लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १०८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १०८
[[लेखकः :|]]
अध्यायः १०९ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके देवैर्ध्याते स्मृते नरायणे ।
कुंकुमवापिकाक्षेत्रे बालकृष्णः परः पुमान् ।। १ ।।
प्राह स्वान्परमान् भक्तानृषिं मंकणकं यतिम् ।
मंकिरयं महर्षिं च कूर्मिणम् ऋषिपूजितम् ।। २ ।।
प्राचीनबर्हं त्रीतं च प्रभूतानर्षिमुत्तमम् ।
रुशायिनं च खासीनं चांगश्यामलकं मुनिम् ।। ३ ।।
आरकर्णं ब्रह्मदास्यमनामयर्षिमित्यपि ।
श्यामलर्षिं मलयर्षिं चतुर्दशर्षिमण्डलम् ।। ४ ।।
समाहूय हरिः प्राह चाऽश्वपट्टसरःस्थितान् ।
शृण्वन्तु ऋषयः सौम्या महाभागवता यतः ।। ५ ।।
तापसा वैष्णवाग्र्याश्च मम ध्यानपरायणाः ।
हिमालयात् पूर्वदेशे दक्षिणे च प्रदेशके ।। ६ ।।
पतत्काये च वर्तन्ते विमाने पितृकन्यकाः ।
प्रधर्षितास्तु ता दैत्यैस्ततः पिता तदाऽर्यमा ।। ७ ।।
ब्रह्मविष्णुमहेशाश्च संकर्षणो महान् प्रभुः ।
एते दैत्याश्च युयुधुर्जघ्नुर्दैत्यासुराँस्ततः ।। ८ ।।
मृतानुज्जीवयामासुरारुणान् सूर्यपार्षदान् ।
वैष्णवान् शांकराँश्चापि वैश्वसृजाँश्च कोटिशः ।। ९ ।।
तेभ्यो वरप्रदानार्थं देवैर्वचनमर्पितम् ।
पार्षदैरर्थितो मोक्षः परमोऽक्षरतः परः ।। 2.108.१० ।।
सुरा दातुमशत्तरास्तं ततस्ते चाऽरुणादयः ।
बोधिता देववर्गैश्च तादृङ्मोक्षप्रदं च माम् ।। ११ ।।
ततस्ते ध्यानमग्नाश्च मामिदानीं स्मरन्ति वै ।
अनादिश्रीकृष्णनारायणोऽहं पुरुषोत्तमः ।। १ २।।
भवद्भ्यश्च महर्षिभ्यो गतेभ्यो मम दासताम् ।
महाभागवतेभ्यो वश्चाज्ञापयामि सर्वथा ।। १ ३।।
यूयं यात क्षणात्तत्र पतत्कायाद्रितः परम् ।
वर्षे किंपुरुषे गत्वा प्राग्ज्योतिष्षु तथाऽऽदरात् ।। १४।।
प्राचीनाऽद्रिप्रदेशेषु विचरताऽपि सर्वतः ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।। १५।।
मन्त्रमिमं प्रदद्ध्वं च सर्वेभ्यो वै सुराज्ञया ।
कन्यारक्षकशंभ्वाद्याः प्रतीक्षन्ते च मामपि ।। १६।।
भवद्भिः सः प्रदेशश्च कार्यो भागवतात्मकः ।
मिलित्वा चारुणाद्यैश्च कारणीया ह्युपासना ।। १७।।
प्रवर्तनीया मे भक्तिर्दास्ये तेषामभीष्टकम् ।
विमानैर्यात वै सर्वे मा चिरं प्रोच्य चेति वै ।। १८।।
ददौ दिव्यं विमानं च भगवान् पुरुषोत्तमः ।
ययुस्ते ऋषयश्चतुर्दश क्षणेन चाम्बरात् ।। १ ९।।
पतत्काये पर्वतोर्ध्वे विमानं तत् स्थिरं व्यधुः ।
अपश्यन् व्योमसंस्थं च पितृकन्याविमानकम् ।।2.108.२० ।।
भास्वरं कोटिसूर्याभं विमानं वीक्ष्य कन्यकाः ।
ब्रह्मविष्णुमहेशाद्यास्तथा चारुणपार्षदाः ।।२ १ ।।
