लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ००७

विकिस्रोतः तः
Jump to navigation Jump to search

अथ नारायणीश्रि! त्वं समाकर्णय मत्कथाम् ।
दैत्यानां पावनीं रम्यां सुतलाभिनिवासिनाम् ।। १ ।।
ब्रह्मणश्चासनाख्ये वत्सरे वै नवमे पुरा।
कल्पे चतुर्दशे चाद्ये मनौ सुतलके तले ।। २ ।।
आसीद् राजा चलवर्मा सार्वभौमो महाबलः ।
अतलस्य वितलस्य सुतलस्य जनेश्वरः ।। ३ ।।
त्रिलोक्यां यस्य वै यानं व्योमगं त्वभवत्तदा ।
अतलस्य वितलस्य सुतलस्य प्रजा जनाः ।। ४ ।।
चलदेवं पुपूजुर्वै प्रत्यक्षं रक्षकं नृपम् ।
राजाऽपि धर्मवानासीत् प्रजापालनतत्परः ।। ५ ।।
मम भक्तो शिवकन्ये! देवपूजापरायणः ।
अनाथाऽतिथिनारीणां शरण्यः शीलशोभनः ।। ६ ।।
दिनार्धे यस्य नित्यं वै याति देवस्य पूजने ।
तदर्धं च ततो याति राज्यावलोकने ततः ।। ७ ।।
शेषार्धं निजलोकेषु प्रवासे याति सर्वदा ।
एवं कृतवतस्तस्य जिज्ञासाऽभूत्तपोमयी ।। ८ ।।
कर्मभूमौ तपः शीघ्रं फलत्ययुतधा यतः ।
पृथ्व्यां गत्वा तपः कार्यं विचार्येति विमानगः ।। ९ ।।
ऋष्यार्षे सद्गुरुं पृष्ट्वा राज्यं सर्वं ततः स च ।
कृत्वा तु गुरुसाद् राजा प्राययौ मानवीक्षितौ ।। 3.7.१० ।।
कुमुदाचलमासाद्य शीतव्याप्ते वने सदा ।
तपस्तेपे निराहारः सहस्रवत्सराणि सः ।। ११ ।।
तत्र तपसि राजाऽसौ दिव्यदृष्ट्या व्यलोकयत् ।
नारायणं परेशानं देवं श्रीपुरुषोत्तमम् ।। १ २।।
मामेव परमात्मानं नत्वोवाच मनोगतम् ।
नमस्ते परमेशाय तपःफलप्रदायिने ।। १ ३।।
भक्तमानसपूराय हरये परमात्मने ।
इत्युक्त्वा दण्डवच्चक्रे पपौ मच्चरणामृतम् ।। १४।।
ययाचे प्रेर्यमाणश्च मया चलनृपस्तदा ।
अचलत्वं देहि मेऽत्र चलं तु नाशमेति वै ।। १५।।
चलं राज्यं चलं वित्तं चलं कुटुम्बकं तथा ।
चलं च जीवनं कृष्ण सुतलादि चलं ततः ।
अचलत्वं वृणे त्वत्तो भक्तोऽहं देहि मे मतम् ।। १ ६।।
श्रीपरमेश्वर उवाच-
शृणु राजन्! चलं सर्वं ब्रह्माण्डं चलमित्यपि ।
कालश्चलश्चला माया चलं मनश्च जीवनम् ।। १७।।
चले भवेत् चलं सर्वं ह्यचलं ते मतं वद ।
श्रीचलदेव उवाच-
चलं चित्तं चला लक्ष्मीश्चलं शासनमित्यपि ।। १८।।
अचला तव भक्तिर्हि तां वृणे देहि मे प्रभो ।
अचलायास्ततः पात्रमचलं स्यां च केशव ।। १ ९।।
श्रीपरमेश्वर उवाच-
अचला मे प्रेमभक्तिः सेवा सा प्रेमपूर्विका ।
तत्पात्रमचलं त्वं चेद् भवितुं वै समिच्छसि ।।3.7.२० ।।
तदा मुक्तिर्मम लोके ते ददाम्यचलां ध्रुवाम् ।
