लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०९९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९८ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ९९
[[लेखकः :|]]
अध्यायः १०० →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके पश्चादनादिश्रीनरायणः ।
यथोद्धारं कृतवान् श्रीहरिः प्रोवाच तां कथाम् ।। १ ।।
श्रीकृष्णनारायण उवाच-
हेमशालायनर्षे त्वं कथा शृणु ततः पराम् ।
याऽभून्मार्जारिका नारायणसरस्तटे तु सा ।। २ ।।
वृकादिभयमापन्ना ययौ खेटं समीपगम् ।
यत्र वै श्रीहरेर्भक्ता वसन्ति पशुपालकाः ।। ३ ।।
नरा नार्यो वैष्णवास्ते भजन्ते परमेश्वरम् ।
तत्र सा ह्यटति नित्यं प्रतिग्रहं क्षुधान्विता ।। ४ ।।
दुःखेनाऽऽसाद्य भोज्यं 'वै चौर्येण बहुयत्नतः ।
वर्तते साऽथवा चौर्यं करोत्येव न च क्वचित् ।। ५ ।।
शुनां भयात्तु सा रात्रौ शेते पुलकसञ्चये ।
तृणानां सञ्चये चापि गृहपृष्ठस्थसञ्चये ।। ६ ।।
यथाकथञ्चित्सम्प्राप्योच्छिष्टं वृत्तिं करोति सा ।
यत्र नास्त्येव मार्जारजातिस्तत्रेयमेकला ।। ७ ।।
विना नरं वसत्येव युवती ऋतुधर्मिणी ।
कामदाहेन मार्जारी पीड्यतेऽहनिंशं तदा ।। ८ ।।
शापस्य कारणेनैव मार्जारं लभते न सा ।
खेटाद् दूरतरा ग्रामास्तत्र गन्तुं न शक्यते ।। ९ ।।
मध्ये वन्यपशूनां सा भयात्तत्रैव तिष्ठति ।
एवं सा पीडिता कामदाहेनाऽष्टसमावधिम् ।। 2.99.१ ०।।
नवमे वत्सरे वृष्टिश्चातिवृष्टिरभूद्भुवि ।
तत्प्रवाहेण वै कश्चिन्मार्जारो दूरभूमितः ।। १ १।।
तरंगैरुह्यमानः सः सरोवारिषु चाययौ ।
वृक्षशाखां समालम्ब्य जीवन् सरोवरान्तिके ।। १२।।
जलेन वक्रवेगेन शाखया सहितस्तु सः ।
मार्जारो वाहितस्तीरं शाखा तीरगताऽभवत् ।। १ ३।।
जले लीने बिडालः सः ययौ शनैः शनैस्तदा ।
खेटं विलोक्य तत्रैव यत्र मार्जारिकाऽस्ति सा ।। १४।।
तेन योगं गता सा च सगर्भा सम्बभूव ह ।
कुंभकारगृहे सा तु घासकच्चरमध्यगा ।। १५।।
सगर्भा पूर्णकालेन प्रसूता पञ्चबालकान् ।
निदधे तृणपुञ्जे तान् ततो वै चापरस्थले ।। १६।।
ततः स्थलान्तरे चापि ररक्ष निजबालकान् ।
अथाऽपक्वस्थले चामपात्रपुञ्जे ररक्ष सा ।। १७।।
कुंभकारेण संक्लृप्ते पाकार्थं वह्निगर्तके ।
आमपात्रेषु बालान् सा गोपयित्वा बहिर्ययौ ।। १८।।
निजभोज्यस्य लाभार्थं पश्चात् कुभकृताऽनलः ।
दत्तः पात्रप्रपाकार्थं सा दृष्ट्वा धूम्रमेव तम् ।। १ ९।।
शीघ्रं तत्र समायाता ददर्शाऽग्रेऽनलं मुखे ।
पृष्ठेऽपत्यानि तिष्ठन्ति मार्गो निर्गमनाय न ।।2.99.२०।।
