लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १६५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १६५
[[लेखकः :|]]
अध्यायः १६६ →

श्रीराधिकोवाच-
प्रिय प्राणपते कृष्ण कान्त सर्वमनोहर ।
नीलकर्णो वृकर्षिश्च तथाऽन्ये भक्तपुंगवाः ।। १ ।।
किं चक्रुः केतुमालाख्ये नीपरायास्तटे ततः ।
तदज्ञाते प्रदेशे तत्सर्वं मे वक्तुमर्हसि ।। २ ।।
अनादिश्रीकृष्णनारायणसम्बन्धवत्कथाम् ।
श्रुत्वा तृप्तिं न चाप्नोमि प्रियप्राणमुखात् पुनः ।। ३ ।।
श्रीकृष्ण उवाच-
नीपरायास्तटे राधे! बहुवृक्षसमाकुले ।
बहुपक्षिसमावासे शीतवायुमनोहरे ।। ४ ।।
विमानात्ते क्षितौ सर्वे चावतेरुर्जलान्तिकम् ।
गत्वा सस्नुस्ततः पूजां कृत्वाऽनादिहरेश्च ते ।। ५ ।।
नैवेद्यं फलमूलादेः पक्वान्नस्य तथाऽऽर्प्य च ।
पाथेयादि प्रभुक्त्वैव पीत्वा वारि प्रसादजम् ।। ६ ।।
घटिकामात्रमाश्रम्य चक्रुस्ते नामकीर्तनम् ।
हरेकृष्ण बालकृष्ण परब्रह्म हरेहरे ।। ७।।
महेशान परेशान सर्वेशान हरेहरे ।
एवं संकीर्तनं वाद्यैः सह चक्रुः प्रमोदिनः ।। ८ ।।
ततः खण्डं वीक्षितुं ते विमानमध्यरोहयन् ।
व्योममार्गेण दक्षेण क्रमेण गतिमाचरन् ।। ९ ।।
यवक्रीतप्रदेशाँस्ते लोकयामासुरम्बरात् ।
निस्तारां च नदीं पृथानदीं रोमायनक्षितिम् ।। 2.165.१ ०।।
कृपास्थलाद्रिं दिनपां नदीं वीक्ष्य च सेविकाम् ।
युगशावप्रदेशाँश्च वल्गुरायप्रदेशकान् ।। ११ ।।
वीक्ष्य गिरीशदेशाँश्च इष्टलवप्रदेशकान् ।
आप्यायनाद्रिं च तथाऽल्पाद्रिं वीक्ष्य ततः परम् ।। १ २।।
स्वेष्टजरप्रदेशाँश्च फेरुनसप्रदेशकान् ।
राहूनां च नदीं दृष्ट्वा वीक्ष्य परीजपर्वतम् ।। १ ३।।
इन्दिरां च नदीं दृष्ट्वा गवादकवितांनदीम् ।
नदीं गवादयानां च पूर्तगण्डप्रदेशकान् ।। १४।।
त्रिग्रासां च नदीं दूरां नदीं मित्रां नदीं तथा ।
सुपानदेशान् संवीक्ष्य गुरूनां सरितं ततः ।। १५ ।।
फलाशनप्रदेशाँश्च लववारां नदीं तथा ।
सेनानदीं विलोक्याऽथ स्थायिनीं वीक्ष्य चापगाम् । । १६ ।।
वल्लीजीवनदेशाँश्च जरामौनद्रदेशकान् ।
आल्पापां च नदीं वीक्ष्य औदरीं सरितं तथा ।। १७।।
पालनादप्रदेशाँश्च नदीं विषतुलां तथा ।
प्रपीठां च नियमानां नदीं वीक्ष्य ततः परम् ।। १८।।
लातवायप्रदेशाँश्च वीक्ष्य दूनानदीं ततः ।
पायुपश्यसरो दृष्ट्वा लेण्डुगं वीक्ष्य वै सरः ।। १९ ।।
योनिगं च सरो दृष्ट्वा फालनादप्रदेशकान् ।
