सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ००९

विकिस्रोतः तः
← अध्यायः ८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं द्वादशे तु प्रधारणे ।
वत्सरे ब्रह्मणस्तत्र षष्ठे कल्पेऽष्टमे मनौ ।। १ ।।
शोणभद्रोऽभवद्वैश्यो मम भक्तो जितेन्द्रियः ।
सर्वयज्ञपरः सर्वदानदाताऽतिथिप्रियः ।। २ ।।
लक्षगोधनयुक्तश्च कृषिव्यापारसंभृतः ।
क्रयविक्रयकुशलो राजेव राजमानितः ।। ३ ।।
सत्यप्यनन्तविभवे सम्माने च प्रजोत्तरे ।
व्यवसायेष्वसंख्येषु सहस्रेष्वनुगेष्वपि ।। ४ ।।
भगवन्तं स मां नैव विस्मरत्येव वै क्वचित् ।
प्रातर्ब्राह्मे मुहूर्ते स समुत्थाय हरेर्मम ।। ५ ।।
ध्यानं नित्यं करोत्येव सर्वांगानां मुहुर्मुहुः ।
ध्यानतृप्तस्ततस्तालीवादनैः सह मेऽभिधाः ।। ६ ।।
हरेकृष्ण हरे कृष्णनारायण प्रभो हरे ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ।। ७ ।।
इत्येवं कीर्तयत्येव ततः स्नात्वा नदीजले ।
पैतृकानञ्जलीन्दत्वा कृत्वा सन्ध्यां ममाऽर्चनम् ।। ८ ।।
मम सौवर्णमूर्तौ स विधत्ते सर्ववस्तुभिः ।
आवाहनं चासनं च पाद्यमर्घ्यं तथाऽऽचमम् ।। ९ ।।
दन्तधावनमेवाऽपि गण्डूषान् मुखशोधनम् ।
शौचं मृदा तथा शुद्धिं जलशौचं ततः परम् ।। 3.9.१० ।।
तैलसुगन्धिभिश्चांगाभ्यंगनं चांगमर्दनम् ।
दुग्धेन दध्ना चैवाऽपि सर्पिषा मधुना तथा ।। ११ ।।
शर्करया तीर्थवार्भिश्चाभिषेकाऽऽप्लवं तथा ।
वस्त्रामार्जनमेवाऽपि चामूल्याम्बरधारणम् ।। १२।।
सुगन्धिसत्त्वदानं च शोभाद्रव्यार्पणं तथा ।
कज्जलं नेत्रयोश्चापि भाले तिलकमुत्तमम् ।। १ ३।।
चन्द्रकं शिरसि तैलं रञ्जनं करपत्तले ।
भूषणानि समस्तानि पादुके पुष्पमालिकाः ।। १४।।
कुंकुमं चाबीरकं च गुलालं चन्दनं शुभम् ।
अक्षतान् कुसुमान्येव धूपं दीपं निवेदनम् ।। १५।।
भोजनानि विचित्राणि ताम्बूलकं जलानि च ।
तुलसीमञ्जरीपत्रं स्वर्णहीरकमालिकाः ।। १ ६।।
आरार्त्रिकं दण्डवच्च स्तवनं च प्रदक्षिणम् ।
दक्षिणां च नमस्कारं चापराधक्षमापनम् ।। १७।।
पुष्पाञ्जलिं ततः पूजापरिहारं विधाय सः ।
साधुजनानतिथींश्च विप्रान् नमस्करोत्यपि ।। १८।।
गाः सतीर्बालकान् दीनाननाथान् भिक्षुकानपि ।
समागतान् प्रसम्मान्य पूजयत्येव नित्यशः ।। १ ९।।
भोजनादि कारयित्वा यथापेक्षं ददाति च ।
वर्षे वर्षे नवधान्यागमे सत्रं महत्तमम् ।।3.9.२०।।
वैष्णवं प्रकरोत्येव भुञ्जते सुरमानवाः ।
एवं तेन कृतो यज्ञो नवधान्यक्रतुः शुभः ।।२१ ।।
लक्षशः साधवो यत्र विप्राद्याश्चापि चागताः ।
सप्ताहे तत्र वै यज्ञे मम भक्तस्य नित्यशः ।।२२।।
अहमदृश्यरूपेणागत्यार्पितं निवेदनम् ।
गृहीत्वा शिवसत्तेश्रि! भुक्त्वा प्रयामि धाम मे ।।२३।।
एवं यज्ञे सम्प्रवृत्ते विप्राणां बहुशास्त्रिणाम् ।
भिन्नदेशाऽऽगतानां च भिन्नक्रियाप्रवेदिनाम् ।।२४।।
कर्मकाण्डेऽङ्गवैमत्ये विगुणे रुद्रकर्मणि ।
यज्ञांगकर्मवैगुण्ये जाते वह्नेः प्रकोपनात् ।।२५ ।।
अकस्मान्मण्डपस्योर्ध्वे विताने वह्निमण्डलम् ।
कुण्डादुत्प्लुत्य सहसा लग्नं दाहकरं तदा ।।२६।।
प्रसारणं च त्वरितं सज्वालं समभूद् द्रुतम् ।
मण्डपो ज्वलितस्तूर्णं वह्निश्चापि समन्ततः ।।२७।।
सज्वालः सम्प्रसरितो वायुना सुप्रवर्धितः ।
हव्येषु चापि सर्वत्र निवासेषु गृहेषु च ।।२८।।
वस्त्रेषु यज्ञशालासु मानवेष्वपि वै तदा ।
क्रूरश्च क्रूरकर्मा च वह्निर्व्यवर्धतोल्बणः ।।२९।।.
