लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १७०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६९ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १७०
[[लेखकः :|]]
अध्यायः १७१ →

श्रीनारायणीश्रीरुवाच-
मुक्तिधर्मान् कृष्णकान्त मोहच्छेदनकारकान् ।
जीवानामनुकम्पार्थं वदत्रा सर्वसम्मतान् ।। १ ।।
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं सर्वसखीसमन्विता ।
सिद्धिदान् मुक्तिदान् धर्मान् वक्ष्यामि हितकारिणः ।। २ ।।
अक्षरं परमं व्योम सच्चिदानन्दलक्षणम् ।
मुक्तिस्थानं परधाम ममाऽस्ति लक्ष्मि वेत्सि तत् ।। ३ ।।
मया श्रीकृष्णरूपेण गोलोकः सेव्यते सदा ।
राधादिगोपिकावृन्दैः सेवितेन निजात्मना ।। ४ ।।
प्रथमं परमंधाम द्वितीयं चाक्षरं पदम् ।
गोलोकस्तृतीयं धाम मुक्तिस्थानं ममाऽस्ति तत् ।। ५ ।।
वैकुण्ठे तु चतुर्थे वै नारायणो वसाम्यहम् ।
लक्ष्म्यादिभिः पार्षदाद्यैः सेवितः परमेश्वरः ।। ६ ।।
पञ्चमे वासुदेवोऽहं संकर्षणादिभिः सह ।
वसाम्यव्याकृते धाम्नि मुक्तिस्थाने सदा प्रिये ।। ७ ।।
षष्ठेऽमृताख्ये लोकेऽहं भूमा नाम्ना वसामि च ।
ईश्वराणां न्यायकर्ता महाराजाधिराजकः ।। ८ ।।
सप्तमे श्रीपुरधाम्नि वसामि ललितापतिः ।
महालक्ष्मीपूजितोऽहं महाविष्णुस्वरूपधृक् ।। ९ ।।
येयं श्रीकम्भरालक्ष्मीर्गोपालकृष्णसंयुता ।
भूतले वर्तते चाऽद्य माता मे भाग्यशालिनी ।। 3.170.१० ।।
अष्टमे प्राकृते धाम्नि मायामये तु पौरुषे ।
निवसामि पतिश्चाऽहं प्रकृतेः पुरुषात्मकः ।। ११ ।।
महापुरुषरूपस्य मुक्तिस्थानं हि तत्तथा ।
सादाशैवं नवमं च नित्यकैलासनामकम् ।। १२।।
वैष्णवं दशमं धाम श्रीविष्णुरूपसेवितम् ।
वैराजं धाम वै चैकादशं त्वीश्वरकोटिकम् ।। १ ३।।
द्वादशं मात्स्यमेवापि कौर्मं त्रयोदशं तथा ।
चतुर्दशं तु वाराहं पश्चदशं तु कापिलम् ।।१४।।
षोडशं चापि हारेयं वासुदेवीयकं ततः ।
अष्टादशं तु पार्थं वै दात्तात्रेयं ततः परम् ।। १५।।
विंशं हंसाश्रितं धामैकविंशं नारसिंहकम् ।
आर्षभं द्वाविंशकं च त्रयोविंशं तु वामनम् ।। १६।।
चतुर्विंशं पर्शुरामाश्रयं याज्ञं ततः परम् ।
रामधाम ततश्चापि सप्तविंशं कुमारवत् ।। १७।।
अष्टाविंशं हायग्रीवं नारदं तु ततः परम् ।
त्रिंशं तु राजराजाढ्यं व्यासस्य त्वेकत्रिंशकम् ।। १८।।
बौद्धं द्वात्रिंशकं त्रयस्त्रिंशं तु मोहिनीश्रितम् ।
नापुंसकं चतुस्त्रिंशं तथाऽसंख्यानि चाऽक्षरे ।। १ ९।।
अक्षरस्य प्रदेशेषु सीमस्वेतानि सन्ति वै ।
बहूनि मे स्वरूपाणि चावतारास्तथा रमे ।।3.170.२०।।
अनन्ताश्च ततो धामान्यप्यनन्तानि सन्ति मे ।
भक्तानां भावनापूर्त्यै कृतानि तानि तत्तथा ।। २१ ।।
मुक्तिस्थानानि सर्वाणि यथाभक्ति यथास्थिति ।
प्राप्यन्ते मानवैस्तान्युपासनाबलिभिः प्रिये ।।२२।
