लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ००८

विकिस्रोतः तः
← अध्यायः ७ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →

श्रीपुरुषोत्तम उवाच-
त्वया लक्ष्मि! ततो वीक्ष्य कान्तं पुरातनं निजम् ।
वरमाला मम कण्ठेऽर्पिता राज्ञां प्रपश्यताम् ।। १ ।।
सर्वः समाजश्चकितो महाश्चर्यपरोऽभवत् ।
अहो विप्रो राजकन्यां प्राप्तवानित्यभूत् स्वनः ।। २ ।।
दरिद्राय गता कन्या भाग्यहीनाय भिक्षिणे ।
असमानसमस्ताय गता कन्या तु मृत्यवे ।। ३ ।।
अहो राजगृहे जन्म भाग्यं दारिद्र्यदुःखदम् ।
कल्पवल्ली कांचनाभा भल्लुककरगाऽभवत् ।। ४ ।।
सौवर्णपद्मिनी रम्या पतिता शुष्ककर्दमे ।
स्थलपद्मात्मिका माला वानरस्य गले गता ।। ५ ।।
स्वातिसलिलयुग्विद्युत् पतिता शुष्कपर्वते ।
लक्ष्मीर्दिव्या राजयोग्या दरिद्रे पतिताऽधुना ।। ६ ।।
कौमुदी चन्द्रमुत्सृज्य क्षुद्रतारकमाश्रिता ।
प्रभा सूर्यं परित्यज्य शून्यमम्बरमाश्रिता ।। ७ ।।
विद्या सन्तं विहायैव वैतण्डिकमधिश्रिता ।
द्यौर्महेन्द्रं परित्यज्य नैर्ऋतं समुपाश्रिता ।। ८ ।।
कान्तिः कान्तं परित्यज्य भ्रान्तिवद् भ्रान्तमाश्रिता ।
सती सत्यं विहायैव मायया मायिनं गता ।। ९ ।।
जटा शंभुं परित्यज्य वटस्तम्बं प्रवल्गिता ।
गंगा विष्णुपदं त्यक्त्वा क्षारसागरमागता ।। 3.8.१० ।।
भक्ति धर्मं परित्यज्य दुःशीलं समुपागता ।
शय्या युगलं सन्त्यज्य विधुरं समनुसृता ।। ११ ।।
सिंहिका सिंहमुत्सृज्य शूकरं समुपागता ।
करिणी हस्तिनं त्यक्त्वा गेण्डुकं पशुमाश्रिता ।। १ २।।
सरीसृपं गता त्यक्त्वा शेषं नागं हि नागिनी ।
कल्गिर्वै मुकुटं त्यक्त्वा याता चिर्पटवेटनम् ।। १ ३।।
अहो भाग्यस्य बलिता राज्ञी वाग्घरिमाश्रिता ।
नैवं दृष्टं पुरा क्वापि दृश्यन्ते न जनैः क्वचित् ।। १४।।
दिव्या चिन्तामणिमाला कुक्कुरकण्ठमाहिता ।
मन्यामहे जनाश्चैतद् दैवेनाऽस्याः कृतं किल ।। १५।।
यद्वा समाजमालक्ष्याऽभिभूता कन्यका यतः ।
तेजोभिर्वै समाजस्य भानहीनाऽकरोदिदम् ।। १ ६।।
अनभीष्टं हि तज्जातं कन्यया नेष्यते खलु ।
यद्वा कन्या न जानाति मालेयं वरमालिका ।। १७।।
साधारणीं समालक्ष्य दरिद्राय समर्पिता ।
वरमाला हरिकाणां द्वितीया वा भविष्यति ।। १८।।
इयं तु विप्रपूजार्थं मता वा कन्यका न्विति ।
तस्मात् कन्या दरिद्राय न देया सत्सु राजसु ।। १९।।
यद्वा राजा ददत्यस्मै हरिष्यामो वयं तु ताम् ।
स्वयंवरेऽपि सम्पन्ने युद्धाधीना हि कन्यका ।।3.8.२०।।
योधयित्वा सती रत्नं प्राप्स्यामो नाऽत्र संशयः ।
