लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १३५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १३५
[[लेखकः :|]]
अध्यायः १३६ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! कृष्णो नारायणः परः प्रभुः ।
शिबेः सौधे ह्युषित्वा तत्कृतां सेवां प्रगृह्य च ।। १ ।।
विनिर्गमय्य च निशां माघाद्यदिवसे प्रगे ।
नैत्यकं दैविकं कृत्वाऽऽदिश्य धर्मान् सुसात्त्वतान् ।। २ ।।
प्राप्य दत्तां महापूजां भोजनं चोपदादिकम् ।
सर्वान् शुभाशीर्वचनैः संप्रयुज्य प्रसाद्य च ।। ३ ।।
देवायतनकं भक्तं तथा श्रीलोमशादिकान् ।
ब्रह्मप्रियास्तथा सर्वा अक्षरक्षेत्रवासिनः ।। ४ ।।
क्षेत्रपान् देवतीर्थानि कुटुम्बं पार्षदादिकान् ।
मातरं पितरं चापि भ्रातॄन् भ्रातृवधूस्तथा ।। ५ ।।
भगिनीं तत्सखीं चापि राजाऽर्पिताश्च कन्यकाः ।
सौराष्ट्रीयजनान् नैजान् विमानेषु नवेषु च ।। ६ ।।
निषाद्य स्वविमानेन व्योममार्गेण सञ्चरन् ।
इन्दुकुशं समतीत्य सिन्धुव्योम विलंघ्य च ।। ७ ।।
बदरिकाश्रमं गत्वा दृष्ट्वा नरं नरायणम् ।
ऋषीन् दृष्ट्वा तापसाँश्च ततः श्रीकाशिकां ययौ ।। ८ ।।
वरणायास्तटे नैजां लक्ष्मीं शिवसुतां सतीम् ।
शिवराजं तथा कृष्णां चन्द्रं जयं च जानकीम् ।। ९ ।।
दृष्ट्वा सर्वान् सम्मिलित्वा स्नात्वा गंगाजले ततः ।
विश्वेशं सर्वदेवांश्च दृष्ट्वा सम्पूज्य सर्वथा ।। 2.135.१ ०।।
विमानैः सहितैः सर्वैः श्रीहरिः पुरुषोत्तमः ।
राधिके! चाययावश्वपट्टक्षेत्रं निजं शुभम् ।। ११ ।।
प्रजाभिर्जयकारैश्च वर्धितास्तीर्थकारिणः ।
विमानानि त्वक्षरं तत् क्षेत्रं तु वारसप्तकम् ।। १२।।
भ्रमित्वा कुंकुमवापीं विलोक्योद्यानवाटिकाः ।
सर्वान् विज्ञाप्य च निजागमं वै पश्चिमे ततः ।। १३ ।।
अवतेरुर्महोद्याने स्थैर्यमाप्तानि वै ततः ।
पुष्पाक्षतैश्च लाजाभिः सत्कृतानि प्रजाजनैः ।। १४।।
विमानेभ्यो बहिः सर्वे निर्गत्याऽऽपृच्छ्य वै मुहुः ।
क्षेमं च कुशलं चानाऽमयं दत्वा स्रगादिकम् ।। १५।।
सत्कृत्य च समाश्लिष्य स्वस्वस्थानं ययुर्जनाः ।
निवासार्हेषु सौधेषु निजान् हरिर्न्यवासयत् ।। १६।।
भोजयामास शीघ्रं च विशश्रमुश्च ते तथा ।
प्राहिणोत् कन्यकाः सर्वास्तदा ब्रह्मप्रियायुताः ।। १७।।
लोमशस्याऽऽश्रमे रम्ये सदा मायाविवर्जिते ।
ररक्ष लोमशः सर्वा दिव्यमुक्तोत्तमो मुनिः ।। १८।।
ऋषयो देवताद्याश्च क्षेत्रपास्तत्रवासिनः ।
भुक्त्वा नैजान्निवासाँश्च ययुर्विश्रान्तिमागमन् ।। १९।।
