लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १०६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०५ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १०६
[[लेखकः :|]]
अध्यायः १०७ →

श्रीकृष्ण उवाच-
इत्येवं राधिके हेमशैलायनर्षये हरिः ।
कथयामास चाख्यानं चक्रवाक्या जलार्थकम् ।। १ ।।
उर्वशी सा शापमुक्ताऽभवद्वै सुरसुन्दरी ।
नत्वा स्वपितरं नारायणं स्वां मातरं रमाम् ।। २ ।।
इन्द्रलोकं ययौ पूर्वमिन्द्राय चार्पिता यतः ।
अथ लक्ष्मीः स्वकान्ताय कथयामास वै तदा ।। ३ ।।
हनूमान् रक्षयामास मां सपुत्रीं तपःस्थिताम् ।
तस्मै हनुमते देयं वरदानं त्वया प्रभो ।। ४ ।।
इत्युक्तः श्रीहरिस्त्वाह हनुमन् वृणु चेप्सितम् ।
कपीशो वरयामास नामार्थं सार्थकं सदा ।। ५ ।।
कं सुखं शाश्वतं नारायणमूर्तेर्निरन्तरम् ।
पिबामीत्यर्थकं मेऽस्तु कपित्वं कृपया तव ।। ६ ।।
त्वयि नारायणे भक्तिरस्तु चाऽव्यभिचारिणी ।
यत्र नारायणकथा तत्र मे प्राणजीवनम् ।। ७ ।।
अनादिश्रीकृष्णनारायणस्य ते कथामृतम् ।
लक्ष्मीनारायणसंहितायाश्चापि कथामृतम् ।। ८ ।।
यत्र तत्र भवेत्तत्र ममोपस्थितिरस्तु वै ।
यत्र गायन्ति ते भक्तास्तत्र मे स्थानमस्तु च ।। ९ ।।
यत्र यत्राऽऽलयस्ते स्यात्तत्र तद्द्वारि मे स्थितिः ।
सेवार्थं शाश्वती चाऽस्तु भक्तरक्षणकारिणी ।। 2.106.१ ०।।
इत्येवं प्रार्थनां चक्रे हनूमान् भक्तराट् ततः ।
तथाऽस्त्विति हरिः प्राह ददौ मौक्तिकमालिकाम् ।। १ १।।
पादुके च ददौ तस्मै चाऽम्लानां पुष्पमालिकाम् ।
लक्ष्मीर्ददौ हनुमते कुलदेवत्वमित्यपि ।। १ २।।
कृष्णनारायणः प्राह हनुमन् मम सन्निधौ ।
अश्वपट्टसरःक्षेत्रे वस भूमिं सुरक्षयन् ।। १३।।
हनुमान् कारयामास लक्ष्म्याः शैले सुमन्दिरम् ।
नारायणेन साकं च लक्ष्म्याः करोति पूजनम् ।। १४।।
अथ लक्ष्मीं ततो नीत्वा विमानेन तु काशिकाम् ।
हरिर्ययौ शिवराजादयो यत्र वसन्ति हि ।। १५।।
अवतार्य विमानाच्च विवाहार्थं वरं ददौ ।
आयास्यामि द्वादशाऽब्दे ते शापान्तो भविष्यति ।। १६।।
तावन्मां त्वं प्रतीक्षस्व शिवराजाय चाह तत् ।
उद्वाहयिष्ये चागत्य सर्वं शुभं भविष्यति ।। १७।।
इत्युक्त्वोग्रं तपश्चास्याः प्रश्राव्य श्रीनरायणः ।
ययावदृश्यतां तत्र वरणायास्तटे प्रभुः ।। १८।।
विमानेन ययौ चाश्वपट्टसरोवरं हरिः ।
हेमशालायनं प्राहेत्येवं कृष्णनरायणः ।। १९।।
