लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १७१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७० लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १७१
[[लेखकः :|]]
अध्यायः १७२ →

श्रीपुरुषोत्तम उवाच-
एवं सम्प्रेरितश्चिदानन्दो योगी प्रतापवान् ।
श्रीमानसं सर्वप्रश्नोत्तराण्याह क्रमाद् रमे ।। १ ।।
आनुपूर्व्येण कमले तानि मे गदतः शृणु ।
आयुःकराणि कर्माणि यावद् देही प्रसेवते ।। २ ।।
तावदायुःप्रसन्धानं चेहैव जायतेऽग्रगम् ।
पुण्यं सभाजनसेवा साधुसेवा शुभाशिषः ।। ३ ।।
दानंदमश्चेन्द्रियाणां ब्रह्मचर्यं तपः शुभम् ।
योगाभ्यासो भजनं च सर्वाण्यायुःकराणि वै ।। ४ ।।
वह्निसेवौषधसेवाऽप्यहिंसा घृतभोजनम् ।
विघसाशित्वमित्येतान्यायुर्वृद्धिकराणि वै ।। ५ ।।
सतीतीर्थं मातृतीर्थं धर्मतीर्थं सुरार्चनम् ।
अरागित्वं ह्यभोगित्वं चैतान्यायुःकराणि वै ।। ६ ।।
ऋष्यर्पणं तथा देवार्पणं कृष्णार्पणं तथा ।
नित्यमुक्तार्पणं ब्रह्मार्पणं चायुःकराणि वै ।। ७ ।।
स्वर्गिणा सह मैत्री च रवर्गाऽऽयुःसम्प्रदा भवेत् ।
एवमायुर्यशोदातृ सेवते कर्म भाग्यवान् ।। ८ ।।
आयुःक्षयपरीतात्मा विपरीतानि सेवते ।
बुद्धिर्व्यावर्तते तस्य विनाशे समुपस्थिते ।। ९ ।।
बलं शक्तिं समाश्रित्य गर्वं चाप्यभिमानकम् ।
अत्यन्तं भोगमादत्ते विरुद्धमप्यनात्मवान् ।। 3.171.१ ०।।
निषेवतेऽतिकष्टानि भुंक्तेऽधिकानि शक्तितः ।
दुष्टान्नामिषपानानि विरुद्धानि मिथो गुणे ।। ११ ।।
भुंक्तेऽमितानि गुरूणि ह्यजीर्णेऽपि पुनः पुनः ।
बलातिरेकं व्यायामं व्यवायं चातिसेवते ।।१ २।
सततं धनलोभाच्च भारवाहित्वमृच्छति ।
वेगवाहो भवत्येव नितरां जयकांक्षया ।। १३।।
विकृतैश्च रसैर्युक्तमन्नमत्यश्नुते जने ।
मूत्रमलादिवेगं च रुणद्धि कर्मपाशितः ।। १४।।
योग्यां निद्रां सेवते न दिवा निद्रां प्रसेवते ।
आदत्ते चाऽप्यपक्वाँश्च रसान् रसनयाऽऽहतः ।। १५।।
रोगव्याधिमयो भूत्वा देहक्षयं प्रविन्दति ।
अतिरुग्णोऽप्यनुत्साहः पराजितोऽतिकष्टकैः ।। १ ६।।
धैर्यं विहाय सहसा मरणाभिमुखो भवेत् ।
अपि चेद्बन्धनादीनि विपरीतानि विन्दते ।। १७।।
एवंविधैर्विपरीतैः शरीरं च्यवते द्रुतम् ।
उष्मारुद्धः कूपितश्च वायुना चातिवेगिताः ।। १८।।
बन्धान् विच्छिद्य सहसा प्राणान् क्षिपति कोष्ठलात् ।
भिनत्ति मर्मस्थानानि जीवस्वास्थ्यकराण्यपि ।। १ ९।।
ततः सद्यो ज्ञाननाशे जीवः प्रच्यवते स्थलात् ।
क्षरं देहं त्यजत्यत्र स्थूलं सूक्ष्माभिसंवृतः ।।3.171.२० ।।
जातिमरणसंविज्ञः पुनश्चान्यत्र याति हि ।
अन्ये पश्यन्ति तं यान्तं त्यजन्तं स्थूलवर्ष्म च ।।२१।।
तथापि नैव वैराग्यं लभन्ते न भजन्ति माम् ।