स्वाद्वदनप्रदेशाँश्च नाररवप्रदेशकान् ।। 2.165.२ ०।।
त्रिनयां च नदीं वीक्ष्य लेपनादप्रदेशकान् ।
कोलद्वीपं प्रसमीक्ष्य श्वेतवार्धिं विलोक्य च ।। २१ ।।
हीनां नदीं विलोक्याथ पाचौरां सरितं तथा ।
कामाया वस्तुनायाश्च संगमं वीक्ष्य सुन्दरम् ।। २२।।
दोनानदीं विलोक्याऽथ आजवाब्धिसमागमे ।
भक्तास्ते शनकैनैंजं विमानं ह्यवतारयन् ।।२३।।
न्यूषुस्ते तत्र वृक्षाद्यैः रमणीये प्रदेशके ।
भजनं श्रीहरेश्चक्रुर्वाद्यगायननर्तनैः ।।२४।।
रात्रौ विश्रान्तिमासाद्य द्वितीये दिवसे पुनः ।
षट्कर्माणि विनिर्वर्त्य कीर्तयन्तः सवाद्यकाः ।। २५।।
तेनैव च क्रमेणैते बभ्रमुर्वै विमानगाः ।
श्रत्वा प्रजाश्च राजानो रटणं परमेशितुः ।।२६।।
परमानन्दमापन्ना जयवाचोऽभिसञ्जगुः ।
स्वागतं स्वागतं चेति सत्कारवाचमैरयन् ।।२७।।
पुष्पाद्यैर्वर्धयामासुः प्रतिदेशं प्रतिस्थलम् ।
एवं देशान् भ्रमित्वा च दोनानदीं समाययुः ।।२८।।
विशश्रमुर्भोज्यपानैस्तृप्ता निशां तु कीर्तनैः ।
यापयामासुरेवैते तृतीयेऽपि दिने तथा ।।२९।।
प्रातः कृत्यं विधायैव निषद्य च विमानके ।
तेनैव च क्रमेणैते बभ्रमुर्वै विमानगाः ।।2.165.३ ०।।
अनादिश्रीकृष्णनारायणमूर्तेर्गले च यः ।
चिन्तामणिर्धृतो मालामध्ये स्पृष्ट्वा तु तं तदा ।।३ १।।
वृकायनो महर्षिश्च चिन्तयित्वा तु शर्कराम् ।
मिष्टाममृतकल्पां च समुत्पाद्य नवां नवाम् ।।३२।।
यत्र यत्र जना देशे विलोक्यन्ते च तत्र च ।
वर्षयामास बहुधा हरेः प्रसादलब्धये ।।३३ ।।
प्रजास्तु हर्षनादैश्च जगृहुः शर्कराश्च ताः ।
चखदुश्चातिमुदिता जयनादान् प्रचक्रिरे ।।३४।।
स्वागतं स्वागतं चेति प्रार्थयामासुरुत्सुकाः ।
प्रसादं च समर्पय्य विमानं सायमेव तत् ।। ३५।।
दोनाजवाऽब्धिसंगं च समायातं निशामुखे ।
रात्रौ ते भजनं चक्रुः कृष्णनारायणेति वै ।। ३६ ।।
तावत्तत्र समायाता अष्टाविंशतिकन्यकाः ।
दिव्यरूपधराः सर्वाः कुमार्यः श्वेतभासुराः ।।३७।।
दिव्यमालाम्बरभूषाधारिण्यश्चन्द्रकान्तयः ।
रमणीयाऽतिसुन्दर्यो वैष्णव्यस्तौलसीस्रजः ।।३८।।
नारायणहरेकृष्ण बालकृष्णेति वै हरिम् ।
रटन्त्यः सौम्यभावेन भगवल्लग्नमानसाः ।।३९।।
पुष्परत्नाऽक्षतहस्ताः कस्तुरीचन्दनान्विताः ।
पूजासामग्रिकायुक्ताः प्रणेमुस्ता विमानकम् ।।2.165.४०।।
कुमार्यः पञ्च दिव्याश्च दिव्याभरणशोभिताः ।
दिव्यवैष्णववेषाश्च पूजोपकरणान्विताः ।।४१ ।।
