लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०९७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ९७
[[लेखकः :|]]
अध्यायः ०९८ →

श्रीकृष्ण उवाच-
अथ ते राधिकेऽनादिबालकृष्णनरायणम् ।
वैमानिका गणाः सर्वे कोट्यर्बुदा हि सेवकाः ।। १ ।।
शंकरोऽगस्त्यमुनिराट् देव्यश्चापि निजं प्रभुम् ।
आपृच्छ्य चावतेरुश्च हेमशालायनस्थले ।। २ ।।
हेमशालायनस्तेषां स्वागतं प्रचकार ह ।
दृष्ट्वाऽगस्त्य गुरुं शंभुं तथा कृष्णनरायणम् ।। ३ ।।
आनन्दं परमं प्राप स्वागतं प्रचकार ह ।
दण्डवत् पतितो भूमौ जय कृष्णेत्युवाच च ।। ४ ।।
आसनानि मधुपर्कं पाद्यं चार्घ्यं ददौ ततः ।
ननर्त पुरतस्तेषां रक्षकाणां दयावताम् ।। ५ ।।
श्रीहरिस्तं नर्तमानं भक्तं दृष्ट्वा जहर्ष च ।
भक्तस्योरसि चरणौ ददौ स्नेहभरः प्रभुः ।। ६ ।।
मस्तके प्रददौ हस्तौ परिरेभे पुनः पुनः ।
दिव्यदृष्टिं ददौ शीघ्रं हेमशालायनाय वै ।। ७ ।।
हेमशालो दिव्यदृष्ट्या उष्ट्रालयं व्यलोकयत् ।
सर्वं सुरक्षितं चास्ते भूतलं परितः खलु ।। ८ ।।
मानवाः पक्षिणश्चापि पशवोऽपि सचेतनाः ।
जीविता वै कृताश्चेति वीक्ष्याऽऽनन्दमवाप सः ।। ९ ।।
अथाऽयं च प्रसस्मार दश मुनीन् हि वैष्णवान् ।
दर्शनार्थं हरेस्तत्र द्राक् स्मृताश्चाययुश्च ते ।। 2.97.१ ०।।
व्योममार्गेणाऽवतेरुर्हेमशालायनोटजे ।
चन्द्रवद् भासमानाश्च योगिनो वैष्णवाः शुभाः ।। १ १।।
तुलसीस्रग्धराः सर्वे जपन्तः श्रीहरिं तथा ।
दृष्ट्वा गुरुमगस्त्यं चाऽनादिकृष्णनरायणम् ।। १२।।।
शंकरं सुखवैद्यं च मातॄन् नेमुर्मुदान्विताः ।
सर्वास्ते त्वर्चयामासुर्मानसैरुपचारकैः ।। १३।।
हेमशालायनो बालायनो रावासनस्तथा ।
दारालिंगायनश्चाथ भेकदानेयनामभाक् ।। १४।।
मषीग्रीवायनश्चापि शालवनायनस्तथा ।
आचालर्षिस्तथा ग्रामायनो वाटायनोऽपि च ।। १५।।
दिवादिङ्गालयश्चैते ह्येकादशमहर्षयः ।
अनादिश्रीकृष्णनारायणस्वेष्टपरायणाः ।। १६।।
जहृषुश्चातिभावज्ञा महाभागवतोत्तमाः ।
इष्टदेवं बालकृष्णं वीक्ष्याऽगस्त्यं गुरुं तथा ।। १७।।
दण्डवत्ते प्रचक्रुश्च जीवदानप्रदान् हि तान् ।
अथाऽऽसनेषूपविष्टान् महर्षीन् प्राह केशवः ।। १८।।
कुशलं सर्वथा कच्चिदास्ते वस्त्वाश्रमादिषु ।
कुशलं तपसश्चापि कुशलं देहिनां तथा ।। १९।।
कुशलं सर्वजीवानामास्ते कच्चित् प्रजादिषु ।
देशानां कुशलं चास्ते क्वचित् सौख्यं तपस्विनाम् ।। 2.97.२०।।