लक्ष्मीं विवाह्य शंभ्वादीन् शापात् मुक्तान् विधास्यति ।
इत्येवं निजभक्तार्थं लक्ष्मीं जहौ हरिः पुरा ।।2.106.२०।।
हेमशालायनाद्यास्तच्छ्रुत्वा हर्षं परं ययुः ।
अथ सर्वर्षयस्तत्रोष्ट्रालयेषु स्थले स्थले ।।२१।।
अनादिश्रीहरेर्योगं पादयोः स्पर्शनं तथा ।
पावित्र्यं चापि तीर्थत्वं कारयितुं पुनः पुनः ।२२।।
पूजयित्वाऽर्थयामासुस्तीर्थीकर्तुं भुवस्तलम् ।
उष्णालयप्रदेशं तं प्रजां पावयितुं तथा ।।२३।।
भगवन् देवदेवेश शैलसरोवराऽऽपगाः ।
नैजचरणन्यासैश्च स्नानासनप्रहीण्डनैः ।।२४।।
तीर्थीकुर्वन्तु तीर्थानि गृहारण्यानि नस्तथा ।
तथास्त्विति हरिः प्राह दिव्ये विमानके ततः ।।२५।।
आरुरुहुश्च ते सर्वे हेमशालाख्यपर्वतम् ।
प्रथमं परितो वीक्ष्य हेमशालायनगृहम् ।।२६।।
पावयित्वा चरणोत्थं स्पर्शं तत्र विधाय च ।
पूजां हैमकृतां प्राप्य ततो बालानदीं ययुः ।।२७।।
तत्र स्नात्वा पावयित्वा वीक्ष्य बालादिमित्यपि ।
गोशंकुसलिले स्नात्वा रावासनाद्रिमाययुः ।।२८।।।।
पर्वतं चरणैः सर्वं पावयित्वा ततश्च ते ।
मर्चाशनानदीं चापि सुरानदीं तुरूनदीम् ।।२९।।
ऐतनदीं पावयित्वा तीर्थीकृत्वाऽऽप्लवेन च ।
माकमानसरःसंज्ञे स्नात्वा बालासरस्यपि ।।2.106.३०।।
श्वाननद्यां ततः स्नात्वा दारालिंगं च पर्वतम् ।
कृत्वा सुपावनं पद्भ्यां स्नात्वा कुवन्सरोवरे ।।३ १ ।।
लाभरुचिसरश्चापि दृष्ट्वाऽरण्यं च दक्षिणम् ।
गौरानरसरोमध्ये स्नात्वा तुरुसरोवरे ।।३२।।
स्नात्वा ग्रागिरि सरसि स्नात्वा आरसरोवरे ।
पावयित्वा मषीग्रीवं पर्वतं चरणैस्तथा ।।३३।।
उत्तुंगसरसि स्नात्वा रणं विलोक्य चाम्बरात् ।
मेकदानेयशैलं च कृत्वा पद्भ्यां तु पावनम् ।। ३४।।
उत्तरे च ततो गत्वा वितूरीयजलाप्लवम् ।
कृत्वा देल्यां च घेल्यां च स्नात्वा निपीय तज्जलम् ।।३५।।
गत्वा शालवीनशैलं पावयित्वा च तं ततः ।
रिन्कुनद्यां झिन्कुनद्यां फिन्कुनन्द्यां च ते ततः ।। ३६ ।।
स्नात्वा च ग्रामशैलं च पावयित्वाऽवतीर्य च ।
कारुलिंगसरित्येव दारुलिंगाजले ततः ।।३७।।
चारुलिंगाजले स्नात्वा स्नात्वा मुरानदीजले ।
तुरानद्यां मुरानद्यां स्नात्वाऽऽचालाद्रिमाययुः ।।३८।।
पद्भ्यां तं पावयित्वैव दिवादिङ्पर्वतं ययुः ।
किण्डीचायां ततः स्नात्वा कुविन्दूमानदीजले ।।३९।।
क्वील्पीनद्यां लविंगायां सस्नुश्च पावनीजले ।
मिचलायां ततः स्नात्वा दृष्ट्वा च चाटपर्वतम् ।।2.106.४०।।
पावयित्वा चोत्तरं चोल्लंघ्य ते पश्चिमं ययुः ।
