लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १६६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६५ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १६६
[[लेखकः :|]]
अध्यायः १६७ →

श्रीराधिकोवाच-
कथं कदा समुत्पन्ना गंगायां बालबालिकाः ।
तत्सर्वं मे वद कृष्ण श्रोतुमिच्छामि तत्त्वतः ।। १ ।।
श्रीकृष्ण उवाच-
वृकायनादिभिः पृष्टास्ते सर्वेऽपि तथैव तु ।
वृत्तान्तं जगदुः सर्वे यथाभूतं वदामि ते ।। २ ।।
एकदा खलु गोलोके राधया चार्थितस्त्वया ।
श्रीकृष्णोऽहमपत्यार्थं मया संकल्पितस्तदा ।। ३ ।।
विकुण्ठाख्या तदा पुत्री पुत्राश्च सप्तसागराः ।
उत्पाद्यैव प्रदत्तास्ते त्वमभूस्तुष्टमानसा ।। ४ ।।
त्वामपत्यवतीं दृष्ट्वा गंगा त्वपत्यवर्जिता ।
अपत्येच्छावती जाताऽपत्यानि चार्थयच्च मत् ।। ५ ।।
मया पुत्र्यः शुभा दत्ता यावत्यस्त्वभिवाञ्च्छिताः ।
अष्टाविंशतिसंख्याकास्तदा तोषमुपागता ।। ६ ।।
अथैच्छत् सा कुमाराँश्च मया पञ्चाऽर्पितास्तदा ।
तथापि नैव सन्तुष्टा चत्वारश्च ततोऽर्पिताः ।। ७ ।।
अथापि तोषं नैवाऽऽप्ता पुनर्विंशतिबालकाः ।
मया दत्ता तदा तोषं ह्यवापैच्छत्तथापि सा ।। ८ ।।
अपत्यानि तदा त्रीणि मयाऽर्पितानि तत्क्षणात् ।
एवं मया तु गंगायै गोलोके षष्टिबालकाः ।। ९ ।।
संकल्पयोगजा दत्तास्तदा सा तोषमाप ह ।
यदा साऽवातरल्लोके तदाऽपत्ययुता तु सा ।। 2.166.१ ०।।
समागता स्नेहयुक्ताऽपत्यान्याधाय वै सह ।
गोलोकात् सा प्रथमे तु वैकुण्ठे समवातरत् ।। ११ ।।
ततो जलस्याऽऽवरणे वैकुण्ठे तु द्वितीयके ।
ततो विष्णुपादभूता सत्यलोके ह्यवातरत् ।। १२।।
ब्रह्मणा रक्षिता सत्ये लोकेऽभिषेकवाञ्च्छया ।
कमण्डलौ धृता नित्यं समूर्ता स्वगृहेऽपि च ।। १३।।
कार्यकारणरूपैव ब्रह्मवासे विराजते ।
भगीरथप्रयत्नेन कार्यकारणरूपिणी ।। १४।।
अर्पिता सागरमुक्त्यै भगीरथाय वेधसा ।
सम्पुनाना महर्षींश्च पितॄन् देवाँश्च वायुजान् ।। १५।।
मेरुमार्गेण सा देवी न्यपतद् रुद्रमस्तके ।
शंभुना स्वजटायां सा धृता तत्र लयं गता ।। १६।।
तदा मात्रा चोपदिष्टा षष्टिबाला हिमालयम् ।
शंभुस्थानं परित्यज्य दूरं भयाद् ययुर्द्रुतम् ।। १७।।
इन्दुकुशं कश्यपाब्धिं त्यक्त्वा किंपुरुषं तथा ।
ययुः खण्डान्तरे यत्र निर्भयास्तस्थुरेव ते ।। १८।।
केतुमाले कृतस्थाना न्यवसंस्ते यथामतम् ।
गांगेयास्ते कुमाराश्च कुमार्यः षष्टिसंख्यकाः ।। १९।।
