लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १६८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६७ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १६८
[[लेखकः :|]]
अध्यायः १६९ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं सर्वपापविनाशकम् ।
सर्वपुण्यप्रदं पुण्यं मखे कन्याप्रदानकम् ।। १ ।।
यज्ञं कृत्वा भोजयित्वा तोषयित्वा सतो द्विजान् ।
भिक्षुकान् बालिका बालान् दत्वा च दक्षिणावराः ।। २ ।।
कन्यादानं दिशेत् कोटियज्ञपुण्यं लभेद्धि सः ।
मण्डपे कुण्डके वह्नौ जुहुयात् पायसैः फलैः ।। ३ ।।
मिष्टान्नैश्च कणाद्यैश्च समिद्भिराज्यकैः शुभैः ।
घृतानां पुष्टधाराभिस्तर्पयेत् पितृदेवताः ।। ४ ।।
ततश्चावाहयेत्तत्र मण्डपे तु कुमारकम् ।
विद्वांसं च सुरूपं च कीर्तिमन्तं सुवंशजम् ।। ५ ।।
सम्पन्नं च युवानं च कन्यामानसमोदनम् ।
सुभाग्यं पूर्वविज्ञातशीलधर्मगुणादिकम् ।। ६ ।।
समाजस्य प्रकाशे तं निषाद्य वह्निसन्निधौ ।
विप्राणो साक्षिकार्ये च वह्नेः साक्ष्ये च मण्डपे ।। ७ ।।
देवानां यज्ञभोक्तॄणां साक्ष्ये कन्यापिता तदा ।
पूजयेद् वारिपुष्पाद्यैर्नामगोत्रादि कीर्तयेत् । । ८ ।।
दानार्थं पात्रतां वीक्ष्य वाचयेत् स्वस्तिवाचनम् ।
देहशुद्धिं कारयेच्च दद्याद् यज्ञोपवीतकम् ।। ९ ।।
मन्त्रं प्रदापयेद् यज्ञे वैष्णवं पारमेश्वरम् ।
तुलसीं रक्षयेत् तत्र तिलकं कारयेत्ततः ।। 3.168.१० ।।
चन्द्रकं कारयेदक्षताक्तकुंकुमचन्दनैः ।
पुष्पहारान् शुभं वेषं धारयेद् वरशोभनः ।। ११ ।।
विभूषाश्चार्पयेत्तस्मै पादौ प्रपूजयेत्ततः ।
मधुपर्कं दापयेच्च प्राशयेत् सुप्रसादकम् ।। १ २।।
यज्ञीयं पायसाद्यं च हवनं कारयेदपि ।
अथ वाद्यानि रम्याणि वादयेद् गापयेत्तथा ।। १ ३।।
गीतिका वेदमन्त्राँश्चोच्चारयेद् वैदिकैर्द्विजैः ।
सर्वदेवान् हरिं लक्ष्मीं नारायणं नरायणीम् ।। १४।।
वह्निं विप्रान्नमस्कृप्य पिता कन्यामुपस्थिताम् ।
भूषितां बहुभूषाभिः शृंगारितां सुसारकैः ।। १५।।
वेषितां दिव्यवस्त्राद्यै रञ्जितां मानदानकैः ।
प्रसादितां विवाहार्थं समानीतां तु मण्डपे ।। १६।।
प्रकाशे सर्वलोकानां स्थापयेद् वरवामके ।
वह्निं नमेद् द्विजान् साधूनृषीन् वृद्धान् समाजकम् ।। १७।।
कुमारं प्रणमेच्चापि पुष्पाक्षतैः प्रवर्धयेत् ।
कुंकुमाऽक्षतचंद्रं च कुर्यात् कुमारभालके ।। १८।।
नारायणः प्रीयतां मे गणेशः प्रीयतामिति ।
प्रीयन्तां देवताः सर्वे विधीयन्तां ममेष्टकम् ।। १ ९।।