इत्येवं बहुधा तत्र वदन्ति स्म नृपादयः ।।२१ ।।
कन्याया जनकश्चापि क्षणं शोकं जगाम ह ।
वीक्ष्य कन्या दरिद्राय गतेति ज्वरमाप ह ।।२२।।
नोवाचापि तदा किञ्चिद् भाग्यं मत्वा सुताकृते ।
राजा तु विधिवद् दातुं समिच्छति वराय वै ।।२३।।
तावद् राज्ञी गुरुश्चापि वृद्धा न्यषेधयन्नृपम् ।
राजन् मा क्षिप्रकार्यत्र भवान् भवतु मण्डपे ।।२४।।
अयोग्यं चेदमापन्नं कन्या भ्रान्ता यतोऽस्ति वै ।
यद्वा विचित्तभावाऽस्ति मानसस्थैर्यवर्जिता ।।२५।।
तस्मान्माला पुनर्देया स्वयंवरार्थमेव ह ।
राजा वाक्यं समादृत्य तथाऽस्त्विति जगाद तान् ।।२६।।
अथ राजन्यवर्गोऽपि मेने योग्यं तु तत्तथा ।
कन्या पृष्टा मुहुश्चैतद्विषये जनकादिभिः ।।२७।।
नोवाच सा तदा किञ्चिद् रमेशेङ्गितवेदिनी ।
विप्रं राजा तदा गत्वा कृत्वा दूरं च कन्यकाम् ।।२८।।
नीत्वाऽऽययौ मण्डपं च दत्वा मालां परां पुनः ।
कन्या विहृत्य सर्वत्र मण्डपे करमालिका ।।२९।।
एवमेव समास्ते सा कस्मैचिन्नार्पयत्यपि ।
न सा वक्ति न वाऽन्यं सा पश्यति नापि चेच्छति ।।3.8.३०।।
आसुराणां विनाशस्य मिषं चिन्तयतीव सा ।
अथाऽह तु तदा लक्ष्मि! गोपुरं त्वां समागताम् ।।३१।।
समालां मामकीं मत्वा करे गृहीतवान् बलात् ।
त्वां नीत्वा वाटमालम्ब्य यावत्प्रयामि चैकलः ।।३२।।
तावद् दूता भृत्यवर्गा योद्धारो मामुपागताः ।
अताडयँश्च ते मां वै जगृहुस्त्वां वियोजिताम् ।। ३३।।
तदा कोलाहलो जातः समाजः क्षुभितोऽभवत् ।
बललभ्या खलु कन्या भृत्यैर्वै नीयते सती ।।३४।।
मारयन्तु योधयन्तु चाहरन्तु च कन्यकाम् ।
इत्येवं रणमूलं वै तदारब्धं क्षणादभूत् ।।३५।।
अहं तेषां पश्यतां वै शीघ्रं स्कन्धे निधाय च ।
त्वां गृहीत्वा प्रदुद्राव शरवर्षा तदाऽभवत् ।।३६।।
मया स्मृतं विमानं स्वं चाऽक्षराख्यं महोज्ज्वलम् ।
दीप्यमानं समन्ताद्वै महातेजोभिरुत्तमम् ।।३७।।
पार्षदैर्मुक्तसंघैश्च श्वेतगजैर्विराजितम् ।
सर्वशस्त्रभृतं लक्ष्मि दिव्यमुक्तानिकाऽन्वितम् ।।३८।।
तन्मध्ये स्थापयित्वा त्वां युद्धार्थं दानवैः सह ।
सन्नद्धश्चाऽभवँस्त्वेको विप्रोऽहं क्षात्ररूपधृक् ।।३९।।
आजगत्कलनं नैजं धनुर्धृत्वा महत्तमम् ।
छेदयामास सर्वान् वै शरान् शरैः शिलीमुखैः ।।3.8.४० ।।
मेदयामास कवचान् योद्धॄणां कानकान्यपि ।
परिवार्य समस्ताश्च राजानो दैत्यपुंगवाः ।।४१।।
आसुरा दानवाश्चापि निजघ्नुर्मां समन्ततः ।
मया तेषां प्रसंहारः कर्तव्येश्चेति वै तदा ।।।४२।।।
शक्त्या केचिद्धतास्तत्र भूशुण्ड्या च हताः परे ।
