लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०९८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ९८
[[लेखकः :|]]
अध्यायः ०९९ →

श्रीकृष्ण उवाच-
अथ क्षणान्तरे सर्वे योगिनः परमेश्वरम् ।
पप्रच्छुः राधिके! चक्रवाकीरक्षा यथा कृता ।। १ ।।
यथा लक्ष्मीः पुरा त्यक्ता प्रियाऽपि परमात्मना ।
यथा मार्जारिकाऽपत्यान्यरक्षयद्धरिः पुरा ।। २ ।।
के तेऽभवन् कथं भक्ताः कथं रक्षा च कीदृशी ।
पुण्यमेषां कीदृशं च यद्रक्षां माधवोऽकरोत् ।। ३ ।।
श्रीहेमशालायन उवाच-
चक्रवाकी भक्ता तव कीदृशी पूर्वजातिजा ।
कथं स्नेहस्त्वदर्थं वै तिरश्चां छिन्धि संशयम् ।। ४ ।।
श्रीकृष्णनारायण उवाच-
शृणुतेमां कथां विप्राश्चक्रवाक्याः पुराभवाम् ।
सनत्सुजातनामाऽसौ ब्रह्मणो मानसः सुतः ।। ५ ।।
वेदवेदांगतत्त्वज्ञो भक्तिमार्गपरायणः ।
ब्रह्मचर्यपरश्चापि ब्रह्मविद्योपदेशकः ।। ६ ।।
चतुर्दशसु लोकेषु चाऽव्याहतगतिर्व्रती ।
किशोरभावेनोर्व्यां स व्यचरत् तीर्थकांक्षया ।। ७ ।।
नारायणसरो यातः कच्छे स्नातुं स चैकदा ।
पूर्णचन्द्राननः सौम्यस्तेजोपरिधिशोभितः ।। ८ ।।
रूपानुरूपावयवो वल्कलैरावृतो मुनिः ।
हृष्टपुष्टावयवश्च कामकान्तिसमुज्ज्वलः ।। ९ ।।
स्त्रीणां मनोहरश्चातिक्षमासौजन्यशोभितः ।
प्रसन्नमानसश्चैकप्रभुध्यानपरायणः ।। 2.98.१ ०।।
वल्कलानि समुत्सृज्य कौपीनमात्रवस्त्रकः ।
अवाततार च नारायणसरोजलान्तरे ।। ११ ।।
अवगाह्य तटं याति प्रजप्त्वा वेदमातरम् ।
पुनर्जलान्तरे याति पुनस्तटे च तिष्ठति ।। १२।।
हरिं ध्यायन् च गायत्रीं जप्त्वा पुनर्जलान्तरे ।
गत्वा स्नाति सुखं सूर्यं नत्वाऽवगाहते जले ।। १ ३।।
बहिरागत्य च ध्याने स्थितो वै घटिकावधिम् ।
तावत् तत्रोर्वशी नारायणपुत्री हिमालयात् ।। १४।।
बह्वीभिः सह सखीभिः समाययौ निजेच्छया ।
ऊरोरुत्पादिता सा तु महेन्द्राय समर्पिता ।। १५।।
यद्दिनात् तद्दिनाद् बद्रीं पितुर्दर्शनकारणात् ।
समायाति प्रतिपक्षं पूर्णाऽमादिवसेषु सा ।। १६।।
बदर्यां सा पितुर्नारायणस्य दर्शनं शुभम् ।
विधायैव च तीर्थार्थं नारायणसरोवरम् ।। १७।।
समाययौ महाभक्ता वैष्णवी विष्णुपुत्रिका ।
महाभागवती देवी चाप्सरोगणमूर्धजा ।। १८।।
अप्सरसां निसर्गस्तु चाञ्चल्यं सुभगे नरे ।
एवं चञ्चलभावेन भक्ताऽपि युवलालसा ।। १९।।
भासन्तं तेजसा रम्यावयवं दृष्टिगोचरम् ।
एकलं सविलोक्यैषा मनोभववशीकृता ।।2.98.२०।।
रन्तुं सनत्सुजातं तमृषिं चार्थयदग्रगा ।
