यपि ।
दंभो दर्पोऽथ रागोऽपि भक्तिर्मोदश्च कामना ।।८७ ।।
द्यूतं नृत्यं च गीतं चेप्येवमाद्यास्तु राजसाः ।
धर्मोऽर्थः सम्पदश्चेति राजस्यो वै भवन्ति हि । ।८८ ।।
तैर्गुणैः सहिता यान्ति धर्माद्यैश्वर्ययोजिताः ।
अत्रैव मानवे लोके मोदन्ते मानवास्तु ते ।। ८९ ।।
परलोकं समीहन्ते तर्पयन्त्यपि जुह्वति ।
ददति प्रतिगृह्णन्ति जायन्ते च पुनः पुनः । । 3.176.९० । ।
अथ ते तामसान् वच्मि गुणान् तमःसमुत्थितान् ।
मोहो भयं च लोभश्च स्वप्नः स्तम्भः प्रदूषणम् ।। ९१ । ।
अत्यागश्चाप्यथाऽज्ञानं डोळनं स्मृतिविभ्रमः ।
नास्तिक्यं भेदवृत्तिश्चाऽन्धत्वं जाड्यं च सन्नता । । ९२ ।।
मृषामानं वैरभावो विकृतिर्मूढभावना ।
पापं परवशित्वं चालस्यं धूम्रनिभाज्ञता । । ९३ ।।
नाशो निरोधनं भंगो लयश्चेति तु तामसाः ।
सर्वकार्ये नियम्यन्ते प्रवृत्तयो हि तामसैः ।। ९४ ।।
परिवादकथा मन्युरत्यागश्चाभिमानिता ।
अक्षमा मत्सरश्चेति तामसास्ते भवन्ति वै । । ९५ ।।
वृथारम्भा वृथादानं वृथाभक्षणमित्यपि ।
अश्रद्धा खण्डनं चेति तामसास्ते भवन्ति वै ।। ९६ ।।
मनुष्या भिन्नमर्यादा दैत्याश्च राक्षसास्तथा ।
अवाङ्निरयमापन्नास्तिर्यङ्निरयगामिनः ।। ९७ ।।
दानवाश्चासुराः प्रेता भूताः पिशाचकादयः ।
क्रूराश्च हिंसका मांसभक्षणाः संभवन्त्यपि । । ९८ ।।
स्थावरेषु जंगमेषु पशुष्वपि भवन्ति ते ।
वाहनेषु खरोष्ट्रेषु क्रव्यादेषु भवन्ति ते । । ९९ । ।
दंदशूकाः कृमयश्च कीटा विहंगमास्तथा ।
अण्डजा जन्तवश्चापि बहुपदाश्चतुष्पदाः ।। 3.176.१०० ।।
उन्मत्ता बधिरा मूकाः पापरोगावृत्ताश्च ये ।
अर्वाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ।।१ ०१ ।।
एवमेते गुणवृत्ता भवन्ति देहिनः खलु ।
सतां योगेन लोकेऽस्मिन् यथाकथंचिदेव ह ।। १० २।।
पुण्यवतां प्रसंगेन समायान्त्यूर्ध्वमाश्रयात् ।
चण्डालाद्याः पापपूर्णा घातका हिंसकाश्च वा ।। १०३।
जायन्ते तेऽपि च पुनर्धर्मयोगेन शोभनाम् ।
योनिमासाद्य पर्यायादूर्ध्वमायान्ति वै क्वचित् ।। १ ०४।।
विप्रर्षयः सुराः सन्तो मुनयः सुखिमानवाः ।
ततौ यान्ति दिवं धर्मः सत्त्वेनेश्वरवासिताम् ।। १ ०५।।
भक्त्या समर्पणेनापि सेवया कृपयाऽथवा ।
मोक्षपदं प्रयान्त्येव चिरेण शरणागताः ।। १० ६।।.
इत्येवं कथितं सर्वं लक्ष्मि देहादियोजनम् ।
सिद्धिवेशायनायैव मुक्तिस्रोतायनेन वै ।। १ ०७।
लब्ध्वा विमलविज्ञानं शान्तिमवाप चोत्तमाम् ।
शिष्यो दिव्यतमां दृष्टिं चावाप पारमेश्वरीम् ।। १०८ ।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने संक्षिप्तमुक्तिधर्माणां देहधर्माणां मायिकादीनां च निरूपणनामा षट्सप्तत्यधिकशततमोऽध्यायः ।। १७६ ।।