भक्तानां नरनारीणां कच्चित् सौख्यं प्रविद्यते ।
देशेषु सर्वजातीनां कुशलं कच्चिदस्ति किम् ।। २१।।
इति पृष्ट्वा विरराम श्रीस्वामिपरमेश्वरः ।
अगस्त्यस्तु ततः प्राह विद्यते क्षेत्रमत्र किम् ।। २२।।
तापसानां प्रजानां च शिष्याणां नरयोषिताम् ।
शंकरोऽपि तथैवैषां पप्रच्छ कुशलं नु किम् ।। २३।।
सत्योऽपि तान् पप्रच्छुश्च निराबाधं ततश्च ते ।
आहुर्वै क्रमशः सर्वे महर्षयोऽतिदारुणम् ।।२४।।
प्रलयं कष्टदं तत्र यथा स्वेषां च नाशनम् ।
पुनरुत्पादनं चापि देशानां विप्लवं तथा ।। २५।।
प्रजानां नाशनं चापि रक्षणं च पुनस्तथा ।
हेमशालायनः प्राह भगवँस्तव दर्शनात् ।। २६।।
कुशलं वर्तते त्वद्य यत्खण्डे भवदागमः ।
प्रथमं चास्य खण्डस्य समुद्रेण तु विप्लवः ।। २७।।
कृतो वै परितः पश्चात् झंझावातैरुपद्रवः ।
वातवृष्ट्या जलवृष्ट्या प्रजा बह्व्यो विनाशिताः ।।२८।।
भवन्तश्च स्मृताः पृथ्व्या गर्भे गर्तैर्महर्षिभिः ।
भवद्भिस्त्वत्र चागत्य रक्षितोऽयं भूगोलकः ।।२९।।
अस्मात्परं सुकुशलं क्षेमं चान्यन्न विद्यते ।
जीवाऽभयप्रदानं यद्भगवद्भिर्विधापितम् ।। 2.97.३ ०।।
मृतानां जीवदानं च विना श्रीपरमेश्वरम् ।
कः समर्थो भवेदत्र लये त्वाकस्मिके हरे! ।।३ १ ।।
योजनायतभूभागः समुद्रस्याऽन्तिके प्रभो! ।
परितः सलिलैर्वार्धेराप्लावितो विनाशितः ।।३ २।।
अगस्त्येन जलं तच्च पीतं स्वाञ्जलिना ततः ।
प्राणिनः प्राणयुक्ताश्च वैद्येनाऽत्र कृता हरे! ।। ३३।।
सर्वेषां कुशलं त्वास्ते किमन्यत् कुशलं प्रभो! ।
सिकताभिर्भुवो भागाश्छन्ना यत्र प्रजाऽर्दिता ।।३४।।
मृतास्तास्तारिताः सर्वाः कृपया मरुतां हरे! ।
वियुक्ता योजिताः सर्वे कुटुम्बिनश्च सेवकैः ।। ३५ ।।
तवाऽऽज्ञया हरे कृष्ण रुद्रेणाऽऽपश्च शोषिताः ।
सम्पदश्च यथापूर्वं कृताः श्रीमातृभिस्तथा ।।३६।।
देशोऽयं रक्षितः कृष्ण मृताः सचेतनाः कृताः ।
सर्वे वै कुशलं त्वास्ते किं सौख्यं स्यादतः परम् ।।३७।।
अहो भाग्यमहो सौख्यमहो क्षेमं परेश्वरः ।
येषां रक्षणकर्ताऽस्ति दैवतं किमतः परम् ।।३८।।
अहो पुण्यमहो स्वर्गमहो ब्राह्मी स्थितिस्तथा ।
येषां वासे स्वयं कृष्णश्चायातो मुक्तिदायकः ।। ३९ ।।
सर्वपापहरः सर्वपुण्यदः परमेश्वरः ।
सर्वानन्दप्रदः प्राप्तः प्राप्तव्यं नावशिष्यते ।।2.97.४०।।
किं वाच्यं परमेशान सर्वं सौख्यं प्रवर्तते ।
