लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १३४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १३४
[[लेखकः :|]]
अध्यायः १३५ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽनादिकृष्णनारायणः प्रभुः ।
त्रयोदश्यां प्रगे स्नात्वा समाजुहाव भूभृतम् ।। १ ।।
कालिमेशं महाराजं स तु राजा द्रुतं ययौ ।
हरिं नत्वा सुपूज्यैव निषसाद पुरो हरेः ।। २ ।।
भगवानाह सर्वेभ्यो भोजनान्तेऽद्य दक्षिणाम् ।
विदायाख्यां देहि राजन्नुत्सवस्य विसर्जने ।। ३ ।।
इत्युक्तः स महाराजो रन्धयामास सत्वरम् ।
भोजनानि विविधान्याहारयामास सद्धनम् ।। ४ ।।
हीरामाणिक्यरत्नानि स्वर्णरूप्यकमुद्रिकाः ।
भूषालंकारवस्त्राणि गा विमानानि वाहनम् ।। ५ ।।
मध्याह्ने श्रीहरिं सर्वमहीमानेभ्य इत्यपि ।
दक्षिणा दापयामास भोजयामास तान् मुदा ।। ६ ।।
भोजिता मुक्तमुक्तान्यो ब्रह्माक्षरविभूतयः ।
शक्तयः पार्षदा दासा दास्यो भृत्याश्च भूभृता ।। ७ ।।
सेवकाश्चावताराश्चाऽवतारिण्यः सुभोजिताः ।
राधालक्ष्म्यादयः सर्वा वासुदेवादयस्तथा ।। ८ ।।
भूमविष्णुमहाविष्णुवैराजशंभुतद्गणाः ।
मायास्तत्पुरुषाश्चापि धामानि तन्निवासिनः ।। ९ ।।
वैराजाः सत्यलोकीयाः ऋषयो मुनयस्तथा ।
सिद्धाश्च साधवश्चापि पितरः सुरदेवताः ।। 2.134.१ ०।।
दिक्पाला लोकपालाश्च मेरुपर्वतवासिनः ।
भुवर्लोकस्थिताश्चापि मरुतो विश्वदेवताः ।। ११ ।।
वसवश्चारणाः साध्या निधयो मानवा गणाः ।
गणेशा गणिकाश्चापि भूताः प्रेताश्च मातरः ।। १ २।।
दैत्यदानवरक्षांसि ह्यसुरा भक्तसृष्टयः ।
सूर्या रुद्रा ग्रहास्तारा नक्षत्राणि च काश्यपाः ।। १ ३।।
वृक्षा वल्ल्यस्तृणस्तम्बा वंशाः कन्दाः फलद्रुमाः ।
नदा नद्यः समुद्राश्च सरांसि निर्झरादयः ।। १४।।
वापीकूपतटाकानि खाताऽखातानि चाब्धयः ।
तीर्थानि पर्वताश्चापि वनान्युपवनानि च ।। १५।।
कीटाः पतंगाश्च सरीसृपाः पातालवासिनः ।
अन्येऽपि देशदेशीयास्तत्त्वान्यपि जडानि च ।। १६।।
यज्ञाश्च वह्नयश्चापि पात्राणि हव्यसद्द्रवाः ।
सर्वे मूर्ता हरेर्योगात् पूजिता भूभृता तदा ।। १७।।
तथा सर्वैः राजभिश्च पूजिता भोजितास्तथा ।
तोषिता दक्षिणाभिश्च क्षत्यादौ प्रक्षमापिताः ।। १८।।
दासवर्गाः कर्मचारा येऽभवन् यज्ञकर्मसु ।
भाट्टाश्च बन्दिनः सूता भाटाश्चारणगुह्यकाः ।। १९।।
गान्धर्वा नर्तका नाट्यकला नटाश्च गायकाः ।
नर्तक्यो गायिकाश्चापि देव्योऽप्सरोगणादयः ।।2.134.२०।।
पादसंवाहकाश्चापि भृत्याः सेवाकरास्तथा ।
