लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १३६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३५ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १३६
[[लेखकः :|]]
अध्यायः १३७ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! देवायतनको भक्तराट् पुनः ।
पप्रच्छ श्रीहरिं ज्ञातुं प्रासादनिर्मितिं तदा ।। १ ।।
लोकानामुपकारार्थं ज्ञातुमंगप्रमाणकम् ।
अन्तर्मानानि सर्वाणि विज्ञातुं मन्दिरस्य वै ।। २ ।।
भगवन् देवदेवेश देवालये यथा यथा ।
अंगानि मूलतो यानि भवन्ति चाऽऽध्वजं वद ।। ३ ।।
येनाऽहं च ममांऽगानि जानीयां यत्र देवताः ।
आध्यात्मिक्यं इमाश्चापि निवत्स्यन्ति तनौ मम ।। ४ ।।
इत्यस्य वै स्वरूपं च ज्ञात्वा प्रासादकस्य च ।
अन्ये प्रासादवर्याश्च भविष्यन्ति सजातयः ।। ५ ।।
शिल्पिनो विश्वकर्माणो यदाधारान् स्वबुद्धिभिः ।
प्रासादान् कल्पयिष्यन्ति नैकरूपाँस्तदुत्तरम् ।। ६ ।।
तस्माद् वद हरेकृष्ण प्रासादांगविवेचनाम् ।
हितकृद् देववासानां यन्मूलः शिल्पिविस्तरः ।। ७ ।।
इतिपृष्टो हरिकृष्णस्तमुवाच समासतः ।
रेखालक्ष्यात्मरूपं वै देवायतनकं मुनिम् ।। ८ ।।
सप्तयवोदरैर्मीतश्चाऽङ्गुलो मध्यमः स्मृतः ।
चतुर्विशत्यंगुलैश्च हस्तो वै परिकीर्तितः ।। ९ ।।
हस्तोऽयं गजसंज्ञोऽस्ति देवप्रासाद्के तथा ।
प्रतिमायां च लिङ्गे च पीठे च मण्डपे तथा ।। 2.136.१ ०।।
राजप्रासादिके चापि महादीर्घनिवासके ।
दीर्घहर्म्ये पृथिव्यां च हस्तेनाऽनेन मापयेत् ।। १ १।।
देवप्रासादके चापि मण्डपे भित्तिबाह्यतः ।
मानं ग्राह्यं च शिखरे मन्दिरे देवतालये ।। १ २।।
पृथिव्या दीर्घतायां वै हस्तसंख्या तु यावती ।
गुणिता सा प्रकर्तव्या व्यासता हस्तसंख्यया ।। १२ ।।
उत्पन्ना या हस्तसंख्या भञ्जनीयाऽष्टसंख्यया ।
शेषसंख्या भवेदैव आयनाम्नीति विश्रुता ।। १४।।
एकाऽङ्कस्तु ध्वजायः स्यात् पञ्चाऽङ्कस्तु वृषायकः ।
सप्तसंख्या गजायः स्याद् देवालये त उत्तमाः ।। ११।।
ध्वजाये त्वर्थलाभः स्याद् वृषायो धनधान्यदः ।
कल्याणदो गजायश्च मन्दिरादौ मता इमे ।। १६ ।।
प्रासादे च प्रतिमायां लिङ्गे पृथ्व्यां च मण्डपे ।
पीठे सिंहासने वेद्यां कुण्डे ध्वजे च चामरे ।। १७।।
छत्रे वाप्यां तटाके च कूपे देवासनेऽम्बरे ।
भूषायां पीठिकायां च हारे मुकुटके तथा ।। १८।।
ध्वजायः सर्वथा श्रेष्ठो ग्राह्यः शिल्पिकलाविदा ।
शेषे त्रित्वे तु सिंहायः सिंहासने शुभो मतः ।। १ ९।।
देवालये ध्वजायः स्याच्छ्रेष्ठ एव न संशयः ।
वृषायो वा गजायो वा न ग्राह्यो देवतालये ।।2.136.२ ०।।