गृहाण शीघ्रं मे मन्त्रं याहि धामाऽक्षरं मम ।।२ १ ।।
श्रीचलदेव उवाच-
चलोऽहं चाऽचलो जातश्चेदानीं कृपया तव ।
अचलस्याऽचलो वंशो भवेदेवं विधेहि मे ।।२२।।
श्रीपरमेश्वर उवाच-
यथा त्वमचलो जातो मत्कृपांशात्तथा तव ।
वंशोऽप्यचलतां राजन् मद्योगात् सम्प्रयास्यति ।। २३ ।।
अनपत्यो भवानास्ते सापत्यो भव भूपते ।
मां विना तु चलं सर्वं तवाऽपत्यं भवाम्यहम् ।। २४।।
अचलोऽहं तवाऽपत्यं भवाम्यत्र विलोकय ।
इत्युक्त्वाऽहं तदा लक्ष्मि! तस्य वै मानसः सुतः ।। २५।।।
अभवं त्वार्षदेवाख्यो राजाऽतितोषणं ययौ ।
तपः समापयित्वैव नीत्वा नृपं मया सह ।। २६।।
सुतलं तत्र ऋष्यार्यो गुरुर्मा ज्ञातवान् प्रभुम् ।
मदाज्ञयाऽपि लक्ष्मि! त्वम् ऋष्यार्षस्य सुताऽभवः ।। २७।।
राजा स्वं मानसं पुत्रं त्वार्षदेवं विधानतः ।
राज्येऽभ्यषेचयत् ऋष्यार्षोऽपि सुतां ददौ स मे ।। २८।।
आर्षपद्माभिधा त्वं चाऽसेवयः श्रीपतिं च माम् ।
आर्षदेवं चावतारिप्रभुं श्रीपुरुषोत्तमम् ।। २९।।
पालनार्थं वचनस्य मयाऽपि मानसः सुतः ।
विष्णुरेव स्वयं पुत्ररूपेण प्रकटीकृतः ।। 3.7.३ ०।।
दृढध्रुवाऽभिधः शंखचक्रगदासुमायुधः ।
जातमात्रो युवा विष्णुरेखैश्वर्यादिशोभनः ।। ३१ ।।
अचले वै पदे चोर्ध्वे स्वर्गान्ते विनियोजितः ।
पदाधारं जगतां वै ग्रहाणां ज्योतिषां तथा ।।३२।।
नक्षत्राणां तारकाणामृषीणां मण्डलानि च ।
भ्रमन्ति स्म दिशां ध्रौव्याद् ध्रुवनाम्ना दृढीकृतः ।।३३।।
चलदेवो मया नारायणीश्रि! प्रेषितोऽक्षरम् ।
अचलं चाऽव्ययं धाम पालितं मद्वचो मया ।। ३४।।
अचलोऽहं तथाऽनादिकृष्णनारायणः सुतः ।
परब्रह्म स्वयं चाऽनाद्यार्षनारायणाऽभिधः ।। ३५ ।।
मम पुत्रः स्वयं विष्णुर्दृढध्रुवाऽभिधस्तथा ।
आकल्पान्तं त्वचलोऽपि मया कृतो वचोबलात् ।। ३६ ।।
एवं वै भूतले लक्ष्मि! प्राकट्यं मे पुराऽभवत् ।
राज्यं च सुतले लोके पुत्रस्य तु दिवोपरि ।।३७।।
तदा त्वम् ऋष्यार्षपुत्रीं चाऽऽर्षपद्मां निजां स्मर ।
प्राकट्यं कथितं चार्षनारायणि! प्रभोर्मम ।।३८।।
ततः परं प्रवक्ष्यामि प्राकट्यं मे शृणु प्रिये ।
अथ लक्ष्मि! मम वंशे दृदध्रुवस्य व सुतः ।।३५ ।।
थुरानन्दात्मकश्चासीद् भक्तराट् तापसो मुनिः ।
तपश्चचार विपुलं वैष्णवो मनुकालिकम् ।।3.7.४० ।।
प्रसन्नो भगवान् ब्रह्मा वरदानं ददौ तदा ।
मा तपः कुरु राजेन्द्र वरं वृणु यथेप्सितम् ।।४१ ।।
इत्युक्तो ब्रह्मणा प्राह तव वर्षद्वयाऽऽयुषम् ।