जयशब्दान् हर्षनादान् चक्रुरुत्साहसंभताः ।
ऋषयोऽपि तदा कृष्णनारायणो जयत्विति ।।२२।।
इत्येवं जयशब्दाँश्च प्रचक्रुर्व्योमसंस्तरे ।
जय कृष्ण जय नारायण श्रीपुरुषोत्तम ।।।२ ३ ।।
जयोऽस्त्वनादिदेवस्य कृष्णनारायणस्य वै ।
अक्षरातीतकृष्णस्य परब्रह्मण आ जयः ।। २४।।
एवं तु भजनं चक्रुस्तच्छ्रुत्वा व्योममार्गतः ।
ऋषीणां वै विमाने ते दशयोजनविस्तरे ।।२५।।
ययुः सर्वे तु ते नेमुः परमर्षीन् ततो मुहुः ।
कन्यकाभिः पितृजाभिः कुमारिकाभिरेव च ।।२६ ।।
प्रथमं पादुकासम्मार्जनं ततश्च पादयोः ।
ऋषीणां सेवनं पादप्रक्षालनं फलार्पणम् ।।२७।।
जलार्पणं स्वागतादि चन्दनाद्यर्घ्यमित्यपि ।
स्वासनादि प्रदत्तं च मधुपर्कादिकं कृतम् ।।२८।।
ततस्तेषु च देशेषु तत्पद्धत्या निरन्तरम् ।
प्राघूणिकानां सन्मानं कुमारीभिर्विधीयते ।।२९।।
किंपुरुषप्रदेशानां मंगलं कार्यमेव च ।
कुमारिकाभिः सर्वत्र प्रथमं सम्प्रवर्त्यते ।।2.108.३० ।।
राधिके कन्यकाद्यास्ते विधायर्षिसमर्चनम् ।
निन्युरतान् स्वं विमानं च ततस्ते ऋषयोऽमलाः ।।३१ ।।
परब्रह्मप्रतापेन परभावमुपागतः ।
विष्णोः शंभोर्ब्रह्मणश्चार्यम्णः पूजां प्रचक्रिरे ।।३२।।
अनादिश्रीकृष्णनारायणशिषः समूचिरे ।
श्रीमतां स्मरणादत्र प्रेषितास्तेन चोचिरे ।।३३ ।।
मन्त्रदानार्थमेवाऽत्र प्रेषिताश्चेति चोचिरे ।
किंपुरुषः समन्ताच्च कर्तव्यो वैष्णवः खलु ।।३४।।
इत्याज्ञा श्रीकृष्णनारायणस्याऽस्तीति चोचिरे ।
ततोऽनादिकृष्णनारायणः श्रीभगवान् स्वयम् ।।३५।।
आगमिष्यति सर्वात्मेत्येवं तेभ्यः समूचिरे ।
श्रुत्वा सर्वे जहृषुश्च विमानद्वयमेव तु ।।३६।।
चन्द्रावतीनदीतीरे शोभनेऽरण्यसन्निधौ ।
ऋषीणामाज्ञया चावतारयामासुरुत्सुकाः ।। ३७।।
मीनस्थानं वनं रम्यं विलोक्य तत्र ते जनाः ।
हवनं चक्रिरे दैवम् ऋषयस्ते च वैष्णवाः ।।३८।।
ततोऽर्यम्णः सेवकेभ्यश्चारुणेभ्यो महर्षयः ।
'ओंनमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।। ३९।।
इतिमन्त्रं ददुस्तत्र स्रजं च तौलसीं गले ।
पितृपुत्रा वैष्णवास्ते ततोऽभवन् सहस्रशः ।।2.108.४० ।।
अयुताऽयुतसंख्यास्ते कृष्णनारायणं हरिम् ।
भेजिरे च ततस्तत्र ऋषयस्ते तपोधनाः ।।४१ ।।
विष्णुजेभ्यः पार्षदेभ्यो ददुर्मन्त्रं तमेव च ।
रुद्रस्य च गणेभ्यश्च ब्रह्मशिष्येभ्य इत्यपि ।।४२।।
कोटिकोटिसहस्रेभ्यो ददुर्मन्त्रं तमेव च ।
ते सर्वे वैष्णवास्तत्र भेजिरे पुरुषोत्तमम् ।।४३।।
अथर्षयस्ततः पितृकन्याभ्यश्चापि तं मनुम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।४४।।
प्रददुश्चेति कन्यास्ता भेजिरे पुरुषोत्तमम् ।