हरिः कुटुम्बसहितो भुक्त्वा विश्रान्तिमाप च ।
द्वितीयाया दिने प्रातः कृत्वा स्वं नैत्यकं विधिम् ।। 2.135.२०।।
महीमानान् सुराष्ट्रीयान् भोजयामास भावतः ।
कन्थाधराद्याश्च तथा रणंगमादयोऽपि च ।। २१ ।।
विप्राः शीलव्रताद्याश्च महर्षयोऽपि साधवः ।
आज्ञां प्राप्य हरेर्नैजान् ग्रामान् ययुः समन्ततः ।।२२।।
देवायतनकं प्राह हरिः प्रसन्नमानसः ।
त्वया भक्त कृतं सर्वं वैष्णवं राशिराज्यकम् ।।२३।।
नैतादृशं महत् कार्यं विना भक्तेन जायते ।
पाविताः किंपुरुषा वै नरा नार्यो नपुंसकाः ।।२४।।
प्रसन्नोऽस्मि वदाऽदेयं तव मे नैव विद्यते ।
शृणु सर्वं ददाम्येव यत्ते मनसि वर्तते ।।२५।।
इत्युक्त्वा च समाकृष्य मिमिले वक्षसा स्वयम् ।
मस्तके श्रीहरिस्तस्य हस्तौ तत्र न्यधात् क्षणम् ।।२६।।
हृदये चरणौ दिव्यौ ददौ श्रीपुरुषोत्तमः ।
देवायनोऽपि भक्तोऽसौ पूर्णकामोऽस्ति राधिके ।।२७।।
ततो वव्रे भक्तराट् स गृहं ते वै भवाम्यहम् ।
यत्र यत्र भवानास्ते पररूपः स्वयं हरिः ।।२८।।
अवतारस्वरूपश्चैश्वरे दैवे च मानुषे ।
विभवाख्योऽथवा व्यूहस्वरूपोऽप्यथवांऽशकः ।।२९।।
अर्चारूपोऽथवाऽऽवेशकलाविभूतिरूपवान् ।
शक्तिरूपो देवरूपो यत्रास्ते भगवान् भवान् ।।2.135.३ ०।।
तत्र तत्र गृहं मेऽस्तु मद्गृहे वस सर्वदा ।
हरिः प्राह च धन्योऽसि त्वदात्मकगृहेऽन्वहम् ।।३ १।।
यथा वसामि सौख्येन तथा त्वं भव मद्गृहम् ।
चेतनो मुक्तरूपोऽसि सच्चिदानन्दविग्रहः ।।३२।।
तथा कार्यस्वरूपोऽपि मम देवालयो भव ।
देवालये सदा चाऽहं निवत्स्ये सृष्टिमण्डले।।३३।।
प्रासादो मे भवत्वेव गतः प्रासादपात्रताम् ।
यत्राऽहं तत्र सर्वत्र देवायतनको भव ।।३४।।
अनेकशक्तिसम्पन्नश्चानेकरूपधृग्भव ।
जडवद् दृश्यरूपस्त्वं तदधिष्ठातृदेवता ।।३५।।
देवालनां सर्वेषां भव त्वष्टृप्रवर्धितः ।
अधिदेवोऽतिरूपश्च दर्शनीयो हि देहिनाम् ।।३६।।
दर्शयिष्ये च रूपाणि देवालयात्मकानि ते ।
इत्युक्त्वा भगवानस्मै देवायतनकाय च ।।३७।।
दर्शयामास शिखरान्वितं देवालयं शुभम् ।
निजमूर्तौ ततो मूर्तिदेवालयेऽपि तिष्ठति ।। ३८।।
तादृशं दर्शयामास सर्वांगे देवतालयम् ।
वेदिकां जगतीं भीटं पीठं मण्डोवरं तथा ।। ३९।।
शृंगं पद्मशिलां चापि कलशं ध्वजमित्यपि ।
अग्रगं मण्डपं चापि गजासनं प्रदक्षिणम् ।।2.135.४०।।
सर्वं मूर्तौ हरिर्नैजस्वरूपायां तदा मुहुः ।
देवतायतनायैव देवतायतनात्मकम् ।।४१।।