सर्वं जानासि सर्वज्ञ कुशलं ते करे हि नः ।।४१।।
समुद्रस्य रणस्यापि वातस्यापि नियामक ।
त्वया त्वेतन्निमित्तेन यमिताः सागरादयः ।।४२।।
पुनर्नैवं प्रजानां वै ब्रह्माण्डेऽत्र क्षयो भवेत् ।
कुशलं च महासौख्यं कृतं तत् किमतः परम् ।।४३ ।।
अथैवमृषयश्चोक्त्वा हेमशालायनो मुनिः ।
प्राह स्वस्य महाकष्टं मोक्षणं शृणु मानिनि ।।४४।।
हेमशालायन उवाच-
अहमासं प्रभो बालानदीतीरे द्रुमालिषु ।
अतिवृष्ट्या जले मग्नः समुद्रं प्रति धर्षितः ।।४५।।
तज्जले तु यदा मग्नस्तदा वैहायसा बलात् ।
मार्गेण हेमशालाद्रौ समायातस्ततः परम् ।।४६।।
बालुकावर्षणं जातं यत्र मग्नोऽभवं पुनः ।
ततः समाधिं कृतवानस्मरं त्वां गुरुं तथा ।।४७।।
मृतप्रायोऽभवं नाथ सिकतास्तरगर्भितः ।
भवता तावदागत्योद्धृतोऽहं गुरुणाऽपि च ।।४८।।
बालायन उवाच-
अहं समुद्रसलिले स्नातुं गतोऽभवं यदा ।
तावत् सामुद्रकल्लोलैरप्राग्भवैर्भयंकरैः ।।४९।।
आकृष्टो जलमध्ये च जलैः सह भुवं प्रति ।
समागतो हि बालाया नद्यास्तटे तु तावता ।।2.97.५०।।
वालुकावर्षणैश्छन्नो वालुकागर्भितोऽभवम् ।
कृत्वा प्राणान् ब्रह्मरन्ध्रे समाधावास्थितोऽभवम् ।।५१ ।।
तावद् भवता त्वागत्य तारितो जीवितोऽस्म्यहम् ।
विना तवाऽऽगमं कृष्ण पृथ्व्यां लयो मतः क्वचित् ।।५२।।
रावासन उवाच-
गोशंकुसरितस्तीरे समाधावभवं ह्यहम् ।
न जाने किं च मे जातं यदाऽहं जाग्रतिं गतः ।।५३।।
तदा ज्ञातं मया तत्र वालुकाऽन्तर्मृदाऽर्दितः ।
अस्म्यहं पृथिवीगर्भेऽस्मरं कृष्णमगस्तिकम् ।।५४।।
तावद्भवद्भिरागत्य रक्षितोऽहं कृपानिधे ।
सप्राणो निर्गतो भूमेर्यथा निद्रित उत्थितः ।।५५।।
दारालिंगायन उवाच-
दारालिंगस्य शैलस्य वने चासं जपन् हरिम् ।
तत्र वातेन वृक्षाणां शाखा विभिद्य दूरतः ।।५६।।
प्रक्षिप्ता शाखया भग्नं शरीरं मे मृतोऽभवम् ।
न जाने किं ततो जातं स्वस्थोऽहमुत्थितः प्रभो ।।५७।।
शीतलं रसपानं च मया प्राप्तं तु जाग्रता ।
ततोऽहं विप्लवं चावेदिषं त्वया हि रक्षितः ।।५८।।
भेकदानेय उवाच-
अहं त्वासं भेकदाने पर्वते द्रोणिकाश्रयः ।
वात्यया मे पर्णकुटी समूला गगनं गता ।।५९।।
अहं कुट्यां प्रसुप्तश्चाऽभवं काष्ठतले तदा ।
पर्णकुट्या सह क्षिप्तोऽभवं व्योम्नश्च पर्वते ।।2.97.६०।।
अगम्ये शिखरे नष्टोऽभवं गगनपाततः ।
न जाने जीवितः केन भवता हरिणा किमु ।।६१ ।।
स्मृत्वा त्वां चागताऽस्म्यत्र जय कृष्णनरायण ।