प्रतीक्षन्ते स्म भगवत्पादपद्मं सुखस्थिताः ।
आराधयन्ति स्म हरिं स्मरन्ति मातरं सदा ।।2.166.२० ।।
तेषां मनोऽभिलषितं पूरयितुं परेश्वरः ।
प्रेषयामास शतकं भक्तानां मिषमात्रकम् ।।२१ ।।
तन्मिषेण स्वयं कृष्णनारायणः परेश्वरः ।
राधिके मूर्तिरूपेण विमाने गोचरोऽभवत् ।।२२।।
तेषां संकल्पसिद्ध्यर्थं यज्ञं कर्तुमियेष सः ।
अतो दत्वा वचस्तत्र पुनश्चान्तरधीयत ।।२३।।
शृणु कन्यकानामानि कुमारनामकानि च ।
तिष्ठन्ति मूर्तिमन्तश्च तिष्ठन्ति कृतकानि च ।।२४।।
ज्येष्ठा कन्या वल्गुनाम्नी निष्ठापरा द्वितीयका ।
निस्तारा च पृथा चापि दिनपा सेविका तथा ।।२५।।
सप्तमी चेन्दिरा गवादकविताऽष्टमी मता ।
राहूना नवमी गवादयाना दशमी तथा ।।२६।।
त्रिग्रासा दूरिका मित्रा गुरूना लववारिका ।
सेना स्थायिनी चाल्पापा ह्यष्टादशी मता हि सा ।। २७।।
औदरी विषतुल्या च प्रपीठा नियमानिका ।
दूना त्रिनया च हीना पाचौरा कामिका तथा ।।२८।।
दोनाऽष्टाविंशतितमा कन्याः प्रोक्ताः कुमारिकाः ।
बालत्रिकस्तथा श्वेतः कृष्णश्च कश्यपाभिधः ।।२९।।
आजवः पञ्चमश्चेति ज्येष्ठा वै भ्रातरस्त्विमे ।
ततश्चत्वार एवाऽऽसन् भ्रातरस्तान् वदामि ते ।।2.166.३ ०।।
परीजोऽल्पश्चाप्यायनः कृपास्थलश्चतुर्थकः ।
ततो विंशतिः सञ्जाताः शृणु नाम्ना वदामि ते ।।३ १।।
यवक्रीतस्तथा रोमायनश्च युगशावकः ।
वल्गुरायो गिरीशश्च षष्ठश्चेष्टलवो मतः ।।३२।।
स्वेष्टजरः फेरुनसः पूर्तगण्डः सुपानकः ।
फलाशनो वल्लिजीवो जरामौनस्त्रयोदशः ।।।३३ ।।
पालनादो लातवायः फालनादस्तु षोडशः ।
स्वाद्वदनो नाररवो लेपनादश्च कोलकः ।।३४।।
एते विंशतिसंख्या वै कृष्णतुल्याः पराक्रमे ।
ततस्त्रीणि च जातानि ह्यपत्यानि तु नामतः ।।३५।।
पायुपश्यं लेण्डुगं च योनिगं चेति षण्ढकम् ।
एवं षष्टिः सहजानां राधिके दिव्यवैभवा ।।३६।।
वर्तते वैष्णवी कृष्णनारायणार्पणक्रिया ।
यत्र यत्र तु यश्चास्ते तत्तन्नाम्ना स्थलादिकम् ।।३७।।
तत्तत्ततः प्रसिद्धिं चाऽगमत् तदधिदैवतम् ।
त एते षष्टिबाला वै गांगेयाश्च वृकायनम् ।।३८।।
प्रार्थयामासुरत्यर्थं भ्रमितुं निजदेशकान् ।
पुनर्विमानमारुह्य सर्वे ते शतमेव तु ।।३९।।
षष्ट्या सह विमानेन निर्ययुर्भ्रमितुं तदा ।
प्रादक्षिण्यक्रमेणैव व्योम्ना पूर्वक्रमेण च ।।2.166.४०।।
तत्तद्देशानवतीर्य गांगेयानां प्रवाञ्च्छया ।
पावनान् वै प्रकुर्वन्तः कुर्वन्तो भजनं हरेः ।।४१।।