सहस्रद्वयकल्पात्मजीवनं मां चिरं कुरु ।।४२।।
तथाऽस्त्विति ददौ वेधा वरदानं थुराय ह ।
थुरानन्दोऽपि बुभुजे सत्यलोके यथायथम् ।।४२ ।।
दिवारात्रिविमिश्रं वै वर्षद्वयाऽऽयुरेव ह ।
नवमे वत्सरे द्वेधा वर्षद्वयाऽऽयुरिद्गतम् ।।४४।।
सहस्रकल्पा दिवसा निशाः सहस्रकल्पिकाः ।
अथैवं दशमे प्राप्ते वत्सरे प्राणरोधने ।।४५ ।।
वेधसश्चापि दिवसे कल्पे चतुर्दशे तदा ।
मनौ च प्रथमे तत्र थुरानन्दस्य वै प्रिये ।।४६ ।।
ब्रह्मवर्षद्वयकालो गतो रात्रिदिवादिभिः ।
सोऽपि जातिस्मरस्तत्र पुनश्चारब्धवाँस्तपः ।।४७।।
त्रिलोकीनां हि राज्यार्थं स च देवैर्निवारितः ।
सत्यलोकादृषिभिश्च जनादिभ्यश्च पितृभिः ।।४८।।
दिवः सुरैर्मानवैश्च भूतलाद् विनिवारितः ।
ययौ तपोऽर्थमतलं सत्कृतो दानवैस्तदा ।।४९।।
दैत्यैश्च सत्कृतश्चापि सत्कृतश्चासुरैरपि ।
तपश्चचार रौद्रं वै रुद्रमाराधयन्मखे ।।3.7.५ ० ।।
मस्तकं नेत्रसहितं जुहाव कुण्डगेऽनले ।
रुद्रस्तावत्तत्र साक्षादभवद् दिव्यभासुरः ।।५१ ।।
वद किं रोचते तेऽत्र वृणु सर्वं ददामि ते ।
थुरानन्दस्तदा प्राहाऽवध्यत्वं देहि मे प्रभो ।।५ २।।
हरः प्राह विना कृष्णं परब्रह्म सनातनम् ।
अवध्यत्वं तव जातं लग्नं भवतु ते शिरः ।।५ ३ ।।
इत्युक्तः स थुरानन्दो ध्रुवपुत्रोऽतिहर्षितः ।
परिहारं तपसश्च प्रचक्रे स्वाऽध्वरस्य च ।।५५८।।
अथ राजाऽपि चाऽऽदातुं प्रस्थानं दानवान्वितः ।
चक्रे भुवं दिवं सत्यं दैत्यासुरसमन्वितः ।।५५।।
यत्र यत्राऽभवद्राज्याभिषिक्तं पदमुत्तमम् ।
सत्ताश्रितं नृपाणां च सुराणां चाऽन्यलोकिनाम् ।।५६।।
ताँस्तान् सत्तावतः सर्वान् विजित्य युद्धदुर्मदः ।
निजाश्रितान् वशान् कृत्वा तत्तत्पदेषु दानवान् ।।५७।।
दैत्यानसुरान् स्ववशान् नृपतीनभ्यषेचयत् ।
भूतले सर्वखण्डेषु नृपा दैत्याश्च दानवाः ।।५८ ।।
सत्ताधीशा असुराश्चाऽभवन् प्रजाप्रपीडकाः ।
धर्मकर्मविहीनाश्च भ्रष्टाचारसमन्विताः ।।५ ९ ।।
अशीलाः कामकाराश्च हिंसादौरात्म्यसंभृताः ।
अयज्ञशीलाः भोक्तारोऽभवन् प्रजाधनस्य ते ।। 3.7.६ ०।।
तीर्थदानार्हणरिक्ता विपथा ब्रह्मवर्जिताः ।
सुरा अपि च पितरो महर्षयश्च तद्भयात् ।। ६१ ।।
दुःखिता अभवन् सर्वे मानवा राक्षसाऽर्दिताः ।
थुरानन्दोऽपि सर्वेषु लोकेषु त्वसुरान्वितः ।।६ २।।
विमानेन प्रयात्येवोद्धोषयत्येव सर्वथा ।
मां यजन्तु मानयन्त्वाराधयन्तु जनाधिपम् ।। ६३।।