अथैवं दीक्षणात् पश्चात् कामवल्लीद्रुमोद्भवम् ।।४५।।
ऋषीणां दानतो मिष्टं सिद्धान्नं भोजनादिकम् ।
ददुर्वै वैष्णवेभ्यश्च कन्याभ्यश्चापि ते द्विजाः ।।४६।।
भुक्त्वा चन्द्रावतीनद्यां सस्नुस्ते वैष्णवादयः ।
अथाऽत्र मन्त्रयामासुः ऋषयो वैष्णवास्तथा ।।४७।।
ब्रह्मविष्णुमहेशाश्चार्यमा च कन्यकास्तथा ।
मीनकङ्गूनदीतीरे कर्तव्यो वैष्णवो मखः ।।४८।।
तत्र प्राग्ज्योतिषां सर्वाः प्रजाः समन्ततः किल ।
आहूता आगमिष्यन्ति आसमुद्राद्धि सर्वतः ।।४९।।
किंपुरुषस्य खण्डस्याऽऽगमिष्यन्ति प्रजास्तथा ।
यज्ञे ताभ्यः प्रदेयो वै मन्त्रस्तु वैष्णवो यतः ।।2.108.५०।।
इत्येवं श्रीहरेराज्ञा पूर्णा चात्र भविष्यति ।
ब्रह्मा प्राह मखे तत्र युद्धं चापि भविष्यति ।।५ १ ।।
तामस्यो वै प्रजास्त्वत्र वर्तन्ते पार्वता नृपाः ।
जलपानफिलीपानवारणीयप्रदेशजाः ।।५२।।
वर्तन्ते तामसाश्चाति मानवा राक्षसोपमाः ।
एतेष्वपि प्रदेशेषु तैस्तु युद्धं भविष्यति ।।५३।।
ततः स्याद् वैष्णवी भूमिः पावनी तीर्थरूपिणी ।
अस्त्वेवम् ऋषयः प्राहुर्विष्णुः प्राह तथाऽस्त्विति ।।५४।।
रुद्रः प्राह तथाऽस्त्वेवं चार्यमा प्राह ओमिति ।
मीनकङ्गूनदीमूले मेलकांगाभुवस्तले ।।।५५।।
मखः प्रजायतां सर्वदेशानां मध्यभूतले ।
इतिनिश्चित्य ते सर्वे प्रययुर्वै हिमालयात् ।।५६।।
प्रागुत्तरे प्रदेशे वै ईशानदिग्भवे शुभे ।
पिंगदेशे किंपुरुषे यज्ञार्थं विष्णुसंहिताः ।।५७।।
मेनकांगावने तत्र मीनकङ्गूनदीतटे ।
पिंगारण्ये प्रचक्रुस्ते यज्ञार्थं भूमिशोधनम् ।।।५८।।
अंगस्वांगापश्चिमे च शालावत्यास्तु पूर्वतः ।
पञ्चाशद्योजनमाने वर्तुलेऽरण्यशोभिते ।।।५९।।
मीनकंग्वाः पश्चिमे च यज्ञमण्डपमाचरन् ।
मीनकंग्वाः पूर्वतश्चाऽवसथान् चक्रुरुत्तमान् ।।2.108.६० ।।
मीनकंगूभयतीरे ऋष्याश्रमान् व्यधुस्तदा ।
देवाश्रमान् पितृवासान् सिद्धाश्रमान् व्यधुस्तथा ।।६१।।
ईश्वराणामाश्रमाँश्च शालावतीनदीतटे ।
चक्रुर्ब्रह्ममहेशाद्याः पूर्वभागेऽतिशोभने ।।६२।।।
मुक्तानां वैष्णवानां चाश्रमान् रम्यान्मनोहरान् ।
शालावत्याः पश्चिमे च प्रचक्रुर्व्योमगामिनाम् ।।६३।।
इत्येवं त्रिणदं देशं पिंगारण्यं महायतम् ।
यज्ञार्थं कल्पयित्वैव दूतैः सर्वान् समाह्वयन् ।।६४ ।।
मुक्ताँस्तथेश्वरान् सर्वानवताराँस्तिथेश्वरीः ।
ब्रह्मप्रियास्तथा पितॄनृषीन्देवान् दिगीश्वरान् ।।६५।।
मानवान् देवजातीश्च पातालस्थान् सतीः सतः ।
गान्धर्वान् किंपुरुषाँश्च विद्याध्रानप्सरोगणान् ।।६६।।
देवीश्च योगिनीश्चापि कैलासीयान् समग्रतः ।
वैकुण्ठीयान् समस्ताँश्च सत्यीयाँश्च समस्ततः ।।६७।।
पितृगणान् समस्ताँश्च सुरेश्वरान् सुराँस्तथा ।