फिजरायां ततः स्नात्वा पावयित्वा प्रजाश्च ताः ।।४१।।
प्रजाभिश्च कृतां पूजां जगृहुर्हरिसेवकाः ।
भोजिताः पूजिताश्चापि वन्दिताश्च मुहुर्मुहुः ।।४२।।
अगस्त्यश्च तथा शंभुर्लोपामुद्रा रमा तथा ।
पार्वती चाश्विनीपुत्रस्तथा तेषां च सेवकाः ।।४३।।
उष्णालयप्रजानां तु ये याः रक्षाकरास्तदा ।
आशीर्वादान् ददुस्ताभ्यः प्रजाभ्यश्चातिनिर्भरान् ।। ४४।।
ददुस्ताभ्यो महामन्त्रं वैष्णवं मोक्षदं शुभम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।४५।।
तुलसीकण्ठिकाश्चापि तथा च जपमालिकाः ।
ददुश्च शरणं पश्चाज्जयकारोऽभवत् महान् ।।४६।।।
ततो गत्वा राजधान्यां चक्रुस्ते वैष्णवं मखम् ।
तत्रत्याः ऋषयस्तत्र याजकाश्च तदाऽभवन् ।।४७।।
अगस्त्यश्चाऽभवद्ब्रह्मा रुद्रो रुद्रस्थले स्थितः ।
कृष्णनारायणोऽतिष्ठन्मुख्यदेवस्थले प्रभुः ।।४८।।
होता होमायनश्चैव तथोद्गाता बलायनः ।
आहर्ता च मषीग्रीवः प्रतिहर्ता रवासनः ।।४९।।
अन्ये होतार एवाऽऽसन् यजमानोऽभवन्महान् ।
राजोष्णालयदेशस्य सम्राट् दक्षजवंगरः ।।।2.106.५०।।
दक्षस्य मानसः पुत्रो देवदैत्याभिवन्दितः ।
देशविप्लवविघ्नैश्च यानि पापानि कान्यपि ।।५१ ।।
निवृत्तानि भवेयुश्च विघ्ना भवन्तु नो पुनः ।
इत्यभिप्रेत्य ते सर्वे राजाज्ञया तु भूसुराः ।।५२।।
चकुर्यज्ञं वैष्णवं च तुष्टा देवाश्च देहिनः ।
ब्राह्मणास्तत्र वै चक्रुः पुरश्चरणमित्यपि ।।।५३।।
केचित्पुरुषसूक्तस्य विष्णुसूक्तस्य चापरे ।
तथा नारायणसूक्तस्याऽन्ये श्रीसूक्तकस्य च ।।५४।।
परे लक्ष्मीप्रसूक्तस्य देवीसूक्तस्य चेतरे ।
रुद्राध्यायस्य च परे सावित्र्याः सवितुः परे ।।५५।।।
गणेशाध्यायिनश्चान्ये सामवेदप्रपाठकः ।
एवमन्ये च वेदानां पाठानि चक्रिरे तदा ।।५६।।
दक्षजवंगरो राजा यज्ञारम्भात् सदा प्रगे ।
ददात्येव च दानानि भुंजते च प्रजाः सदा ।।५७।।
मिष्टान्नानि प्रत्यहं च बालका बालिकादिकाः ।
दीनाऽनाथाऽधनाश्चापि पङ्गव्न्धकृपणादयः ।।५८।।
पक्षाहं यज्ञमेवैते समाप्यावभृथं ततः ।
दक्षजवंगरराज्ञो राजधान्याः समीपगे ।।५९।।
उष्णादत्तांगराख्याया नगर्या दक्षिणे शुभे ।
आरसरोवरे चक्रुः फिंकूनदीसमागमे ।।2.106.६० ।।
शुक्लषष्ठ्यां परिहारं चक्रुर्विमानकैस्ततः ।
ययुर्नैजान् प्रदेशांश्च तत्रत्या ब्राह्मणादयः ।।६ १ ।।
राजा तुष्टोऽभवच्चापि नारायणपरायणः ।
प्रार्थयच्छ्रीकृष्णनारायणं कर्तुं सुमन्दिरम् ।।६२।।