सेवकाः क्षालकाश्चापि मार्जका हारका अपि ।। ११ ।।
क्वणका मालिनश्चापि त्वष्टारस्तन्तुवायकाः ।
रजका राजकाश्चापि शिल्पिनः सुकलाविदः ।।२२।।
एवमन्ये दीपहारा वेत्रहारादयस्तथा ।
जयकारा वाहरक्षाः सौधोद्यानादिरक्षिणः ।। २३।।
गोपाला गृहपालाश्च वनारण्यप्रपालकाः ।
यानवाहनपालाश्च कोटिशोऽपि च मानवाः ।। २४।।
वारप्रियास्तथा वारा नपुंसकानि भण्डकाः ।
बहुरूपा रङ्गगामा हासकाः कथकास्तथा ।।२५।।।
सभ्याः सभाकलाज्ञाश्च शृंगारहावभाविनः ।
प्रदर्शनकराश्चापि वह्निस्फोटकरास्तथा ।। २६।।
विद्युद्विज्ञा यन्त्रवाहा जलवाहादयस्तथा ।
दृश्यशिल्पास्तथा चान्ये ये के कर्मचरादयः ।।२७।।
नरा नार्यश्च सर्वे ते सर्वा राजभिरर्चिताः ।
तोषिता दक्षिणाभिश्च पारितोषिकवस्तुभिः ।।२८।।
वस्त्राम्बरधनाद्यैश्चालंकारोपकरादिभिः ।
द्रव्यैः सुवर्णकूप्यैश्च रत्नहारादिभिस्तथा ।।२९।।
भोजितास्तोषिताश्चाति प्रसादिताः पुनः पुनः ।
भिक्षुका दीनवर्गाश्चाऽनाथा दारिद्र्ययोगिनः ।।2.134.३ ०।।
नरा नार्यः सतीसाध्व्यः साधवो रागवर्जिताः ।
अनिकेतास्तापसाश्चातिथयो वनवासिनः ।।३ १ ।।
बहुजातीयजीवाश्च जातिस्मरा वियोनिजाः ।
एवमन्येऽप्यलसाश्च राजसास्तामसा अपि ।। ३ २।।
सर्वे सन्तोषिताः सर्वप्रदानैरच्युताज्ञया ।
राजभिः सर्वदानैस्ते तोषितास्तत्र चोत्सवे ।।३३ ।।
अथ राधे! हरेः पूजां चक्रुस्तेऽप्यपराह्णके ।
विदायं चार्थयामासुर्हरिर्विदायकं ददौ ।। ३४।।
नीराजयित्वा श्रीपतिं बालकृष्णं पुमुत्तमम् ।
कृतकृत्यान् मन्यमानाः प्राप्याऽऽज्ञां पारमेश्वरीम् ।।३५।।
प्रार्थयते क्षमां सेवाक्षतौ राज्ञे प्रदाय च ।
आशीर्वादान् विमानैः स्वैर्यानैः रथैश्च वाहनैः ।।३६।।
यथैश्वर्यं यथास्मृद्धिं यथागति ययुर्गृहान् ।
स्वस्वलोकान् क्षितेर्भागेर्वायुमार्गैर्विमानकैः ।। ३७।।
गरुडैश्च गजैरश्वैर्हंसैः सिंहादिभिस्तथा ।
अनलैः किरणैश्चापि संकल्पैः सिद्धिभिस्तथा ।।३८।।
समाधिना ययुश्चाप्यैश्वर्यकैः रूपलक्षकैः ।
अदृश्यभावनाभिश्च लीनैश्वर्यादिभिस्तथा ।। ३९।।
सृज्यैश्वर्यैस्तथा चात्मतत्त्वभावैर्ययुर्गृहम् ।
एवं तत्र त्रयोदश्यां महीमानाः समस्ततः ।।2.134.४०।।
ययुर्लोकान्निजान्देशान् सौराष्ट्रमण्डलं विना ।
कोट्यर्बुदब्रह्मप्रियाकन्यकासहितो हरिः ।।४१ ।।
लोमशादिमुनिभिश्च तथाऽश्वपट्टतीर्थकैः ।
क्षेत्रपैरवताराद्यैः पितृभ्यां सहितस्तथा ।।४२।।
भक्तैर्दासैः कुटुम्बेन वैष्णवैः ऋषिभिः सह ।
साध्वीभिः साधुभिः साकं सर्वकन्याभिरित्यपि ।।४३।।
अक्षरक्षेत्रवासाभिः प्रजाभिः सात्त्वतैः सह ।