ध्वजायो न भवेच्चेद्वै गजायस्तत्र गृह्यते ।
पूर्वायास्तु ध्वजः स्वामी पश्चिमाया वृषायकः ।।२ १ ।।
उत्तराया गजायोऽस्ति सिंहायो दक्षिणादिशः ।
क्षेत्रायामं गुणयेच्च विस्तारेण ततश्च ताम् ।। २२।।
संख्यां विभञ्ज्याच्च सप्तविंशत्या शेषकं च यत् ।
भवेत्तदंकसंख्याकं नक्षत्रं वेश्मनो भवेत् ।। २३।।
नक्षत्रं भञ्जयित्वा वै अष्टाख्यसंख्यया ततः ।
शेषसंख्या व्ययसंज्ञा न्यूना सा चाऽऽयतो यदि ।। २४।।
श्रेष्ठा सा नरसंज्ञाऽस्ति धनधान्यादिदायिनी ।
व्ययोऽधिको राक्षसः स्यात् समानस्तु पिशाचकः ।।२५।।
अशुभौ तौ सदा बोध्यौ नरव्ययो हि लाभदः ।
अष्टौ व्ययाश्च ते बोध्याः शेषैके शान्तनामकः ।।२६।।
ध्वजायेन समं शान्तो व्ययो देयः फलप्रदः ।
सिंहायेन समं पौरो व्ययो देयो द्वितीयकः ।।२७।।
वृषायेन समं देयः श्रियानन्दस्तु पञ्चमः ।
गजायेन समं देयः श्रीवत्सो व्यय एव च ।।२८।।
क्षेत्रपास्ते प्रकीर्त्यन्ते पूजिता विघ्ननाशकाः ।
मणिरत्नसुवर्णाद्यैः प्रासादा देवताप्रियाः ।।२९।।
नद्यास्तटे पुरे तीर्थे सिद्धाश्रमे च गह्वरे ।
उद्याने च तटाके च कार्या देवालयाः शुभाः ।। 2.136.३० ।।
नगराभिमुखाः श्रेष्ठाः प्रासादाः सुखदाः सदा ।
तेषु मध्ये च बाह्ये च देवताः सुखदा सदा ।।३ १ ।।
श्रीः कुबेरो गणेशश्च गोपुरे सुखदाः सदा ।
मध्ये वा स्वस्य निलये सुखदाः सन्ति वैष्णवाः ।।३२।।
रात्रौ पृथ्व्यां प्रदीपं च संस्थाप्य ध्रुवतारके ।
अवलम्बनसूत्रेण रेखैक्यं लेखयेद् बुधः ।। ३३ ।।
उत्तरा सा दिशा शुद्धा कीलकैर्निश्चितां तु ताम् ।
कुर्यादावारि निरवनेदाशिलाभागभूतलम् ।।३४।।
पाषाणान्ते जलान्ते वा कूर्मशिलां निवेशयेत् ।
यद्दिशि स्यात्सर्पमुखं तस्यां खातं न चाचरेत् ।।३५।।
चतुष्षष्टिचतुष्कीनां कार्यमेकं हि कोष्ठकम् ।
समकोणं चतुष्कोणं कृत्वा चोभयतोदिशि ।।३६।।
रव्यादिवासराँस्तत्र लिखेदष्टौ क्रमादपि ।
चतुष्कोणे रविर्यथा पतेल्लिखेत्तथाविधम् ।। ३७।।
तत्र कोष्ठे मंगलस्य पंक्तौ नागमुखं महत् ।
शनेः पंक्तौ मंगलस्य पंक्तौ देहो मतोऽस्य वै ।। ३८।।
शनैः पंक्तौ तथा पुच्छं भवेन्नागास्यकोष्ठके ।
देहस्थले न वै खातं कर्तव्यं क्वचिदेव च ।।३९।।
कन्यातुलावृश्चिके च रवौ पूर्वे मुखं भवेत् ।
भाद्रेषोर्जेष्वपि नागमुखं पूर्वे भवेत् सदा ।।2.136.४० ।।
ततस्त्रिके च दक्षे स्यात् ततस्त्रिके तु पश्चिमे ।
ततस्त्रिके उत्तरे स्यात् तत्र खातं न कारयेत् ।।४१ ।।
कुक्षिद्वयस्य वै पार्श्वे खातं शस्तं मतं यथा ।
यदि नागमुखं पूर्वे वायव्ये खातमाचरेत् ।।४२।।
दक्षिणे चेत् सर्पमुखं त्वैशान्यां खातमाचरेत् ।
