लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १७२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७१ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १७२
[[लेखकः :|]]
अध्यायः १७३ →

श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि तथा मायालयो यथा प्रजायते ।
विद्यया तीर्यते जन्तुरविद्यां जयते यतः ।। १ ।।
ब्रह्मविद्या पराविद्या चात्मविद्या हि या मता ।
परमात्मोपासनया ह्यविद्या सा विशीर्यते ।। २ ।।
निर्णयः स्नेहसहितो मननं च तथाविधम् ।
माहात्म्यज्ञानसहितं चिन्तनं श्रीहरेस्तथा ।। ३ ।।
स्वरूपवेदनं सम्पदभिमत्या युतं मुहुः ।
विद्यात्मकं परब्रह्मप्रापकं तन्निगद्यते ।। ४ ।।
सा विद्या तु यया परब्रह्माऽधिगम्यते रमे ।
अविद्यां सा निरस्यैव परब्रह्म ददाति हि ।। ५ ।।
सुवर्णस्य विशुद्धिर्वै चतुर्भिर्जायते यथा ।
शिलया छेदनैश्चापि तापनैश्चाभिघातनैः ।। ६ ।।
आत्मनोऽपि तथा मायाविगमश्चतुरर्जनैः ।
सत्संगेन च ज्ञानेन वैराग्येण प्रभक्तिभिः ।। ७ ।।
सत्संगेन गुणानां वै प्रवाहस्य निरोधनम् ।
विज्ञानेन संस्काराणां शनैः शनैर्विवर्तनम् ।। ८ ।।
वैराग्येण वासनानां क्षयो हरौ प्रवर्तनम् ।
स्नेहभक्त्या हरौ सक्तिरसंगो मायया ततः ।। ९ ।।
एवं मायाविगमः स्याल्लक्ष्मि कृपया सद्गुरोः ।
अनुग्रहेण कृष्णस्य मायालोपो द्रुतं भवेत् ।। 3.172.१० ।।
हरेर्वासेन मायाया निवृत्तिस्तु निजात्मनि ।
सिंहवासेन सर्वेषां मृगाणां विगमो यथा ।। ११ ।।
नृपवासेन क्षुद्राणां देहिनां विगमो यथा ।
मृत्युवासेन देहस्थकरणानां गमो यथा ।।१ २।।
बिलाद्वै सर्पवासेन मूषकाणां गमो यथा ।
भयवासेनोत्सवानां हृदयाद्विगमो यथा ।।१ ३।।
उद्वेगानां विगमश्च महोत्सवे यथा भवेत् ।
तथा हरेर्निवासेन मायाया विगमो भवेत् ।। १४।।
अहं यत्र वसाम्येव तत्र माया न तिष्ठति ।
मम भक्ते निवसामि माया तत्र न विद्यते ।। १५।।
यः स्यादेकायने कृष्णे लीनो ब्रह्म विचिन्तयन् ।
तूष्णीं सर्वविकारेभ्यो मदन्यन्नैव धारयन् ।। १ ६।।
पूर्वं पूर्वं परित्यजेत् स तरेद् भवबन्धनात् ।
अद्रोहश्च क्षमावाँश्च शान्तचित्तो जितेन्द्रियः ।। १७।।
दैन्यद्वेषविहीनश्च निर्भयो ब्रह्मणोऽर्जने ।
जितचित्तो जितभावो भक्तो मे मुच्यते रमे ।। १८।।
सर्वजीवेषु निजवच्छुद्धभावनया युतः ।
अनहंभावमानादिः सर्वतो मुक्त एव सः ।। १९।।
जीवने मरणे स्थैर्ये दुःखे सुखे च मूर्छने ।
लाभेऽलाभे प्रिये द्वेष्ये समो यः स हि मुच्यते ।।।3.172.२०।।
न कस्यचित् स्पृहयति नाऽवजानाति कञ्चन ।
निर्द्वन्द्वो वीतरागादिः सर्वथा मुक्त एव सः ।।२१ ।।
अजातशत्रुर्निर्बन्धुरनपत्योऽप्यभार्यकः ।
त्यक्तधर्मार्थकामश्च निराकांक्षी प्रमुच्यते ।।२२।
पुण्याऽपुण्याऽवरहितः प्रारब्धमात्रयापकः ।
देहारम्भकतत्त्वानां क्षयवान् शान्तचित्तकः ।।।२३।।
अद्वैतश्रीहरौ जुष्टः प्रेमभावेन सेवया ।
आत्मवेदित्वमापन्नो मदात्मा स विमुच्यते ।।२४।।
