लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १०७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १०७
[[लेखकः :|]]
अध्यायः १०८ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चान्यं चमत्कारं हरेस्ततः ।
भक्तसाहाय्यकृत्कृष्णनारायणोऽभवद् यथा ।। १ ।।
एकदा भूतलं द्रष्टुं पितॄणां जनवासिनाम् ।
मानस्यः कन्यका बह्व्यो विमानेन समागताः ।। २ ।।
ब्रह्मपुत्री लवहीता चन्द्रावती इरावती ।
शालावती मीनकङ्गू लाटिशा कानिशा तथा ।। ३ ।।
मापींगा चापि शीक्यांगा अंगस्वांगा हरांगहा ।
मौक्तिका तारिमा चापि पन्नामा त्वांगहा तथा ।। ४ ।।
मीनामी तानसरिमा सीना गान्धर्ववेदिका ।
नृत्यगायनकुशलारागरागिण्यभिज्ञिकाः ।। ५ ।।
सुरूपा यौवनभराश्चन्द्रास्याः सूर्यभासुराः ।
वह्निशुद्धांशुकवस्त्रा दिव्यभूषाः प्रभान्विताः ।। ६ ।।
विंशतिसंख्यकाः कन्यास्तासां दास्यः सहस्रशः ।
कामरूपधाराः सिद्धैश्वर्यसामर्थ्यराजिताः ।। ७ ।।
अस्त्रशस्त्रधारिकाश्च देव्योऽप्रधृष्यसद्बलाः ।
निजलोकात्तु दिव्येन विमानेन शुभांगनाः ।। ८ ।।
ययुः सत्यं नमस्कृत्य विष्णुं शंभुमजं तथा ।
ब्रह्मसभास्थितान् देवान् नत्वा कृतसुमंगलाः ।। ९ ।।
मेरोः शिखरात् प्रथमं मेरुद्रोणीमुपाययुः ।
मेरुं प्रदक्षिणां कृत्वा दृष्ट्वा देवालयान् बहून् ।। 2.107.१ ०।।
ब्रह्मलोकालयसमान् सौधोद्यानमहालयान् ।
स्वर्गातिस्वर्गशोभाढ्यान् दिक्पालानां तथालयान् ।। १ १।।
प्रासादान् ग्रहनक्षत्रतारकाणां महोज्ज्वलान् ।
योगिनां च ऋषीणां च गान्धर्वाणां तथाऽऽलयान् ।। १ २।।
दैत्यदानवसौधानि किन्नराणां गृहाणि च ।
स्थानानि किंपुरुषाणां तापसानां तथाऽऽश्रमान् ।। १३।।
विलोक्यैलावृतं पश्चात् वियुक्तां जाम्बवीं भुवम् ।
पृथ्व्यां समाययुर्व्योम्ना ताः किंपुरुषखण्डकम् ।। १४।।
आपतायीपर्वतं च गोपीरणं तथाऽक्षिगम् ।
पर्वतं कुनलीनाद्रिं कारुकोरं त्रियानशम् ।। १५।।
चिपिंगं प्राचीनभाग दृष्ट्वा पीतसमुद्रकम् ।
अंगशिक्षांगसरितं शिक्षांगिकां नदीं तथा ।। १६।।
जलपानप्रदेशाँश्च फुल्लिपानप्रदेशकान् ।
वारणीयद्वीपगणान् दृष्ट्वा सुमातृकां ययुः ।। १७।।
ततः परावृत्त्य ययुर्मीनकङ्गूनदीं प्रति ।
इरावतीं चन्द्रवीनां पतत्कायाद्रिमाययुः ।। १८।।
तावत् कन्याविमानं च वीक्ष्य सामुद्रराक्षसाः ।
जलपानप्रदेशस्था व्योमयानविहारिणः ।। १९।।
पिशंगवर्णा दीर्घाश्च पर्वतशृंगसदृशाः ।
सशस्त्रा स्त्वाययुर्हर्तुं कन्यारत्नानि चाम्बरे ।।2.107.२०।।
