लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १६९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १६९
[[लेखकः :|]]
अध्यायः १७० →

श्रीनारायणीश्रीरुवाच-
कथं नित्या अपि जीवा ज्ञानवन्तोऽपि देहिनः ।
जानन्तोऽपि मृत्युपदं प्रयान्ति कारणं वद ।। १ ।।
श्रीपुरुषोत्तम उवाच-
सर्वं जिह्मं मृत्युपदं जिह्मा मृत्युं प्रयान्ति हि ।
कुटिलां वृत्तिं कुर्वन्ति कामाद्यास्ते हि मारकाः ।। २ ।।
त एव निजदेहस्थाः शत्रवो घातकाः सदा ।
तद्धीनानां न वै मृत्युर्योगिनां च सतां रमे ।। ३ ।।
मृत्युर्वै नरकः प्रोक्तः स च जन्मादिनिर्मितः ।
जन्म कर्मबलात् प्राप्तं कर्म वासनयाऽर्जितम् ।। ४ ।।
सा चेन्निर्दह्यते शान्त्या दमेन सेवया सताम् ।
हरेर्भक्त्या क्षालयेच्चात्मानं विशदतां दिशेत् ।। ५ ।।
ततो मृत्युः कष्टरूपो मरणाख्यो न जायते ।
दिव्यभावमुपायातो याति ब्रह्म सनातनम् ।। ६ ।।
चिरंजीवो भवत्येव शाश्वतैश्वर्यवान् भवेत् ।
मृत्युशीला धातवोऽस्य दिव्या भवन्ति मद्बलात् ।। ७ ।।
प्रमादश्चापि मोहश्च विनश्यतोऽस्य सर्वथा ।
तावेव मृप्युरूपौ हि नास्याऽऽविशतो वै क्वचित् ।। ८ ।।
मायाहीनस्य भक्तस्य मम योगे स्थितस्य च ।
माया दिव्या जायतेऽपि बन्धनादिविवर्जिता ।। ९ ।।
ततोऽसौ नित्यमुक्तात्मा ब्रह्मण्येव प्रवर्तते ।
एवं लक्ष्मि भवत्येव त्वं यथा चाब्धिजा ह्यपि ।। 3.169.१ ०।।
वर्तसे मम योगेन दिव्या मायाविवर्जिता ।
नित्या सुसमसंस्थाना वृद्धिहासविवर्जिता ।। १ १।।
यथाऽहं च तथा त्वं वै तथा भक्तो भवत्यपि ।
मदिच्छा तादृशी लक्ष्मी तया तथैव जायते ।। १२।।
आत्मनस्तु पुराऽहंकारेण युद्धमवर्तत ।
अहंकारेण देहोऽयं निजराज्यात्मकः कृतः ।। १३।।
सुगन्धश्च हृतस्तेन सर्वोऽपि निजराज्यजः ।
दुर्गन्धश्चावशिष्टश्च मृत्युदो दुःखदो गरः ।। १४।।
चिदात्मा वीक्ष्य दुष्कृत्यं ज्ञाननाशात्मकं ह्यपि ।
अनात्म्याचरणं वीक्ष्य शस्त्रं विवेकमादधे ।।१५।।
अहंकारस्य दुष्टस्याऽवासृजन्मृत्युदस्य तत् ।
वध्यमानोऽप्यहंकारः शस्त्रेण चातिवेगिना ।। १ ६।।
विवेश पृथिवीं त्यक्त्वा जलभागं निरामयम् ।
सुरसश्च हृतस्तेन सर्वोऽपि निजराज्यजः ।। १७।।
द्रुष्टरसोऽवशिष्टश्च मृत्युदो दुःखदो गरः ।
आत्मा शस्त्रं पुनस्तस्याऽवासृजद् वधहेतवे ।। १८।।
वध्यमानो विवेशाऽहंकारो ज्योतिःप्रदेशकम् ।
तत्र रूपं सुरूपं च जग्राह निजराज्यगम् ।।१ ९।।
कुरूपं चाऽवशिष्टं च चिदात्मा पुनरेव च ।