तथाऽस्त्विति हरिः प्राह राजाऽकारयदुत्तमम् ।
मन्दिरं तत्र नृपतेः राजधान्यां समुच्छ्रयम् ।।६३।।
इषपूर्णातिथौ श्रीयुक्कृष्णनारायणं हरिम् ।
स्थापितवान् महाविज्ञोऽगस्त्यो वेदविधानतः ।।६४।।
राजा भक्तिं चकाराऽस्य कंभरानन्दनस्य वै ।
अथेयेष प्रजायुक्तः सकुटुम्बः सभूसुरः ।।६५।।
अश्वपट्टसरःक्षेत्रं द्रष्टुं श्रीहरिपत्तनम् ।
कुंकुमवापिकाक्षेत्रं वैष्णवो धार्मिकः शुचिः ।।६६।।
हरिः प्राह तथाऽस्त्वेव विमानशतकेन सः ।
दशसाहस्रसंख्याकनरनारीप्रजाजनान् ।।६७।।
गृहीत्वा व्योममार्गेण चाययौ लोमशाश्रमम् ।
अनादिश्रीकृष्णनारायणश्चापि सहाऽऽययौ ।।६८।।
नैजेनैव विमानेन निजवैमानिकैः सह ।
उष्ट्रालयीयभक्तानां संघाश्चापि समाययुः ।।६९।।
ऊर्जकृष्णतृतीयायां तेऽक्षरक्षेत्रमाययुः ।
स्वागताद्यैर्मानितास्ते न्यूषुर्वै दिनपञ्चकम् ।।2.106.७०।।
सर्वतीर्थानि चक्रुश्च शुश्रुवुश्च कथामृतम् ।
लक्ष्मीनारायणसंहिताया नित्यं प्रमुक्तिदम् ।।७१।।
ऊर्जकृष्णाष्टमीब्राह्मे मुहूर्तेऽश्वसरोवरे ।
स्नात्वा चक्रुश्च तेऽनादिकृष्णनारायणोत्सवम् ।।।७२।।।
द्वादशाब्दीयजन्माहनिमित्तं चार्चनादिकम् ।
श्रीकान्तो भगवाँस्तत्र निर्मिते स्वर्णमण्डपे ।।७३।।
देवदेवीसतीसाध्वीमहर्षिराजशोभिते ।
ईश्वरैरीश्वराणीभिरधिष्ठितेऽतिविस्तृते ।।७४।।
पितृगान्धर्वविद्याध्रैः शोभिते चाप्सरोगणैः ।
दिव्ये गजासनेऽराजत् पुपूजुस्तं मुनीश्वराः ।।७६।।
आशीर्वादान् ददुश्चाप्यारार्त्रिकं चक्रुरीश्वराः ।
साऽक्षतचन्द्रकं चक्रुरुपदाः प्रददुर्जनाः ।।७६।।
सङ्गीतकं तथा नृत्यं सवाद्यं समजायत ।
स्तुतयो देवबन्दीभिर्दिव्यलाभाऽभिबोधिकाः ।।७७।।
कृतास्तत्र च कन्याभिर्ब्रह्मप्रियाभिरर्चितः ।
भगवान् शुशुभे दिव्यो वर्धितो वृद्धवाङ्मयैः ।।७८।।।।
दानानि प्रददौ तत्र श्रीमद्गोपालकृष्णकः ।
रात्रावुष्ट्रालयभक्ता दशसाहस्रसंख्यकाः ।।७९।।
लोमशं च तथाऽगस्त्यं हेमशालायनं तथा ।
पुरस्कृत्य प्रभोर्जन्मनिमित्तमुत्सवं व्यधुः ।।2.106.८०।।
प्रभुं गजासने रम्ये निषाद्य सर्व एव ते ।
मातरं पितरं नत्वा पूजयित्वा यथाक्रमम् ।।८१ ।।
पुपूजुर्बालकृष्णं ते यावद्विधोपचारकैः ।
न्यधुस्ते मुकुटं दिव्यं बालकृष्णस्य मस्तके ।।८२।।
सद्रत्नसारसौवर्णमणिर्नद्धाँश्च शेखरान् ।
आलम्बयामासुरिष्टान् मुकुटे कर्णपार्श्वयोः ।।८३।।
केशेषु न्यक्षिपँस्तैलं सुगन्धं चात्तरादिकम् ।