एवं फुल्लिपानदेशप्रजाता दानवा अपि ।
व्योममार्गेण यानेन कन्या हर्तुं समाययुः ।।२ १ ।।
मायाविनो विकराला यथेष्टरूपधारिणः ।
अस्त्रशस्त्रधरा व्योम्नि विहाराश्चाब्धिवर्तिनः ।।२२।।
पर्वतप्रायदेहाश्च विद्युच्छस्त्रा भयंकराः ।
निर्दयाः पिङ्गवर्णाश्च रूक्षदेहाः प्रदाहकाः ।।२३।।
एवमन्ये वारणीयद्वीपदैत्या भयंकराः ।
निर्घृणा मानुषादाश्च वह्निपाषाणशस्त्रिणः ।।२४।।।
व्रजक्षेपणबाणाद्यैर्युक्ता व्योमविहारिणः ।
कन्यकानां विमानं तद् रम्यं क्रोशायतं शुभम् ।।२५।।
सूर्यप्रभं विलोक्यैते हर्तुं कन्याः समाययुः ।
आदमनद्वीपतश्च कृष्णानागाश्च कष्मलाः ।।२६।।
आययुस्तं प्रविज्ञाय कन्यागणं सुरूपिणाम् ।
एवं ते राक्षसाः पञ्चशतानि च सहस्रशः ।।२७।।
दैत्याश्च दानवाः कृष्णनागाश्चापि सहस्रशः ।
सर्वे ते पञ्चसाहस्राः परितश्चाययुस्तदा ।।२८।।
पतत्काये महाशैले विमानं रुरुधुश्च ते ।
सर्वाः शरणमायान्त्वन्यथा नङ्क्ष्यथ वै द्रुतम् ।।२९।।
इत्युक्त्वा चासुराः सर्वे विमानं प्रविविक्षवः ।
प्रविष्टुं त्वरमाणाश्च दुद्रुवुः परितो यदा ।।2.107.३०।।
विमान पुण्यतत्त्वस्य पापिनां स्पर्शवर्जितम् ।
रक्षोदानवदैत्यानामप्रधृष्यं तदाऽम्बरे ।। ३१ ।।
निरोधं नाऽऽप च यदा तदा ते चासुराः पुनः ।
मायां वै निजपापानां कृत्वा धृत्वा च तत्क्षणम् ।। ३२।।
पापतत्त्वस्य रूपाणि पापातत्त्वायुधानि च ।
पापास्त्राणि च पापानां शस्त्राणि पापपाशकान् ।।३३ ।।
पापमन्त्रितनाराचान् धनुःखड्गादिकाँस्तथा ।
वह्निपाषाणबाणाँश्च गदातोमरमुद्गलान् ।।३४।।
गोलकान् वह्निचूर्णाढ्यान् विस्फोटकाँस्तथाविधान् ।
विमानं चाऽवरुरुधुस्तासां जिवृक्षवो हि ते ।। ३५।।
पापतत्त्वेन मेघेन गतिं रुरुधुरेव ते ।
द्वाराण्युपरुरुधुश्च विविशुश्च विमानकम् ।।३६ ।।
हाहाकारो महानासीद्विमाने कन्यकागणे ।
न कश्चिद् विद्यते त्राता विमाने सन्निधावपि ।।३७।।
भूतले चाऽम्बरे वाऽपि पर्वते वारिधावपि ।
कन्यका दुःखमापेदुरर्यमाणं च सस्मरुः ।।३८।।
पितरं रक्षकं नैजं जनकं दुःखवारकम् ।
तावच्छीघ्रं समायातस्त्वर्यमा स्वगणैः सह ।।३९।।
स्मृतमात्रो विमानेऽसावदृश्यत शतप्रभः ।
सहस्रशरवर्षाभिर्वारयामास राक्षसान् ।।2.107.४० ।।
राक्षसा दानवा दैत्याः कृष्णनागाश्च वै तदा ।
परितो बाणवर्षाभिरर्दयामासुरार्यकम् ।।४१ ।।
अर्यमा वह्निमुत्पाद्य प्रेषयामास सर्वतः ।
राक्षसादीन् प्रदग्धुं स ददाह सर्वतो दिशः ।।४२।।