तीक्ष्णं शस्त्रं विवेकाख्यमस्य चाऽवासृजत्ततः ।।3.169.२०।।
ताड्यमानोऽप्यहंकारो विवेश वायुभूस्तरम् ।
तत्र स्पर्शं सुष्टुसंज्ञं जग्राह निजराज्यगम् ।।२१।।
कुस्पर्शश्चावशिष्टो वै तं विलोक्य पुनस्तथा ।
शस्त्रं चाऽवासृजत्तस्य विनाशार्थमथापि सः ।।।२२।।
अहंकारोऽविशद् व्योम शब्दं जग्राह तद्गतम् ।
कुशब्दश्चावशिष्टश्च वीक्ष्य तं तु पुनस्तथा ।।२३।।
चिदात्मा शस्त्रमागृह्य मारयामास यावता ।
अहंकारो विवेशाऽपि चिदात्मनि निराश्रितः ।।२४।।
चिदात्मा च गुरुर्भूत्वोपादिदेशाप्यहंकृतिम् ।
अहं ब्रह्मस्वरूपोऽस्मीत्यहंकारोऽपि तद् दधौ ।।२५।।
ततो ब्रह्मस्वरूपस्याऽभिमत्या ब्रह्मतां ययौ ।
मायिकोऽपि गुरोर्वाक्यादुपास्त्या ब्रह्मतां ययौ ।। २६।।
चिदात्मा तं विवेकेन जघानापि न वै हतिम् ।
ययौ चात्मस्थितस्तस्माज्जातो मृत्युविवर्जितः ।।२७।।
स्वस्वभावं परित्यज्य चिदात्मरूपतां गतः ।
अवध्यभावमासाद्य दिव्याऽहंभावमाश्रितः ।।२८।।
बुद्धिं दिव्यां समाश्रित्य परमात्मानमाप्तवान् ।
अवध्यः स सदा जातो दिव्यबुद्ध्याऽऽत्मसंस्थितः ।।२९।।
परमेश पराभक्त्या मुक्तभावमुपागतः ।
मुक्तानां दिव्यतत्त्वानां व्याघातो नैव जायते ।।3.169.३०।।
एवं लक्ष्मि विनाशो वै मृत्योर्भवति चार्पणात् ।
आत्मार्पणं समस्तानामिन्द्रियाणां च कर्मणाम् ।। ३१ ।।
वृत्तीनां चात्मना साकं ब्रह्मार्पणं हि निर्गुणम् ।
निर्गुणे मयि नास्त्येव मृत्युर्लोकाभिदुःखदः ।।३२।।
व्याधयो द्विविधा लक्ष्मि शारीरा मानसास्तथा ।
तेषां परस्परं जन्म परस्परमपेक्षिणाम् ।।३३।।।
वातपित्तकफानां तु वैषम्ये देहजा हि ते ।
अवैषम्ये स्वस्थभावश्चारोग्यं गीयते हि तत् ।।३४।।
ओषधेन यथामृद्यं मृद्यते तद्विरोधिना ।
उष्णेन मृद्यते शीतं शीतेनोष्ण्यं च मृद्यते ।।३५।।
मानसेऽपि तथा दोषे मृदुस्तीक्ष्णेन मृद्यते ।
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ।।३६।।
सत्त्वरजस्तमसां चेत् साम्यं स्वास्थ्यं तदात्मनः ।
वैषम्यं व्याधिरेवाऽयं तत्र मर्दनमिष्यते ।।३७।।
दुःखवान् यतते सौख्ये सुखी दुःखं स्मरत्यपि ।
गुणजौ तावुभौ भावौ मानसौ न तु चात्मनः ।।३८।।
तथापि वेगमासाद्य वहते तत्प्रवाहणे ।
संगं च लभते देही मनुते मानसान्निजे ।।३९।।
यदि चेल्लभते प्रज्ञां पुराणीं सद्गुरोर्मुखात् ।
सच्चिदानन्दभावां स्वां मनो नाशं तदेच्छति ।।3.169.४०।।
यतते तद्विनाशार्थं प्रज्ञाशस्त्रेण चात्मनः ।
आत्मा योद्धा स्वयं स्याच्च ब्रह्मरथे निषद्य वै ।।४१ ।।