एवमन्यानि लोकेऽत्र भवन्ति च बहून्यपि ।
जलावरणवैकुण्ठं सत्यं धामाऽपि वेधसः ।। २३।।
बदर्याश्रममेवाऽपि नरनारायणस्य मे ।
ततःस्थानं शुभं मुक्तिप्रदं लौकिकमुक्तिदम् ।।२४।।
श्वेतद्वीपाभिधं धाम निरन्नमुक्तसेवितम् ।
शेषे यत्राऽहमेवाऽऽस्से लक्ष्मीरेवादिसेवितः ।। २५।।
चान्द्रं स्थानं तथा सौरं स्थानं मे यत्र राजते ।
मूर्तिर्हिरण्मयी दिव्या वह्नौ चापि तथा स्थिता ।।२६।।
कौबेरं चापि याम्यं च मारुतमैन्द्रमित्यपि ।
ऐशानं चापि कैलासं शैवं च वारुणं जले ।।२७।।
मेरौ स्थानान्यसंख्यानि मुक्तितुल्यसुखानि वै ।
पातालेषु तथा सन्ति स्थानानि सुखदान्यपि ।।२८।।
ऐहिकमुक्तियोग्यानि भवन्ति तानि पद्मजे ।
सान्तानि तानि सर्वाणि ब्रह्माण्डस्थानि यानि वै ।।२९।।
चिरस्थसुखदान्येव मुक्तितुल्यानि सन्ति हि ।
ऐश्वराण्यपि धामानि सान्तानि प्रलये खलु ।।3.170.३० ।।
प्राकृतानि समस्तानि नाशयोग्यानि तानि हि ।
चिरमुक्तिप्रशस्तानि भवन्ति मम वाञ्च्छया ।।३१ ।।
विनाऽक्षरपदं लक्ष्मि बृहद्धाम विनाऽपरे ।
लोकाः स्थानानि दिव्यानि काशन्तेऽन्तर्भवन्ति च ।।३२।।
परब्रह्मस्वरूपोऽहं यदा भवामि योगवान् ।
राधायुक्तो रमायुक्तस्तदा धामानि मत्कृते ।।३३।।
सर्वाण्याविर्भवन्त्येव ब्रह्मतोऽक्षरधामनि ।
ब्रह्मात्मकानि सर्वाणि ब्रह्मान्तानि हि पद्मजे ।।३४।।
क्वचिच्चाऽक्षरधामाऽपि मयि सर्वं विलीयते ।
परधामस्थितेऽनादिपरब्रह्मणि स्वामिनि ।।३५।।
परधाम सदा मेऽस्ति यतोऽक्षरादयो मुहुः ।
आविर्भवन्ति काशन्ते मुक्तानां कोटयोऽपि च ।।३६।।
ममाऽऽश्रिताश्च वा ये तु ममाऽवतारमाश्रिताः ।
ममेश्वरानाश्रिता वा मम मूर्तिमुपाश्रिताः ।।३७।।
ममांऽशानाश्रिता ये वा मद्विभूतिमुपाश्रिताः ।
मत्साधूनाश्रिता ये वा मच्छक्तिं समुपाश्रिताः ।।३८।।
मद्भक्तिध्याननिरता मम सेवापरायणाः ।
मत्साधुसेवने सक्ता मत्साध्वीसेवने तथा ।।३९।।
मत्कलामाश्रिता ये वा मदावेशमुपाश्रिताः ।
मद्वंशमाश्रिता ये च मम पत्नीरुपाश्रिताः ।।3.170.४०।।
मदर्थमात्मसर्वस्वनिवेदित्वमुपाश्रिताः ।
ते सर्वे मम मार्गस्था मम मार्गमुपाश्रिताः ।।४१ ।।
मम मार्गे प्रवृत्ताश्च मम मार्गे प्रगामिणः ।
मम स्नेहभराः सर्वे मम सान्निध्यमागताः ।।।४२।।
मम मुक्तिं प्रयान्त्येव मया मद्धाम प्रापिताः ।
क्रममार्गाधिरूढास्ते प्रयान्ति परमं पदम् ।।४३।।
मानवाः ऋषयो देवाः पितरो मुनयस्तथा ।
सन्तः सिद्धाः सत्पुरुषाः सत्यः साध्व्यः पतिव्रताः ।।४४।।
आत्मनिवेदिनो ये च वैष्णवा मत्सुयोगिनः ।
तेषामाश्रयमाप्ता ये ते सर्वे क्रमशः खलु ।।४५।।
मदंशोपासनाशक्त्या मामेष्यन्ति शनैः शनैः ।
मुक्तिधर्मः क्रमवाँश्च पुष्टो भवति तैरिह ।।४६।।
साक्षान्मां ये चाश्रयन्ति वेदसंहितया विदः ।