ननर्त बहुभावेन भूत्वा किशोरिकाकृतिः ।। २ १।।
सतालं गायनं चक्रे गीतिकां प्रजगौ मुदा ।
चक्रवत् परितस्तस्य भ्रमणं नर्तने बहु ।।२२।।
चक्राकारं चकारैषा ख्यापयन्ती स्वचापलम् ।
वाचा त्वरञ्जयञ्चक्रनृत्येन सह सा मुनिम् ।।२३।।
मुनिः शुश्राव वाचं च चक्रनृत्यं व्यलोकयत् ।
सापि सम्मनुते मुग्धं मुनिं नृत्यति चाधिकम् ।।२४।।
हावभावांगचेष्टाभिः प्रेमहार्दविलोकनैः ।
मुनिं सा मोहयामास मुनिर्जहास वै मुहुः ।।२५।।
सापि ज्वरयुता स्प्रष्टुं यावन्मुनिं समिच्छति ।
तावद्विवेकवान् विप्रः सनत्कुमारको मुनिः ।। २६।।
मा स्पृशेत्याह च ततः समुत्थाय सधर्मधृक् ।
ययौ दूरं हसन्नेव निषसाद स्थलान्तरे ।।२७।।
तस्य वै सरसस्तीरे तदा सापि वशंगता ।
ययौ तत्र चकारापि पुनर्नृत्यं मनोहरम् ।।२८।।
पुनः पुनश्चेक्षमाणा प्रार्थयित्री च तं मुनिम् ।
रन्तुकामाऽभिसृत्यैव पार्श्वगा सा स्थिरा ह्यभूत् ।। २९।।
ऋषिः प्राह कथं चेटि! चेटीवद् वर्तसेऽत्र वै ।
साक्षान्नारायणपुत्री या त्वं स्पर्शे न लज्जसे ।। 2.98.३० ।।
अहं वै ब्रह्मणः पुत्रस्त्वं पुत्रपुत्रपुत्रिका ।
ब्रह्मव्रतोऽहमेवाऽस्मि मा वृथा चेष्टनं कुरु ।।३ १ ।।
स्नाहि तीर्थजले रम्ये नारायणे सरोवरे ।
मा वृथा मानसीं पीडामावहाऽस्थानके सुते! ।।३२।।
इत्युक्ता सा निराशा च सन्तापखेदसंयुता ।
उवाचैनं युवानं वै त्यक्तमर्यादचेतसा ।। ३३ ।।
वयं त्वप्सरसो विप्र सर्वसामान्यभोगदाः ।
ब्रह्मणा विष्णुना चापि शम्भुना सम्मताः सुरैः ।।३४।।
तस्मान्नाऽहं सुता योगिन् द्रष्टव्याऽत्र त्वया क्वचित् ।
सर्वा नारायणपुत्र्यो नारायणप्रियास्तथा ।।३५।।
नारायणांगसञ्जाता लक्ष्मीर्नारायणप्रिया ।
राधा कृष्णांगसञ्जाता राधा कृष्णस्य कामिनी ।। ३६।।
अजवंशे तु सञ्जाता गायत्री ब्रह्मणः प्रिया ।
अजपुत्रस्य दक्षस्य पुत्र्यो धर्मादियोषितः ।।३७।।
देवसृष्टौ न बाधोऽस्ति तस्मात् त्वां समुपस्थिता ।
त्वया हास्यं भावना च दर्शिते रतिबोधिके ।।३८।।
तस्माद् गृहाण विप्रेन्द्र न चेच्छप्स्यामि सत्वरम् ।
इत्युक्त्वा सा सनत्सुजातस्याऽङ्के निपपात ह ।। ३९।।
ऋषिः सनत्सुजातस्तु शापस्य भयकारणात् ।
यद्वा ब्रह्मव्रतहानेर्न तां जगाद किञ्चन ।।2.98.४०।।
किन्तु योगं तदा कृत्वा प्राणानाकृष्य तत्क्षणम् ।
ब्रह्मरन्ध्रं समाधौ तु गत्वोवास यथासुखम् ।।४१।।
ऊर्वशी तं मुनिं कान्तं कामशून्यं विलोक्य च ।