दर्शयामास विशदं ज्ञानं दिव्यं ददौ तथा ।
देवायतनकः प्राप्य ज्ञानं च भवनात्मताम् ।। ४२।।
कृतकृत्योऽभवन्नम्रो बभूव द्वित्वरूपवान् ।
मुक्तरूपस्तथा देवालयरूपोऽतिशोभनः ।।४३।।
कुंकुमवापिकाक्षेत्रे दिव्यो देवालयोऽभवत् ।
सहस्रः हस्तमानः स प्रासादोऽभवदम्बरे ।।४४।।
यद्धटाश्चाब्भ्रसलिलैः स्नान्ति नित्यं ध्वजान्विताः ।
तादृशं खलु भगवान् चकार स्वं शुभालयम् ।।४५।।
विज्ञायैतदृषयश्च सिद्धाः देव्यश्च देवताः ।
जलजाः स्थलजाश्चापि चतुःखनिसुसम्भवाः ।।४६।।
ईशा ईश्वरमुख्याश्च तत्त्वानि चेतनान्यपि ।
वृक्षा वल्ल्यश्चाकृतयो गरुडा गजवाजिनः ।।४७।।
योगिन्यः पुष्पवल्ल्यश्च स्तम्बा मुमुक्षवस्तथा ।
अरण्यस्था अम्बरस्था अन्येऽपि सौधयोगिनः ।।४८।।
ज्ञात्वा देवायतनस्य देवालयस्वरूपताम् ।
तत्र वासं चेहमानाश्चाययुर्हरिसन्निधौ ।।४९।।
सदेहाः श्रीहरेः सेवामिच्छन्तो भक्तिभावुकाः ।
प्रार्थयामासुरत्यर्थं पूजयित्वा हरिं हि ते ।।2.135.५०।।
कृपानाथ दयासिन्धो सर्वात्मन् सर्वरक्षक ।
सर्वाश्रयप्रदातस्त्वं देहि वासं निजालये ।।५१ ।।
भक्तवत्सलसंज्ञोऽसि तव सर्वं शरीरकम् ।
त्वां विना नैव लोकानां वासः सुखाय कल्प्यते ।।५२।।
देवतायतनो भक्तो भक्त्या त्वदालयोऽभवत् ।
वयं ते कृपया दासास्त्वदालयनिवासिनः ।।५३।।
भवेम इति विश्वात्मन् धारयामः प्रदेहि तत् ।
तानाह भगवान् कृष्णः सर्वश्रेयःपरायणः ।।५४।।
दुर्लभं सुलभं मत्वा भवद्भिस्त्वर्थितं न्विह ।
ममाऽऽलयो भवत्येव त्रेधा यत्र वसाम्यहम् ।।५५।।
अक्षरं ब्रह्म परमं मुक्तिस्थानं ममाऽऽलयः ।
यत्राऽक्षरं भवेद् ब्रह्म तत्राऽहं निवसामि वै ।।५६।।
यत्र वासो हि मुक्तानां नाऽन्येषां भवति क्वचित् ।
मायापारं गतानां च ब्रह्मविदां च योगिनाम् ।।५७।।
यत्र पूर्वे सन्ति साध्या देवा नित्यनिवासिनः ।
जीवभावं परित्यज्य चेशभावं विहाय च ।।५८।।।
मायाकर्माशयं दग्ध्वा ममाऽऽराधनतत्पराः ।
मे ध्यानपरमा भूत्वा क्षालिताऽशेषकारणाः ।।५९।।
शुद्धाः सञ्चिन्मयानन्दा मत्प्रपन्ना मदर्थकाः ।
मन्मूर्तौ संयमपरास्ते यान्ति ब्रह्म चाऽक्षरम् ।।2.135.६०।।
मत्कृपालेशतो दिव्या ये संभूता मदात्मकाः ।
मदन्यलयभावास्ते मे यान्ति ब्रह्म चाक्षरम् ।।६१ ।।
मायाविकृतिलुब्धानां मायामिष्टरसात्मनाम् ।
मायाऽहंभावयुक्तानां मायास्वभावशालिनाम् ।।६२।।।
स्वार्थसाधनयत्नानां रागार्थं यततां सदा ।
मद्भावनाविहीनानां न स्थानं ब्रह्मणि क्वचित् ।।६३।।