देवायनादिभिः साकं श्रीहरिः पूर्णिमावधिम् ।।४४।।
कालिमेशनृपसौधे समुवास कृपाकरः ।
कालिमेशकुटुम्बस्य श्रेयसे तोषणाय च ।।४५।।
सर्वराजकुटुम्बानि न्यूषुश्चाऽऽपूर्णिमावधिम् ।
अहं कृष्णस्तथा नारायणस्तस्येच्छया प्रभोः ।।४६।।
त्वया लक्ष्म्या युतौ चावां न्यूषिम पूर्णिमावधिम् ।
एवं वै राधिके कृत्वा प्राघूर्णिकविदायकम् ।।४७।।
रात्रौ विश्रान्तिमापन्नः साक्षाच्छ्रीपुरुषोत्तमः ।
चतुर्दश्यां प्रगे स्नात्वा समाहूय नृपान् हरिः ।।४८।।
उपादिदेश हार्दं स्वं सभ्येभ्यो नृपसंसदि ।
शृण्वन्तु वैष्णवाः सर्वे राजानस्तत्कुटुम्बिनः ।।४९।।
राजा धर्माश्रयश्चास्ति राजन्यहं वसामि च ।
दिक्पालानां शक्तयश्च निहिता वै नृपे मया ।।2.134.५०।।
राजाधीनप्रजाः सर्वाः पालयन्ति वृषान् शुभान् ।
अचौर्यम चाऽप्यहिंसां च ब्रह्मचर्यं नयं तथा ।।५ १ ।।
सत्यं प्रपालनं चापि मातापितृप्रसेवनम् ।
पत्यधीना तथा पत्नी पत्न्यधीनः पतिस्तथा ।।५२।।
स्वाम्यधीनास्तथा भृत्या भृत्याधीनश्च रक्षकः ।
राजभीत्या यथाचारे वर्तन्ते दण्डभीतितः ।।५३ ।।
तस्माद् राजा मम रूपो मम शासनवर्तनः ।
राज्ञा वै पाल्यते धर्मस्तथाऽर्थोऽपि प्रपाल्यते ।।।५४।।
राजा प्रजानामर्थैश्च करोति क्रतुमुत्सवम् ।
अन्नसत्राणि देवानां मन्दिराण्यर्थराशिभिः ।।५५।।
भक्तिं करोति राजा च कारयत्यपि राष्ट्रके ।
तारयति प्रजाश्चापि यस्तु भागवतो भवेत् ।।।५६।।
तस्माद् भवद्भिः क्षितिपैः पृथ्व्यां दूतैस्तु सर्वतः ।
कारणीया हरेर्भक्तेर्घोषणा पटहैरपि ।।५७।।
प्रजा भवन्तु च हरेर्भक्तिमत्यः सुदीक्षिताः ।
वैष्णव्यः सर्वथा कृष्णनारायणसमाश्रिताः ।।५८।।
यज्ञोपवीतं गृह्णन्तु वैष्णवं पावनं शुभम् ।
दीक्षां मन्त्रं हरेर्नाम गृह्णन्त्वपि प्रमोक्षदम् ।।५९।।
व्रतं कुर्वन्तु च हरेर्जन्माष्टम्यां शुभोर्जके ।
कृष्णे दलेऽतिभावेन चैकादश्या व्रतं तथा ।।2.134.६ ०।।
अत्र यज्ञदिनानां च कुर्वन्तु तीर्थयात्रिकाम् ।
नामसंकीर्तनं चापि प्रकुर्वन्तु दिवानिशम् ।।६ १ ।।
उत्सवान् विविधाँश्चपि वैष्णवैर्मिलितैः सह ।
कारयन्तु प्रजाश्चापि कथापारायणादिकम् ।।६२।।
चातुर्मास्ये प्रपूजादि कुर्वन्तु श्रीहरेस्तथा ।
इत्येवं घोषणां राज्ये कारयन्तु निजे निजे ।।६ ३ ।।
इत्यादिष्टास्तु राजानः पञ्चमुख्यास्तथाऽपरे ।
शिबिदेवनृपश्चापि थर्कूटस्थनृपस्तथा ।।६४।।
वीरजारमहाराजः शक्त्यक्षिनृपतिस्तथा ।
कालिमाशनृपश्चापि तथाऽन्ये खण्डभूभृतः ।।६५।।
आशां शिरसि चाधाय नेमुः श्रीपुरुषोत्तमम् ।