अतृप्तिदं बिडालस्य वृत्तिं धृत्वाऽऽत्मनि स्थितम् ।।४२।।
शशाप वै तदा शीघ्रं बिडाली भव धूर्तराट् ।
यस्य नास्ति स्त्रिया मूल्यं भक्ताया अपि सर्वथा ।।४३।।
स्त्रिया दुःखं न जानाति स्त्रीकामं वर्धयत्यपि ।
अग्निमुद्भाव्य च दूरे दह्यमानां प्रपश्यति ।।४४।।
तादृशस्य तु षण्ढस्य मार्जारीजन्मयोग्यता ।
भवत्वेव दयाहीना मार्जारी दुःखवेदिनी ।।४५।।
स्त्रीदुःखं कामभेदेन कीदृशं ज्ञास्यसे यथा ।
तथा मार्जारहीना त्वं मार्जारी भव भ्राष्ट्रगा ।।४६।।
इत्येवं शापमापन्नः ऋषिर्मार्जारिकाऽभवत् ।
जातिस्मरश्च तत्रैव नारायणसरस्तटे ।।४७।।
समाधेरुत्थितो द्राक् च स्वं देहं चावलोकयत् ।
मार्जारीभावमापन्नं क्रोधं चावाप वै तदा ।।४८।।
स्नान्तीं तदोर्वशीं प्राह चक्रवन्नर्तने रता ।
वाग्विलासेन मोहं च करोषि मादृशानपि ।।४९।।
अलब्धाशा च शपसे सदोषा दोषवर्जितम् ।
तस्मात् त्वं जलशून्ये वै प्रदेशे तृष्णया युता ।।2.98.५०।।
अतृप्ता भव चेटी च चक्रवाकी स्मरातुरा ।
चक्रवाकविहीना च सखीजनविवर्जिता ।।५१ ।।
इत्येवं चोर्वशी शप्ता चक्रवाकी क्षणान्तरे ।
तत्रैव जाता चित्राढ्या सपक्षा पक्षिजातिजा ।।५२।।
अथाऽन्या व्योममार्गेण सख्यस्तूर्णं विहाय ताम् ।
ययुर्दिवं महेन्द्रं च ता ऊचुस्तद् यथाऽभवत् ।।५३।।
संसारे कामना दोषो बहुदुःखप्रदो यतः ।
न गुणे गण्यते विज्ञैर्यद्यप्यानन्दशेवधिः ।।।५४।।
अथेन्द्रः शोकमापन्नो ययौ श्रीपरमेष्ठिनम् ।
निजगाद च वृत्तान्तं व्रह्माऽपि शोकमातवान् ।।५५।।
द्वौ तौ विष्णुं तदुद्धारकर्तारं बदरीवने ।
नरनारायणरूपं ययतुः शापमुक्तये ।।५६।।
प्रणेमतुर्ववन्दाते चार्चयामासतुर्हरिम् ।
नारायणः स्वयं नत्वा ब्रह्माणं परमेष्ठिनम् ।।५७।।
मधुपर्कं ददौ कृत्वा स्वागतं समुवाच ह ।
कुशलं सर्वथा कच्चित् प्रजानां च पितामह ।।५८।।
ब्रह्मा प्राह हरे सर्वं प्रजानां कुशलं सदा ।
यदर्थं तप्यसे चात्र तासां चाऽकुशलं कथम् ।।५९।।
किन्तु ते चोर्वशी पुत्री या चेन्द्राय समर्पिता ।
सनत्सुजातो मे पुत्रो योगीन्द्रः सांख्ययोगवित् ।।2.98.६०।।
द्वावेतौ शापयोगेन तिर्यग्भावमुपागतौ ।
द्वौ भक्तौ वैष्णवौ श्रेष्ठौ सुता सुतस्तथाऽऽवयोः ।।६ १ ।।
चक्रवाकी च मार्जारी जाते कच्छप्रदेशके ।
नारायणसरस्तीरे कामेनाऽन्योन्यशापिते ।।६२।।
जातिस्मरे च .भवतस्तन्मोक्षश्च यथा भवेत् ।
तथा विधीयतां देव दयालो भगवान् भवान् ।।६३।।
कर्तुमकर्तुमन्यथाकर्तुं शक्तोऽस्ति शासकः ।