दिक्पालान् पृथिवीपालान् प्रजापालान् समग्रतः ।।६८।।
पशून् पक्षिगणाँश्चापि काश्यपीर्बहुलाः प्रजाः ।
वल्लीर्वृक्षान् तृणस्तम्बान् कन्दौषधिकदम्बकान् ।।६९।।
नदान् नदीस्तटाकाँश्च सरांसि सागराँस्तथा ।
पर्वतान् खातभागाँश्चाऽखातानरण्यभूमिकाः ।।2.108.७०।।
वनान्युपवनादीनि वापीश्च दीर्घिकाः प्रहीन् ।
तीर्थानि सागाराँश्चापि नरान्नारीः समन्ततः ।।७१ ।।
गणेशान् कार्तिकेयाँश्च हनूमतश्च पार्षदान् ।
हेतीन् सर्वान् समूर्तांश्च सुदर्शनादिकाऽऽयु्धान् ।।७२ ।।
मन्त्रान् वेदान् सर्वविद्याः कलाः सर्वा रसाँस्तथा ।
तत्त्वानि चापि सर्वाणि चैत्यानि विविधान्यपि ।।७३ ।।
ऋतून् मासान् वत्सरादीन् युगान्दिनानि च क्षणान् ।
मायां गुणान् प्रकर्माणि याम्यान् प्रेतांश्च दानवान् ।।७४।।
दैत्यानासुरभावाँश्च राक्षसान् ब्रह्मवंशजान् ।
सर्वान् मखे महेशाद्या आह्वयाञ्चक्रिरे तदा ।।७५।।
आजग्मुस्ते महीमानाः सर्वलोकेभ्य उत्सुकाः ।
देवत्रयाऽनुगास्तेषामातिथ्यं चक्रुरुत्सवे ।।७६ ।।
ब्रह्मस्थाने स्वयं ब्रह्मा रुद्रस्थाने हरः स्वयम् ।
विष्णुस्थाने स्वयं विष्णुः पितृस्थानेऽर्यमा स्वयम् । ।७७।।
मातृकाश्चासने तासां ग्रहाणां -चासने ग्रहाः ।
दिक्पालानामृषीणां च स्थानेषु चेतनास्तु ते ।।७८।।
निषेदुश्चान्यदेवानां स्थानेषु देवयोषिताम् ।
समूर्तास्ते निषेदुश्च देवा देव्यो यथोचितम् ।।७९।।
मुख्यदेवः स्वयं तत्राऽनादिकृष्णनरायणः ।
संस्मृतस्तैस्तदा साक्षान्मातापितृसमन्वितः ।।2.108.८०।।
लोमशादिसमेतश्च ब्रह्मप्रियासमन्वितः ।
विमानेनाऽऽययौ शीघ्रं भगवान् पुरुषोत्तमः ।।८१।।
कल्पवल्लीकल्पवृक्षकल्पधेन्वादिसंयुतः ।
याज्ञिकाः स्वागतं चक्रुर्बहुमानपुरःसरम् ।।८२।।
समाजो हर्षमापन्नः परमेश्वरदर्शनात् ।
वासं कृत्वाऽऽप्लवनं च यज्ञभुवं हरिर्ययौ ।।८३।।
कल्पवल्ल्यादिभिस्तत्र घृतकुल्यास्तदाऽऽयताः ।
दधिकुल्या मधुकुल्या दुग्धकुल्यास्तथाविधाः ।।८४।।
रसकुल्या रसशालाभृता मिष्टान्नकामृतैः ।
हव्यसामग्र्यसंख्याश्च भक्ष्यसामग्र्यनन्तता ।।८५।।
विनिर्मितास्तदा तत्र परमेशप्रतापतः ।
अनादिश्रीकृष्णनारायणश्रीपुरुषोत्तमः ।।८६।।
प्रधानदेवसदने स्वर्णासने व्यराजत ।
यजमानः स्वपत्नीश्रीकम्भरासहितः पिता ।।८७।।
श्रीमद्गोपालकृष्णो वै नैजासने व्यराजत ।
पार्षदो भगवन्हेमन्तकौ देवप्रकाशकः ।।८८।।
स्वयंप्रकाशो भगवान् व्यराजन्त सुमण्डपे ।
वरणं देहशुद्धिश्च पुण्याहवाचनादिकम् ।।८९।।
अंगदेवस्थापनादि कृत्वा श्रीलोमशो मुनिः ।
वह्निं कुण्डे समन्त्रं च प्रातिष्ठिपत् ततः परम् ।।2.108.९०।।
हवनं वेदमन्त्रैश्च प्रावर्तत सुखोचितम् ।