जलपानीयरक्षांसि जलान्युत्पाद्य मायया ।
शान्तयामासुरनलं ततोऽयमर्यमा पिता ।।४३ ।।
अरुणानयुतान् सृष्ट्वा प्रेषयामास सर्वतः ।
तीक्ष्णज्वालाऽणुशस्त्रास्ते दाहयामासुरीश्वराः ।।४४।।
राक्षसान् दानवान् दैत्यान् कृष्णनागाँश्च सर्वशः ।
तदाऽसुरा मृषारूपधराः स्वमाययाऽभवन् ।।४५।।
मूलरूपाणि चाच्छाद्य युयुधुश्चारुणैः समम् ।
आरुणा अर्यमदूतास्तीक्ष्णोष्णरश्मिहेतिभिः ।।४६।।
अन्विष्याऽन्विष्य दैत्यादीन् दाहयामासुरासुरान् ।
दग्धास्तु बहवस्तत्र नवोत्पन्नाश्च भस्मतः ।।४७।।
अयुताऽयुतलक्षाणि राक्षसा अभवँस्तदा ।
युद्धं तच्चाम्बरे सर्वं सर्वस्वध्वंसकारकम् ।।४८।।
आरुणानां रक्षसां चाऽभवत्तर्कपरं महत् ।
अर्यम्णा सूर्यमन्त्रैश्चोत्पाद्यन्तेऽरुणकोटयः ।।।४५।।।
रक्षोभिः राक्षसैर्मन्त्रैरुत्पाद्यन्ते च राक्षसाः ।
नान्तस्त्वायाति सैन्यानां वर्धन्ते सैन्यकोटयः ।।2.107.५० ।।
आयुधान्यपि वर्धन्ते वर्धन्ते शस्त्रराशयः ।
विभिद्यन्ते विछिद्यन्ते म्रियन्ते च पतन्ति च ।।५१।।
रक्तं रक्तमयं जातं चाम्बरं भूतलं तथा ।
कायव्यूहाः पतन्त्यत्र लक्षशो वै समन्ततः ।।।५२।।।
आरुणानां राक्षसानामद्रिशृंगसमा हताः ।
देहाः कायाः पतन्तश्च सञ्चया उच्छ्रयास्तथा ।।५३ ।।
मेघानुल्लंघ्य गगने सञ्जाताः पर्वता यथा ।
शतयोजनविस्तारे भूतले पर्वतोच्छ्रयाः ।।५४ ।।
नग्नानां वै शवानां ते पर्वता वै तदाऽभवन् ।
पतत्कायाः पर्वतास्ते नग्नशैला हि तेऽभवन् ।।५५।।
पिंगोच्चयाः समभवन् ये नष्टा युद्धकोविदाः ।
आसप्ताहं महायुद्धं दिवानिशं त्ववर्तत ।
न विरामोऽभवत्तत्र तदाऽर्यमा स्वयं रविः ।।५६।।
पितृकक्षः प्रसस्मार विष्णुं शिवमजं त्रयम् ।
रक्षार्थं देवदेवेशान् पितृरूपान् पितामहान् ।।५७।।
रक्षार्थं देवदेवेशाः समायान्तु द्रुतं क्षणात् ।
रक्षन्तु कन्यकाः सर्वा नाशयन्त्वसुरानिति ।।५८।।
तावत्तत्र समायाता ब्रह्मविष्णुमहेश्वराः ।
विमानत्रयमारूढा दिव्यसैन्यसमन्विताः ।।५९।।
एतस्मिन्नेव काले तु दैत्यदानवराक्षसाः ।
सस्मरुश्च महादैत्यं महामायाविशारदम् ।।2.107.६०।।
कालप्रालेयनामानं कोटिसैन्यसमन्वितम् ।
महाकालसमं महामायोत्थं मेरुसदृशम् ।।६१ ।।
सहस्रमस्तकं प्रत्यानने शताऽजचर्वणम् ।
द्रागेव स समायातः कम्पयन् भुवनानि वै ।।६२।।
यस्याट्टहास्यमात्रेण निपेतुर्ग्रहसञ्चयाः ।
चुक्षुभुः सागराः सर्वे मेदिनी चाऽप्यकम्पत ।।६३ ।।
शिखराणि निपेतुश्च भूतानि तत्यजुर्ध्रुवम् ।