आशालयो दिव्यदृष्टिर्जगत्पश्येदशाश्वतम् ।
अश्वत्थसदृशं जन्ममृत्युजरासमन्वितम् ।।२५।।।
वैराग्यशान्तभावाद्यैरुपेतो दोषवर्जितः ।
आत्मबन्धं प्रजहाति मोक्षं यात्यचिरात् स वै ।। २६।।
दिव्यगन्धरसस्पर्शशब्दरूपप्रमोदिनम् ।
मायामूर्तिविहीनं मां दृष्ट्वा क्षिप्रं प्रमुच्यते ।।२७।।
अस्थूलं चाप्यसूक्ष्मं चाऽकारणं तत्परं प्रभुम् ।
अगुणं गुणभोक्तारं मां दृष्ट्वा द्राक् प्रमुच्यते ।।।२८।।।
विमुच्य सर्वकामांश्च बुद्ध्या चान्तर्भवानपि ।
मम भावान्वितो भक्तः शनैर्निर्वाणमृच्छति ।।।२९।।।
बाह्माभ्यन्तरसंस्कारैर्मुक्तो द्वन्द्वविवर्जितः ।
निष्परिग्रह एवाऽयं निःसंगो मुक्त एव सः ।।3.172.३०।।
तापसो मम भावाढ्यश्चान्यसंस्कारवर्जितः ।
ब्रह्म सनातनं लब्ध्वा नित्यमक्षरमूर्ध्वगम् ।।३ १ ।।
शान्तः सन् मां समभ्येति परव्रह्म परात्परम् ।
आत्मन्यात्मानं स मां वै पश्यन् याति परं पदम् ।। ३२।।
सर्वेन्द्रियाणि संहृत्य वृत्तीर्मनसि धारयेत् ।
मनोऽहंभावने धृत्वाऽहं बुद्धौ धारयेत्ततः ।। ३३।।
बुद्धिं नियम्य सततं स्मरणं च तथाविधम् ।
संस्कारेषु प्रधार्य संस्कारान् जुहुयादात्मनि ।। ३४।।
आत्मानं जुहुयात् कृष्णेऽनादौ श्रीपुरुषोत्तमे ।
एवं मद्योगमापन्नो नित्यमुक्ताय कल्पते ।।३५।।
एतादृशः परः साधुरेकान्तशील एव सः ।
भवन् पश्यन्निजे रूपे मां मदानन्दमश्नुते ।।३६।।
अन्तश्चक्षुःसहितेन प्रकाशेनाऽनिवर्तिना ।
पश्यत्यात्मनि चात्मानं मां पतिं पुरुषोत्तमम् ।।३७।।
एवं लग्नो निजात्मनाऽऽत्मानं मां तत्र पश्यति ।
यथा हि पुरुषः स्वप्ने स्वं वै पश्यत्यसाविति ।। ३८।।
तथाऽयं स्वे स्वरूपे मां साध्वात्मानं प्रपश्यति ।
देहे स्नातस्य तु यथा लग्नं जलपटं तु यत् ।।३९।।
निष्कृष्य कुशलः कश्चित् तत्पृथक् चेत् प्रदर्शयेत् ।
देहं चाऽपि तथाऽऽकृष्य सूक्ष्माद् भिन्नं प्रदर्शयेत् ।।3.172.४०।।
सूक्ष्मं कारणादाकृष्य पृथक्तया प्रदर्शयेत् ।
कारणं चापि मायातः पृथक्कृत्वा प्रदर्शयेत् ।।४१ ।।
मायां जीवात् पृथक्कृत्वा तथा कश्चित् प्रदर्शयेत् ।
जीवं हरेः पृथक्कृत्य तथा योगी प्रदर्शयेत् ।।।४२।।
आत्मानं वै पृथक्कृत्य यथा योगी प्रदर्शयेत् ।
तथा मां परमात्मानं पृथक्कृत्य प्रदर्शयेत् ।।४३।।
तथापि स न युक्तात्मा पृथग् भूम्नो भवेद्धि मत् ।
व्यापकोऽहं समस्तानां तस्याप्यैश्वर्यरोधकः ।।४४।।
तं मय्यन्तःप्रभाव्यैव नियामयामि सर्वथा ।
मामापन्नो मम मुक्तो ममैश्वर्याणि चाश्नुते ।।४५।।
मायाऽस्य विनिवृत्ता वै मां यातः सोऽक्षरे परे ।
तत्र माया विद्यते न यथा तत्र तथाऽत्र न ।।४६।।
यत्र क्वापि वर्तमानो मद्भक्तो ह्यस्त्यमायिकः ।
निर्गुणो दिव्यगुणवान् निर्वाणपदभाजनः ।।४७।।
यदा हि युक्तमात्मानं मया पश्यति देहभृत् ।
न तस्येहेश्वरः कश्चित् त्रैलोक्यस्यापि स प्रभुः ।।४८।।
एकधा भवति द्वेधा त्रेधा दशधा सहस्रधा ।
अन्याऽन्याश्च तनू रम्या यथेष्टं प्रतिपद्यते ।।४९।।
न तस्य रोगो न जरा न मृत्युः शोक इत्यपि ।