वह्निर्वृद्धिं गतस्तत्र ज्वालामालासमुज्ज्वलः ।
सापि श्वभयतस्तत्र पार्श्वे तृणेषु कच्चरे ।।२१ ।।
सुगुप्ता चाऽरुदच्चाति बाला रुदन्ति चानले ।
बालानां प्राणरक्षार्थं ह्युपायो विद्यते न वै ।।२२।।
कुंभकारो न तत्रास्ति रोदनं शृणुयात्तु कः ।
अपत्यस्नेहसम्पन्नाऽपत्यरक्षणहेतवे ।। २३ ।।
अनादिश्रीकृष्णनारायणस्वामिनमस्मरत् ।
तुष्टाव कल्पितैर्भावैर्नारायणं परेश्वरम् ।। २४।।
वह्निः पात्रप्रगर्ते तु परितश्चावृतोऽभवत् ।
अपत्यानि तु पात्राणां मध्ये तिष्ठन्ति तत्तले ।।२५।।
ज्वलते चाऽनलश्चोर्ध्वं तले नैवाऽभियाति च ।
मार्जारिकाऽतिभावेनाऽजपत् कृष्ण हरे प्रभो ।।२६।।
रक्ष मे बालकान् कृष्ण यत्नेन प्रापितान् शुभान् ।
निर्दोषान् ज्ञानहीनाँश्च रक्ष स्वामिन्नरायण ।।२७।।
यद्यहं त्वयि भक्ताऽस्मि रक्ष मे बालकान् विभो ।
गर्भे रक्षा कृता येन यत्पिता च जलान्तरे ।।२८।।
रक्षितो येन देवेन स मे बालान् प्ररक्षतु ।
नारायण हरे कृष्ण स्वामिन् श्रीमन् पुमुत्तम् ।।२९।।
येनाऽहं जनिता पूर्वं स मे बालान् प्ररक्षतु ।
अग्नौ जले पृथिव्यां चाम्बरे वायौ निवासकृत् ।। 2.99.३०।।
हृदये चामपात्रे च गर्ते भ्राष्ट्रे च चुल्लके ।
यः सदा व्यापको देवः स मे बालान् प्ररक्षतु ।।३ १।।
हरे कृष्ण हरे स्वामिन् कृष्ण रक्षय बालकान् ।
प्रियान् मे प्राणतः स्वल्पाननाथान् संप्ररक्षय ।।३२।।
लक्षजपान् करिष्येऽहं तव तुष्ट्यर्थमेव यत्। ।
रक्ष मे शावकान् कृष्णनारायण जगद्गुरो ।।३३।।
शरणागतरक्षाकृत् पोतकान्मे प्ररक्षय ।
इत्येवं प्रार्थयित्री सा कुंभकारांगणे स्थिताम् ।।३४।।
तुलसीं प्रति गत्वैव नेमे च दश दण्डवत् ।
प्रदक्षिणाश्च पञ्चाशच्चक्रे मत्वा द्रुमे हरिम् ।।३५।।
कृष्णनारायणस्वामिन् श्रीपते कमलापते ।
रक्ष राधापते ब्रह्मपते मुक्तपते प्रभो ।।३६।।
पार्वतीश प्रभास्वामिन् हंसेश मञ्जुलायते ।
सगुणेशाऽऽत्मसाक्षिँस्त्वं रक्ष बालान् हरे मम ।।३७।।
आत्मात्मन् करुणासिन्धो लक्ष्मीपते जयापते ।
अमृतप्रद देवानां रक्ष शान्तापतेऽच्युत ।।३८।।
श्रीपते भूपते बद्रीपते लीलापतेऽनघ ।
भूतिपतेऽक्षरपते शक्तिपतेऽव बालकान् ।।३९।।
गोलोकाधिपते हैमीपते च ललितापते ।
गह्वरावास गर्भास्य रक्ष वह्निपते पते ।।2.99.४० ।।
हृषीकेश महेशेश ब्रह्मप्रियेश भीहर ।
अक्षरक्षेत्रवासाऽस्मद्बालकान् रक्ष मेश्वर ।।४१।।
वह्निर्देवोऽवतु बालान् शान्तदाहोऽस्तु सर्वग ।
बाला मे त्वमृतदेहा भवन्तु भवदाश्रये ।।४२।।
यत्राऽन्यस्त्वाश्रयो नास्ति तत्राश्रयो भवान् गुरुः ।