म्रियन्ते तत्तथैवैते त्यजन्ति सर्वमत्र च ।।२२।।
लभन्ते मरणे पीडां मर्मणां घातनादिषु ।
गर्भसंक्रमणे चापि लभन्ते वेदनां तथा ।।२३।।
जन्मकृतां देहकृतां पुनर्मरणयोजिताम् ।
लभन्ते वेदनां जीवाः पारस्तस्या न विद्यते ।।२४।।
यदा देहं जहात्येव निरुच्छ्वासश्च दृश्यते ।
स निरूष्मा निरुच्छ्वासो निःश्रीको हतचेतनः ।।२५।।
मया च ब्रह्मणा त्यक्तो मृतात्मेत्युच्यते तदा ।
स्रोतोभिर्यैर्विजानाति चेन्द्रियार्थान् शरीरभृत् ।।२६।।
तेषां प्राणनिरोधेन स्रोतसां प्रलयो भवेत् ।
स्रोतसां मर्मवासानां भिन्नेषु मर्मसु प्रियः ।।२७।।
अप्रियो जायते गच्छन् नाभिजानाति किञ्चन ।
प्राणयुक्तः सूक्ष्मदेहसहितस्त्रिरुच्छ्वस्य च ।।२८।।
निष्क्रामन् कम्पयत्याशु स्थूलं मनागचेतनम् ।
कायात् प्रच्युत एवाऽसौ कर्मभिः स्वैः समावृतः ।।२९।।
अमितैः पापकैः पुण्यैः सहितः सूक्ष्मदेहवान् ।
प्रयाति गतिमन्यां स त्रेधा क्लृप्तां यथाकृताम् ।।3.171.३०।।
पुण्यपापसमप्राप्तां गतिं प्रयाति मानवीम् ।
इहैवोच्चावचान् भोगान् प्राप्नोत्येव स्वकर्मभिः ।।३ १ ।।
अशुभैः कर्मभिर्लोका ह्यर्वाग्गतिं प्रयान्ति वै ।
निरये यत्र पच्यन्ते कर्मफलैः प्रयान्ति तम् ।।३२।।
पुण्यभाजस्तूर्ध्वगतिं तारामयीं प्रयान्ति ह ।
चन्द्रमण्डलमेवाऽपि सूर्यमण्डलमित्यपि ।।३३।।
एवमाद्यानि रम्याणि भुक्त्वा पुण्यक्षये पुनः ।
च्यवन्ते पृथिवीं यान्ति पुनर्जन्म पुनर्मृतिम् ।।३४।।
पुनः स्वर्गं वा नरकं प्रयान्ति कर्मयोजिताः ।
न च स्वर्गेऽपि सन्तोषो दृष्ट्वा दीप्ततमां श्रियम् ।।३५।।
नीचोच्चमध्यमा देवाः स्पृहयन्ति हरन्ति च ।
विचार्येत्थं बुद्धिमाँस्तु सूक्ष्मं देहं हरौ प्रभौ ।।३६।।
कृत्वाऽर्पणं प्रयात्येव दिव्यो भूत्वाऽक्षरं पदम् ।
नेत्रं नेत्रस्य वृत्तिं च गोलकं देवतां तथा ।।३७।।
विषयं रूपमेवापि ज्ञानं बोधं च वेदिताम् ।
मननं निर्णयं चाभिमतिं भोगं समस्तकम् ।।३८।।
तथाऽऽत्मानं च संस्कारान् स्मरणं चापि केशवे ।
आत्मनिवेदितं सर्वनिवेदितं विधाय च ।।३९।।
सूक्ष्मं देहं तथा दिव्यं विधाय वा विहाय च ।
संयोगं प्रकृतेस्त्यक्त्त्वा ब्रह्मयोगं निधाय च ।।3.171.४०।।
वासनां सर्वथा दग्धा मम भावनया रमे ।
प्रयात्येव परब्रह्म मां हरिं पुरुषोत्तमम् ।।४१।।
एवं देहत्रयं त्यक्त्वा लभते ब्रह्मशाश्वतम् ।
सर्वगन्धादिविषयान् बहिःस्रोतांसि सर्वथा ।।।४२।।।
अन्तःस्रोतांसि तद्वच्च फलं भोगं तथा मयि ।
सर्वं न्यस्य त्रिकं त्यक्त्वा याति मां परमेश्वरम् ।।४३।।
कर्मक्षये स्थूलदेहक्षयो भवति पद्मजे ।
पुण्याऽपुण्यक्षये सूक्ष्मदेहक्षयः प्रजायते ।।४४।।
ब्रह्मानन्दप्रवाहेण वासनाक्षय एव च ।