करिष्यामस्तथेत्युक्त्वोद्धोषणां दूतसत्तमैः ।।६६।।
कारयामासुरत्यर्थं स्वस्वराज्ये समन्ततः ।
भोजयामास च सर्वान् श्रीहरिर्निजमन्दिरे ।।६७।।
कालिमाशनृपोक्त्या वै प्रासादिकं तु नैकधा ।
सायं विमानमारुह्य लालायनमुनेर्गृहम् ।।६८।।
ययौ श्रीभगवान् पूर्वसमुद्रे द्वीपसंस्थितम् ।
प्रासादिकं च तत् कृत्वा त्वाययौ व्योममार्गतः ।।६९।।
कालिमाशनृपसौधं विश्रान्तिं प्राप वै निशि ।
लालायनमृषिं साधुं सच्चिदानन्दसंज्ञितम् ।।2.134.७०।।
दीक्षितं श्रीहरिस्त्वाह व्रज त्वं चोत्तरान् कुरून् ।
तव द्वीपात्पूर्वदेशान् केनाटद्वीपसंयुतान् ।।७१ ।।
अमरीणां प्रदेशाँश्च मम भक्तिं प्रकारय ।
इत्यादतो यतिः सोऽपि ययौ केनाटकान् कुरून् ।।७२।।
व्योममार्गेण योगेन बहुशक्तिसमन्वितः ।
अथ रात्रौ हरिः प्राप विश्रान्तिं च ततः पुनः ।।७३।।
पूर्णायां प्रातरुत्थाय स्नात्वा ध्यानपरोऽभवत् ।
तावत् तत्राऽभवद् राधे महाश्चर्यं हरेः पुरः ।।७४।।
विमानं त्वक्षराद्धाम्नो मुक्तयुक्तं समुज्ज्वलम् ।
आयातं द्राक् स्थिरं तस्थौ श्रीहरेः सन्निधौ ततः ।।७५।।
पार्षदास्तद्विमानाच्चाऽवतीर्य पुरुषोत्तमम् ।
राधिके! पूजयामासुः प्राहुर्भक्तिपरायणाः ।।७६।।
शूरजारस्य मुक्त्यर्थं तथा तस्य तु योषितः ।
देववरूथिनीनाम्न्या मोक्षार्थं भवदाज्ञया ।।७७।।
यथा प्रतिश्रुतं तद्वत् स्मृत्वा समागता वयम् ।
आज्ञापय यथा कृष्ण तथा स्मः सेवने रताः ।।७८।।
श्रीहरिं श्रावयामास तत्सर्वं भूभृते तदा ।
संप्रयुज्याऽऽशिषो राज्ञे कालिमेशाय शक्तये ।।७९।।
वीरजारेण सहितः शूरजारादिसंयुतः ।
श्रीहरिवीरजारस्य राज्यं चोबीनदीतटे ।।2.134.८०।।
आययौ सुविमानेन निजमण्डलसेवितः ।
शूरजारं तथा देववरूथिनीं तदा हरिः ।।८ १ ।।
प्रापयन्मोक्षकं दिव्यं त्वक्षरं धाम शाश्वतम् ।
अथ श्रीभगवाँस्तूर्ण बालकृष्णसरोवरम् ।।८२।।
आययौ तद्विमानेन शिबिराजालये पुनः ।
थर्कूटस्थो हरेराज्ञां प्राप्य राज्यं निजं ययौ ।।८३।।
अथाश्चर्यमभूत्तत्र कन्याः षोडश चाययुः ।
दिव्यरूपधराः सर्वास्त्रिशूलिन्यस्त्रिनेत्रिकाः ।।८४।।
तथा कुमाराश्चत्वारस्तेऽपि त्रिशूलनेत्रिकाः ।
दिव्या योगकलायुक्ता महैश्वर्यादिशालिनः ।।८५।।
अथाऽन्ये पुरुषा दिव्याः श्वेतास्त्रिशूलनेत्रकाः ।
चत्वारश्चंचला दीर्घाः स्थूलास्तत्र समाययुः ।।८६।।
पञ्चाऽपरे च पुरुषाः कृष्णवर्णास्त्रिशूलिनः ।
त्रिनेत्रा दिव्यरूपाश्च दीर्घाः कृशाः समाययुः ।।८७।।
एकः कश्चिद् दुर्बलश्च निःशस्त्रोऽपि समाययौ ।