अन्ये च तौमरैश्चान्द्रैर्बाणैश्च विनिपातिताः ।।४३।।
परे तु गदया भग्ना भेदिताश्च परेऽसिभिः ।
दण्डेनाऽन्ये मारिताश्च परश्वधेन भेदिताः ।।४४।।
खण्डिता वज्रवेगैश्चाऽपरे प्रासैर्विभेदिताः ।
शूलैश्च व्यसवश्चान्ये कृतास्तत्र रणांगणे ।।४५।।।
खड्गैर्निषूदिताश्चान्ये गोलकैः कच्चरीकृताः ।
चूर्णीकृतानि वर्ष्माणि मुद्गलैर्योधिनां तदा ।।४६।।
एवं लक्ष्मि मया तत्रैकलेन कोटिशोऽसुराः ।
प्राणैर्वियुज्य नाकं वा प्रापिता वा यमक्षयम् ।।४७।।
आक्षरं स्थानमेवाऽपि वैकुण्ठं चामृतं तथा ।
अभ्याकृतं च गोलोकं प्रापिता बलिनः खलु ।।४८।।
अथ सहस्रहस्तो वै राजा कपालहेतुकः ।
सुतलस्याऽऽययौ योद्धुं मया सार्धं तदा मया ।।४९।।
सुदर्शनेन चक्रेण कर्तिताः सर्वबाहवः ।
नत्वा भूत्वा मम भक्तो जगाम स रणाद् बहिः ।।3.8.५० ।।
मया तस्मै प्रदत्तौ वै हस्तौ द्वौ नाधिकौ तदा ।
उद्गतौ स्कन्धदेशेऽस्य क्षमां वृत्त्वा ययौ गृहम् ।।५१ ।।
अथ राजा शतमूर्द्धो वितलस्य मया सह ।
युयुधेऽर्धचन्द्रबाणैर्नाम्ना सारङ्गवाहनः ।।५ २।।
सोऽपि सूर्याभबाणैर्वै मया कण्ठेषु कृन्तितः ।
पतितोऽस्य कबन्धो वै भूतले प्रममार सः ।।५ ३ ।।
अतलस्य तदा राजा सामरायोधनाभिधः ।
सहस्रपाद् योधनार्थम मत्समीपमुपाययौ ।।५४।।
मया निकृन्तिताः पादास्तस्य चक्रेण वै तदा ।
कबन्धस्तस्य च तदा पपात च ममार च ।।५५ ।।
अथ राजा भुवस्तत्र नवखण्डेश्वरो महान् ।
महेन्द्रभीषणो नाम्ना योद्धुं मां प्रति चाययौ ।।५ ६ ।।
शूलान् चिक्षेप बहुशः कण्ठं मे कर्तितुं हि सः ।
मया शूलेन दक्षोऽस्य बाहुः स्कन्धाद् विदारितः ।।५७।।
एकहस्तस्तदा शूरश्चादाय खड्गमुत्तमम् ।
दुद्राव मां तदाचाऽहं जहार तच्छिरोऽसिना ।।५८।।
अथ स्वर्गे च ये दैत्या राज्याधिकारयोजिताः ।
आययुर्व्योममार्गेण योद्धुं मया विहायसि ।।५९।।
मया रूपसहस्रैश्च योधिता विविधायुधैः ।
सुदर्शनेन चक्रेण नैकचक्रैर्विदारिताः ।।3.8.६० ।।
एवं तत्राऽर्बुदाः शूरा मम हस्तैस्तथाऽयुधैः ।
गमिताः प्रेतभावं वै मोचिता अपि बन्धनात् ।। ६१ ।।
थुरानन्दः सार्वभौमो जीवग्राहेण वै मया ।
पाशैश्च रश्मिभिस्तत्र रणे बद्धो वशीकृतः ।।६२ ।।
अरुदस्त्वं तदा लक्ष्मि! पितृस्नेहवशंगता ।
मा मेवं चेत्यवोचाश्च मया राजा प्रमोचितः ।।६३।।
ननाम मम चरणे शरणं प्राप्य भूपतिः ।
मयाऽभयप्रदानेन योजितोऽचलभक्तराट् ।।६४।।
अथाऽन्यानि दानवानां सैन्यानि दुद्रुवुस्तदा ।
तलादिषु गतानेव त्यक्त्वा भुवं दिवं भुवः ।।६५।।