ललाटे पुण्ड्रकं कृत्वा मध्ये काश्मीरबिन्दुकम् ।।८४।।
नेत्रयोः कज्जलं दत्वा कर्णयोः कुण्डले ददुः ।
कर्णपूरे च सौवर्णे पौष्पे रञ्जनमोष्ठयोः ।।८५।।
स्कन्धयोः राजकवचं सौवर्णं मणिभिर्युतम् ।
कञ्चुकं नाटजातीयं कौशेयं स्वर्णतारितम् ।।८६।।
सौवर्णमणिरत्नाढ्यौ पट्टकौ दीपचन्द्रकौ ।
सूर्यचन्द्रोज्ज्वलौ प्रभाप्रसवौ चायतौ शुभौ ।।८७।।
स्कन्धयोर्लम्बमानौ तौ स्तनयोर्वक्षसि स्थितौ ।
कटिसौवर्णरशनायोजितौ किरणान्वितौ ।।८८।।
लक्षलक्षाधिकमूल्यौ न्यधुः कृष्णस्य वक्षसि ।
मुकुटोर्ध्वे न्यधुः कल्गिं मूले मौक्तिकयोजिताम् ।।८१।।
मध्ये तेजःपरिध्युप्तसूक्ष्महीरकशोभिताम् ।
प्रान्ते सौवर्णतारालिस्रवत्तेजःसमन्विताम् ।।2.106.९०।।
कण्ठे च गण्डयोर्भाले चिबुके च प्रकोष्ठयोः ।
स्वर्णशृँखलिकानद्धान् मणीन् ददुः. सुलग्नितान् ।। ९१।।
स्वर्णहारान् पुष्पहारान् तौलसीस्रज उत्तमाः ।
गले न्यधुस्तथा बाह्वोर्न्यधुः कटकशृंखलाः ।। ९२।।
ऊर्मिकाः कटकाँश्चाप्यङ्गुलीयकानि वै ददुः ।
स्वर्णयष्टि स्वर्णगच्छान् धारयामास माधवः ।।९३।।
कट्यधः स्वर्णवस्त्राणां सूरवालं दधार च ।
स्वर्णबुट्टाढ्यमुरुधा मणिमौक्तिकतारकम् ।।९४।।
सप्तपातालचित्राढ्यं बहुरंगविचित्रितम् ।
पादप्रकोष्ठयोः स्वर्णमणिनद्धे च नूपुरे ।।९५।।
ददुस्ते भक्तवर्या वै पादयोः स्वर्णपादुके।
सिंहाग्राङ्गुष्ठकीलाढ्ये मध्यहस्तिविराजिते ।।९६।।
पार्श्वयोर्हंसशोभे च पश्चाद् गरुडराजिते ।
अग्रे शेषसमाकारे मध्ये कमठशोभिते ।।९७।।
परितो मणिहारालिराजिते च ददुर्हि ते ।
नखेषु रञ्जनं द्रव्यं करपादतलेष्वपि ।।९८।।
ताम्बूलकं सुगन्धाढ्यं ददुस्ते चूर्णमिश्रितम् ।
उत्तरीयं महावस्त्रं सप्तस्वर्गविराजितम् ।।९९।।
कानकं दिव्यदृश्याढ्यं ददुस्तेऽक्षरसन्निभम् ।
छत्रं द्वात्रिंशच्छलाकं सर्वधामविराजितम् ।। 2.106.१० ०।।
चामरे सूर्यचन्द्राग्निविद्युत्तेजोविराजते ।
रत्नदण्डे ददुस्तत्र वितानं सत्यसदृशम् ।। १०१ ।।
विमानं सर्वलोकानां प्रतिमाढ्यं श्रिया युतम् ।
कल्पवल्लीयुतं दिव्यं ददुश्चैकं महायतम् ।। १०२।।
राजा सौवर्णपात्राणि रत्नस्थालान् ददौ तदा ।
सहस्रैकसुवर्त्त्याद्यैर्युक्तमारार्त्रिकं ददौ ।। १ ०३।।
कोटिकन्याकृते भूषा ब्रह्मप्रियाकृते ददौ ।
अनन्तमणिरत्नादि तथोऽपकरणानि च ।। १ ०४।।
पूजोत्तरं ददौ पश्चान्नीराजनं व्यधान्मुदा ।
तदा वाद्यान्यवाद्यन्ताऽजायन्त नर्तनानि च ।। १ ०५।।