गणेशभूतयक्षाद्याः सुराद्याश्च निजादनम् ।।९१।।
स्वस्वभागान् वह्निमुखाज्जगृहुर्हरिणाऽर्पिताः ।
पितृदेवा अतृप्यन्त चेश्वरा मुक्तकोटयः ।।९२।।
आमन्त्रिताश्च परितः प्राग्ज्योतिषां च मानवाः ।
जीवसुमातृकजना मलयस्य जनास्तथा ।।९३।।
इरावतीतटस्थाश्च मीनकङ्गूतटस्थिताः ।
शालावतीतटस्थाश्च शिक्षांगातटसंस्थिताः ।। ९४।।
अंगशिक्षांगतीरस्था हरांगातटवासिनः ।
तारिमातटवासश्च महतीतटवासिनः ।।९५।।
आमूरतटवासाश्च सरित्प्रदेशवासिनः ।
तन्मध्यदेशवासाश्चाऽऽहूता यज्ञे तु मानवाः ।।९६।।
देशकल्याणहेतुर्वै मन्त्रोऽयं वैष्णवोत्तमः ।
अनादिश्रीकृष्णनारायणश्रीपतिदैवतः ।।९७।।
सम्पद्यतेऽत्र गन्तव्यं सर्वैः कल्याणहेतवे ।
इत्यामन्त्रणमाश्रुत्य सात्त्विका मानवास्तथा ।।९८।।
राजसाश्चापि विप्राद्याः क्षत्रिया वैश्यजीविनः ।
वैश्योत्तमास्तथा शूद्रा नार्यो नरा ययुर्मखम् ।। ९९।।
विमानैर्व्योमयानैश्च गरुडैश्च जटायुकैः ।
आत्मानं कृतकृत्यं ते मेनिरे वीक्ष्य वै क्रतुम् ।। 2.108.१० ०।।
प्राप्य प्रासादिकं चाऽप्यवाप्य कृष्णमनुं तथा ।
'ओम् अनादिकृष्णनारायणाय स्वामिने स्वाहा' ।। १०१ ।।
जपं मन्त्रं ततः कृत्वा साक्षाच्छ्रीपुरुषोत्तमम् ।
दृष्ट्वा भुक्त्वाऽमृतं पीत्वा दिव्यभावं ययुश्च ते ।। १ ०२।।
कण्ठीं च तौलसीं धृत्वाऽभवन् परमवैष्णवाः ।
कोटिशो मानवा भक्ता मुमुक्षवो हरिप्रियाः ।। १ ०३।।
अवभृथं ततश्चक्रुः परिहारं मखस्य च ।
तावत्तामसभावा ये यज्ञद्वेषिण एव ये ।। १ ०४।।
सुरारयो लक्षशस्ते सशस्त्रा यज्ञघातिनः ।
सत्कार्यनाशकाः क्रूरा जलपानीयजातयः ।। १ ०५।।
फिलीपानीयवासानां सम्बन्धिनोऽतिघातकाः ।
वारणीयप्रजानां च जातीया आदमानिनः ।। १०६ ।।
परस्परं तु मिलिताः कालप्रालेयजातिकाः ।
अन्ये तत्सुहृदश्चापि तत्सहाया गुणैरपि ।। १ ०७।।
राजानो बोधपाठीयाश्चैत्यपाठकजातिकाः ।
चांकशेकाः सिंगलिङ्गा हांगचाउदकास्तथा ।। १ ०८।।
तूनकीना हनोयाश्च रायगा बंगकाकिनः ।
लाशहा मांगजातीया मञ्चरायास्तथाऽपरे ।। १ ०९।।
एते च क्षत्रियाः सर्वे तामसा राक्षसा इव ।
लक्षायुतानि सैन्यानि गृहीत्वा चाययुस्तदा ।। 2.108.११ ०।।
रणतूर्याण्यवाद्यन्त प्राजायन्त च गर्जनाः ।
शूराणां रणशस्त्राणि प्राऽस्फुरन्नम्बरे तदा ।। ११ १।।
इत्येव राधिके तत्र मखान्ते युद्धसंभवः ।
समभवद्धि दैत्यानां ब्रह्माण्डसर्जकैः सह ।। १ १२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कुंकुमवापीतः ऋषीणां प्रेषणां ततः पित्रादिभ्यां च सह हरेः प्राग्ज्योतिषादिदेशेषु विमानेन गमनं, यज्ञान्ते युद्धसंभवश्चेत्यादिनिरूपणनामाऽष्टाधिकशततमोऽध्यायः ।। १०८ ।।