षष्टिस्थलानि संवीक्ष्य कृत्वोत्सवाँश्च तत्र च ।
श्रावयित्वा हरेर्नाम नृपान् नॄँश्च मुहुर्मुहुः ।।४२।।
पुनस्तत्राऽऽययुः सर्वे दोनाऽऽजवाब्धिसंगमम् ।
न्यूषुः सुखेन ते सर्वे कीर्तयन्तो हरेः कथाम् ।।४३।।
गांगेयाः प्राहुरेवैतान् वृकायनादिकान् पुनः ।
कदाऽनादिकृष्णनारायणः साक्षाद्धरिः स्वयम् ।।४४।।
आगमिष्यति यज्ञार्थं कदा दृष्ट्यामवाप्स्यते ।
देशेष्वत्र प्रजाः सर्वाः प्रतीक्षन्ते समुत्सवम् ।।४५।।
वृकायन महर्षे त्वं प्रयाहि श्रीहरिं प्रति ।
शीघ्रं यथा भवेद्यज्ञस्तथाऽर्थयितुमर्हसि ।।४६।।
इत्युक्तः सिद्धिमान् दिव्यो वृकायनः समाधिना ।
द्रुतं प्राणान् सन्निरुद्ध्य ब्रह्मरन्ध्रमुपागतः ।।४७।।
निर्ययौ योगरीत्यैव चाययावाश्वसारसम् ।
नत्वा देवं बालकृष्णं चार्थयामास हृद्गतम् ।।४८।।
श्रुत्वा श्रीभगवानाह श्रावणे शुक्लपक्षके ।
पञ्चम्यां तु मखः कार्यश्चैकादश्यां समाप्तिमान् ।।४९।।
ततो देशेषु सर्वत्र स्थाने स्थाने तु राजसु ।
गन्तव्यं भाद्रमासे वै आश्विने कृष्णपक्षके ।।2.166.५० ।।
याहि त्वं च प्रदेशेषु तथा प्रकाशनं कुरु ।
यथा यज्ञस्य समयं जानीयुर्जनताः प्रजाः ।।५१ ।।
सामग्रीश्चापि गांगेयैर्मिलित्वा सञ्चिताः कुरु ।
इदं सुदर्शनं चक्रं सह नीत्वा प्रयाहि मे ।।५२।।
प्रेषय व्योममार्गेण तद्देशेषु समन्ततः ।
भ्रमित्वा च मुहुर्यत्र भूमौ विश्रान्तिमाचरेत् ।।५३।।
तत्र यज्ञः प्रकर्तव्यस्तत्स्थलं संस्कृतं कुरु ।
प्रकाशितं स्थलं तच्च विमानेन पुनर्दिनम् ।।५४।।
भ्रमित्वाऽम्बरमार्गेण प्रसूचितं विधापय ।
अहं विमानमार्गेण श्रावणेऽह्नि तृतीयके ।।५५।।
शुक्ले देवैः कुटुम्बाद्यैर्महर्षिभिश्च शक्तिभिः ।
सह नीत्वा समायास्ये मध्याह्नोत्तरमेव ह ।।५६।।
इत्याज्ञप्तो महर्षिश्च सुदर्शनेन शोभितः ।
योगैश्वर्येण सहसा दोनाऽऽजवाब्धिसंगमम् ।।५७।।
ययौ प्रातश्च वृत्तान्तं सर्वेभ्योऽकथयच्छुभम् ।
षष्टिबालाः प्रसन्नास्तेऽभवद् श्रुत्वाऽच्युतागमम् ।।५८।।
प्रातःकृत्यानि निर्वर्त्य सर्ववाद्यैश्च कीर्तनैः ।
सर्वे विमानमारुह्य मांगल्यसूचनाय ते ।।५९।।
व्योम्ना प्रागुक्तक्रमशः सुदर्शनेन संयुताः ।
यज्ञभूमेर्निर्णयार्थं कीर्तयन्तो विनिर्ययुः ।।2.166.६०।।
एकवारं महच्चक्रं भ्रमित्वाऽऽलोक्य भूमिकाः ।
प्रदर्शयत् स्वकं तेजोमण्डलं सूर्यसदृशम् ।।६ १ ।।
सहस्रारं सुदुर्लक्ष्यं किञ्चिल्लक्ष्यं प्रभाविनाम् ।