महावज्रनिपातेन समा जाताश्च गर्जनाः ।।६४।।
मन्दरस्य शिखरं वै हस्तेनैकेन संधृतम् ।
कालप्रालेयकेनाऽन्यकरेण केतवो धृताः ।।६५।।
एतादृशो महाकायोऽसुरो यस्याऽऽननं तदा ।
व्यात्तं समभवद् विकासितं तु दशयोजनम् ।।६६।।
एवं सहस्रवदनो दृष्ट्वाऽजविष्णुशंकरान् ।
सक्थिस्फोटैराजुहावाऽम्बरे कोटिसुरान्वितान् ।।६७।।
अथ देवास्तु तं वीक्ष्य वैराजप्रतिरूपकम् ।
संकर्षणं महाकायं सस्मरुः कालनाशकम् ।।६८।।
तूर्णं संकर्षणो देवस्तत्राम्बरे समाययौ ।
तुष्टुवुस्ते त्रयो देवा रक्षार्थं सगदं प्रभुम् ।।६९।।
संकर्षणो गदां तस्य मूर्ध्नि बलान्न्यपातयत् ।
कालप्रालेयकः शीघ्रं वञ्चयित्वा तु तां गदाम् ।।2.107.७०।।
संकर्षणं स गदया तताड मस्तकोपरि ।
संकर्षणः स्वगदया चूर्णयामास तद्गदाम् ।।७ १ ।।
कालप्रालेयकं मूर्ध्नि तताड वेगतस्ततः ।
गदा भग्नाऽभवद् दण्डाद् दैत्यमूर्धा बभंज न ।।७२।।
दैत्यस्त्रिशूलमादाय हन्तुं दुद्राव तत्क्षणम् ।
संकर्षणः स्वशूलेनाऽभिनद् वक्षसि कालकम् ।।।७३ ।।
निपपात तदा पूर्वसमुद्रे पर्वतोच्छ्रयः ।
शक्त्या हतस्ततः कण्ठे वज्रेण च तथोदरे ।।७४।।
मर्दितः पर्वतैश्चापि कूर्चितः पत्तलैस्तथा ।
व्यसुर्यथा तथा जातः क्षणान्मूर्छामवाप्य सः ।।७८।।
उत्थाय जीवरक्षार्थ चकार स पलायनम् ।
मेरुं प्रदक्षिणं कृत्वा दुद्राव च बहिर्यदा ।।७६।।
संकर्षणस्तु तं लोकाऽलोकाचलाऽवधिं ययौ ।
पृष्ठदेशे ययौ येनाऽसुरः स कालकालयः ।।७७।।
लोकालोकं विहायैवाऽलोकं व्योम ययौ बहिः ।
सकर्षणभयात् सोऽप्यनन्ताऽसंख्याम्बरे ययौ ।।७८।।
संकर्षणोऽपि देवस्तु शंभ्वादीन् सूक्ष्मरूपतः ।
निर्भयं संप्रदत्वैव ययावीश्वरधाम च ।।७९।।
अथ दैत्यैर्दानवैश्च युयुधुः शंकरादयः ।
निजघ्नुः सर्वतो दैत्यान् कालप्रालेयपक्षकान् ।।2.107.८०।।
त्रिशूलैश्चक्रकैर्विद्युत्पाशैः पाशैश्च तोमरैः ।
खड्गैः प्रक्षेपणैः शैलैरसिभिः शक्तिभिस्तथा ।।८ १ ।।
वाय्वस्त्रैः पर्वतास्त्रैश्च मेघास्त्रैरनलास्त्रकैः ।
नागास्त्रैर्गरुडास्त्रैश्च सिंहास्त्रैः शरभास्त्रकैः ।।८२।।
वाराहास्त्रैः कृकलास्त्रैः कर्कस्त्रैर्वृश्चिकास्त्रकैः ।
यमास्त्रै राक्षसास्त्रैश्च मकरास्त्रैर्जलास्त्रकैः ।।८३ ।।
व्याघ्रास्त्रैदीपकास्त्रैश्चोन्मादास्त्रैर्मूर्च्छनास्त्रकैः ।
क्षुधास्त्रैश्च तृषास्त्रैश्चोन्मत्तास्त्रैर्जघ्नुरामिथः ।।८४।।
ब्रह्मादीनां च सैन्यानि दैत्यदानवराक्षसान् ।
अर्दयामासुरत्यर्थं नाशयामासुरन्ततः ।।८५।।