वदेदथाऽऽसने कन्या निषद्य भूसुरार्पितम् ।
जलं धृत्वा निजे हस्ते कुर्यात् संकल्पमुत्तमम् ।।3.168.२० ।।
अहं कन्या कुमार्यस्मि नारायणसमीपतः ।
देवानां सन्निधौ यज्ञे त्वर्पणार्थमुपागता ।।२१ ।।
पिता यस्मै प्रदास्येत तस्याऽहं वह्निसन्निधौ ।
भविष्यामि धर्मपत्नी निर्विघ्नं मे भवत्विह ।।२२।।
इत्युक्त्वा तज्जलं पृथ्व्यां विमुञ्चेत् सा हि कन्यका ।
अथाऽस्या जनको यद्वा भ्राता माताऽथ बान्धवः ।।२३।।
विप्रोक्तरीत्या हि जलं गृह्णीयात् स्वकरे तदा ।
कुमारस्य करे चापि जलं दद्याद् गुरुस्तदा ।।२४।।
संकल्पं कारयेच्चापि पुण्याहं वाचयेत्तथा ।
कन्यादातृत्वाधिकारं ख्यापयेज्जलसाक्षिकम् ।।२४६।।
कुमारस्य दानग्रहणार्हतां वाचयेत्तदा ।
एषोऽहं चामुकगोत्रनामादिर्मण्डपे मखे ।।२६।।
कन्यादानं ग्रहीष्यामि धर्मार्थं वह्निसाक्षिकम् ।
इति संकल्प्य च जलं कुमारः प्रक्षिपेत् क्षितौ ।।२७।।।
रक्षिष्यामि मम पत्नीं कन्यामाजीवनं त्विमाम् ।
सहधर्मान् चरिष्यामि नारायणस्य साक्षिके ।। २८।।।
इत्युच्चाराद्युत्तरं च पिता संकल्पमुच्चरेत् ।
कन्यादानं ददाम्यस्मै कुमाराय वराय ह ।।२९।।
अमुकगोत्रनाम्ने वै देववह्न्यादिसाक्षिणा ।
दत्तेयं मम कन्याऽस्य पत्नीरूपा प्रजायताम् ।।3.168.३० ।।
इत्युक्त्वा कन्यकाद्वारा वरमालां वरस्य वै ।
कण्ठे चार्पय्य च नमः कारयेत् कन्यकाकरम् ।।३ १ ।।
वामं प्रदापयेद् दक्षे हस्ते वरस्य शोभने ।
कामफलेन संशोभे संशोभं कन्यकाऽर्पयेत् ।।३२।।
एषाऽहं भवतः पत्नीत्येवं संकल्पयेत् हृदि ।
एषोऽहं च भवत्यास्तु पतिश्चेति वरो वदेत् ।।३३।।
पुष्पैः संवर्धयेयुश्च मण्डपस्था द्विजादयः ।
वरो मालां कन्यकायाः कण्ठे दद्यान्निजस्थिताम् ।।३४।।
उभौ समालौ चोत्थाय वस्त्रग्रन्थियुतौ तदा ।
वह्निं प्रदक्षिणीकृत्य चतुर्वारं निजासने ।।३५।।
स्थित्वा कृत्वा प्रणामादीन् निषद्य हवनं ततः ।
प्रकुर्यातां घृताद्यैश्च पिता दद्याद् धनादिकम् ।।३६।।
स्वर्णं वस्त्राणि भवनं यानं वाहनमुत्तमम् ।
अन्ये दद्युश्च दानानि यौतकानि शुभानि च ।।३७।।
एवं यज्ञे निजकन्यादानं दैवविवाहनम् ।
देवानां साक्षिकत्वे वै श्रेष्ठमुत्तममुत्तमम् ।।३८।।
पेटिकादिप्रदानेन स्वर्गदानफलं भवेत् ।
अत्र द्रोणीप्रदानेन हण्डदानेन वा तथा ।।३९।।
गगरीसम्प्रदानेन ब्रह्माण्डदानजं फलम् ।
गोभूधान्यहिरण्यादिप्रदानेनाऽध्वरे तदा ।।3.168.४०।।
दम्पतीभ्यां फलं पृथ्वीमेरुदानादिजं भवेत् ।