परमेशं च मां साक्षान्मत्वाऽर्पयन्तु चोपदाः ।
यज्ञे मां पूजयन्त्वेव देवतायतनेष्वपि ।। ६४।।
गणेशस्य स्थले मां च पूजयन्तु सदा जनाः ।
आहरन्तु करं मह्यं कीर्तयन्तु गुणान्मम ।।६५ ।।
पश्यन्तु मत्प्रतिमां चोपचारानर्पयन्तु मे ।
प्रातर्गृह्णन्तु मन्नाम विष्णुश्चाऽहं न चेतरः ।। ६६।।
थुरानन्दो थुरानन्दो थुरानन्दो रटन्त्विति ।
थुरानन्दे महानन्दो ब्रह्मानन्दो मिलिष्यति ।। ६७।।
थुरोऽहं ब्रह्मसंज्ञोऽस्मि थुरे माया न विद्यते ।
थुरं प्राप्य च संसेव्य कष्टं नष्टं भवेत् सदा ।। ६८ ।।
मां थुरं माथुरं लब्ध्वा भवन्तु सुखिनः सदा ।
अस्त्यहं योगिनां राजा पितॄणां द्युसदां तथा ।। ६९ ।।
मानवानामृषीणां च दैत्यानां रक्षसां तथा ।
वसूनां च निधीनां च दिक्पालानां नृपोऽस्म्यहम् ।।3.7.७० ।।
समुद्राणामरण्यानां गन्धर्वाणां नृपोऽस्म्यहम् ।
इत्यजस्य प्राणरोधाख्ये वर्षे दशमे तथा ।।७१ ।।
कल्पे चतुर्दशे तत्र मनौ च प्रथमे नृपः ।
बलवानभवद् राजा दैत्यदानवपूजितः ।।७२ ।।
अथ भक्तः प्रजा देवाः पितरो मुनयः स्त्रियः ।
सत्यश्च साधवो मामाराधयामासुरीश्वरि! ।।७३ ।।
प्रच्छन्नाः स्वगृहे स्वस्वहृदयेषु समाहिताः ।
तुष्टुवुः श्रीहरिं मां च रक्षार्थं मानवादयः ।।७४।।
हरे नाथ कृपासिन्धो दीनबन्धो जनार्दन ।
अधर्मार्दन दैत्यानामन्तकृत् परमेश्वर ।।७९ ।।
रक्ष रक्ष हरे कृष्णाऽनादिनारायण प्रभो ।
परब्रह्माऽन्तरात्मँस्त्वं रक्ष नो दानवार्दितान् ।।७६।।
इत्येवं प्रार्थनां चक्रुर्बहुधा सर्वदेहिनः ।
तदाऽहं संविचार्यैव थुरानन्दस्य कर्म तत् ।।९७।।
वरदानान्तमेवाऽपि त्वया साकं समागमम् ।
भूतले मानवे लोके मेरोः पश्चिमखण्डके ।।७८।।
नाम्ना भामन्तके खण्डे सम्प्रज्ञानद्विजालये ।
विशोकानामपत्न्यास्तु सन्निधौ दर्शनात्तदा ।।७९।।
प्राविरासं बालरूपः शंखचक्रगदाधरः ।
चक्रवज्रशक्तिशूलदण्डपाशधरः प्रभुः ।।3.7.८ ० ।।
अष्टबाहुर्हरिः सोऽहं परब्रह्मनरायणः ।
उज्ज्वलः कोटिकामोर्ध्वप्रभावान् कुशलो मृधे ।।८ १ ।।
सर्वाऽस्त्रमन्त्रविद्विज्ञो ब्रह्मभावपरायणः ।
तदा त्वं च समादिष्टा मया लक्ष्मि! द्रुतं गता ।।८ २।।
थुरानन्दालये नैजं प्राकट्यमाप्तुमीश्वरी ।
थुरानन्दस्य पुत्री त्वं जातमात्रा तु मानसी ।।।८ ३।।
ज्योत्स्नाकुमारिकानाम्नी सर्वलक्षणलक्षिता ।
अभवश्च स्वयंवरयोग्या नृपालये तदा ।।८४।।
राजा स्वयंवराख्यं च समाजं कृतवान् क्षितौ ।
भामन्तके महाखण्डे त्रिलोक्याह्वानमाचरत् ।।८५।।