मम भक्तिविहीनानां मम मार्गाऽविदां तथा ।
मम मन्त्रादिशून्यानां न स्थानं ब्रह्मणि क्वचित् ।।६४।।
इत्येवं परमं स्थानं मयोक्तं तन्ममाऽक्षरम् ।
तदन्यद् वै द्वितीयं तु स्थानं मे हृदयं सताम् ।।६५।।
यत्राऽहं सर्वदा वासं प्रकुर्वे चेतनालये ।
मम मुक्ता महामुक्ताश्चाऽक्षरं ब्रह्म चेत्यपि ।।६६।।
मुक्तानां हृदये नित्यं सतां वै जीवतामिह ।
वसामो मिलिताः सर्वे हृदयेषु सतां वयम् ।।६७।।
तत्र वै वासना नास्ति नास्ति मायाविकारिता ।
तत्र मत्तोऽतिरिक्तं वै नास्ति ततो वसाम्यहम् ।।६८।।
मम मूर्तिः सदा दिव्याऽक्षरधामनिवासिनी ।
भक्तिधर्मयुता तत्र राजते हृदये सताम् ।।६९।।
धर्मवंशो मम मूर्तो योऽस्ति दिव्यगुणात्मकः ।
ते गुणास्तत्र राजन्ते हृदये वै सतां सदा ।।2.135.७०।।
श्रद्धा शान्तिर्दया मेधा तुष्टिः पुष्टिर्गतिस्तथा ।
लज्जा मैत्री तितिक्षा च बुद्धिर्मूर्तिः क्रियोन्नतिः ।।७१ ।।
धर्मप्रिया वसन्त्येव साधूनां हृदये सदा ।
ज्ञानं वैराग्यमैश्वर्यं चाऽभयं तप आर्जवम् ।।७२।।
सत्यं क्षेमः सुखं शौचं स्थैर्यं धैर्यं च मार्दवम् ।
निग्रहस्त्याग आस्तिक्यं सन्तोषश्च क्षमा स्मृतिः ।।७३।।
दमो यज्ञः शमो योगश्चोपरतिरुपासना ।
प्रसादश्च शुभं तेजः स्वाध्यायः प्रश्रयश्च मुद् ।।७४।।
ध्यानं साम्यं ब्रह्मविद्या लाभः सामार्थ उद्यमः ।
श्रवणाद्या भक्तिरूपा वसन्ति हृदये सताम् ।।७५।।
तत्राऽहं सर्वदा शान्तो निवसामि प्रसन्नहृत् ।
सदालयो मम यूयं तत्र वासोऽन्यदुर्लभः ।।७६ ।।
अमुक्तानां मम मन्त्रविहीनानां कदाचन ।
ममाऽभक्तिमतां वासो मम सत्सु न विद्यते ।।७७।।
येषां वै त्वक्षरे वासो येषां च हृदये सताम् ।
तेषां वासः सदा योग्यो मम देवालये शुभः ।।७८।।
अथाऽयं भक्तवर्योऽद्य देवायतनकोऽभवत् ।
देवालयस्वरूपोऽपि जडप्रख्योऽपि चेतनः ।।७९।।
तत्र वासं जडचैत्ये प्रासादे यदि चेच्छथ ।
मम मन्त्रान् प्रगृह्णन्तु मम भक्ता भवन्तु च ।।2.135.८०।।
विना मे सात्त्वतान् भक्तान् स्थातुमर्हन्ति नेतरे ।
लोमशोऽयमृषिश्रेष्ठो मन्त्रान् वः सम्प्रदास्यति ।।८ १ ।।
वैष्णवाः संभवन्त्वत्र ततो वसन्तु मद्गृहे ।
इत्युक्ता देवताद्याश्च देहिनः श्रीहरिं तदा ।।८२।।
नत्वा समर्च्य सम्पूज्याऽऽज्ञया श्रीलोमशं ययुः ।
लोमशोऽपि ददौ तेभ्यो मन्त्रान् चकार वैष्णवान् ।।८३।।
ततस्ते देवसदनं देवायतनमाययुः ।
नेमुर्देवायतनकं निपेतुर्हरिपादयोः ।।८४।।
हर्याज्ञया वैष्णवास्ते देवालयनिवासिनः ।