तेषां क्रमं विना प्राप्तिर्धाम्नः पुरस्य मे भवेत् ।।४७।।
एवं वै बहवो याता मामुपाश्रित्य मत्पदम् ।
मत्स्वरूपोपासकास्तु क्रमाद् यास्यन्ति मत्पदम् ।।४८।।
एवं लक्ष्मि मया लोके मुक्तिमार्गः कृपाकृतः ।
तं सृत्वा लंघयिष्यन्ति भवाऽरण्यं ममाश्रिताः ।।४९।।
एकदाऽश्वपट्टसरस्तटे श्रीमानसो मुनिः ।
निषण्णो ब्रह्मवृक्षाऽधो भूतले प्रजपन् हरिम् ।।3.170.५०।।
ददर्श योगिपुरुषं ज्ञानविज्ञानपारगम् ।
सर्वतत्त्वार्थकुशलं सुखदुःखविवेकिनम् ।।५१ ।।
जातिस्मरं पुण्यपापकोविदं चात्मवेदिनम् ।
ज्ञातारं च गतीनां वै कर्मणां देहिवर्तिनाम् ।।५२।।
चरन्तं मुक्तवत् सिद्धं प्रशान्तं च जितेन्द्रियम् ।
दीप्यमानं श्रिया ब्राह्म्याऽन्तर्धानविद्यावेदिनम् ।।५३।।
तथाऽदृश्यैर्भागवतैर्भक्तैर्यान्तं शनैरनु ।
श्रीमानसः समुत्थाय योगिनं प्राणमत् पुरः ।।५४।।
स्वागताद्यैश्चिदानन्दाभिधं तं पर्यतोषयत् ।
भावेन श्रद्धया भक्त्या सेवया तुष्ट एव सः ।।५४६।।
चिदानन्दः समुवाच योग्यं श्रीमानसं मुनिम् ।
शृणु साधो कृपयाऽत्र वदामि कृष्णप्रेरितः ।।५६।।
कृष्णस्यैव जगत् सर्वं कृष्णार्थं परिकल्पितम् ।
कृष्णार्थं योजितं सर्वं मुक्तये दिव्यताप्तये ।।५७।।
कृष्णं विहाय चाऽन्यस्मै योजितं लौकिकाप्तये ।
लौकिकाप्तिप्रदं स्यात्तन्न तु शाश्वतमुक्तये ।।६८।।
विविधैः कर्मभिर्लोकाः पुण्ययोगैश्च केवलैः ।
प्रयान्त्येव शुभां मर्त्या देवलोकादिसंस्थितिम् ।।५९।।
न तत्र सुखमत्यन्तं न तत्र शाश्वती स्थितिः ।
स्थानात्तु महतो भ्रंशो दुःखलब्धात् पुनः पुनः ।।3.170.६० ।।
अशुभा गतयः प्राप्तास्तादृश्यश्च मया त्वया ।
पुरा बह्व्यो निपातान्ताः कष्टाः पापाभिसंभृताः ।।६१ ।।
कामक्रोधमहामोहतृष्णारागादिसंभृताः ।
यत्र मुहुर्हि मरणं मननं यत्र वै मुहुः ।।६२।।
आहारा विविधा भुक्ताः पीताः स्तना असख्यकाः ।
मातरो विविधा दृष्टाः पितरोऽपि पृथग्विधाः ।।६३।।
सुखानि च विचित्राणि नराणां योषितां तथा ।
दुःखान्यपि विचित्राणि रोदनानि बहून्यपि ।।६४।।
वक्षःकुट्टानि बहुधा कृतानि तत्र तत्र च ।
शिरस्ताडनमेवाऽपि चाऽऽत्मघाता ह्यनेकधा ।।६५।।
प्रियैर्विवासा बहुधा संवासाश्चाऽप्रियैः सह ।
दुःखाप्तानां सञ्चितानां धनानां नाशनानि च ।।६६।।
अवमानाः सुकष्टाश्च नृपेभ्यः स्वजनादितः ।
शारीरा मानसा वापि वेदनाश्चातिदारुणाः ।।६७।।
तिरस्काराश्चोग्ररूपा वधा बन्धाश्च दारुणाः ।
पारवश्यातिकष्टानि रोगकष्टानि वै तथा ।।६८।।
यातना यमजाश्चापि निरये पतनान्यपि ।
जन्मरोगाश्च बहवो जरारोगाश्च दारुणाः ।।६९।।
व्यसनानि समस्तानि त्रासदानि मुहुर्मुहुः ।
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि मया त्वया ।।3.170.७० ।।
त्वयाऽनादिकृष्णयोगात् त्यक्तं जालं हि मानसम् ।