पश्चिमे चेन्नागमुखं खातं वह्नौ तदाचरेत् ।।४३।।
उत्तरे चेन्नागमुखं नैर्ऋत्ये खातमाचरेत् ।
देवालयेषु सर्वत्र निखनेद् वामकुक्षिके ।।४४।।
गजैकमानप्रासादे चतुरंगुलकूर्मकः ।
ततो दशगजं यावद् द्व्यंगुलां प्रतिहस्तकम् ।।४५।।
कूर्मं संवर्धयेत् कूर्मशिला योग्या तु सा मता ।
दशतो विंशतिं यावदेकांगुलां विवर्धयेत् ।।४६।।
विंशतितश्च पञ्चाशद्गजं चार्धांगुलं धरेत् ।
इष्टकानां तु प्रासादे इष्टकाकूर्मकः स्मृतः ।।४७।।
पाषाणानां मन्दिरादौ पाषाणस्य हि कूर्मकः ।
कूर्मशिलाऽधोभागेऽष्टांऽशकं पद्मं समाचरेत् ।।४८।।
एकगजायता चाऽष्टांऽगुलोर्ध्वा चतुरस्रिका ।
पाषाणसौधे दातव्या स्वस्थाख्या सा सहायदा ।।४९।।
इष्टिकानां तु सौधेषु कूर्मार्धांगुलमानतः ।
कृत्वा कूर्मशिला देया स्थौल्ये सा स्याद् ध्रुवप्रदा ।।2.136.५०।।
कूर्मशिलोपरि कार्या नव वै कोष्ठकास्ततः ।
अग्निस्थे कोष्ठके वारिदृश्यं मत्स्यं तु दक्षिणे ।।५१ ।।
नैर्ऋते मण्डुकदृश्यं पश्चिमे मकरदृशिः ।
वायव्ये तु ग्रासमुखमुत्तरे शंखदर्शनम् ।।५२।।
चैशाने सर्पदृश्यं च पूर्वे कुंभस्य दर्शनम् ।
नवमे मध्यभागे वै कूर्मः कार्य इतिस्थितिः ।।५३।।
नन्दा भद्रा जया रिक्ता तथाऽजिताऽपराजिता ।
शुक्लौ सौभागिनी चाथ धरणी नवमी मता ।।५४।।
कूर्मः कार्यश्चैकहस्ते देवालयेऽङ्गुलाऽर्धकः ।
सुवर्णस्याऽथवा रौप्यकस्य श्रेष्ठः स सम्मतः ।।५५।।
पश्चात् प्रत्येकहस्तेन आपंचदशहस्तकम् ।
अर्धांऽगुलेन कूर्मोऽयं वर्धनीयो भवेदिति ।।५६।।
पञ्चदशादेकत्रिंशद्गजपर्यन्तमेव तु ।
चतुर्थांशांऽगुलवृद्धिः कूर्मस्यैवेष्यते सदा ।।५७।।
एकत्रिंशादापञ्चाशद्गजपर्यन्तमेव तु ।
एकैकदोरकस्यैव वृद्धिः कूर्मे प्रदीयते ।।५८।।
दुग्धदधिघृतमधुशर्कराभिः सकूर्मकः ।
स्नपनीयस्ततः स्थाप्यो धरणीनामको हि सः ।।५९।।
पत्राऽऽयो नैव कर्तव्यः कर्तव्यश्छिद्रवर्जितः ।
मध्ये च व्योमशून्यश्च कर्तव्यो भागवर्जितः ।।2.136.६ ० ।।
मणिभिः पूजनीयश्चाच्छादनीयः प्रवालकैः ।
या नन्दाद्याश्चाष्टदिक्षु शिलास्ताश्च शुभा यथा ।।६ १ ।।
प्रासादे त्वेकहस्ते तु मता सप्तांगुला शिला ।
ततः पञ्चगजं यावत् द्व्यंगुलास्ताः शिलाः मताः ।।६ २।।
ततो वै दशहस्ते तु त्र्यंगुलास्ताः शिला मताः ।
ततो विंशतिहस्ते तु पादोनचतुरंगुला ।।६३।।
पञ्चाशद्गजपर्यन्तं सपादचतुरंगुलाः ।
समकोणाश्चतुर्थांऽशस्थूलाः कार्याः शिला नव ।।६४।।
शिलानामुपरि चाग्निकोणे शक्तिं प्रदापयेत् ।
दक्षिणायां च दण्डं तु नैर्ऋत्यायां तु खङ्गकम् ।।६५।।
पश्चिमायां तु पाशं वै वायव्यायां तथांऽकुशम् ।
उत्तरायां गदां दद्याद् ऐशान्यां तु त्रिशूलकम् ।।६६।।