एकः श्वेतश्चापरश्च कृष्णस्तृतीयको जवी ।
चतुर्थस्त्रिनयनश्च पञ्चमो नीलवर्णकः ।।४२।।
तेऽपि नत्वा विमानं च तस्थुः क्षणं कुमारकाः ।
तावत् त्रयं समायातं नान्यतरं सुशोभितम् ।।४३।।
स्त्रीपुंभावरहितं च श्वेतवर्णं मनोहरम् ।
नत्वा विमानं त्वरितं तस्थौ त्रिकं क्षणं तदा ।।४४।।
तावत्तत्र समायातं विंशतियतिमण्डलम् ।
सजटं वैष्णवं दिव्यं तापसं ब्रह्मभासुरम् ।।४५।।
नारायणहरेकृष्ण बालकृष्ण नमोऽस्तु ते ।
एकस्वरेण प्रवदत् नेमे विमानकं तु तत् ।।४६।।
अथ स्मृद्धपुरुषाश्च चत्वारस्तत्र चाययुः ।
दिव्या दिव्याभरणाश्च दिव्यर्द्धिसंभृताः शुभाः ।।४७।।
तापसाः सिद्धिमन्तश्च यथा वै ब्रह्मचारिणः ।
नत्वा दिव्यं विमानं ते तस्थुः क्षणं विशश्रमुः ।।४८।।
अथ षष्टिर्दिव्यरूपा मिलित्वा ते नराः स्त्रियः ।
वृकायनं तथा चाट्वालर्षीन् सर्वान् प्रणम्य च ।।४९।।
स्तुतिं चक्रुर्विमानाभिमुख विलोक्य भावतः ।
एकस्वरेण मुदिता नेत्रे प्रमिल्य वै तदा ।।2.165.५०।।
व्यापको यः परब्रह्माऽनादिश्रीपुरुषोत्तमः ।
मुक्तमुक्तानिकासेव्यस्तस्मै कृष्णाय ते नमः ।।५ १ ।।
अक्षरं ब्रह्म यत्रास्ते धाम दिव्यं परात्परम् ।
सेवते यं सदा तत्र तस्मै कृष्णाय ते नमः ।।५२।।
यन्मूर्तेस्तु समुत्पन्ना राधा शक्तिः सुरूपिणी ।
राधार्थं कृष्णरूपोऽभूत् तस्मै कृष्णाय ते नमः ।।५३।।
यं कृष्णं नित्यगोलोके गावो गोप्यश्च गोपकाः ।
सेवन्ते सुखदं रासे तस्मै कृष्णाय ते नमः ।।५४।।
यन्मूर्तेस्तु समुत्पन्ना लक्ष्मीर्मूर्तिः सुरूपिणी ।
नारायणोऽभूल्लक्ष्म्यर्थं तस्मै कृष्णाय ते नमः ।।५५।।
यं वैकुण्ठे पार्षदाः पार्षदान्यश्च भगानि च ।
प्रसेवन्ते सखीकोट्यस्तस्मै कृष्णाय ते नमः ।।५६।।
यो नाथोऽनादिसृष्टेश्च प्रवाहार्थं चतुष्टयम् ।
वासुदेवादिकं व्यूहं धत्ते कृष्णाय ते नमः ।।५७।।
यो देवो वै महाभूमा वैराजश्च पुराऽभवत् ।
त्रिदेवतां समापन्नस्तस्मै कृष्णाय ते नमः ।।५८।।
यः स्वमूर्तौ माणिकीं च रमां पद्मावतीं सतीम् ।
लक्ष्मीं नारायणीं धत्ते तस्मै कृष्णाय ते नमः ।।५९।।
यो हंसां सुगुणां मञ्जुलिकां धत्ते स्वविग्रहे ।
दयां जयां च ललितां तस्मै कृष्णाय ते नमः ।।2.165.६०।।
यो राधां यमुनां गंगां विरजां च सरस्वतीम् ।
शारदां कमलां धत्ते तस्मै कृष्णाय ते नमः ।।६ १ ।।
यः स्वमूर्तेर्विवरेषु धत्ते ब्रह्माण्डकोटिकाः ।