दैहिकं च सदा त्यक्तं श्रीहरौ परमात्मनि ।।७१ ।।
सुखी चाऽऽस्सेऽत्र परमे पावने चरणे हरेः ।
अश्वपट्टसरक्षेत्रे मोक्षदे दिव्यमुक्तवत् ।।७२।।
अहं विचार्य च सर्व परं वैराग्यमाप्तवान् ।
अनादिश्रीकृष्णनारायणपादमुपाश्रितः ।।७३ ।।
लोकतन्त्रं त्यक्तवाँश्च दुःखार्त्तः साधुवृत्तिमान् ।
सर्वं दुःखं चाऽनुभूय त्विमं मार्गमनुष्ठितः ।।७४।।
ततः सिद्धिमवापाऽपि प्रसादात्परमात्मनः ।
अथाऽहं श्रीकृष्णनारायणश्रीवल्लभं प्रभुम् ।।७५।।
दृष्ट्वा नत्वा पूजयित्वा प्रयामि परमं पदम् ।
नाऽहं पुनरिहाऽऽगन्ता तीर्थं कृत्वा प्रयाम्यहम् ।।७६।।
त्वां दृष्ट्वा च पुनः सिद्धिर्दिव्या मेऽत्र व्यजायत ।
आसिद्धेराप्रजासर्गादात्मनोऽपि गतीः शुभाः ।।७७।।
नोपलब्धाऽस्म्युत्तरे वै तथेयं सिद्धिरुत्तमा ।
शुभं सर्वं मया न्यस्तं नारायणे परात्मनि ।।७८।।
न मे ततः शुभं चापि भोक्तव्यमवशिष्यते ।
इतः परं गमिष्यामि श्रीहरेः परमं पदम् ।।७९।।
परब्रह्मपदं श्रेष्ठं मा ते भूदत्र संशयः ।
नाऽहं पुनरिहाऽऽगन्ता सृष्टिलोकं हि दुखदम् ।।3.170.८०।।
त्वां दिव्यं तु परं भक्तं दृष्ट्वा गुरोर्हरेरिह ।
प्रीतोऽस्मि ते चात्मवेदिन् ब्रूहि किं करवाणि ते ।।८ १ ।।
कालोऽयं विद्यते शुभ्रो भक्तेऽर्पयितुं मानसम् ।
आत्मनिवेदिभक्तस्य सेवया सर्वमाप्यते ।।८२।।
प्रसादेन महामुक्तिराप्यते नाऽत्र संशयः ।
यथा त्वं स्याः प्रसन्नोऽत्र तथा सेवां प्रदर्शय ।।८३।।
भृशं प्रीतोऽस्मि भवतो भक्त्योपासनया हरेः ।
परिपृच्छस्व भाषेयं सर्वं यत्तव वाञ्च्छितम् ।।८४।।
बहु मन्ये च ते भक्तिं भृशं त्वां पूजयामि च ।
येनाऽहं कृतकृत्योऽस्मि किं ददामि द्रुतं वद ।।८५।।
इत्युक्तः श्रीमानसोऽपि प्रपूज्य तं सुवस्तुभिः ।
चिदानन्दं दिव्यजनं पप्रच्छ बहुधामतिम् ।।८६।।
कथं देहः क्षयमेति कथं देहः प्रपद्यते ।
कथं देही संसरँश्च संसारात्परिमुच्यते ।।८७।।
कथं माया लीयते च कथं मायां प्रपद्यते ।
एकं देहं परित्यज्य कथमन्यं प्रपद्यते ।।८८।।
कथं निजाऽर्जिते चात्मा शुभाशुभे भुनक्ति च ।
शुभाऽशुभे प्रभुक्त्वा च कथं ब्रह्माऽभिपद्यते ।।८९।।
विदेहस्याऽस्य जीवस्य कर्म क्व वा प्रतिष्ठति ।
कर्मणां फलनाशार्थं कस्याऽऽश्रय उपास्यते ।।3.170.९०।।
कथं केन प्रतापेन दिव्यताऽत्र समर्थ्यते ।
कथं वा नित्यमुक्तत्वं कथं वाऽक्षरवासिता ।।९१ ।।
कथं सारूप्यमेवाऽपि भवेत्तानि निरूपय ।
इत्येवं लक्ष्मि पप्रच्छ चिदानन्दं हि मानसः ।।९२।।
चिदानन्दस्तु कृपया स्मृत्वा मां परमेश्वरम् ।
सर्वान् प्रश्नान् यथायुक्तान् विचार्योत्तरमाह ह ।।९३।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मुक्तिधर्मेषु विविधधाम्नां निर्देशः श्रीमानसचिदानन्दयोगिनोर्मिथः प्रश्नाश्चेत्यादिनिरूपणनामा सप्तत्यधिकशततमोऽध्यायः ।। १७० ।।