हृदयेषु प्रजानामाश्चर्यं चाजनयन्महत् ।।६२।।
कौतूहलं व्यदधाच्च दिव्यभावं न्यधापयत् ।
एवं तु भ्रामणे जाते प्रजाश्चासन् सुविह्वलाः ।।६ ३।।
द्रष्टुं पुनश्च तच्चक्रं विमानं सूर्यवर्चसम् ।
अथ चक्रं पुनस्तेन विमानेन समं भुवम् ।।६४।।
निर्णेतुं प्रासरत् शीघ्रं प्रसन्नं जनयत् सुखम् ।
निष्ठापराप्रपीठासंगमे शान्तमवातरत् ।।६५।।
उत्तरस्यां क्षितौ रासायनारण्यसुशोभिते ।
परितः सर्वदेशानां सममध्ये सुभूतले ।।६६ ।।
विलोक्य श्रीहरेः सुदर्शनावतरणं क्षितौ ।
विमानं संगमे तत्राऽवाऽतारयन् महर्षयः ।।६७।।
वृकायनो नीलकर्णो यवक्रीतस्तथाऽपरे ।
विश्रम्य भूमिकां दिव्यां वीक्ष्य रम्यां मखार्हिकाम् ।।६८।।
प्रशशंसुः प्रसन्नाश्चाऽभवन् गांगेयकादयः ।
अथोद्घोषयितुं स्थानं दिनं यज्ञं च ते ततः ।।६९।।
सवाद्यकीर्तनगीताः विमाने चाऽम्बरेऽभवन् ।
प्रादक्षिण्यक्रमेणैव शंखवादनपूर्वकाः ।।2.166.७०।।
पटहान् नादयन्तश्च गायन्तः कीर्तनानि च ।
हरेकृष्ण बालकृष्ण रमाकृष्ण हरेहरे ।।७ १।।
पद्मजाश्रीकृष्णनारायण लक्ष्मीपतेहरे ।
इत्येवं संरटन्तस्ते मध्ये मध्ये स्थले स्थले ।।७२।।
उद्घोषयन्ति यज्ञं सुस्थानं च दिनमित्यपि ।
सप्ताहो वैष्णवो यज्ञो वैदिकः सार्वदैवतः ।।७३।।
निष्ठापराप्रपीठासंगमे विशालभूतले ।
यतक्रीतर्षिसंस्थाने नदीद्वयान्तरालके ।।७४।।
सम्पत्स्यतेऽत्र भगवान् श्रीपतिः पुरुषोत्तमः ।
अनादिश्रीकृष्णनारायणश्चायास्यति स्वयम् ।।७५।।
श्रावणस्य तृतीयायां शुक्लायां श्रीहरिं प्रभुः ।
मध्याह्नोत्तरवेलायामाजनाभप्रदेशतः ।।७६।।
क्षेत्रात्कुंकुमवाप्याख्याद् विमानेनागमिष्यति ।
देवर्षिपितृसहितो ब्रह्मप्रियासमन्वितः ।।७७।।
श्रावणस्य तु शुक्लायां पञ्चम्यां प्रातरेव सः ।
विधास्यति मखारम्भं पावनं सर्वदेहिनाम् ।।७८।।
एकादश्यां समाप्तिश्च क्रतोस्तत्र भविष्यति ।
आमन्त्र्यन्ते प्रजाः सर्वा राजानोऽपि कुटुम्बिनः ।।७९।।
सर्ववर्णा नरा नार्यो समायान्तु महाध्वरे ।
पश्यन्तु देवदेवेशं कृतार्थयन्तु जन्म च ।।2.166.८०।।
गृह्णन्तु चाध्वरप्रासादिकं भजन्तु चेश्वरम् ।
शृण्वन्तु सुकथा दिव्याः पावयन्तु कुलानि च ।।८ १ ।।
भजन्तु भगवन्तं तं प्रत्यक्षं कृष्णनामकम् ।
सर्वैस्तु भोजनं कार्यं सप्ताहे याज्ञशालिकम् ।।८२।।
प्राप्तं दिव्यं तु समयं सफलयन्तु सर्वथा ।
गृह्णन्तु वैष्णवान् मन्त्रान् नारायणमुखान्ननु ।।८३।।