त्वां विना कः रक्षकोऽस्ति मरणे समुपस्थिते ।।६२।।
मषीग्रीव उवाच-
अहं रणस्य च तटादगच्छं दक्षिणं वनम् ।
अरण्यं तन्मया दृष्टं क्षणाज्जलेषु मज्जितम् ।। ६३।।
जलेऽहं मकरेणैव धृतश्च भक्षितोऽभवम् ।
न जाने तत्कथं पश्चाज्जीवितोऽस्मि कृपा तव ।।६४।।
वर्तते कारणं तत्र भक्षितस्याऽपि जीवनम् ।
एवं नाथ त्वयाऽवश्यं जीवितो वैद्यशार्ङ्गिणा ।।३५।।
शालवनायन उवाच-
शालवनेऽभवं शैले त्वां भजन् पुरुषोत्तमम् ।
वात्यया चोद्धृतः स्थानात् पञ्चयोजनदूरगः ।।६६।।
अम्बरात् पतितश्चाब्धौ मग्नो मृतोऽभवंस्ततः ।
त्वां स्मरामि कृपासिन्धो रक्ष रक्षेति वै तदा ।।६७।।
दृष्टो भवान् मया तत्र गृह्णन् मां स्वकरेण वै ।
रक्षितस्तारितश्चाऽहं त्वया चात्र निवेशितः ।।६८।।
आचालर्षिरुवाच-
अहं त्वासं चाग्निहोत्रे वात्यया वह्निरुल्बणः ।
समजन्यथ काष्ठानामरण्यं दावधर्षितम् ।।६९।।
दावे दग्धोऽभवं चाहं तत्रैव भस्मतां गतः ।
तदानीमस्मरं कृष्णनारायणं परेश्वरम् ।।2.97.७०।।
अगस्तिं च गुरुं देवं रक्षकम जगदीश्वरम् ।
भस्मतश्चाहमुत्पन्नस्त्वया पुनर्नवीकृतः ।।७१ ।।
आप्यायितश्च गणकैश्चेतनेन सुयोजितः ।
वैहायसा बलेनाऽत्र समायातोऽस्मि ते कृपा ।।७२।।
ग्रामायन उवाच-
ग्रामाद्रिपर्वते चाहमासं तत्र हरिं स्मरन् ।
स्नातः पूजां करोम्येव यावत्तावत्तु गर्जना ।।७३ ।।
भयदा भूकम्पजन्याऽभवत् सोऽहं क्षणान्तरे ।
कम्पमानात् पर्वतस्य शिखरात्पतितो यदा ।।७४।।
तावद् वात्या हृतो दूरं व्योम्नि मेघे निवेशितः ।
मृतो मेघेऽतिशैत्येन न जाने किमतः परम् ।। ७५।।
कथं वा जीवनं प्राप्तस्तवैव करुणेदृशी ।
भक्तस्य रक्षणं कृष्ण करोष्येवाऽम्बरेऽपि च ।।७६।।
वाटायन उवाच-
अहं वात्याम्बरे क्षिप्तो भ्राम्यमाणोऽतिवेगतः ।
अरण्ये कुत्रचित् क्षिप्तो दृष्टवान् मत्तहस्तिनम् ।।७७।।
तेनातिक्षुधितेनाऽहं धृतश्चापि प्रभक्षितः ।
ततः कस्माज्जीवनं मे न जाने वेत्सि केशव ।।७८।।
दिवादिङ्गायन उवाच-
दिवादिक्पर्वतयोस्तु मध्ये कविन्दुमातटे ।
आसं तत्र च सामुद्रं जलं पूर्वत आगतम् ।।७९।।
कविन्दुमानदी तत्र सामुद्रजलसंप्लुता ।
तत्राऽहं तु निमग्नो वै जलं दूरं ह्यपासरत् ।।2.97.८०।।
ततो वालुकया जातः पर्वतो मच्छिरस्यपि ।
तत्राऽवसं समाधिस्थो भवता पर्वतो हृतः ।।८१ ।।
ततोऽहं निजदेहस्थो जाग्रतिं चागमं प्रभो ।
तावन्मयाऽम्बरे दृष्टं विमानं चातिभासुरम् ।।८२।।