हेमशृंगी खुरै रूप्यैर्दिव्यवस्त्रेण संयुता ।।४१ ।।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सवत्सिका ।
सदक्षिणा प्रदातव्या गोलोकदानजं फलम् ।।।४२।।
यावद् वत्सस्य पादाढ्यमुखं योन्यां प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया दाता साम्राज्यमाप्नुयात् ।।४३।।
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।
पित्रर्चनं वृद्धपूजा सत्सेवा पतिसेवनम् ।।४४।।
सतीपूजा तथा देवालयस्य मार्जनादिकम् ।
उच्छिष्टभ्वादिपात्रादिमार्जनं साधुयोगिनाम् ।।४५।।
विप्राणां तोषणं चेति सर्वं तद् गोप्रदानवत् ।
पापघ्नं पुण्यदं स्वर्गप्रदं मोक्षप्रदं तथा ।।४६।।
साधवे स्वमभीष्टन्तु दत्वा मोक्षमवाप्नुयात् ।
द्विजाय स्वमभीष्टन्तु दत्वा स्वर्गमवाप्नुयात् ।।४७।।
दम्पतीभ्यां प्रदानेन स्वर्गमोक्षाववाप्नुयात् ।
भूदीपाँश्चान्नवस्त्राणि सर्पिर्दत्वा व्रजेच्छ्रियम् ।।४८।।
गृहधान्यच्छत्रमाल्यवृक्षयानघृतानि च ।
जलं शय्यामनुलेपं दत्वा स्वर्गमवाप्नुयात् ।।४९।।
ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्लभम् ।
वेदार्थयज्ञशास्त्राणि धर्मशास्त्राणि यानि च ।।3.168.५०।।
संहिताश्च तथा दत्वा ब्रह्मलोकमवाप्नुयात् ।
समर्थो यो न गृह्णीयाद् दातृलोकानवाप्नुयात् ।।५१ ।।
अयाचितागतं ग्राह्यं ह्यपि दुष्कृतकर्मणाम् ।
कुशाः शाकं पयश्चाऽऽज्यं दधि वारि च पावनम् ।।।५२ ।।
वस्त्रं तैलं चन्दनं च कुंकुमं चाम्बरादिकम् ।
अयाचिताऽऽहृतं प्राप्तं ग्राह्यं नारायणेच्छया ।।५३ ।।
नारायणीच्छया प्राप्तं ग्राह्यं सता विपश्चिता ।
असंगेन विरागेण ग्राह्यं देयं तथाऽपरे ।।५४।।
दम्पतीभ्यां तथा यज्ञे दत्तं स्वल्पमपि ध्रुवम् ।
अक्षयं चानन्तफलं जायते नात्र संशयः ।।।९५ ।।
यज्ञे दत्ता तु या कन्या लक्ष्मीरूपा प्रजायते ।
नारायणस्वरूपोऽपि ग्रहीता स वरो मतः ।।।।५६।।
आच्युतेऽध्वरभवने क्षेत्रे तु पावने तदा ।
दानं देवादिसाक्ष्ये वै जायते चाऽऽच्युतं हि तत् ।।५७।।
एवं दानं प्रदातव्यं दैवो विवाह एव सः ।
सर्वपापानि नश्यन्ति सर्वपुण्योदयो भवेत् ।।५८ ।।
एतादृशं परं दानं भूलोके नैव विद्यते ।
शृणु लक्ष्मि तथा चान्यत् कृतपापविनाशनम् ।।५९।।
कृतानां कर्मणां कृष्णेऽर्पणं पापविनाशकम् ।
अर्पणं निर्गुणं प्रोक्तं भोगाय नैव जायते ।। 3.168.६० ।।
दोषान् वा संवदेद् विप्रे गुरौ देवे च राजनि ।
क्षमां याचेत नत्वैव दक्षिणं श्रवणं स्पृशेत् ।।६१ ।।