एवं निष्कण्टकं कृत्वा भूतलं स्वर्गमित्यपि ।
विरराम ततो युद्धादहं मे श्वशुरगृहे ।।६६।।
राजा मां स्वालयं निन्ये मध्ये विवाहमण्डपे ।
विधिना दत्तवान् पुत्रीं ज्योत्स्नाश्रीं त्वां च मे तदा ।।६७।।
यौतकं प्रददौ राजा ह्यसंख्यस्वर्णरत्नकम् ।
विमानानि च यानानि गजवाजिवृषादिकान् ।।६८।।
दासान् दासीर्नगराणि कल्पवल्लीः सुधाह्रदान् ।
रथान् स्वर्णान् नरयानान् नीत्वा त्वां च ततस्त्वहम् ।। ६९।।
कारयित्वा मृतानां च क्रियास्ततो निजं गृहम् ।
आजगाम त्वया साकं सम्प्रज्ञानद्विजालयम् ।।3.8.७०।।
ततो मया पृथिव्यां वै राजानो ब्राह्मणाः कृताः ।
विप्राऽधीनाऽऽभवत् पृध्वी दैवपैत्र्यक्रियावती ।।७१ ।।
भुवः स्वर्गं जनाद्यं च तत्तद् धिष्ण्यं यथाभवत् ।
पुरा तथैव तत्तेभ्यो दत्तवान् विधिना पुनः ।।७२।।
एवं मया तदा लक्ष्मि! खलैर्मोचायितं जगत् ।
अनादिश्रीकृष्णनारायणेन परमात्मना ।।७३।।
पुरुषोत्तमकृष्णेन सर्वेषामवतारिणा ।
अनादिश्रीप्राज्ञनारायणोऽहं वै तदाऽभवम् ।।७४।।
आकल्पान्तं स्थितवांश्च खण्डे भामन्तके तदा ।
थुरानन्दस्ते जनको भक्तो मे त्वात्मवेदनः ।।७५।।
आयुषोऽन्ते ययौ धामाऽक्षरं मे शुद्धभक्तिमान् ।
स्मर ज्योत्स्नां श्रियं स्वां त्वं सर्वं मे गोचरं हितत् ।।७६।।
एवमन्येऽप्यवतारा असंख्या मे ततोऽभवन् ।
अथ चान्यच्च मे प्राकट्यं वदामि शृणु प्रिये ।।७७।।
वेधसो वत्सरे प्रत्याहाराख्ये दशकोत्तरे ।
नवमे कल्पके चापि मनौ चापि द्वितीयके ।।७८।।
पूर्वकालबलाल्लोके नास्तिक्यं सर्वतो ह्यभूत् ।
तिष्ययुगप्रभावेण नष्टा चोपासना मम ।।७९।।
मन्दिराणि विनष्टान्यायतनानि गतानि च ।
प्रतिमाश्च लयं यातास्तीर्थानि नाशितानि च ।।3.8.८०।।
मानवेषु तदा व्याप्तोऽभवद् वै पाशवो वृषः ।
मां व्यस्मरन् चाल्पविदः स्वल्पायुषो जनास्तदा ।।८ १ ।।
गर्तवासा विवस्त्राश्च सस्यधान्यादिजीविनः ।
स्वल्पमानाः स्वल्पजीवास्तिष्यनास्तिक्यसंभृताः ।।८२।।
वेदा मे विलयं प्राप्ताः कर्मकाण्डो लयं गतः ।
पूजनं रटनं मेऽपि कीर्तनाद्यं लयंगतम् ।।८३।।
अभूतमिव संजातं तदाऽहं ब्रह्मणाऽर्थितः ।
धर्मभक्तिस्थापनार्थं कृपया गोचरोऽभवम् ।।८४।।
वीरशरभनृपतेर्गृहे चतुर्भुजः प्रभुः ।
प्राविरासं महाशीलव्रती साधुवृषान्वितः ।।८५।।
मम प्रादुर्भावकाले देवाः पुष्पादिवर्षणम् ।
चक्रुर्दुन्दुभयश्चापि देवानां व्यनदँस्तदा ।।८६।।
तस्य राज्ञी सौरभेयी शय्यायां मां ददर्श ह ।
अगर्भजं सर्वदिव्यगुणोपेतं सुवाञ्छितम् ।।८७।।
न्यवेदयद्धि सा राज्ञे पश्य बाल ममाऽन्तिके ।