श्रुत्वैवं भगवानाह विचिन्त्य वेधसं तदा ।।६४।।
तयोरुद्धारमेवाऽहं करिष्ये स्वल्पकालतः ।
शापेन तिर्यग्भावे च किञ्चिद् दुःखमवाप्स्यतः ।।६५।।
जातिस्मरस्वभावेन मद्भक्त्या मां स्मरिष्यतः ।
तिर्यग्योनिविमोक्षार्थमुद्भाव्य च निमित्तकम् ।।६६।।
तदाऽन्तिके तयोः शीघ्रं गत्वा दास्ये प्रमोक्षणम् ।
भक्तयोर्न चिरं दुःखं चिन्तां त्यज पितामह ।।६७।।
इत्युक्तौ च प्रसन्नौ तौ महेन्द्रश्च पितामहः ।
नारायणं प्रपूज्यैव नत्वा नारायणं सरः ।।६८।।
आययतुश्च तत्तीरे यत्र चेटीबिडालिके ।
जातिस्मरे तु ते दृष्ट्वा महेन्द्रं वेधसं तथा ।।६९।।
आययतुर्द्रुतं पार्श्वे रुरुदतुश्च दुःखतः ।
आश्वासिते च ते ताभ्यां शापमुक्तिर्निवेदिता ।।2.98.७०।।
स्वल्पकालेन भगवान् शापमुक्तिं विधास्यति ।
कुरुतं भजनं स्वाम्यनादिनारायणस्य वै ।।७१।।
ज्ञानिनां नैव शोकोऽस्ति आगमा नाशिनो यतः ।
शरीराणि समानानि भौक्तिकानि हि देहिनाम् ।।७२।।
विज्ञत्वं शिष्यते तत्र ज्ञानं दुःखविनाशकम् ।
अज्ञानिनां तु यद्दुःखं ज्ञानिनां सुखमेव तत् ।७३।।
परिणामैश्च वस्तूनां तापैस्त्रिविधकैस्तथा ।
संस्कारैश्च विभिन्नैश्च दुःखं सर्वं विवेकिनाम् ।।७४।।
यौवनं सर्वथा दुष्टं दुःखदं कामकारणात् ।
तृष्णा सहचरी तस्य सुख्यपि दुःखमाप्नुयात् ।।७५।।
संसारे यदि दुःखं न को विशेषोऽस्य मोक्षतः ।
तस्माद् दुःखं हि संसारः सुखं मुक्तिर्निगद्यते ।।७६।।
सुखमिश्रं सदा दुःखं मायायां चाभिवर्धते ।
तृष्णाक्षये महानन्दो माया तत्र न बाधते ।।७७।।
तृष्णां परित्यजेत् प्राज्ञो यदिच्छेत् सुखमात्मनः ।
कोटीन्द्रियसुखाग्र्याणां तृष्णानाशस्य नांऽशता ।।७८।।
विषयाणामुपभोगस्तृष्णां वर्धयते नवाम् ।
तृष्णा दोषो विषयाणां फलं दुःखतरं हि तत् ।।७९।।
ज्ञानिनां तु विषयाणामुपभोगो निवृत्तये ।
इच्छानाशे फलं श्रेष्ठं सुखं मोक्षसहायकम् ।।2.98.८०।।
योगिनां ज्ञानिनां चैवं भोगा अपि न बन्धदाः ।
प्रत्युताऽदर्शनजन्यतृषानिवर्तका हि ते ।।८१ ।।
तृषातृप्त्यन्तविश्रान्ता ज्ञानयुक्ता यदा हि सा ।
तृषा तृष्णावर्धिनी च मौढ्यभावान्विता यदि ।।८२।।
मौढ्यं ज्ञानेन नश्येद्वै गुरुर्ज्ञानस्य कारणम् ।
गुरोः प्राप्तिः पुण्ययोगात् पुण्यं शास्त्रश्रवादिभिः ।।८३।।
शास्त्रश्रवाद्याः श्रद्धाभिः श्रद्धा मुमुक्षुतादिभिः ।
मुमुक्षुता च कृपया हरेरेव प्रवर्तते ।।८४।।
हरेः कृपा तु भजनात् सेवनात् स्मरणादितः ।
अनादिश्रीकृष्णनारायणस्वामिपरेश्वरः ।।८५।