पुनश्चाऽदोषतास्थित्यै दद्याच्च वचनं तथा ।
एवं कृतेऽपि दोषाणां दण्डस्तस्य न विद्यते ।। ६२ ।।
देवार्थे प्राणसहितं दद्यात् सर्वस्वमेव यः ।
तस्य नश्यन्ति कर्माणि ह्यपि चोग्राणि कर्मजे ।। ६३ ।।
अथाऽन्यत्ते प्रवक्ष्यामि सन्न्यासग्रहणं शुभम् ।
कालमायापापकर्मयाम्यभयादिनाशकम् ।।९४।।
कृत्वा मखं तु गृह्णीयात् सन्न्यासं वैष्णवं परम् ।
आत्मनि वेदितां लब्ध्वा सर्वाघानि व्यपोहति ।। ६५ ।।
कर्मसन्यासमासाद्य पापान्यपि व्यपोहति ।
साधुतीर्थं प्रसेव्याऽपि सर्वपापानि मार्जयेत् ।। ६६ ।।
अथाऽन्यत्ते प्रवक्ष्यामि विनायकोपसर्जनन् ।
दुष्टातिदुष्टदुःखानां निवारकं सुखप्रदम् ।। ६७ ।।
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डाँश्च पश्यति ।
विफलारंभणं चापि संसीदत्यनिमित्ततः ।। ६८ ।।
राजा राज्यं तु नाप्नोति कुमारी च पतिं तथा ।
गुर्विणी नाप्नोति पुत्रं कष्टे त्वेवमुपस्थिते ।। ६९ ।।
विधिपूर्वं प्रगे पुण्ये क्षणे स्नपनमाचरेत् ।
गौरसर्षपगन्धाज्यैरुद्वर्तनोत्तरं शिरः ।।3.168.७० ।।
सर्वौषधैः सर्वगन्धैर्विलिपेत् स्वस्ति वाचयेत् ।
ह्रदाच्चतुर्भिः कलशैराहृतेषु जलेषु तु ।।७१ ।।
मृत्तिकां रोचनां गन्धान् गुग्गुलं न्यस्य तज्जलैः ।
भद्रासने स्नापयेच्च स्वप्नवन्तं हि देहिनम् ।।७२।।
इन्द्रमृषयोऽस्नापयँश्चाऽमोचयन् पुरा ह्यघात् ।
तथा त्वामभिसिञ्चामः पावमान्यः पुनन्तु त्वाम् ।।७३ ।।
भगवान् वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।।७४।।
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोर्नाशं तद्यातु ते सदा ।।७५।।
स्नातस्य सार्षपं तैलं श्रवणे मस्तकेऽर्पयेत् ।
साज्यान् कुशान् परिगृह्य जुहुयाच्छालदुण्डकैः ।।७६।।
कुष्माण्डं राजपुत्राँश्च स्वाहासमन्विताँस्तथा ।
दद्याच्चतुष्पथे भूमौ कुशानास्तीर्य सर्वशः ।।७७।।
तण्डुलौदनमपक्वं पुष्पं चित्रं सुगन्धवत् ।
सुरामन्नं पायसं च घृतं दधि गुडौदनम् ।।७८।।
भूमौ दत्वा शिवं नत्वा भोजयेदम्बिकां सतीम् ।
दूर्वासर्षपपुष्पैश्च स्वस्ति संप्रार्थयेत् सतीम् ।।७९।।
रूपं देहि यशो देहि भाग्यं देहि सुभाग्यदे ।
पुत्रान् श्रियं सर्वकामान् देहि मे विघ्नमुक्तताम् ।।3.168.८०।।
विप्रान् साधून् तोषयेच्च दानभोजनचन्दनैः ।
गुरुं ग्रहान् पूजयेच्चार्पयेल्लक्ष्मीं नरायणम् ।।८ १ ।।
यद्वा लक्ष्मि दुःखमूर्ति कृत्वा दुखं प्रपूजयेत् ।
कृशं पङ्गुं कृष्णवर्णं पुष्टहस्तं शुचाऽन्वितम् ।।८२।।