वासना लिंगदेहोऽयं मम भावेन लीयते ।।४५।।
अज्ञानाख्यकारणस्य देहस्य विलयोऽपि च ।
शृणु देहस्य वै प्राप्तिरात्मनस्तु यथा भवेत् ।।४६।।
सच्चिदानन्दरूपस्याऽदेवस्याऽदेहिनस्तथा ।
कारणैर्विविधैर्लक्ष्मि देहयोगः प्रजायते ।।४७।।
आत्माऽयं स्वच्छदिव्योऽस्ति स यत्राऽऽस्तेऽक्षरेऽथवा ।
अक्षरस्य प्रदेशे वा सीम्नि मायार्थसन्निधौ ।।४८।।
सन्निधिधर्ममादत्ते स्फटिकवत् स्वभावतः ।
त एव धर्मा पारक्याः पारक्यैर्याति वाच्यताम् ।।४९।।
काशप्रवृत्तिनियमा मायाधर्मा भवन्ति तान् ।
लब्ध्वा प्रकाशितश्चाऽहं प्रवृत्तो नियमान्विताः ।।3.171.५०।।
इत्येवं मनुते चात्मा मायातत्त्वादिवृत्तिभिः ।
निर्णयं चाभिमानं वा चिन्तनं मननं च वा ।।५१ ।।
मायाप्रभात्मकं नैजप्रभात्मकं स वेत्ति वै ।
वेदनं नैजमेवाऽपि मिश्रं मायाप्रभात्मकम् ।।५२।।
मिश्रणं चाऽस्य भ्रान्तिश्चाऽविद्याऽज्ञानाऽभिधं हि तत् ।
तेन प्रवर्तते चात्मा पुण्यपापात्मकर्मसु ।।५३।।
शुभाऽशुभानि जायन्ते कर्माणि माययाऽस्य तु ।
शुभाऽशुभानां लेपश्च जायतेऽस्य प्रवेदने ।।५४।।
ज्ञाने लेपात्तत्प्रजन्यसंस्कारेष्वपि लेपिता ।
संस्कारे धर्मरूपे यो लेपः स स्वच्छरूपिणि ।।५५।।
आधारे जायते जीवे तैर्जीवः संसरत्यपि ।
स्वेष्टभोगादिलब्ध्यर्थं सूक्ष्मयुक्तोऽपि चेहते ।।५६।।
तेन सूक्ष्मैः समेतोऽयं लभते स्थूलभौतिकम् ।
स्थूलं जाड्यं समासाद्य स्थूलैः पक्वोऽतिजाड्यवान् ।।५७।।
स्थूलभावैर्भोगवाँश्च कर्मलुब्धो भवत्यसौ ।
प्राप्य प्राप्य च कर्माणि क्षेत्रं क्षेत्रं पुनः पुनः ।।५८।।
भुंक्ते भोगान् भोगमयान् भाग्यसंस्कारदान् पुनः ।
लभते च फलं दीर्घं चिरसेव्यं च तैस्ततः ।।५९।।
अनेकजन्मभोक्तव्यं चाऽक्षयं लभते फलम् ।
एवं लक्ष्मि ह्यसंगोऽपि चाऽऽकर्षणस्वभावतः ।।3.171.६०।।
आकृष्य चान्यधर्मान् स स्वाराज्यं स्थापयत्यपि ।
अराजा च बली राज्यमाहृत्य राज्यवान् यथा ।।६१ ।।
तथाऽयं जायते देही समाकर्षणयोगवान् ।
अमायोऽपि मायिकोऽयं जायते न निवर्तते ।।६२।।
गाढाद् गाढतरं भावं प्रपद्यते न मुच्यते ।
चर्मकारो यथा कुण्डं दुर्गन्धं ह्यपि नोज्झति ।।६३।।
चर्मोल्बावृत एवाऽसौ दुष्टं देहं न मुञ्चति ।
शुभं तथाऽशुभं कर्म मिश्रं वाऽयं प्रपद्यते ।।६४।।
यथा प्रसूयमानस्तु फली दद्यात् फलं बहु ।
तथाऽस्य स्याद् बहु पुण्यं सत्त्वेन मनसा कृतम् ।।६५।।
पापं चापि तथा चैति पापेन मनसा कृतम् ।
मनोयुतस्ततश्चाऽयं महालसः प्रवर्तते ।।६६।।
मनोभृत्यो यथा चास्मै ददाति भुंक्त एव सः ।
पुनश्चेच्छति भोगांश्च तावदायुर्निवर्तते ।।६७।।
कामनाप्रेरितश्चाऽयं गर्भवासे प्रणीयते ।
मनसा पुण्यपापैश्च गर्भे स्वपिति निर्बलः ।।६८।।
शुक्रं शोणितसंसृष्टं कललं देहपूर्वजम् ।