ब्रह्माण्डेष्वन्वितश्चास्ते तस्मै कृष्णाय ते नमः ।।६२।।
अव्याकृतेऽमृते धाम्नि श्वेतद्वीपे नरायणः ।
यस्त्वास्ते श्रीरमासेव्यस्तस्मै कृष्णाय ते नमः ।।६३।।
आदित्यमण्डले हिरण्मयो यश्च विराजते ।
अग्नौ यज्ञस्वरूपश्च तस्मै कृष्णाय ते नमः ।।६४।।
ब्रह्माण्डे विष्णुरूपो यः स्वर्गे वामनरूपधृक् ।
बदर्यां च हरिश्चास्ते तस्मै कृष्णाय ते नमः ।।६५।।
शेषे नारायणरूपश्चात्मस्वन्तर्नियामकः ।
साक्षी यः सर्वभूतानां तस्मै कृष्णाय ते नमः ।।६६।।
यश्चास्ते बालकृष्णोऽयं श्रीमद्गोपालनन्दनः ।
कुंकुमवापिकाक्षेत्रे तस्मै कृष्णाय ते नमः ।।६७।।
येन गंगा कृता दिव्याऽस्मन्माता षष्टिबालका ।
पादाङ्गुष्ठेन सत्ये वै तस्मै कृष्णाय ते नमः ।।६८।।
मूर्तिरूपो विमानेऽत्र यश्चास्ते भगवान् हरिः ।
गंगाऽपत्यकृपावर्षी तस्मै कृष्णाय ते नमः ।।६९।।।
कर्मकाण्डाय योगाय ज्ञानाय च विविक्तये ।
नीतये च विचाराय तस्मै कृष्णाय ते नमः ।।2.165.७०।।
जीवाय जीवकायापि प्राणाय कोशिने च ते ।
खाय काय च सत्याय तस्मै कृष्णात्मने नमः ।।७१ ।।
तीर्थाय साधुरूपाय सर्वज्ञाय विहारिणे ।
मुक्तये मुक्तिदात्रे च तस्मै कृष्णात्मने नमः ।।७२।।।
चिदचित्सर्वरूपाय विमानस्थाय मूर्तये ।
बालाय बालकृष्णाय कान्तकृष्णाय ते नमः ।।७३ ।।
ब्रह्मप्रियाधिपतये कोटिशक्तीश्वराय च ।
शतचत्वारिंशदूर्ध्वकन्याकान्ताय ते नमोनमः ।।७४।।
मायाकालपुरुषाणां पतये धामधामिनाम् ।
ईशजीवाधिपतये तस्मै कृष्णाय ते नमः ।।७५।।
गोचरायाऽगोचराय षष्टिवन्द्याय मूर्तये ।
शरणं स्मः समापन्नाः शरण्याय च ते नमः ।।७६।।
एवं स्तुत्वा राधिके! ते वृकायनाभिकांक्षया ।
पुष्पाञ्जलीन्निबद्ध्यैव विमानभूमिकां ययुः ।।७७।।
गांगेयाः षष्टिबालास्ते विविशुश्च विमानकम् ।
यत्राऽऽस्ते बालकृष्णः स मूर्तिरूपो हरिः स्वयम् ।।७८।।
दृष्ट्वा पुष्पाञ्जलिं चक्रुर्दण्डवच्चादरादति ।
तावन्मूर्तेः प्राविरास बालकृष्णस्तु गोचरः ।।७९।।
चतुर्दशसमामूर्तिर्दिव्यावयवशोभनः ।
कोटिकामाधिसौन्दर्यो हास्यसौम्याननः प्रभुः ।।2.165.८० ।।
ब्रह्मप्रियाभिसहितः षट्पत्नीसहितः स्वयम् ।
गंगादितीर्थसहितो विमाने गोचरोऽभवत् ।।८१।।
गंगां च मातरं दृष्ट्वा तथा कृष्णनरायणम् ।
षष्टिबाला मुमुदिरे गंगास्तन्यं तदाऽस्रवत् ।।८२।।
निपेतुः श्रीहरेश्चापि मातुश्च पादयोर्द्रुतम् ।
पञ्जलानि पपुः सर्वे प्रक्षाल्य मग्नमानसाः ।।८३।।