स्वयंवरस्य तत्रैव मण्डपो देवमण्डपः ।
इन्द्रपुरीसमस्तेन नृपेण कारितस्तदा ।।८ ६।।
निर्णीते दिवसे तत्राऽऽययुर्दैत्याश्च दानवाः ।
राजानः पार्थिवाः पातालाधिपाश्च दिवोऽधिपाः ।।८७।।
चतुर्दशभुवनानां दिक्पाला लोकपालिनः ।
आययुर्मण्डपे तत्र ज्योत्स्नाकुमारिकांऽऽक्षया ।।८८ ।।
समाजोऽभूच्चार्बुदानां राज्ञां तत्र नृपालये ।
ज्योत्स्ना शृंगारिता श्रेष्ठे मुहूर्ते वरमालिकाम् ।।८९।।
नीत्वा बन्धुभिरुत्कृष्टायुधवेदिभिरान्विता ।
यथार्थज्योत्स्निका कन्या सर्वाकर्षणकारिणी ।।3.7.९० ।।
सुपरिचारयित्र्या च कुलशुद्धिज्ञयोषिता ।
गुरुणा चापि विप्रेण युक्ता मण्डपमाययौ ।। ९१ ।।
लोकोत्तरस्वरूपा त्वं समाजजाड्यकारिणी ।
मुग्धः सर्वः समात्-स्त्वां विलोक्याऽक्षरवासिनीम् ।। ९२।।
न दृष्टा न श्रुता क्वापि कन्येदृशी ममाऽस्त्वियम् ।
इत्येवं भूभृतां तत्र हृदयान्यभवन् क्षणम् ।।९३।।
अपूर्णरूपयोगानां भग्नान्यासन् मनांसि वै ।
पूर्णानामपि सन्देहास्पदान्यासन् मनांसि वै ।।९४।।
तव कान्त्या तदा लक्ष्मि! समाजोऽर्बुदभूभताम् ।
निस्तेजा इव निकटेऽभवत्तत्र क्षणान्तरे ।। ९५ ।।
स्वर्गस्यापि तु राजानो प्रभग्नाशास्तदाऽभवन् ।
नाऽस्मान् वरिष्यतीयं वै स्वाऽयोग्यान् रूपवर्जितान् ।। ९६।।
इत्येवं चैषणाहीनास्तदाऽन्येषां तु का कथा ।
अथ त्वं गोपुरं गत्वा नत्वा गोपुरदेवताम् ।। ९७।।
प्रविष्टा मण्डपं दिव्यमार्गेण स्वर्णशोभिना ।
दृष्टवती च राजन्यं श्रुतवती च वृद्धया ।। ९८।।
अलब्धहृच्छया तत्राऽलग्नचित्ता पुनः पुनः ।
वारत्रयं भ्रमित्वैव मण्डपं वीक्ष्य सर्वतः ।।९९।।
अदृष्ट्वा मां वरमालायुता गोपुरमागता ।
तत्राऽहमभवं विप्रोऽलब्धप्रवेश एव ह ।। 3.7.१०० ।।
दरिद्रः पीतधौत्रश्च पीतकञ्चुक एव च ।
सवेष्टनशिरा विप्रः षोडशवार्षिको युवा ।। १०१ ।।
रूपसौन्दर्ययुक्तश्च सूक्ष्मसर्वाऽऽयुधान्वितः ।
दैत्यसंहारकृत्सूक्ष्मं रूपं प्रच्छाद्य चागतः ।। १ ०२।।
कृतचन्द्रस्तथा भाले करे तु जपमालिकः ।
पादयोः पादुके बिभ्रन् लोकविलक्षणोऽभवम् ।। १०३ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो नवमवत्सरे चलदेववंशे ध्रुवस्याऽचलतार्थम् अनाद्यार्ष- नारायणस्य, दशमवत्सरे ध्रुवदेवपुत्रस्य थुरानन्दस्य दानवर्धितस्य पराभवार्थम् अनादिप्राज्ञनारायणस्य प्राकट्यं ज्योत्स्नाकुमारिकालक्ष्म्याः स्वयंवरश्चेत्यादिनिरूपणनामा सप्तमोऽध्यायः ।। ७ ।।