गर्भाशये समाप्नोति शुभाशुभादिसदृशम् ।।६९।।
कश्चिद् विशति कलले पूर्वकर्मानुसारतः ।
कश्चिद्विशति बुद्बुदे स्वस्य कर्मानुसारतः ।।3.171.७०।।
कश्चिद्विशति मांसे च कश्चित् पेश्यां स्वकर्मतः ।
कश्चित् करण्डे विशति कश्चिदंगाढ्यपुत्तले ।।७१।।
कश्चित् प्रत्यंगमूर्तौ च कश्चिद् भ्रूणे विशत्यपि ।
पूर्वकर्मानुसारेण द्रुतं वा यदि वा चिरम् ।।७२।।
प्रसूनालप्रपुष्टे वै कालेनोष्ण्यादिपोषिते ।
सप्राणे पुत्तले जीवो विशत्येव स्वकर्मतः ।।७३।।
सौक्ष्म्यादव्यक्तभावाच्च जीवः सूक्ष्मशरीरवान् ।
विशत्येवाऽऽन्तरक्लृप्ते कर्मणा तत्र सज्जते ।।७४।।
तत्र ब्रह्म महच्चास्ते बीजस्यापि प्ररक्षकम् ।
बीजबीजं परब्रह्म निवसामि सहाऽप्यहम् ।।७५।।
कर्ता कारयिता पोष्टा धाताऽविता निभालकः ।
साक्षी चाऽसंगवान् तस्य कर्मफलप्रदायकः ।।७६।।
सर्वेषां देहिनां चाहं बीजबीजः सनातनः ।
आपूरकाणां तत्त्वानां प्रेरयिता वसामि च ।।७७।।
प्राणेन्द्रियादिजीवातुर्मया जीवन्ति जन्तवः ।
स जीवः सर्वगात्राणि गर्भस्याऽऽविश्य वै तदा ।।७८।।
दधाति प्रज्ञया सद्यः प्राणाधारे व्यवस्थितः ।
तेन स्पन्दयतेऽङ्गादि सजीवोऽयं निगद्यते ।।७९।।
यथा स्वर्णद्रवः स्वल्पः कृत्स्नां ताम्रस्य पुत्तलीम् ।
करोति वै स्वर्णमयीं तथा जीवमयीं तनुम् ।।3.171.८०।।
करोति चेतनश्चाऽयमिदं जीवप्रवेशनम् ।
यथा वह्निर्लोहपिण्डे प्रविश्य स्वस्वरूपयेत् ।।८१।।
तथा जडे प्रविश्याऽयं चैतन्येन निरूपयेत् ।
यया गृहे प्रदीपोऽपि दीप्यमानः प्रकाशते ।।८२।।
एकस्थानस्थितश्चापि स्वं चान्यं प्रति काशते ।
एवं हृत्स्थोऽपि पुरुषस्त्रिदेहं प्रति काशते ।।।८३ ।।
पूर्वकृतं गर्भयोग्यं तत्रोल्बे भुंक्त आ नव ।
दशमे कर्मणां तत्र पूर्वस्य जन्मनस्तथा ।।८४।।
ज्ञानं प्रजायते चापि ततो बहिः प्रयाति सः ।
गर्भकर्म क्षयं प्राप्तं बाल्यकर्म समागतम् ।।८५।।
भोगार्थं तेन वशगो बालो भुंक्ते कृतं निजम् ।
अथ युवा जायमानो निसर्गविषयेच्छुकः ।।८६।।
प्रवर्ततेऽतिविषये पापं पुनः प्रजायते ।
निवर्तते विषयेभ्यः पुण्यमस्य प्रजायते ।।८७।।
दानं व्रतं ब्रह्मचर्यं सेवा ब्रह्मप्रधारणम् ।
दमः शान्तिर्दया तीर्थं व्रतं च संयमो यमः ।।८८।।
व्यलीकाऽनाचरणं च परस्वानां विवर्जनम् ।
मातापित्रोश्च शुश्रूषा देवताऽतिथिपूजनम् ।।८९।।
गुरुपूजाऽप्यहिंसा च शौचमिन्द्रियनिग्रहः ।
शुभानां चाचरणं च सतां वृत्तेन वर्तनम् ।।3.171.९०।।
एतानि यदि कुर्वीत धर्मः पुष्टः प्रजायते ।
धर्मः संरक्षितश्चैनं पाति वंशं तथा दिवम् ।।९१ ।।
सतां सेवां प्रकुर्वीत कुर्यात् सत्सु ध्रुवां स्थितिम् ।
आचारं पालयेत् सर्वं यत्र शान्तिर्निरन्तरा ।।९२।।