पारब्रह्मपदं लक्ष्मि तदा चात्मा विजेष्यति ।
बाह्यं सर्वोपकरणं वैश्यं द्रव्यं समुत्सृजेत् ।।।०८२।।
असंगश्चाऽपरिग्रहस्ततः सिद्धिं प्रलप्स्यते ।
ममेति जायते यावन्मृत्युस्तावदुपस्थितः ।।४३।।
न ममेति यदा भावो मृत्युस्तस्य गतो मृतिम् ।
सोऽहं ब्रह्मेति तस्यैव शाश्वतं सम्प्रकाशते ।।४४।।
एतादृशस्य तु विवेकिनो लक्ष्मि ह्यसीमकम् ।
ब्रह्माण्डराज्यमस्याऽस्ति जंगमस्थावरात्मकम् ।।४५।।
तथापि नाऽस्य ममता मृत्युस्तं किं करिष्यति ।
मृत्युमूर्धपदं कृत्वा स याता ब्रह्म शाश्वतम् ।।४६।।
कामं वै वसतो लक्ष्मि वने वन्येन जीवतः ।
ममतामत्यजतस्तु मृत्युः केशेषु तिष्ठति ।।४७।।
बाह्यान्तराणां ममतां मायां वीक्ष्याऽऽन्तरात्मना ।
अन्तर्ब्रह्मस्वरूपेण स्थातुर्मुक्तिर्महाभयात् ।।४८।।
सर्वाः प्रवृत्तयो लोके कामोद्भाव्या भवन्ति ताः ।
विचार्याऽकामगो भूत्वा यदि संहरते मनः ।।४९।।
कारणस्यैव संहाराद् भूयोऽभ्यासबलैधितः ।
मायाप्रवाहमुत्तीर्य याति ब्रह्मसनातनम् ।।3.169.५०।।
सारमार्गं प्रलम्बेत दानं व्रतं तपो मखम् ।
सारमपि ह्यसारं चाऽकामं कृत्वाऽनुसञ्चरेत् ।।५ १ ।।
हर्यर्पणं महासारं कृत्वा यद्वाऽनुसञ्चरेत् ।
सर्वं तस्योत्तरणाय भवेदुत सहायकृत् ।।५२।।
निग्रहो मोक्षबीजं वै प्रग्रहो भवबीजकम् ।
शृणु लक्ष्मि पुरागाथां वृत्तां जीवात्मनो यथा ।।५३।।
आत्मा सुखी स्वयं पार्श्वस्थितं पप्रच्छ चैकदा ।
अभिमानं सुखे विघ्नकर्तारं बलिनं मुहुः ।।५४।।
कथं केन विनाशस्ते यदि सत्यव्रतो भवान् ।
वद् मे येन प्रयते त्वन्नाशे सुखवानहम् ।।५५।।
तदाऽहंकारपुरुषः श्मश्रुबलं प्रदर्शयन् ।
सरोषं देहिनं प्राह शृणु सत्यं वदामि तत् ।।५६।।
न कश्चिन्मम नाशं वै कर्तुमत्र भवोत्थितः ।
ऋते नारायणं यद्वा महाभागवतं जनम् ।।५७।।
नाऽहं शक्यः संगवता हन्तु भूतेन केनचित् ।
यद्बलेन हन्यते तद्बलं प्रहरणं च वा ।।।५८।।
न मां हन्तुं समर्थं वै यावत्त्वेन भवत्युत ।
बीजपुष्टिकरं स्याद् यत् पुनः प्रादुर्भवाम्यहम् ।।।५९।।।
यज्ञाद्यैर्दक्षिणाढ्यैर्मां हन्तु प्रयतते यदि ।
धर्मेच्छाऽस्य मम पुष्टिस्तया प्रादुर्भवाम्यहम् ।।3.169.६०।।
जपेन चापि मौनेन मां हन्तुं यतते यदि ।
साहंभावोऽत्र पुष्टिर्मे तया प्रादुर्भवाम्यहम् ।।६१ ।।
वेदान्तैर्ज्ञानमार्गैर्वा मां हन्तुं यतते यदि ।
मया हतेत्यहंपुष्टिस्तया प्रादुर्भवाम्यहम् ।।६२।।
सन्न्यासेन विरागेण मां हन्तुं यतते यदि ।