स्तुतयश्च महर्षीणां गीतिकाः स्वर्गयोषिताम् ।
सुस्वराः कन्यकानां च श्रूयन्ते मंगलप्रदाः ।। १ ०६।।
एवं द्वादशवर्षीयजन्माहोत्सवमद्भुतम् ।
चक्रस्तेऽस्त्रालयभक्ताः सराजाः सप्रजा निशि ।। १ ०७।।
ततश्चक्रुः परिहारं सुषुपुश्च तदुत्तरम् ।
प्रातर्नवमीदिवसे स्नातान् कृतसुमंगलान् ।। १ ०८।।
भोजयामासुरत्यर्थं दुग्धसारान्नसारकान् ।
रससारान् पेयसारान् भक्ष्यभोज्यादिसारकान् ।। १ ०९।।
मुखशुद्ध्यभिसाराँश्च ददौ गोपालनन्दनः ।
लोमशं च तथाऽगस्त्यं तथाऽन्यानृषिपुंगवान् ।। 2.106.११ ०।।
शंभुं चाश्विनिकापुत्रौ तथा गणगणाऽयुतान् ।
पुपूजुस्तेऽस्त्रदेशीया ददुस्तेभ्यो धनानि वै ।। १११ ।।
यथेष्टद्रव्यजातानि फलपुष्पाम्बराणि च ।
परिहारं ततश्चक्रुराज्ञां जगृहुरादरात् ।। ११२।।
गमनार्थं निजं देशं मोक्षं तदाऽऽर्थयँश्च ते ।
हरिः प्राह करिष्यामि मोक्षं वः प्राणनिर्गमे ।। ११ ३।।
हेमशालायनाद्याश्चैकादशर्षय एव ते ।
अश्वपट्टसरस्तीरे नित्यं वासं व्यधुस्ततः ।। ११४।।
अथ राज्ञः शतकन्याः प्रजाकन्यासहस्रकम् ।
वक्रस्तं परमात्मानं मुग्धास्तदा हि राधिके ।। १ १५।।
राजा प्रजा ददुस्ताश्च कृष्णनारायणाय ताः ।
लोमशस्याश्रमे सर्वा रक्षिताः परमात्मना ।। १ १६।।
अथाऽऽज्ञां श्रीहरेः प्राप्य ययुरुष्ट्रालयं च ते ।
विमानैः श्रीकृष्णनारायणं भजन्त एव ह ।। १ १७।।
स्मरन्तश्चाऽक्षरं क्षेत्रं प्रशंसन्तोऽश्वतीर्थकम् ।
प्रतापं संरटन्तश्च प्रापुर्देशं निजं तु ते ।। १ १८।।
राधिके चैतदाख्यानं मार्जारीबालरक्षणम् ।
चक्रवाकीजलपानं लक्ष्मीतपोऽतिवाहनम् ।। १ १९।।
उष्ट्रालयमहादेशप्रजापीडानिवारकम् ।
शृणुयाद्वा पठेद्वा यः श्रावयेद्वा स्मरेच्च वा ।। 2.106.१ २०।।
तस्य भुक्तिस्तथा मुक्तिर्यथेष्टं स्याद्धरेः खलु ।
सिद्ध्यैश्वर्यादिसम्प्राप्तिर्धराधान्यसुतादिकम् ।। १२१ ।।
सम्पद्वंशप्रविस्तारश्चारोग्यं गृहमेधिता ।
सर्वं भवेत् कृपया श्रीकृष्णनारायणस्य वै ।। १ २२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हनुमते वरदानं, उष्ट्रालयखण्डे प्रभुकृतानि सर्वत्र तीर्थानि, तत्रत्यभूपेन दक्षजवंगरेण कृतविष्णुयागः, शतविमानैः सप्रजनृपस्याऽश्वपट्टसरःक्षेत्रागमनम्, प्रभोर्द्वादश-
जन्मदिनोत्सवे पूजोपदादि, राज्ञः शतकन्याः प्रजानां सहस्रकन्याश्च बालकृष्णायाऽर्पिताः नृपादीनां स्वदेशगमनमित्यादिनिरूपणनामा षडधिकशततमोऽध्यायः ।। १०६ ।।