कोटिसंख्या आसुरास्ते हता युद्धे समन्ततः ।
कृत्रिमाश्चाऽकृत्रिमाश्च मायिकाश्चाप्यमायिकाः ।।८६।।
आरुणानां च सैन्यानि ब्राह्मानां पृतनास्तथा ।
शांकराणां गणाश्चापि वैष्णवानां च पार्षदाः ।।८७।।
हता युद्धे कोटिशश्च तान् सर्वांस्तेऽसुरास्त्रयः ।
जीवयामासुराम्नायमन्त्रैः संकल्पसिद्धिभिः ।।८८।।
ब्रह्माद्याश्चाहुरेतेभ्यो वरदानार्थमिष्टदाः ।
वव्रुस्ते परमं मोक्षं ये सर्वे जीविताश्च ते ।।८९।।
ब्रह्माद्यास्तु तदा प्राहुर्वृणुताऽन्यद्धि मोक्षणात् ।
जीविताश्चारुणाद्यास्ते मोक्षान्यं नैव वव्रिरे ।। 2.107.९ ०।।
विष्णुः प्राह ततस्ताँश्च मोक्षाः सन्ति ह्यनेकशः ।
नरनारायणलोकं बद्रिकाश्रममित्युत ।।९ १ ।।
पयोनिधिं वा युष्मभ्यः श्वेतद्वीपं ददामि वा ।
ते प्राहुर्नैव तद्धाम शाश्वतं न ततो वयम् ।।९२ ।।
समिच्छामः किन्तु चेच्छामः श्रेष्ठं शाश्वतं परम् ।
विष्णुः प्राह तु वैकुण्ठं जलस्यावरणोपरि ।।९३ ।।
वर्तते तद् ददाम्येव वैराजं धाम वोत्तमम् ।
ते प्राहुर्नहि वैकुण्ठं वैराजं वाऽपि शाश्वतम् ।।९४।।
तस्मादिच्छाम एवान्यद्धाम मोक्षाभिधं परम् ।
विष्णुः प्राहाऽमृतं धाम भूम्नो ददामि चैव वः ।। ९५।।
यद्वाऽव्याकृतसंज्ञं च वैकुण्ठं वा ददामि वः ।
ते प्राहुर्नैव चेच्छामस्तद्धाम किन्तु तत्परम् ।।९६।।
विष्णुः प्राह ददाम्येव गोलोकं परम पदम् ।
ते प्राहुर्नैव वाञ्च्छामो वाञ्च्छामस्तु ततः परम् ।।९७।।
शाश्वतं चाऽक्षरब्रह्मपदं वेदान्तबोधितम् ।
सर्वधाम्नां परं धामोपनिषद्वर्णितं शुभम् ।।९८।।
यत्समं यत्परं नास्ति तद्धाम परमं हरेः ।
इच्छामो देहि तद्धाम परब्रह्मसमाश्रितम् ।।९९।।
विष्णुः प्राह न मे शक्तिर्विद्यतेऽर्पयितुं तु तत् ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।। 2.107.१० ०।।
परमात्मा परब्रह्म सर्वावतारधारकः ।
दातुं शक्तोऽस्ति तद्धाम स वै दास्यति तत्पदम् ।। १०१।।
इत्युक्ताः सस्मरुस्तूर्णं तं वै श्रीपुरुषोत्तमम् ।
अनादिश्रीकृष्णनारायणस्वामिपुमुत्तमम् ।। १०२ ।।
ध्यानमग्नाश्च सहसा ह्यभवँस्तत्क्षणे तु ते ।
आत्मात्मन्यवगाह्यैवाऽस्मरन् सर्वावतारिणम् ।। १०३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पितृकन्यकानां किम्पुरुषखण्डे राक्षसादिकृतस्य निरोधस्य निवृत्तये ब्रह्मादिदेवकृतयुद्धं मृतानां प्राणदानं, जीवितैर्मोक्षो याचितः परममोक्षदस्तु अनादिश्रीकृष्णनारायण एवेत्यादिनिरूपणनामा सप्ताधिकशततमोऽध्यायः ।। १०७ ।।