राजा प्राह मया देवि! संकल्पितोऽयमर्भकः ।।८८।।
अयोनिजस्तव पुत्रो वर्तते तं प्रपालय ।
तावत्पुत्रो जातमात्रो युवा तत्र व्यदृश्यत ।।८९।।
सर्वविद्यागुणयुक्तः सर्वविज्ञानशेवधिः ।
योगसिद्धिसुसंसिद्धः सर्वभाषाप्रपारगः ।।3.8.९०।।
सर्वकलाप्रपूर्णश्च भक्तिमार्गाऽवबोधकः ।
यज्ञोपवीतयुक्तश्च ब्रह्मचारिवृषान्वितः ।।९१।।
उपादिदेश सद्धर्मान् मानवेभ्योऽतिहर्षतः ।
ब्रह्मचर्यमहिंसां च सत्यमस्तेनवर्तनम् ।।९२।।
शौचं सन्तोषमेवापि परेशाराधनं सदा ।
व्रतं सन्तोषमेवापि क्षमां वैराग्यमित्यपि ।।९३।।
वृद्धसेवां सतां सेवां परात्मसुखवर्तनम् ।
दानं दयां च हवनं सत्कारं पूजनं हरेः ।।९४।।
तपश्चेन्द्रियवेगानां निग्रहो मोहवर्जनम् ।
सर्वात्मदर्शनं स्नेहं परमेशे परात्मनि ।।९५।।
श्रवणं कीर्तनं कृष्णस्मरणं वन्दनं तथा ।
आत्मनिवेदनं कृष्णे हरेः सम्बन्धमुत्तमम् ।।९६।।
इत्येवं मोक्षधर्माश्चाप्युपादिदेश वै तदा ।
वृत्तिं पारमहंसी च जग्राह जीवनाऽन्तिकाम् ।।९७।।
त्वं च लक्ष्मि! मयाऽऽदिष्टा शार्दूलर्षेस्तु कन्यका ।
मानसी तत्र संभूता जातमात्रा च वाग्मिनी ।।९८।।
युवती ब्रह्मरूपा च सवैश्वर्यसमन्विता ।
ब्रह्मचर्यपरा साध्वी सतीधर्माऽवबोधिका ।।९९।।
साध्वीधर्ममाश्रिता च मम व्रतपरायणा ।
नित्यपूजापरा भक्तिमती मोक्षकरी तथा ।। 3.8.१०० ।।
पित्रा मात्राऽर्पिता मह्यं साध्वीदीक्षार्थमेव ह ।
मया दीक्षा प्रदत्ता ते त्वं सदा ब्रह्मचारिणी ।। १० १।।
गुर्वी सर्वसतीनां चाऽभवः शिक्षणदायिनी ।
तव शास्त्रं तदा साध्वीधर्मात्मकं ह्यभूत् प्रिये ।। १ ०२।।
शार्दूलिकाश्रीसंहितात्मकं कल्पान्तगं तदा ।
आवाभ्यां च तदा सर्वलोकेभ्यो भूतले खलु ।। १ ०३।।
उपदिष्टा नैष्ठिकानां धर्मा भक्तिर्हरेस्तथा ।
असंख्यास्तारिता जीवा अक्षरं प्रति चापिताः ।। १ ०४।।
एतत् स्मर तदा लक्ष्मि! शार्दूलिकाश्रियं निजाम् ।
स्वां तथा मामनादिश्रीवीरनारायणं हरिम् ।। १ ०५।।
एवमन्येऽवतारा मे तदाऽभवन्नसंख्यकाः ।
सर्वानहं प्रजानामि स्मरणान्मोक्षदा हि ते ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ज्योत्स्नाश्रीसमर्पिताऽनादिप्राज्ञनारायणकण्ठे वरमाला, ततो राज्ञां युद्धम्, दैत्यदानवाऽसुगणां सुदर्शनादिभिर्हरिणा कृतो विनाशः, थुरानन्दस्य मोक्षणम्, पृष्वीस्वर्गादिराज्यानां मानवेषु देवादिषु चार्पणम्, वेधसश्चैकादशे वत्सरे नैष्ठिकसाधुधर्मस्थापनार्थम् अनादिवीरनारायणस्य
प्राकट्यमितिनिरूपणनामाऽष्टमोऽध्यायः ।। ८ ।।