काली कराली विकराली च नीला च लोहिता ।
पिशंगी चार्जुना हरिद्वर्णा ज्वाला विचित्रिकाः ।।3.9.३०।।
ज्वालाभिस्तत्र पञ्चाशत्सहस्राणि तु मानवाः ।
भस्मीभूता अभवँश्च हाहाकारोऽभवत्ततः ।।३ १ ।।
शोणभद्रो मम भक्तः परं शोकमवाप ह ।
मृतानां सर्वकार्याणि कृतवाँस्तत्र भक्तराट् ।।३२।।
अथ तेषां बहुहत्यापातकेषु निमित्तवान् ।
वैश्योऽयं यजमानः स महच्छोकेन पीडितः ।।३३ ।।
शान्तिं नाऽवाप निद्रां वा नाऽवाप चिरमेव ह ।
आराधनां मम चक्रे मृतोद्धारचिकीर्षया ।।३४।।
अन्नं जलं परित्यज्याऽनशनं व्रतमाचरत् ।
रात्रिन्दिवं भजनं मे चक्रे मद्गतमानसः ।।३५।।
भगवत्त्वं स्वयं पुत्रो भूत्वोद्धारं कुरु प्रभो ।
यज्ञध्वंसकलंकं च निवारय जनार्दन ।।३६।।
एवं मां चार्थयतश्च गतं वर्षं विनाऽदनम् ।
विना जलं गतं वर्षं मरणार्थकयोगिनः ।।३७।।
ततोऽहं दत्तवाँस्तस्मै वरं पुत्रो भवामि ते ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।।३८।।
इत्युक्त्वा मानसः पुत्रस्तस्याऽग्रे समुपस्थितः ।
तत्पत्नी शीलव्रतिनी नाम्ना भद्रेश्वरी सती ।।३९।।
दृष्ट्वा मां बालकं रम्यं सर्वतेजोभिवर्धितम् ।
सर्वसिद्धिप्रदं सौम्यं सर्वाभरणभूषितम् ।।3.9.४०।।
दिव्यं दिव्यगुणोपेतं जग्राहोत्सवमानिनी ।
तदाऽम्बराद् बभूवापि दिव्यकुसुमवर्षणम् ।।४१ ।।
मुक्ता देवा ईश्वराश्च व्यवर्धयन्त मां सुमैः ।
जयध्वानैर्वाद्यघोषैश्चन्दनाक्षतपूजनैः ।।४२।।
जन्मोत्सवो जनकेन कृतो मे सर्वतोऽधिकः ।
अनशनं परित्यज्य भोजयामास कोटिशः ।।४३ ।।
साधून् भक्तान् दीनवर्गाननाथान् द्विजसत्तमान् ।
कन्यका बालकाँश्चापि शोणभद्रस्तदा दिने ।।४४।।
दानानि सर्ववस्तूनां श्रेष्ठानि प्रददौ पिता ।
गृहे गृहे तदा कृष्णजन्मना वै समुत्सवाः ।।४५।।
अभवन् शिवकन्येश्रि! तदा त्वं मां समर्थयः ।
मया जन्म ग्रहीतव्यं यद्याज्ञां देहि मे प्रभो ।।४६।।
मया तथाऽस्त्विति प्रोक्ता त्वं तदा वैश्यपुत्रिका ।
सरयूकासतीनाम्न्याः स्त्रियाः पुत्री शुभानना ।।४७।।
मानसी वै सरोभद्राश्रीनाम्नी त्वं व्यजायथाः ।
सर्वलक्षणसम्पन्ना हरिवत्सान्विता हृदि ।।४८ ।।
दीपज्योतिःसमं स्वर्णरेखाचिह्नं हृदन्तरे ।
तदूर्ध्वे च हरेश्चिह्नं चतुर्भुजं सुमूर्तिकम् ।।४९।।
स्वर्णवर्णं च ते तत्राऽऽसीद् विलोक्य च तत् प्रसूः ।
तव वै पितरं नाम्ना सारवत्सं जगाद ह ।।।3.9.५० ।।
पुत्रीयं सर्वशोभाढ्या वर्तते कमला ननु ।