धारयन्तु पावनीश्च स्रजस्तुलसिकोद्भवाः ।
रटन्तु श्रीहरेर्नाम भवन्तु दिव्यविग्रहाः ।।८४।।
आगच्छन्तु महाभागा यज्ञे नारायणीयके ।
न भूतो न पुनर्भावी क्रतुश्चैतादृशः खलु ।।८५।।
अध्वरे चागमिष्यन्ति धामधामनिवासिनः ।
मुक्तकोट्यश्चेशकोट्यो देवकोट्यश्च मानवाः ।।८६।।
ऋषयः पितरो यक्षा गान्धर्वा राक्षसास्तथा ।
द्रुमास्तीर्थानि तत्त्वानि पर्वता भूमयस्तथा ।।८७।।
मूर्ताऽमूर्तगणाः सर्वे समायास्यन्ति चाऽध्वरे ।
कल्पलताः कामगावः सिद्धयो यतयस्तथा ।।८८।।
योगिनः सिद्धपुरुषाः शक्तयो योषितस्तथा ।
सर्वे चात्राऽऽगमिष्यन्ति पश्यन्तु तन्महाऽध्वरम् ।।८९।।
हरेकृष्ण स्वामिकृष्ण बालकृष्ण हरेहरे ।
अनादिश्रीकृष्णनारायणस्वामिन् हरेहरे ।।2.166.९०।।
राधालक्ष्मीपते हंसारमापद्मावतीपते ।
माणिकीश्रीमंजुलासदगुणापते श्रियाःपते ।।९१ ।।
ब्रह्मप्रियापते कृष्णपरमेश हरेहरे ।
हरेकृष्ण स्वामिकृष्ण बालकृष्ण हरेहरे ।।९२।।
विजयोऽस्तु हरेश्चात्र प्रजानां विजयोऽस्तु च ।
सुखाभिवृद्धिरेवाऽस्तु स्मृद्धिश्चास्तु सदाऽव्यया ।।९३ ।।
आरोग्यं चाऽस्तु देशानां भक्तिश्चास्तु परेश्वरे ।
परमेशं चिन्तयन्तु प्रापयन्तु परां गतिम् ।।९४।।
भुक्तिं मुक्तिं चार्जयन्तु नारायणप्रसादतः ।
अवश्यं तु मखे समागत्य तृप्ता भवन्तु हि ।।९५।।
भवन्तु पावना भक्ता मोक्षयोग्याः शुभाश्रयाः ।
दानहोमपरास्तत्र भवन्तु मखभागिनः ।।९६।।
राजानो राजवर्गाश्च श्रेष्ठिवर्गाः प्रजाजनाः ।
बाला बाल्यः स्त्रियो वृद्धा गृह्णन्तु लाभमाध्वरम् ।।९७।।
इत्येवं राधिके व्योम्नि विमानं घोषणां मुहुः ।
अकरोत् सप्तवारं वै भ्रमित्वा केतुमालके ।।९८।।
उरलात् पश्चिमे देशे समुद्रतीरकावधिम् ।
सर्वदेशेषु कृष्णस्य घोषणा वै प्रवर्तिता ।।९९।।
ततो विमानं शान्तं च यतक्रीतप्रदेशके ।
अवातरत् प्रपीठायाः पूर्वे नीपरपश्चिमे ।। 2.166.१ ००।।
अनादिश्रीकृष्णनारायणो जयतु सर्वदा ।
उच्चरन्तश्चावतेरुः सुदर्शनेन संहिताः ।। १०१ ।।
विशश्रमुर्महारण्येऽमारात्रौ ते महर्षयः ।
गांगेया बालबालाद्यः शान्तिमापुः परां तदा ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने गांगेयानामुद्भववृत्तान्तस्तन्नामानि, वृकायनस्य कुंकुमवापिकाक्षेत्रागमनं, हरेरामन्त्रणं, सुदर्शनेन सह केतुमाले वृकायनागमः, सुदर्शनस्थैर्यदर्शितक्रतुस्थलीनिर्णयः, यज्ञोद्घोषणा चेत्यादिनिरूपणनामा षट्षष्ट्यधिकशततमोऽध्यायः ।। १६६ ।।