अतिदूरं सूर्यनिभं चागतोऽहं विलोक्य तत् ।
रक्षितोऽहं त्वया कृष्ण जीवितो मृत्युदन्ततः ।।८३।।
कृपां विना न नाथाऽत्र जीवेद्वै देहवान् खलु ।
देशे मृतास्त्वया कृष्ण जीविता हि प्रजाजनाः ।।८४।।
पुनर्यथावद् विहितं कस्तथाकर्तुमीश्वरः ।
अगस्त्येन कृता रक्षा शंकरेण पुनः पुनः ।।८५।।
अश्विनीबालकेनात्र प्रजाः सचेतनीकृताः ।
श्रीभिर्देशाः स्मृद्धिपूर्णाः कृता उजिजीविताः पुनः ।।८६।।
पशवः पक्षिणः कृष्णनारायण त्वयाऽविताः ।
धन्योऽस्त्रालयदेशोऽयमुष्णालयाऽपराभिधः ।।८७।।
उष्ट्रालयसमानोऽपि ऊर्ध्वालयसमः कृतः ।
पावितो भवताऽऽगत्य रक्षितास्तारिता वयम् ।।८८।।
इत्येवं राधिके त्वेकादशर्षिभिर्निवेदिते ।
श्रीहरिः प्राह युष्माकं भक्त्या मया हि तारिताः ।।८९।।
मम भक्तार्थमेवाऽहं सर्वत्वं प्रददामि तु ।
मया हि चक्रवाक्यर्थं जलं शैलोपरि द्रुतम् ।।2.97.९० ।।
पार्श्वभूमिं समाप्लाव्य प्रापितं पायितं पुरा ।
मया भक्तकृते लक्ष्मीस्त्यक्ता भक्तविरोधिनी ।।९ १ ।।
मद्भक्तार्थं मया सर्वं दीयते रक्ष्यते च सः ।
एकस्याऽर्थेऽसंख्यदेहभृतां करोमि रक्षणम् ।।९२।।
एकस्याऽर्थेऽसंख्यदेहभृतां करोमि नाशनम् ।
सर्वं करोमि भक्तार्थं नाऽभक्तार्थं कदाचन ।।९३।।
अभक्तास्तु भक्तपार्श्वे नान्तरीयकलाभिनः ।
भवतां मम भक्तानामर्थे देशोऽयमुद्धृतः ।।९४।।
मार्जाराऽपत्यकानां संरक्षणं च पुरा मया ।
कृतं साऽनलभ्राष्ट्रौघे मार्जारिकाऽतिभक्तितः ।।९५।।
यस्य यादृक् भवेत् स्नेहस्तस्य तथाविधाऽवनम् ।
करोमि सततं लोके व्रतं मे भक्तरक्षणम् ।।९६।।
कीर्तनात्स्मरणात्स्पर्शाद्दर्शनाद्वन्दनादपि ।
अर्चनाच्च सखीभावात् श्रवणादपि चोत्तमम् ।।९७।।
आत्मसमर्पणं स्नेहपूर्वक मम रोचते ।
मदर्थं यस्य नाऽदेयं किञ्चिदपीह विद्यते ।।९८।।
तस्याऽर्थे सर्वथा चाहं त्यजामीह परत्र च ।
भवदर्थं मया सर्वं कृतं संरक्षणं द्विजाः ।।९९।।
इत्युक्त्वा विररामाऽसौ भगवान् परमेश्वरः ।
राधिके बालकृष्णे ते बभूवुः स्थिरमानसाः ।। 2.97.१०० ।।
क्षणं दध्युर्बहिर्मूर्तिं ततोऽन्तरे च तं हरिम् ।
आनन्दसागरे मग्नाः क्षणं विशश्रमुश्च ते ।। १०१ ।।

इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उष्ट्रालयदेशे हेमशालायनाश्रमे श्रीहरेर्विमानस्याऽवतरणम्, स्वस्वरक्षावृत्तान्तादिकथनं चेत्यादिनिरू-
पणनामा सप्तनवतितमोऽध्यायः ।। ९७ ।।