रूक्षवर्णोऽपि सुखवान् निश्चिन्तश्चञ्चलोऽपि सन् ।।८८।।
एवमेते समागत्य त्रिंशत्ते हरिसन्निधौ ।
निपेतुर्दण्डवत् कृष्णपादयोर्भक्तिसंयुताः ।।८९।।
धन्या वयं वयं धन्या उद्धृताः परमात्मना ।
इत्युक्त्वा बहुरत्नाद्यैः पुपूजुः परमेश्वरम् ।।2.134.९० ।।
आरार्त्रिकादिकं चक्रुः सत्कृताः शिबिना तु ते ।
निषेदुश्चाथ संपृष्टाः के यूयं देवरूपिणः ।।९ १ ।।
जगदुस्ते वयं रुद्रसृष्टाः पुरा तदात्मजाः ।
रुद्रसृष्टेर्विनाशेऽत्र प्रच्छन्ना वासकारिणः ।।९२।।
सदा वर्तामहे त्वद्य पाविताः परमात्मना ।
देहि मन्त्रान् वैष्णवाँश्च कुरु श्रीपरमेश्वर ।। ९३।।
इत्येवं त्वर्थितः कृष्णनारायणो ददौ मनून् ।
तत्र याः कन्यकास्त्वासन् रोद्र्यः पुत्र्यस्तु ता यथा ।।९४।।
उरुला बालिका इरात्रिशा ओबी च मानिशी ।
बीना त्रिबला त्रासा च तुंगासिका अनावरा ।।९५।।
आलनौका उष्ट्रीयास्का याना अनादिरा तथा ।
अनांशुका कालिमा च वैष्णव्यस्तास्तदाऽभवन् ।।९६।।
कुमाराश्चापि चत्वारो नाम्ना तान् शृणु राधिके! ।
बालकृशो द्विकलश्च अल्पमात्रो युरालकः ।।९७।।
तेऽपि मन्त्राँस्तदा प्राप्य वैष्णवाश्चाऽभवन् शुभाः ।
अन्ये दीर्घाश्च पुरुषा नाम्ना तान् शृणु राधिके ।।९८।।
अक्षोढा कारकश्चापि कश्यपायो द्विरिंगकः ।
तेऽपि मन्त्रान् जगृहुश्च वैष्णवाश्चाऽभवँस्तदा ।।९९।।
अन्ये च पञ्च पुरुषा नाम्ना तान् शृणु राधिके! ।
ऊरुलश्च समानश्च स्तेनावासः प्रभालुनः ।। 2.134.१० ०।।
आपतायी त ऐवापि जगृहुर्वैष्णवान् मनून् ।
वैष्णवाश्चाऽभवँश्चाऽथ यश्चैको दुर्बलो जनः ।। १०१ ।।
नाम्ना शिवरणश्चाऽयं जग्राह च मनूँस्तदा ।
वैष्णवाः समजायन्त सर्वे श्रीहरिसेवकाः ।। १ ०२।।
आज्ञां गृहीत्वा कन्यास्ता नदीरूपा ययुः स्थलम् ।
चत्वारस्तु कुमारा वै सरोरूपा ययुश्च ते ।। १ ०३।।
चत्वारश्चापि पुरुषाश्चाब्धिरूपा ययुश्च ते ।
पञ्चापि पुरुषाश्चैते शैलरूपा ययुश्च ते ।। १ ०४।।
एको रूक्षो दुर्बलश्च रणरूपो ययौ ततः ।
तीर्थरूपा न्यवसँश्च तारका देहिनां सदा ।। १ ०५।।
शिबिदेवकुटुम्बं तद् दृष्ट्वाऽऽश्चर्यपरं ह्यभूत्। ।
पठनाच्छ्रवणाच्चास्य तत्तत्तीर्थफलं भवेत् ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीसंहितायां द्वितीये त्रेतासन्ताने सर्वेषां महीमानानां विदायसत्कारः, वैष्णवीघोषणा, सच्चिदानन्दलालायनस्योत्तरकुरून् प्रति प्रेषणं,
शूरजारदम्पतीमोक्षः, त्रिंशद्रौद्रीरौद्रात्मजानां वैष्ण्वीभवनम्, तानि तीर्थानि चेत्यादिनिरूपणनामा चतुस्त्रिंशदधिकशततमोऽध्यायः ।। १३४ ।।