पूर्वस्यां वज्रकं दद्यान्मखं तासां बहिर्यथा ।
रक्तं श्यामं चाभ्रवर्णं पाण्डुरं श्वेतमम्बरम् ।।६७।।
हरितं श्वेतं पीतं च बस्त्रमाच्छादयेत् क्रमात् ।
खाते शिलाऽधः संपुटाः स्थापनीया निधेर्नव ।।६८।।
शंखः पद्मो महापद्मो मकरः कुन्दनालकौ ।
कच्छपश्च मुकुन्दश्च खर्वश्च निधयो नव ।।६९।।
ईशानादग्निकोणाद्वा दक्षे शिलाऽष्टकाऽर्पणम् ।
मध्ये कूर्मशिला पश्चाद् वेदमांगल्यगीतिकैः ।।2.136.७० ।।
पूर्वे नन्दा स्थापनीया ततोऽन्या धरणी ततः ।
शिलाष्टकोदरं सावकाशं रक्ष्यं पुटादिवत् ।।।७ १।।
अभितः पालिकाः कृत्वोपरि स्थाप्याः पुटादिवत् ।
धरणीनाभिनालं तु सावकाशं तदूर्ध्वके ।।।७२।।
आसिंहासनपर्यन्तं चानयेत् सुखदो हि सः ।
कूर्मस्य स्थापने शिलास्थापने घृतपक्वकम् ।।७३ ।।
मिष्टान्नं देवताभ्यश्च दिक्पालेभ्योऽपि मिष्टकम् ।
बलिं दद्याद् दिव्यवस्त्रं शिल्पिने श्रीफलान्वितम् ।।७४।।
ब्राह्मणायाऽर्पयेद् भोज्यं दक्षिणां वैदिकाय च ।
प्रासादानामधिष्ठानं जगती वेदिका मता ।।७५।।
यावत्कोणो भवेत् देवप्रासादो जगती तथा ।
चतुरस्रा तथाऽष्टास्रा वर्तुला चाऽयताऽथवा ।।७६।।
प्रासादरूपरूपा तु वेदिका वै प्रशस्यते ।
वेदिका जगती प्रदक्षिणा चेति समर्थकाः ।।७७।।
प्रासादाज्जगती कार्या षड्गुणा शोभना मता ।
ब्रह्मविष्णुमहेशानां सप्तगुणा तु मन्दिरे ।।७८।।
द्विगुणा वा चतुर्गुणा पञ्चगुणा क्वचिन्मता ।
त्रिभ्रमा जगती श्रेष्ठा द्विभ्रमा तु च मध्यमा ।।७९।।
एकभ्रमा कनिष्ठा च त्रिभ्रमा विष्णुमन्दिरे ।
उच्छ्रायस्य त्रिभागेन न्यूना द्वितीयभ्रामिणी ।।2.136.८० ।।
तदुच्छ्रायविभागेन न्यूना तृतीयभ्रामिणी ।
एवं समुच्छ्रयः कार्यो भ्रमणीनां त्रिभागतः ।।८ १ ।।
चतुष्कोणा द्वादशकोणा वा विंशतिकोणकाः ।
अष्टाविंशतिकोणाः षटत्रिंशत्कोणास्तु चोत्तमाः ।।८२।।
प्रासादश्चेद् द्वादशहस्ताऽऽयतो जगती तदा ।
आयताऽर्थप्रमाणेन समुच्छ्रयवती मता ।।८३।।
द्वाविंशतिगजाऽऽयत्ये तत्तृतीयांऽशकोच्छ्रया ।
द्वात्रिंशदायतभावे चतुर्थांऽशोच्छ्रयो मतः ।।८४।।
पञ्चाशदायतभावे तुर्येऽपि चतुरंशिका ।
उच्छ्रये समता चापि सदा निर्विघ्नताकरी ।।।८५।।।
जगत्युच्छ्रायमानस्य भागाः कार्याः समाः पुरा ।
अष्टाविंशतिरेवाऽथ जाड्यकुंभस्त्रिभागकः ।।८६।।
द्विभागा कर्णिका कार्या त्रिभागे सरपट्टिका ।
पद्मपत्रयुता कार्या द्विभागः खुरको मतः ।।८७।।
सप्तभागो भवेत् कुंभस्त्रिभागः कलशो भवेत् ।
एकभागाऽऽन्तरपत्री कपोतालिस्त्रिभागजा ।।८८।।
चतुर्भागः पुष्पकण्ठः कर्तव्यः सुखदा इमे ।
निर्गमे पुष्पकण्ठो वै चतुर्भागो हि गृह्यते ।।८९।।