पूजयामासुरत्यर्थं पुष्पमौक्तिकहीरकैः ।
दिव्यरत्नैः स्वर्णवस्त्राभूषणैश्च फलादिभिः ।।८४।।
दिव्यैश्च मधुभिश्चापि सुगन्धिचन्दनादिभिः ।
गन्धसारैः सर्वरसैर्भावनाभिश्च वै हृदा ।।८५।।
नीराजनं तदा चक्रुर्हरेश्च मातुरित्यपि ।
प्रदक्षिणं प्रचक्रुश्च प्रार्थनां चक्रुरेव च ।।८६।।
कोटिजन्मापराधानां क्षन्ता नारायणप्रभो ।
अस्मद्देशेषु चागत्य कुरु देशान् हि पावनान् ।।८७।।
प्रतीक्षामस्त्वागमं ते प्रजानां पावनाय वै ।
समागत्य हरेरस्मान् पावयात्र चिरंस्थितान् ।।८८।।
मात्रा सह यदा सत्याल्लोकादागमनं तु नः ।
भगीरथस्य यत्नेन चाभूत्तदा हरेण वै ।।८९।।
ग्रहीता स्वजटायां नो जननी तु तदा वयम् ।
वियुक्ता हिमवद्वयोम्नस्त्यक्त्वा किंपुरुषं तलम् ।।2.165.९० ।।
केतुमालं निर्जनं च दृष्ट्वाऽत्र निरुपद्रवम् ।
नारायणेच्छयाऽऽगत्य निवसामोऽतिशान्तितः ।।९१ ।।
अस्मन्मध्ये भवन्तीया अष्टाविंशतिकन्यकाः ।
गंगापुत्र्यो वयं सर्वाः पञ्च पुत्रा इमे तथा ।।।९२।।।
त्रीण्यपत्यानि चैतानि कुमारा विंशतिस्तथा ।
चत्वारश्चापि बालाश्च सर्वे गंगोद्भवा वयम् ।।९३ ।।
कृत्वा यज्ञोत्सवानत्र चाहूय दैवमण्डलम् ।
केतुमालं पावनं च कुरु कृष्णं समन्ततः ।।९४।।
श्रुत्वाऽनादिकृष्णनारायणः श्रीकृष्णवल्लभः ।
जहासे मुमुदे चापि स्वीचकार तदर्थितम् ।।९५।।
दत्वा तेभ्यः प्रसादं च प्रतिमायां तिरोभवत् ।
परिवारोऽपि सर्वो हि क्षणादन्तरधीयत ।।९६।।
वृकायनो महर्षिश्च नीलकर्णादयस्तथा ।
श्रुत्वा वृत्तान्तकं दृष्ट्वा समाश्लिक्षन् हृदा मुदा ।।९७।।
स्वागतं ते ततश्चक्रुः पूजाभोजनवारिभिः ।
गांगेयानां तु सर्वेषां बालकृष्णकृपाजुषाम् ।।९८।।
मिलित्वा च विमाने ते चक्रुः श्रीहरिकीर्तनम् ।
प्रददुश्च ततो नैजं परिचयं परस्परम् ।।९९।।
आमन्त्रणं प्रचक्रुश्च गांगेयास्तु विमानगान् ।
नैजान् देशान् पावयितुं विहर्तुं च पुनः पुनः ।। 2.165.१० ०।।
वृकायनाद्याः स्वीचक्रुरामन्त्रणं पुनस्ततः ।
जगदुः स्वविमाने च सह स्थातुं तु षष्टिकम् ।। १० १।।
अङ्गीचक्रुश्च ते षष्टिर्दिव्यबाला यथोदितम् ।
इत्येवं राधिके कृष्णेच्छया सम्मेलनं ह्यभूत् ।। १ ०२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वृकायननीलकर्णादिमहर्षीणां केतुमालं प्रति विमानेन गमनं देशनिरीक्षणं गांगेयाऽपत्यषष्टिसम्मेलन-
मित्यादिनिरूपणनामा पञ्चषष्ट्यधिकशततमोऽध्यायः ।। १६५ ।।