तारकश्च शरण्यश्च नाथ रक्षय बालकान् ।।४३।।
इत्येवं चार्थयमाना बिडाली तुलसीं मुहुः ।
नत्वा पत्राणि चादाय वह्निस्थान गताऽभवत् ।।४४।।
पत्राणि त्वर्पयामास वह्निदेहाय शार्ङ्गिणे ।
रक्ष मे बालकान् अग्ने वार्धक्यफलरूपिणः ।।४५।।
इत्युक्त्वा च नमस्कृत्य प्रचकार प्रदक्षिणम् ।
नाऽन्योपायोऽत्र च हरेः स्मृतिं विना तु रक्षणे ।।४६।।
इत्येवं मनसा वाचा कर्मणा परमेश्वरम् ।
अपूजयद् बिडाली सा पत्रैः श्रीपुरुषोत्तमम् ।।४७।।
जेपे नाम च सततं तस्थौ भ्राष्ट्राग्निसन्निधौ ।
जीविताशां समालम्ब्य भजमाना जगत्पतिम् ।।४८।।
अथैवं सा स्थिता पार्श्वे कश्चिन्नायाति मानवः ।
दृश्यते नैव रक्षाकृत् निराशा भजते हरिम् ।।४९।।
तावच्छुश्राव बालानां वाक्यानि भ्राष्ट्रिकान्तरात् ।
जीविताशावती सा च प्रसन्नमानसाऽभवत् ।।2.99.५०।।
वह्निश्चोपरिभागे चाऽम्बरीषोर्ध्वे प्रवर्धते ।
नीलहरितपिङ्गाभिर्ज्वालाभिश्च समन्ततः ।।५ १।।
रक्तचित्राभिरुग्राभिः श्वेतमूलाभिरुल्बणः ।
अग्निर्निम्भ्राष्ट्रके व्याप्तोऽभवद्वै परितोऽभितः ।।५२।।
अन्तर्बहिस्तथा पार्श्वे मध्ये तलेऽपि सर्वशः ।
आमपात्राणि पक्वानि विगतं च दिवानिशम् ।।।५३ ।।
क्षुधातृषायुता सापि मार्जारी बालकान्निजान् ।
शृणोति वदमानाँश्च रमतः क्षुधिताँस्तथा ।।५४।।
एकः प्राह कदा माता प्रागमिष्यति चाग्रज ।
क्षुधा मे बाधते चाति समाह्वय च मातरम् ।।५५।।
ज्येष्ठः प्राहाऽनलश्चास्ते मार्गान् रुद्ध्वा समन्ततः ।
कथं माता समागच्छेत् स्मर श्रीपरमेश्वरम् ।।५६।।
येन गर्भे कृता रक्षा सोऽत्र रक्षां करिष्यति ।
जीवयिष्यति भगवान् दत्वा भक्त्या हि भोजनम् ।।५७।।
अग्निं पश्योष्णमत्युग्रं ज्वालामालासमेधितम् ।
कथं माताऽत्र चागच्छेत् स्मर कृष्णनरायणम् ।।५८।।
कृपा भगवतश्चैषा जीवामो यद्विभावसौ ।
शीतले विवरे चात्र रक्षणं हरिणा कृतम् ।।५९।।
अग्निर्नात्र समायाति सत्यपीन्धनसञ्चये ।
पश्य ज्वाला न दहति धूमो मूर्छां करोति न ।।2.99.६०।।
एह्यागच्छ बहिर्यामो निर्वह्निसुषिराद् द्रुतम् ।
शीतो बह्निरयं भाति मे न दह्यति चानुज ।।६१।।
मातरं प्रति गच्छाम श्चेत्युक्त्वा निर्ययुर्द्रुतम् ।
वह्निमध्याद् विनिर्गत्याऽदग्धरोमाण एव ताम् ।।६२।।।
मातरं प्रययुः सर्वे बाला भ्राष्ट्राद् विनिर्गताः ।
हर्षव्याप्ताः क्षुधाव्याप्ता अपिबन् मातृसत्पयः ।।६३।।
माता स्नेहं प्रचक्रे च लिलेहापि पुनः पुनः ।
मात्रे प्राहुस्तु ते भ्राष्ट्रं शीतलं रक्षणालयम् ।।६४।।
पय आपीय चाऽऽपृच्छ्य भ्राष्ट्रे प्रविश्य ते पुनः ।