देवानामपि देवत्वं सोऽयं कारयते वशी ।।3.172.५०।।
परब्रह्म ह्यवाप्नोति हित्वा विदेहभावनाम् ।
ब्रह्मभावं गतस्याऽस्य नाशभयं न जायते ।।५ १ ।।
क्लिश्यमानेषु नष्टेषु भूतेष्वस्य न वै भयम् ।
न क्लेशैर्दुःखशोकैश्च घोरैः संगादिकोद्भवैः ।।५२।।
विचाल्यते न युक्तात्मा निःस्पृहः शान्तिसंभृतः ।
नैनं मृत्युर्विध्यति वै नैनं कालो ग्रसत्यपि ।।।५३।।
नातः सुखतरं किञ्चिल्लोकेऽस्यान्यद् विलोक्यते ।
सम्यग् युक्त्वा निजात्मानं मयि कृष्णे प्रतिष्ठते ।।५४।।
विनिवृत्ततृषादुःखः सुखं स्वपिति चात्मनि ।
रूपं यथेष्टमभ्येति हित्वेमां मानुषीं तनुम् ।।५५।।
ततो मुक्तेन निर्वेदः कर्तव्यो न विधीयते ।
आत्मद्रष्टा स्पृहयते नैव भोगान्महैश्वरान् ।।५६।।
आत्मनिष्ठो महामुक्तो जीवन्मुक्तो विदेहवान् ।
निषीदेन्नगरे चापि मनो बाह्यं न मुञ्चति ।।५७।।
नगराभ्यन्तरे तिष्ठन्निजावसथे संवसेत् ।
मनो नैवाऽवसथेऽपि बाह्यं मुक्तो विमुञ्चति ।।५८।।
यत्र कुट्यां वसेच्चापि पार्श्वे मनो न मुञ्चति ।
यत्र देहे वसत्येव तत्रापि स्वमनो बहिः ।।५९।।
देहात्मकेऽपि विषये क्षणं नैवापि मुञ्चति ।
इन्द्रियेषु गोलकेषु तन्मात्रेषु न मुञ्चति ।। 3.172.६०।।
मूलाधारादिचक्रेषु मनः क्षणं न मुञ्चति ।
सूक्ष्मेऽपि चान्यतत्त्वेऽपि क्षणं मनो न मुञ्चति ।।६१ ।।
काये त्रिविधे सर्वत्र वासनावर्जितो यतः ।
अन्तरे बहिरेकात्मा मां हरिं परिपश्यति ।।६२।।
परिपूर्णं यतोऽस्याऽत्र सर्वं तेन स सदृशम् ।
परिपूर्णतमं मां वै लोकयत्येव नेतरत् ।।६३।।
सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः ।
सर्वतः श्रुतिमान् भूत्वैतादृशं मां प्रपश्यति ।।६४।।
धारयन्नपि देहं स्वं चष्टे वै ब्रह्म केवलम् ।
आत्मानं चाऽऽप्य विमानं प्रमोदसंभृतस्तदा ।।६५।।
विमानमाश्रयं कृत्वा मोक्षं याति ततो मयि ।
नैतदेतत्सुविज्ञेयं व्यामिश्रेणाऽन्तरात्मना ।।६६।।
क्रियावतां देवलोको ज्ञानिनां व्योम शाश्वतम् ।
सिद्धानां सत्यभवनं भक्तानां ब्रह्म शाश्वतम् ।।६७।।
परा हि सा गतिर्लक्ष्मि यत्तद् ब्रह्म सनातनम् ।
यत्राऽमृतत्वं कुशलं सुखं प्रमोदनं सदा ।। ६८।।
इमं साधनमाश्रित्य पापाः स्त्रियोऽन्तिमस्थिताः ।
सर्वे यान्ति परां प्राप्तिं किं वै पुनर्बहुश्रुताः ।।६९।।
ये स्वधर्मनिरताः साधुभक्ताः परार्थिनः ।
ब्रह्मविदो नैष्ठिकाश्च नित्यं ब्रह्मपरायणाः ।।3.172.७०।।
मम लोकात्परं त्वन्यत् सुखं किञ्चिन्न विद्यते ।
ज्ञात्वा त्यक्त्वा च सम्मोहं परां गतिमवाप्नुयात् ।।७१ ।।
एतन्मायाविलयनं मोक्षणं ते प्रदर्शितम् ।
ममैव साध्यस्य योगाद् युज्यते परमे पदे ।।७२।।
नाऽस्य लक्ष्मि तृषा चास्ते मां विहायाऽन्यगोचरा ।
तत एव हि भक्तोऽसौ राजते मत्परे पदे ।।७३।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मुक्तिधर्मं मायाविलयनसाधनं परब्रह्मधामप्रापणं चेत्यादिनिरूपणनामा द्वासप्तत्यधिकशततमोऽध्यायः ।। १७२ ।।