प्रमादोऽन्यत्र पुष्टिर्मे तया प्रादुर्भवाम्यहम् ।।६३।।
प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः ।
सन्न्यासिनोऽपि वर्तन्ते देवसन्दूषिताशयाः ।।६४।।
धृत्या ब्रह्मव्रतेनापि मां हन्तुं यतते यदि ।
जयाऽभिमानबीजाख्यपुष्ट्या पुनर्भवाम्यहम् ।।६५।।
तपसैश्वर्यलब्ध्या मां प्रहन्तुं यतते यदि ।
मधुमत्यादिभिश्चमत्कृतिभिर्यांगसिद्धिभिः ।।६६।।
बीजात्मिकाभिरत्यर्थपुष्ट्या पुनर्भवाम्यहम् ।
मोक्षार्थं साधनैश्चापि मां हन्तुं यतते यदि ।।६७।।
तमज्ञं साधनतुष्टं नृत्यामि च हसामि च ।
एवंविधाभिलषिणामवध्योऽहं सनातनः ।।६८।।
ममत्वं विपरीते वा स्वेष्टे मनाग् भवेद् यदि ।
तत्राऽहं जीवनं लब्ध्वा भवामि भवबन्धकृत् ।।६९।।
ममता मनसो भावो मनोनाशे विनश्यति ।
काचभावे क्षितेर्दोषा विनश्यन्ति न संशयः ।।3.169.७०।।
तथापि भग्नताभावः काचस्यापि न नश्यति ।
तथाऽऽत्मनो ममतात्मा भावोऽन्ततो न नश्यति ।।७१ ।।
प्रलयं तु समासाद्य पृथ्वी जले विलीयते ।
एवंक्रमेण तत्त्वानां महत्तत्त्वे लयो भवेत्। ।।७२।।
मनसश्च लये मायालये जीवत्वरोधने ।
आत्मत्वभासने मृत्युर्मम स्यादपुनर्भवः ।।७३।।
आत्मावभासः सहसा परमेशकृपावशः ।
तदर्पणेन सर्वस्य मम नाशो यतो मतः ।।७४।।
एवमुक्तः पुरा चात्माऽभिमानेन गरीयसा ।
सोऽयं लक्ष्मि यतेतैव परमेशे मयि ध्रुवे ।।७५।।
सर्वार्पणादिभावेन तदाऽहन्ता विनश्यति ।
ममता लीयते चापि पतिता परमात्मनि ।।७६।।
लवणस्य यथा पाते समुद्रे लीनता सदा ।
न प्ररोहो भवेत् क्वापि तथा कृष्णोऽस्य नांऽकुरम् ।।७७।।
ज्ञात्वैवं यतते साधुः सर्वात्मार्पणमुत्तमम् ।
देहेन्द्रियमनःप्राणाऽहंकारमहतामपि ।।७८ ।।
सत्त्वरजस्तमसां च सच्चिदानन्दधर्मणाम् ।
अस्तित्वस्याऽर्पणं चापि सर्वार्पणं करोति हि ।।७९।।
मय्यर्पणेन भक्तानां सर्वं मद्योगतः किल ।
मत्स्वरूपं भवत्येव न तद्बन्धाय जायते ।।3.169.८० ।।
शृणु लक्ष्मि कथयामि मम भक्तस्य वै कथाम् ।
भक्तो नाम्ना साधुभावायनश्चात्र सरस्तटे ।।८१ ।।
संकुच्य वृत्तीः सर्वास्तु समाधौ संस्थितोऽभवत् ।
तावत्तस्य समीपस्थोऽहंकारपुरुषोऽभवत् ।।८२।।
विकरालश्चोग्ररूपः कृष्णवर्णोऽतिपुष्टिमान् ।
हसन्नुवाच तं साधुभावायनं हृदन्तरे ।।८३५।।
कस्त्वं कस्मादितो मां वै निष्कासयसि मद्गृहात् ।
व्रते चाऽहमहंकारो पुण्यविषयसंस्थितः ।।८४।।
दाने चाहमहंकारः स्वर्गधर्मव्यवस्थितः ।
यज्ञे चाहमहंकारः कर्तृवृत्तिव्यवस्थितः ।।८५।।