हृदयेऽस्या हरिश्चास्ते स्वर्णरेखाढ्यमूर्तिमान् ।।५१ ।।
तस्माद् देया भगवते श्रीकृष्णपरमात्मने ।
नाऽन्यस्मै चेति वैश्योऽपि तत्सत्यं चाभ्यमन्यत ।।५२।।
जातमात्रा युवती च मात्रा पित्रा सुसद्गुणा ।
श्रुत्वा पुत्रं शोणभद्रवैश्यस्य परमेश्वरम् ।।५३।।
संकल्पेन प्रदत्ता त्वं मह्यं श्रीपतये तदा ।
मया कृतस्ततो यज्ञो मृतोद्धारकृते पुनः ।।५४।।
तत्रारंभे समागत्य पित्राभ्यां तव पद्मजे ।
अर्पिता विधिना मह्यं गृहीता मण्डपे मया ।।५५ ।।
आध्वरे एव 'विधिना ततोऽध्वरमकारयम् ।
त्वया साकं सरोभद्रे! मया यज्ञः प्रवर्तितः ।।५६ ।।
आहूताः प्रेतवर्गास्ते यथावद् विधिना ततः ।
श्राद्धैः पैत्र्यैः पिण्डदानैर्हवनैर्दैवकर्मभिः ।।५७।।
तारिताः सर्व एवैते हव्यप्रसादभोजनैः ।
सर्वे चतुर्भुजाः पञ्चाशत्सहस्राणि ते तदा ।।५८।।
प्रेता विवृत्य च तदा भूत्वा चतुर्भुजाः सुराः ।
पार्षदा मण्डपे तत्र विमानवरमास्थिताः ।।५ ९ ।।
प्रेषिताश्च मया सर्वे वैकुण्ठं धाम चोत्तमम् ।
मोचितास्ते ततः पित्रोः सेवायां सर्वदाऽभवम् ।।3.9.६ ० ।।
अनादिश्रीभद्रनारायणः श्रीपुरुषोत्तमः ।
अन्येऽपि चावतारा मे बहवस्तत्र कल्पके ।।६ १ ।।
कार्यवशात् प्रजाता वै वेद्मि तान् सर्वशः प्रिये ।
स्मर तां त्वां सरोभद्रां श्रीभद्रस्य तु मे प्रियाम् ।।६२।।
अथाऽन्यं मे प्रकटं च भावं शृणु शिवात्मजे! ।
वेधसो वत्सरे त्रयोदशे []प्रध्यानसंज्ञके ।।६३।।
तृतीयकल्पके तुर्ये मनौ मेरोस्तु दक्षिणे ।
अघमर्षणखण्डे वै भूतले ब्रह्मचारिणी ।।६४।।
योगिनी योगसामर्थ्या []तुंगभद्रासनाऽभिधा ।
बभूव बहुसामर्थ्या मम भक्तिपरायणा ।। ६५।।
दिनार्धं मम पूजायां यापयत्येव निर्जने ।
मध्याह्ने फलमूलादि चाहृत्याऽऽरण्यवृक्षजम् ।। ६६।।
निवेद्य मह्यं चाश्नाति पैत्र्यं करोति तत्परम् ।
सायं मां भजते नित्यं परमेशं जगद्गुरुम् ।।६७।।
रात्रौ ध्यात्वा स्वपित्येव प्रातर्ध्यानं करोत्यपि ।
स्नाने ध्याने जपे होमे तर्पणे भजने स्थले ।।६८।।
जलेऽम्बरे दिवा रात्रौ मां स्मरत्येव योगिनी ।
दीर्घाभ्यासवशादेषा सर्वसिद्धिनिधानिका ।।६९।।
अभवत् त्वं यथा लक्ष्मि तथैश्वर्यसमन्विता ।
आत्मज्ञानपरा वाणीसिद्धा संकल्पसिद्धिका ।।3.9.७० ।।
देहसिद्धा द्वन्द्वस्पर्शरहिता सर्वतोऽधिका ।
व्यजायत महासाध्वी चर्तुमकर्तुमन्यथा ।।७१ ।।
समर्था व्योमगा चापि परकायप्रवेशिनी ।
ग्रहनक्षत्रताराणां गतिरोधबलान्विता ।।७२।।