निम्ननेत्रं चान्धतुल्यं क्षुधितं धमनिस्फुटम् ।
श्वेतकेशं च कद्रूपं चिन्तायुतं मलान्वितम् ।।८३ ।।
अधर्मपुत्र कष्ट त्वं दूरं याहि प्रपूजितः ।
बलिं लब्ध्वा कृसरान्नं पिण्याकं च सुखी भव ।।८४।।
एवं प्रपूज्य पुष्पाद्यैः कृष्णवस्त्रयुतं ततः ।
विसर्जयेन्नदीवारौ नारायणपदेऽथवा ।।८५ ।।
विसर्जितः पूजितः स दुःखदेवः प्रयाति वै ।
एवं लक्ष्मि पापदेवः पूजनीयः सुखार्थिभिः ।।८६ ।।
कृष्णवर्णः पुष्टपादो लम्बहस्तस्तमोऽक्षिमान् ।
कृष्णाननो भयव्याप्तः क्रूरकर्मा सहिंसकः ।।८७।।
कृष्णपुष्पैः कज्जलैश्च पूजयित्वाऽर्पयेत् बलिम् ।
माषादिकं पायसादि विसर्जयेत्ततो वने ।।८८।।
एवं कृते प्रयात्येव दूरे वै पापपूरुषः ।
एवं लक्ष्मि पूजयेच्च सुखं देवं सुखेन वै ।।८९ ।।
प्रसन्नवदनं सौम्यं पुष्टं श्वेतं सुभूषणम् ।
स्वर्णाम्बरं समस्तांगकृतशोभं सुयौवनम् ।।3.168.९०।।
सर्वाभरणसंयुक्तं पुष्पाक्षतादिभिः शुभैः ।
पायसं चापि मिष्टान्नं फलादि चार्थयेद् बलिम् ।।९१ ।।
धर्मयुतं भक्तियुतं शीलव्रतादिसंयुतम् ।
पूजयित्वा शुभे पुण्ये मन्दिरे चालये तथा ।।१२।।।
जले विसर्जयेद् भक्त्या सम्प्रार्थ्य च प्रणम्य च ।
सर्वात्मन् सर्वलोकानां महानन्दप्रद प्रभो ।।९३।।
तव वासेन मे नित्यमहानन्दः प्रजायते ।
अविमुक्तो मम नित्यं भव वासं सदा कुरु ।। ९४।।
तव दृष्ट्यापि लोकेशा भवन्ति चेश्वरा दिवि ।
पृथ्व्या ते कृपया देव सुखिनः सन्ति मानवाः ।।९५।।
तेनाऽहं च सुखी स्यां वै प्रसन्नो वरदो भव ।
इत्यभ्यर्थ्य सुखं देवं पूजयित्वा प्रणम्य च ।।९६।।
विसर्जयेज्जलमध्ये पूजकः सुखवान् भवेत् ।
नरो नारी च वा नान्यतरोऽपि चोक्तरीतितः ।।९७।।
पूजयित्वा लभेल्लक्ष्मीं सम्पदं धनमुत्तमम् ।
पुत्रं पशुं क्षितिं नारीं वंशविस्तारमित्यपि ।।९८।।
अदुःखं लभते नित्यं महोत्सवान् प्रपद्यते ।
अत्रलोके भवेच्चापि महास्मृद्धः परत्र च ।।९९।।
महाभोगान् प्रसम्पाद्य मोक्षलोकं प्रयाति सः ।
न तस्य जायते हानिश्चाकस्मात्तो न जायते ।।3.168.१ ० ०।।
पीडा चाकस्मिकी चापि दारिद्र्यं नैव जायते ।
नित्यं सम्पत् सुखं सर्वं वर्धते भोग उत्तमः ।। १०१ ।।
पठनाच्छ्रवणादस्य पूजनस्य फलं भवेत् ।
सुखवान् धनवान् स्याच्च दाता भवेत् पुनः पुनः ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने यज्ञे कन्यादानं कृष्णार्पणं सन्न्यासग्रहणं विनायकोपसर्जनम् पापदुःखसुखपुरुषप्रपूजनं चेति महाफलप्रदमित्यादिनिरूपणनामाऽष्टषष्ट्यधिकशततमोऽध्यायः ।। १६८ ।।