भवितुं दीक्षिता जातास्तदा देवालयोऽब्रवीत् ।।८५।।
भगवन् चंचला देवांश्चञ्चला देहिनस्तथा ।
भीतियुक्ताः सदा त्वेते ह्यापत्काले समागते ।।८६।।
आसुरोपद्रवं ज्ञात्वा विद्रवेयुर्न चेद् यदि ।
मध्ये मध्ये विहायैव गच्छेयुर्न स्थलान्तरम् ।।८७।।
नित्यवासप्रतिज्ञां चेत् कुर्युस्ते तव सन्निधौ ।
तदा वासः प्रदेयः स्यादेभ्यश्चेति विधिं कुरु ।।८८।।
बालकृष्णस्तु तच्छ्रुत्वा देवालयवचः शुभम् ।
हितं पथ्यं तथा सत्यं प्राह प्रार्थयतस्तदा ।।८९।।
यथा देवालयो वक्ति तथा चेन्मन्यते यदि ।
शपथान् कुरुताऽत्रैव तदा वासं ददाम्यहम् ।।2.135.९०।।
यावद् देवालयस्तिष्ठेज्जीर्णो वा भित्तिमात्रकः ।
यावद्देवोऽपि तिष्ठेच्च तावत्स्थेयं तदालये ।।९१ ।।
देवतायतनो देवो यदा स्थानं विहाय च ।
सर्वकालार्थमुद्गच्छेत् तदा गम्यं न चान्यथा ।।९२।।
इत्येवं वै प्रतिज्ञां च कुरुताऽत्र तदाऽप्यहम् ।
वासं ददामि देवायतने देवालये सदा ।।९३।।
इत्युक्तास्ते प्रतिज्ञां वै तथा चक्रुर्निरन्तराम् ।
यावद् देवालयस्तिष्ठेद् यावत्तिष्ठेच्च देवता ।।९४।।
तावद्वस्तव्यमेवाऽत्र महापत्कालकेऽपि च ।
इत्युक्त्वा च जलं पीत्वा प्रासादिकं क्षितावपि ।।९५।।
जलं प्रमुच्य चरणे हरेः सुरादयोऽस्पृशन् ।
इत्येवं शपथं प्राप्ताः प्राप्ता वासं महालये ।।९६।।
देवालये हरेर्वासे वासार्हा वैष्णवा हि ते ।
यावद्देवालयस्तस्मात् तद्देवोऽपि च तिष्ठति ।।९७।।
तावद्वै राधिके देवालयांऽगानि च सर्वदा ।
तिष्ठन्त्येवेति भग्नाश्च खण्डिता अपि राधिके! ।।९८।।
जीर्णोद्धारस्ततो देवालयस्य हितदो नृणाम् ।
प्रसन्ना देवतांशास्ते सुखयन्ति सहायिनः ।।९९।।
एवं प्रसन्नतां प्राप्य देवायतनको मुनिः ।
देवालयात्मतां प्राप्तस्तथा देवा निवासनम् ।। 2.135.१० ०।।
कृपया श्रीहरेः प्राप्तास्तान् नमेद् दूरोऽपि वै ।
शालग्रामे खण्डितेऽपि यथा वसामि सर्वदा ।। १०१ ।।
देवालये प्रभग्नेऽपि जीर्णेऽपि मूर्तिसंयुते ।
वसाम्येव त्वहं यावद् देवायतनकोऽपि च ।। १ ०२।।
वसत्येव तु तावद्वै ममाऽऽज्ञां मूर्ध्नि धारयन् ।
पठनाच्छ्रवणाच्चास्य देवालयफलं भवेत् ।। १०३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीहरेरश्वपट्टसरःक्षेत्रं प्रप्यागमनं, अक्षरधाम्नि सतां हृत्सु देवालयमूर्तौ चेति हरेस्त्रेधा वासः, देवायतनर्षेर्देवालयस्वरूपता, देवालयांगदेवानामपि स्थैर्यादि चेतिनिरूपणनामा पञ्चत्रिंशदधिकशततमोऽध्यायः ।। १३५ ।।