भ्राष्ट्रिकायास्तले गत्वा विशश्रमुः सुखं मुदा ।।६५।।
योऽग्निश्चाऽऽमघटादीन्वै पक्वान् करोति दाहतः ।
योऽग्निश्चेन्धनघासादीन् दग्धा भस्म करोत्यपि ।।६६ ।।
सोऽयमेव बिडाल्यास्तु बालकार्थे सुशीतलः ।
तदानीं दाहहीनो वै जातः कृष्णकृपावशात् ।।६७।।
मार्जारी चावलोक्यैतत् स्वयं च निर्भया सती ।
भ्राष्ट्रीतले समागन्तुं ययौ भ्राष्ट्रीमुखं प्रति ।।६८।।
तावद् वह्निस्तथा स्प्रष्टोऽत्युष्णश्चात्यन्तदाहकः ।
आश्चर्यं परमं प्राप्ताऽस्मरत् कृष्णनरायणम् ।।६९।।
अहो देवस्य माहात्म्यं ह्येकमेव तु वस्तु यत् ।
सुखायैकस्य भवति दुःखायाऽन्यस्य तत् खलु ।।2.99.७०।।
सर्वेषां दाहकर्ताऽयं पक्षे दाहकरोऽभवत् ।
अवश्यं श्रीनरनारायणेन परमात्मना ।।७१ ।।।
रक्षिता बालका मेऽत्र रक्ष्यन्ते च पुनः पुनः ।
इदं मे भक्तिमाहात्म्यं बालानां शरणागतिः ।।७२।।
यद्वा तद्वा भवेत्पुण्यं प्राग्भवीयं महत्तरम् ।
येन बाला रमन्ते मे वह्निमध्ये यथा गृहे ।।७३।।
मार्जारी कृष्णमाहात्म्यं ज्ञात्वा पूर्णतमं तदा ।
भेजे चातीव भावेन श्रीहरिं परमेश्वरम् ।७४।।
क्षुधातृषाभिसन्तप्ता कृत्वा दृढं च निश्चयम् ।
मया नाऽन्यत्र गन्तव्यं हरिर्दास्यति भोजनम् ।।७५।।
मह्यं मम च बालेभ्यो रक्षकः रक्षयिष्यति ।
इत्येवं मन्यमाना सा जजाप औं हरेऽच्युत ।।७६।।
कृष्णगोविन्दगोपालनारायणनरायण ।
श्वासोच्छ्वासं जजापैवं वाचा च मनसा हृदा ।।७७।।
निषसाद समीपे च भ्राष्ट्रिकाया हरिश्रिता ।
दिनद्वयं गतं तावन्नोत्तिष्ठति न याति च ।।७८।।
कृष्णो नारायणो देवो नरोत्तमो नरायणः ।
दृढं च निश्चयं ज्ञात्वा भक्तिं ज्ञात्वा परात्पराम् ।।७९।।
शरणागतरक्षाकृत् कुंभकारस्वरूपधृक् ।
भाद्रश्राद्धे कृतं क्षीरपाकं च पूरिकास्तथा ।।2.99.८० ।।
करे धृत्वा समायातो ददौ पितृभ्य एव सः ।
अम्बरे च ददौ काकपक्षिभ्यो धेनवे ददौ ।।८१ ।।
ददौ भूतेभ्य एवाऽसौ मार्जार्यै चापि सन्ददौ ।
तावत् तद्बालका वह्निभ्राष्ट्रतो बहिराययुः ।।।८२।।
तेभ्यो दुग्धं श्राद्धपक्वमपाययत् सुखप्रदम् ।
पीत्वा ते विविशुस्तत्र भ्राष्ट्रीतले सुखावहे ।।८३ ।।
एवं कुंभकृता तेनाऽऽहुताः कुंभकृतोऽपरे ।
पश्यन्तु वह्निमध्ये वै जीवन्ति हि बिडालकाः ।।८४।।
इत्युक्त्वा दर्शयामास कुंभकृद्भ्यो हि बालकान् ।
भ्राष्ट्र्यधिपालकश्चापि ददर्शाश्चर्यमाप्तवान् ।।८५।।
आमपात्राणि पच्यन्ते नैव दह्यन्ति बालकाः ।
आश्चर्यं परमं त्वेतत् तत्र प्रकाशतां गतम् ।।८६।।
आययुर्जनसंघास्तु वीक्षितुं भ्राष्ट्रिकाऽर्भकान् ।