श्रोतव्यश्चापि मन्तव्यो निदिध्यासेऽर्थ्य एव सः ।
तस्य शरणमापन्ना तरन्ति दुःखसागरान् ।।८६।।
सर्वथाऽर्पणमेतस्मै कार्यं सर्वात्मना सह ।
प्रेमभक्तिः सदा कार्या तस्यैव भवपारदा ।।८७।।
यदि स्यामो वयं तस्य सोऽपि स्यात्सर्वदा तु नः ।
भक्तो भजते भक्तेशं भक्तेशो भजतेऽनुगम् ।।८८।।
सुखसागरयोगेन चापगा सुखितां व्रजेत् ।
दुग्धसागरयोगेन सरिद्वारि पयो भवेत्। ।।८९।।
न माया परमेशेऽस्ति न दुःखं तृष्णिका न च ।
न दोषा सन्ति वै कृष्णे नारायणे परेश्वरे ।।2.98.९०।।
गुणा दिव्या अनवधिकातिशयविवर्जिताः ।
सन्ति देवे महाकृष्णे भक्तास्तानाप्नुवन्ति वै ।।९ १ ।।
स्मर्यतां च भवद्भ्यां श्रीकृष्णनारायणप्रभुः ।
स एवाऽचिरकालेन शापमोक्षं विधास्यति ।।९२।।
निमित्तं च समुद्भाव्य स्वयमेवागमिष्यति ।
तिर्यग्भावेऽपि चात्रैव तीर्थे स्नानं स्मृतिं हरेः ।९३।।
नमनं मस्तकेनापि फलपत्रार्पणादिकम् ।
नामरटणमेवाऽपि न त्यक्तव्यं कदाचन ।।९४।।
एतादृशी यदि भक्तिस्तिर्यग्भावेऽपि जायते ।
मानुषादपि देहात्स लाभः श्रेष्ठतमो भवेत् ।।९५।।
विना भक्तिं पशुत्वं चात्मनां तुल्यं सुरेष्वपि।
को विशेषः सुरत्वेऽपि यदि भक्तिर्न विद्यते ।।९६।।
राज्यस्थस्याऽपि जिह्वाया रसग्राहे समानता ।
सर्वेन्द्रियाणां सामर्थ्यं दरिद्रस्य च भूपतेः ।।९७।।
समानं वै मया क्लृप्तं विशेषो नाऽत्र विद्यते ।
शरीरं तु समानं वै समानानीन्द्रियाण्यपि ।।९८।।
रसास्तेषां समानाश्च तृप्तिः समाऽपि सर्वथा ।
दत्ताः सर्वशरीरिभ्यो विशेषो नाऽत्र विद्यते ।।९९।।
हरेर्भक्तिः केवलैका कृता साऽत्र विशिष्यते ।
तस्माद् भक्त्या भवतोश्चोद्धारः शीघ्रं भविष्यति ।। 2.98.१० ०।।
गच्छावोऽस्मत्सुसंस्थानं शं वामस्तु च भक्तितः ।
इत्युक्त्वा पूज्यमानौ तौ महेन्द्रवेधसावुभौ ।। १०१ ।।
चेटीबिडालिकाभ्यां सुस्प्रष्टौ भावेन पादयोः ।
नतौ सुवन्दितौ व्योम्ना ययतुश्च निजं दिवम् ।। १ ०२।।
ते ह्युभे पितुरादेशाद् भजेते श्रीनरायणम् ।
दिवानिशं जपतश्च स्वामिनं श्रीरमापतिम् ।। १ ०३।।
इत्येवमृषयस्तत्र नारायणसरोवरे ।
ते ह्युभे भवतां शापकारणात् पशुपक्षिजे ।। १ ०४।।
इत्युक्त्वा राधिके! कृष्णनारायणपरेश्वरः ।
विशाश्राम क्षणं भक्तार्पितं वारि पपौ शुभम् ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उष्ट्रालयदेशे हेमशालायनेन पृष्टायाश्चक्रवाकीमार्जारिकापूर्वजन्मकथाया वर्णननामाऽष्टनवति-
तमोऽध्यायः ।। ९८ ।।