एनं धर्मं पालयेद् यो न स दुर्गतिमाप्नुयात् ।
उदयं लभते नित्यं धर्मस्य चेतनस्य च ।।९३।।
आचारा नियमा उक्ता अभ्युदयार्थमेव ह ।
एवं नियम्यते लोको गुरुभिः शास्त्रवेदिभिः ।।९४।।
नियमे वर्तमानश्च देही योगी भवेदिह ।
विषविद्याविदं नैव विषं स्पृशति वै तथा ।।९५।।
नियमे वर्तमानं संसारः स्पृशति नैव ह ।
योगे स्थितं न स्पृशति माया कर्म फलानि च ।।९६।।
योगी मुक्तो जीवन्मुक्तो भूत्वा देहात्प्रमुच्यते ।
सर्वलोकेषु योगस्थो मुक्तो देही विशिष्यते ।।९७।।
गुरुः स मोक्षदो लोके संगहीनो यतो हि सः ।
शुभं चेद् धर्ममार्गेण समर्जितं तु देहिना ।।९८ ।।
शुभभोगोत्तरं यद्वा कालेन महताऽथवा ।
संसारात्तरणं चास्य साधुयोगेन संभवेत् ।।९९।।
पापभोगोत्तरं यद्वा पशुपक्ष्यादिजन्मसु ।
सतां योगेन सहसा पापनाशः प्रजायते ।। 3.171.१० ०।।
यानवाहनछायादौ पत्रपुष्पादियोगतः ।
सतां सेवाप्रसंगेन पुण्यमस्य प्रजायते ।।१ ०१ ।।
ततः सज्जन्मना प्राप्तिः स्वर्गस्य वा परस्य वा ।
ततश्चैश्वरलोकस्य ततो मोक्षं प्रयाति वा ।।१ ०२।।
एवं लक्ष्मि कृतं प्राप्तं भुक्त्वा कर्म प्रमुच्यते ।
पुरा सृष्टौ ममैवादेशतः पुमान् ह्यजायत ।।१ ०३।।
शरीरमात्मनः कृत्वा स त्रैलोक्यं समसृजत् ।
स्थावरं जंगमं चेति प्रकृतिं त्रिगुणात्मिकाम् ।।१ ०४।।
मम मायास्वरूपां च सृष्ट्वा पुंसे तदा ददौ ।
प्रकृतिः सा शरीराणां यया व्याप्तमिदं जगत् ।।१ ०५।।
मायाशबलः पुरुषः प्रधानं चासृजत् ततः ।
पुंयोगेन प्रधानाच्च तत्त्वानि विविधानि वै ।।१ ०६।।
हिरष्मयस्वरूपाणि ह्यजायन्त ततो विराट् ।
ततो ब्रह्मा ततो देवा मानवाद्या इमाः प्रजाः ।। १ ०७।।
मायामयमिदं सर्वं क्षरं तत्परमक्षरम् ।
अमृतं धाम च तदूर्ध्वं परंधाम मे स्थितम् ।।१ ०८।।
मयाऽऽदिष्टा ईश्वरास्तु सृष्टिमीश्वरकोटिकाम् ।
असृजन् तत्समीक्ष्याऽपि ब्रह्माऽसृजच्चतुर्विधान् ।। १ ०९।।
तेषां कालपरिमाणं विधाय च पितामहः ।
सर्जनं प्रलयं चाप्यकल्पयत् सुखहेतवे ।। 3.171.११ ०।।
सुखं तु दुःखसम्मिश्रं कायममेध्यमित्यपि ।
देहाः सर्वे नाशमुखाः संसारो घोरकष्टदः ।।१ ११ ।।
जातिमरणयोगाढ्यो दुस्तरोऽतिविडम्बिभिः ।
असंगैः सुजयश्चापि सतां संगयुतैरपि ।। ११ २।।
निर्विद्यन्ते विवेकैश्च मार्गमाणाः परंपदम् ।
त एव प्राप्तमेतद्वै वर्ष्म त्यक्त्वा प्रयान्ति वै ।।१ १ ३।।
इत्येतत् कथितं लक्ष्मि तेऽत्र देहस्य मोक्षणम् ।
यथा च देहलब्धिश्च मोक्षप्राप्तिर्यथा च तत् ।। १ १४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मुक्तिधर्मेषु देहक्षयकारणानि देहप्राप्तिकारणानि देहान्मुक्तिकारणानि चेत्यादिनिरूपणनामा एक-
सप्तत्यधिकशततमोऽध्याय ।। १७१ ।।