पुपूजुर्वह्निदेवं च बिडाल्यै भोजनं ददुः ।।८७।।
अर्भकेभ्यो ददुर्दुग्धं बालाश्चागत्य ते बहिः ।
पीत्वा प्रयान्ति भ्राष्ट्र्यां ते सुषिरेण पुनः पुनः ।।८८।।
एवं विलोक्य लोकास्ते निश्चिक्युर्हरिरक्षिताः ।
जीवन्त्येते न दुह्यन्ति दीनरक्षाकरो हि सः ।।८९।।
अथाऽधिपः कुंभस्रष्टा वह्निशान्त्युत्तरं स्वयम् ।
दूरीचकार भस्मादि कुंभान् पात्राणि सर्वशः ।।2.99.९०।।
तलं रिक्तं चकाराऽपि यत्र बाला व्यवस्थिताः ।
तत्र श्रीभगवत्पादचिह्ने संदृष्टवान् हि सः ।।९ १ ।।
कुंभकारश्चकाराऽत्र भगवत्पादवेदिकाम् ।
तीर्थं मार्जाररक्षाख्यं प्रसिद्धं त्वभवद्धि तत्। ।। ९२।।
बालका रक्षिता येन नारायणेन योगिना ।
सोऽपि तत्रैव सर्वेषु मध्ये तदा विराजते ।।९३।।।
कुंभकारस्वरूपेण नान्ये विदन्ति तं प्रभुम् ।
अथाऽयं भगवान् बद्रीनारायणः स्वयं तदा ।।९४।।
कृपया दर्शयामास रूपं निजं चतुर्भुजम् ।
कुंभकारा हरिं दृष्ट्वा पुपूजुः श्रद्धयाऽन्विताः ।।९५।।
मार्जारिका ददर्शैनं श्रीमन्नारायणं हरिम् ।
द्रागेव स्मरणं प्राप्ताः सनत्सुजातरूपिणः ।। ९६।।
शोकं चकार विविधं बिडालीप्रसवादिजम् ।
क्वाऽहं सनत्सुजातोऽस्मि क्वाऽहं बिडालतां गतः ।।९७।।
अद्य नारायणः साक्षाच्छापनाशार्थमागतः ।
इत्येवं त्वाप्तवैराग्यो नेमे नारायणं हरिम् ।। ९८।।
नारायणोऽपि तां तिर्यग्देहाद् विवृत्य सत्वरम् ।
सनत्कुमाररूपं च ददौ ब्रह्मसुतात्मकम् ।। ९९।।
अर्भकाः कुंभकारैश्च रक्षिता वर्धितास्तथा ।
तद्वशास्ते वनीया वै मार्जारा अभवँस्ततः ।। 2.99.१ ००।।
अथ नारायणो देवस्तथा सनत्सुजातकः ।
ययतुश्च सरः स्नातुं कुंभकारा ययुस्ततः ।। १०१ ।
तदा देवैः पुष्पवृष्टिर्मुक्ता व्योम्ना सरोवरे ।
नारायणेन वै साक्षाद् यत्र स्नातं ततः सुरैः ।। १०२।।
नारायणसरश्चेति तीर्थं प्रख्यापितं शुभम् ।
रक्षाकृन्मुक्तिकृच्चापि नारायणस्य दायकम् ।। १ ०३।।
सनत्सुजातसहितः स्नात्वा नारायणः प्रभुः ।
ययौ श्रीबदरीं हैमशैले विशालिकां निजाम् ।। १ ०४।।
ऋषिः सनत्सुजातश्च स्नात्वा त्रिपथगाजले ।
नत्वा नारायणं सत्यलोकं ययौ क्षणात्ततः ।।१ ०५।।
ग्रामो मार्जारपुरसंज्ञकोऽभवत् प्रजाकृतः ।
इत्येवं श्रीकृष्णनारायणो हेमायनर्षये ।। १ ०६।।
मार्जारपुत्ररक्षायाः कथामकथयत्तथा ।
विरराम क्षणं राधे प्रापुर्हर्षं महत्तरम् ।।।१ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मार्जारिकाऽपत्यानां कुंभकारमहाभ्राष्ट्रीवह्नितो नारायणकृतरक्षणं मार्जारिकायाः शापमोक्षणं चेत्यादिनिरूपण-
नामा नवनवतितमोऽध्यायः ।। ९९ ।।