हरिव्रता सदा कृष्णपतिव्रता हि भामिनी ।
भक्तरक्षाकरी दीनाऽनाथरक्षाकरी सदा ।।७३ ।।
सतां सेवाकरी चापि धर्मकर्मपरायणा ।
एवं सा वर्तमाना च महारण्ये सदा निशि ।।७४। ।
अन्धकारे निर्गतानाहारार्थं राक्षसाँस्तथा ।
भूतप्रेतपिशाचादीन् व्यलोकयति हिंस्रकान् । ।७५।।
सुप्तपक्षिपशुव्रातभक्षकान् पापकारिणः ।
अन्धकारे पशवश्च भीता अपि च जाग्रताः ।।७६।।
अदृष्टिपातवशगाः शक्नुवन्ति न धावितुम् ।
धावमानाँश्च गृह्णन्ति प्रसह्य बलिराक्षसाः ।।७७।।
क्रन्दमानान् देहिनश्च प्रतिरात्रि च सा सती ।
परदुःखनिवारार्थं व्यचारयन्मुहुर्मुहुः ।।७८।।
सार्वदिकं महादुःखं यथा नश्येद्धि देहिनाम् ।
तथा दीर्घं विचार्यैव राक्षसानां विनाशिनीम् ७९।।
महालक्ष्मीं प्रसस्मार त्वां क्रूरां दुःखहारिणीम् ।
मयाऽऽज्ञप्ता भवती च तस्याः प्रत्यक्षतां गता ।।3.9.८० ।।
कन्यका षोडशभुजा सर्वशस्त्रप्रधारिणी।
सा च प्रसन्नवदना ययाचे त्वां स्वपुत्रिकाम् ।।८ १ ।।
मानसी त्वं तदा पुत्री भूत्वा तदाश्रमे स्थिता ।
सर्वराक्षसभूतानां हन्त्री पश्वादिरक्षिणी ।।८२।।
नाम्ना कार्यवशात् सर्वभद्राश्रीरिति शोभना ।
यतिनीधर्मवशगा सर्वसामर्थ्यशालिनी ।।८३।।
कल्याणकारिणी साध्वी युवती योगिनी शुभा ।
अथैवं वर्तमानायास्तस्या आरण्यकं स्थलम् ।।८४।।
विहाय राक्षसाः सर्वे ययुश्चान्यदरण्यकम् ।
तत्रैवं हिंस्यमानाश्च प्राणिनो राक्षसादिभिः ।।।८५।।।
विवशास्त्वन्मातरं च रक्षयित्रीं हि देहिनाम् ।
आश्रुत्य चागताश्चाप्यार्थयँस्त्वामवनार्थिकाम् ।।८६।।
माता त्वां प्रददौ तेभ्यो रक्षार्थं त्वं गता ततः ।
त्वद्भयात्तदरण्याश्च राक्षसाश्चेरयद् गताः ।।८७।।
अरण्यं तत्र वै चापि हिंसनं तादृशं ह्यभूत् ।
राक्षसैस्ते पशवश्च प्रार्थयन् सर्वभद्रिकाम् ।।८८।।
इत्येवं सर्वतः सर्वभद्रिकाह्वानमेव ह ।
अजायत हि लोकेषु ख्याता रक्षाकरी यतः ।।८९।।
माता विचारयामास नैवं पारो भविष्यति ।
पुत्री मे न गृहे चास्ते चरतेऽरण्यके सती ।।3.9.९०।।
राक्षसानां विनाशार्थं सेवालाभो न मेऽस्त्यपि ।
ततोऽहं तादृशं कुर्वे पुत्री मे गृहमावसेत् ।।९१ ।।
राक्षसानां बलं चापि स्वभावान्नाशमाव्रजेत् ।
रात्रिर्यथा भवेन्नैव तथा कुर्वे समन्ततः ।।९२।।
रात्रौ बलं पिशाचानां भूतानां रक्षसां तथा ।
तस्माद् रात्रिर्मा भवतु चेत्येवं त्वत्प्रसूस्तदा ।।९३।।
हस्ते जलं गृहीत्वैव विचार्य्याऽञ्जलिवारि तत् ।