जाड्यकुंभोऽपि च तथा चतुर्भागो हि गृह्यते ।
कर्णिकासु पूर्वतो वै समारभ्य प्रदक्षिणम् ।।2.136.९०।।
अष्टानां दिक्प्रपालानां स्थाप्याः सुप्रतिमाः शुभाः ।
शिलाः प्रासादधर्त्र्यस्तु दीर्घाः पुष्टा नीरन्ध्रकाः ।। ९१ ।।
स्थाप्या दृढाः सुचूर्णाद्यैरवकाशविवर्जिताः ।
जगतीदाशिकायाश्चोपरि भीटं ततो भवेत् ।।९२।।
गजप्रासादकभीटं चतुरंगुलमुच्छ्रितम् ।
कृत्वा ततश्च पञ्चाशद्गजपर्यन्तमेव तु ।।९३।।
अर्धांगुलं प्रतिगजं भीटमुच्छ्रितमेव च ।
एकद्वित्रीणि भीटानि चोपर्युपरि मानतः ।।९४।।
चतुर्थांशन्यूनमानैः कारणीयानि सर्वथा ।
निकासोऽपि चतुर्थांऽशः स्वस्वोच्छ्रयप्रमाणतः ।।९५।।
भीटस्यांऽशत्रयं कृत्वोपरिभागे परार्धके ।
पुष्पकचिप्पिकाः कार्याः पीठं भीटोपरि न्यसेत् ।। ९६।।
प्रासादे त्वेकहस्ते तु पीठं वै द्वादशांगुलम् ।
पञ्चहस्तावधिं पञ्चांगुलं प्रतिगजं ततः ।।९७।।
दशावधिं ततो वृद्धिश्चतुरंगुलमानतः ।
विंशावधिं ततो वृद्धिस्त्र्यंगुला वै मता शुभा ।।९८।।
षट्त्रिंशदवधिं वृद्धिः सार्धैकांगुलमानतः ।
पञ्चाशद्गजपर्यन्तमूनपादः समुच्छ्रयः ।।९९।।
पञ्चमांशाऽधिका श्रेष्ठा पीठवृद्धिः शुभा मता ।
एकविंशतिसंभागाः प्रासादस्योच्छ्रये च ये ।। 2.136.१ ००।।
पञ्चादिनवभागान्तः पीठोत्सेधो यथेष्टकः ।
शुभदं सर्वतोभद्रं पद्मं वसुन्धरं तथा ।। १० १।।
सिंहं व्योमं गरुडं च हंसं वृषं च पीठकम् ।
नवधा पीठमेव स्यात् पीठं प्रासादधारकम् ।। १ ०२।।
पीठोच्छ्राये त्रिपंचाशद् भागाः कार्यास्ततः परम् ।
द्वाविंशतिभागास्तु निर्गमेऽर्प्या विधानतः ।। १०३ ।।
नवभागा जाड्यकुभे सप्तभागास्तु कर्णके ।
अन्धारीसहिते बोध्याश्चाथापि सप्तभागकाः ।। १ ०४।।
छज्जिकासहितग्रासपट्टिकाया मतास्तथा ।
हस्तिस्तरो द्वादशांशे वाजिस्तरो दशांशके ।। १ ०५।।
अष्टभागे नरस्तरः कर्तव्यः शुभदर्शनः ।
अश्वस्तरे मुख्यदेववाहनस्य स्तरोऽपि वा ।। १ ०६।।
कर्णकाग्रप्रभावाद्वै पञ्चभागात्मनिर्गमः ।
जाड्यकुंभो हि कर्तव्यः सार्धत्रिभागकर्णकः ।। १ ०७।।
आन्तरालश्चार्धभागश्चतुर्भागा ततः परम् ।
छज्जिकायुग्ग्रासपट्टी कर्तव्या शोभना परा ।। १ ०८।।
हस्तिस्तरश्चतुर्भागे निर्गमो वाजिनिर्गमात् ।
प्रभागको हि कर्तव्योनरस्तरो द्विभागकः ।। १०९।।
स्तराणामन्तराले च तथोर्ध्वे कर्णिका तथा ।
छज्जिका च प्रकर्तव्या शोभाकरी तु राधिके ।। 2.136.११० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रासादरूपे मन्दिरनिर्माणे खाताद्यारभ्य पीठकर्णीपर्यन्तं मन्दिरांगानां निर्देशप्रमापणादिनामा षट्त्रिंश-
दधिकशततमोऽध्यायः ।। १३६ ।।