दक्षिणाविषयश्चापि यजमानत्वसंस्थितः ।
तीर्थे चाहमहंकारः पावित्र्यविषयस्थितः ।।८६।।
सेवायामप्यहंकारः करोमीत्येव संस्थितः ।
जपे चाऽहमहंकारोऽघनाशवृत्तिमास्थितः ।।८७।।
ब्रह्मचर्येऽप्यहंकारो व्रती चाहमितिस्थितः ।
विद्यायामप्यहंकारो विद्वानिति व्यवस्थितः ।।८८ ।।
वैराग्ये चाप्यहंकारो ह्यदोषोऽहमिति स्थितः ।
सन्न्यासे चाप्यहंकारः संसारक्षपणो न्वहम् ।।८९।।
ध्याने चापि ह्यहंभावो ध्याताऽहं योगवानहम् ।
समाधावप्यहंकारश्चैश्वरोऽहं विमायिकः ।।3.169.९०।।
एवं मे विगमे चैकेऽपरे पक्षे तु जीवनम् ।
वर्तते चेति तस्मान्न मृतो भवामि कर्हिचित् ।।९ १ ।।
एकेनाऽर्पणभावेन गच्छामि चार्पिते श्रये ।
पुण्यं कर्म फलं भक्तिश्चात्मा वृत्तिश्च मानसम् ।।९२।।
अर्पितानि मतिश्चाऽहं यदि श्रीपरमात्मनि ।
तदा सर्वे प्रगच्छामोऽर्पणाश्रये शुभाश्रये ।।९३।।
अर्पितारं विहायैव गच्छामो दानकर्मणा ।
तस्मात् साधोऽर्पय बुद्धिं मायां त्रिगुणशोभनाम् ।।९४।।
अविद्यां च तथा विद्यां महत्तत्त्वं वृषाश्रयम् ।
धर्मादिकान् सर्वभावान् मानसं चापि धर्मवत् ।।९५।।
इन्द्रियाणि समस्तानि देवता वृत्तीरन्तरम् ।
बाह्यं च करणं सर्वं तन्मात्राणि च गोचरान् ।।९६।।
विषयान् पञ्चभूतानि भौतिकानि गृहाणि च ।
गोलकान् तत्फलं चापि गुणान् कर्माणि यानि च ।।९७।।
सर्वाणि चेषणाः सर्वा वासनाश्चापि भावनाः ।
सम्बन्धाँश्च तथा सर्वसंस्कारानपि चार्पय ।।९८।।
अनादिश्रीकृष्णनारायणे भक्त्याऽर्पणं कुरु ।
तदाऽहं स्वकुटुम्बेन युतो यास्यामि नान्यथा ।।९९।।
श्रुत्वैवं सहसा मित्रं मत्वोत्थाय समाधितः ।
अनादिश्रीकृष्णनारायणे मयि समर्पणम् ।। 3.169.१०० ।।
सर्वस्य कर्मकाण्डस्याऽकरोत् साधुभवायनः ।
मद्भाःव सर्वथा भूत्वाऽऽर्पयच्चात्मनिवेदिताम् ।। १०१ ।।
एवं योगसमाध्यादींस्त्यक्त्वा श्रीपौरुषोत्तमीम् ।
सेवात्मिकां क्रियां सर्वां नारायणे समार्पयत् ।।१ ०२।।
अभिमानस्तदा तस्य विलीनः परमात्मनि ।
नित्यमुक्तोऽभवत् सोऽपि मदात्माऽक्षरवासकृत् ।। १ ०३।।
एवं सर्वार्पणं लक्ष्मि साधनं दुःखनाशनम् ।
मोक्षस्य साधनं चैतन्ममाऽर्पणं समस्ततः ।। १ ०४।।
पठनाच्छ्रवणादस्य निर्ममत्वं प्रजायते ।
अनादिमुक्तता चापि जायते वर्तनात्तथा ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मृत्युप्रदकारणानि तद्विनाशसाधनं साधुभावायनर्षिदृष्टान्तेनाऽभिमानस्य कृष्णार्पणविधया
नाशश्चेत्यादिनिरूपणनामा नवषष्ट्यधिकशततमोऽध्यायः ।। १६९ ।।