अभिमन्त्र्याऽम्बरे प्राक्षिपत् पुनः पुनरेव सा ।।९४।।
ज्योतिषां च ग्रहाणां च सूर्यादीनां गतिः स्थिरा ।
अगतिश्चास्तु वै येन दिवा वै सर्वदा भवेत् ।।९५।।
नोपेयाच्च निशा चास्तमनं सूर्यस्य मा भवेत् ।
इति प्रक्षिप्तसलिलबिन्दवः स्वर्गमारुहन् ।।९६।।
प्रतिबन्धकरा देवाः सर्वसामर्थ्यरश्मयः ।
सूर्यगतिस्तदा रुद्धा रुद्धं नक्षत्रमण्डलम् ।।९७।।
सर्वं वै ध्रुवतां प्राप्तं सर्वदा दिवसोऽभवत् ।
अस्तमनं गतं चास्तं पुनर्नायातमेव तत् ।। ९८।।
सायं सन्ध्या ततो लुप्ता दिनं दीर्घतमं ह्यभूत् ।
सर्वे सायं प्रतीक्षन्ते कदा सायं भवेदिति ।।९९।।
आकुलं व्याकुलं सर्वं देवमानवमण्डलम् ।
तेन जातं तदाऽस्तौच्छ्रीपतिं मां पुरुषोत्तमम् ।। 3.9.१० ०।।
प्रातर्मध्याह्नकार्याणि समस्तानि गतानि वै ।
बुभुक्षिताः सुराद्याश्च जनाश्च ऋतुवर्जिताः ।। १०१ ।।
सर्वं सातत्यसूर्यस्य रश्मिभिस्तापसेचितम् ।
दग्धभावोन्मुखं जातं चन्द्रकान्तिर्न लभ्यते ।। १ ०२।।
अमृतं प्राप्यते नैवौषधिभिश्चाप्यरण्यके ।
शुष्कायन्ते द्रुमाद्याश्च तापधर्मप्रसेचिताः ।। १ ०३।।
एकलाभे च महती हानिश्चैवं समापतत् ।
उष्मणा मानवाद्याश्चोन्मत्ततां तु तदाऽऽप्नुवन् ।। १०४।।
जलानि सरसां तत्र शुष्काणि लीनतां ततः ।
गतानि सर्वतश्चैवं दुःखमुग्रमवर्तत ।। १ ०५।।
राक्षसानां बलं नष्टं पातालं विविशुश्च ते ।
भूतप्रेतपिशाचाद्या विविशुर्गह्वराणि च ।। १ ०६।।
तेभ्यो दुःखं न चाऽस्त्येव किन्तु तापेन तापनम् ।
दुःखमसह्यमापन्नं तस्माद् रक्ष परेश्वर ।। १ ०७।।
रक्ष रक्ष कृपासिन्धो त्रिलोकी स्तब्धतां गता ।
अक्रिया ग्रहताराश्च दिनमानं लयं गतम् ।। १ ०८।।
रात्रिर्लयं गता कृष्णनारायण जगच्छया ।
चन्द्रोदयस्तथा नास्ति मासावधिर्लयं गतः ।।१०९।।
ऋतवो नैव जायन्ते फलन्ति नौषधिव्रजाः ।
शैत्यं लयं गतं सर्वं वह्निश्चोत्पद्यते वने ।। 3.9.११० ।।
रक्ष रक्ष कृपासिन्धो दिनबन्धो प्रतापनात् ।
अस्तुवन्निति त्रैलोक्यां देहिनो मां तदा प्रिये ।। १११ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो द्वादशे वत्सरे शोणभद्रयज्ञे दग्धानां मोक्षार्थमनादिभद्रनारायणस्य,त्रयोदशे प्रध्यानवत्सरे तुंगभद्रासनायोगिन्या कृतसूर्यादिगतिनिरोधे परमेशप्रार्थनादीतिनिरूपणनामा नवमोऽध्यायः ।। ९ ।।

  1. ध्यानोपरि पौराणिकसंदर्भाः
  2. तुंगभद्रा उपरि संक्षिप्तटिप्पणी