लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०७५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ७५
[[लेखकः :|]]
अध्यायः ०७६ →

श्रीकृष्ण उवाच-
एवमन्यं चमत्कारं कथयाम्यपि राधिके ।
सूर्यपुत्र्यास्तपत्यास्तु तटे कामपुरे पुरा ।। १ ।।
आसीत् सन्तापनो नाम दैत्यो दैत्यगणेश्वरः ।
महाबलेन युक्तोऽसावटते तपतीतटे ।। २ ।।
सप्तपट्टाद्रिवासं च कृतवान् मांसखादकः ।
प्राङ्दिशि दूरपर्यन्तं गत्वा गत्वा च बालकान् ।। ३ ।।
तापीमूलावधिं गत्वा हरत्यल्पतरानपि ।
दैत्या मानुषमांसादा मिलित्वाऽदन्ति सोत्सवाः ।। ४ ।।
भूशावालयपूर्वे तु तापीतीरेऽभवन् महान् ।
विद्यालयोऽभवत्तत्र मुनिर्हिरण्यकेशकः ।। ५ ।।
कृष्णयजुर्विदांश्रेष्ठः ऋषीणां प्रवरोऽभवत् ।
तस्याऽऽश्रमे कृताऽऽवासा विद्याब्रह्मचरास्तदा ।। ६ ।।
विप्रा हिरण्यकेशीयशास्त्रीयास्तु सहस्रशः ।
आसँश्चान्येऽपि हिरण्यकेशाख्यगुरुसन्निधौ ।। ७ ।।
आश्रमस्थाश्च ते ब्रह्माध्येतारस्तपतीजले ।
स्नातुं यान्ति ब्राह्मकाले तत्र सन्तापनोऽसुरः ।। ८ ।।
सुप्रच्छन्नः समागत्य हरते विप्रबालकान् ।
नित्यं द्वौ वा पञ्च वा षट् कदाचिद् दश वा नव ।। ९ ।।
सहस्रेषु तु बालेषु क्षयं यान्ति तु येऽर्भकाः ।
न ज्ञायन्ते चाश्रमस्थैः क्व प्रयान्तीति वै तदा ।। 2.75.१ ०।।
यत्र वै गणना नास्ति तत्र न ज्ञायते क्षयः ।
एवं याते बहुतिथे काले पञ्चशतानि वै ।। ११ ।।
ब्राह्मणानामपत्यानि क्षयं नीतानि राक्षसैः ।
शताऽपत्यानि चान्यानि क्षत्रविट्दासजानि च ।। १२।।
एवं कुमारबाहुल्ये क्षयं याते तदुत्तरम् ।
भोजनाऽध्ययने संख्या न्यूना विज्ञायते जनैः ।। १३।।
बाला ह्रासं नित्यमेव यान्ति तापीतटे खलु ।
जले मज्जन्ति मकरैर्हियन्तेऽवश्यमेव च ।। १४।।
एवं सन्देहमापन्नाः सह स्नातुं प्रयान्ति ते ।
राक्षसा बालका भूत्वा विशन्ति बालकेषु हि ।। १५।।
शौचार्थं यान्ति ये दूरं तान् गृहीत्वा प्रयान्ति ते ।
न चायान्ति परावृत्त्य तदा ज्ञातं जनैः खलु ।। १६।।
हरन्ति मकरा नैव किन्तु हरन्ति राक्षसाः ।
शोकस्त्वतितरश्चासीदाश्रमे बालकेषु च ।। १७।।
हिरण्यकेशनामर्षिः शुशोच बहुधा तदा ।
अहो मे बालका नष्टा अधिकाः षट्शतादपि ।। १८।।
न ज्ञातं त्वद्यपर्यन्तं पितॄणां का गतिर्भवेत् ।
तत्सम्बन्धिजनानां च काः श्रोतव्या दुरुक्तयः ।। १९।।
अहो ध्यानं मया दत्तं नैव त्वद्यावधिं क्षये ।
कथं जीवेयुरेवैते मारिताः स्युर्हि राक्षसैः ।।2.75.२०।।
भक्षिताः स्युरहो दैवं दुर्बलानां विघातकम् ।
इति धृत्वा मस्तके द्वौ करौ रुरोद रौद्रकम् ।।२१ ।।
अन्ये तदाश्रमवासा रुरुदुश्चातिकण्ठतः ।
आश्रमः कश्मलो जातो मानवाः शुद्धबुद्धयः ।।२२।।
निस्तेजास्तु ऋषिर्जातः शोको द्रुष्वप्यजायत ।
पशपक्षिगणाश्चाप्यरुदन्त ज्ञाततत्क्षयाः ।।२३ ।।
मृगाद्या नाऽग्रसन् घासं शुका नाददिरे फलम् ।
अपि पिपीलिका नैव कणान् जगृहुरुच्छुचः ।।२४।।
वल्लिका न पपुर्वारि केदारेष्वर्पितं ह्यपि ।
ववौ वायुर्न सुभगो वह्निः कुण्डे न चाऽज्वलत् ।।२५।।
मयूरा नाऽवदन् केकामृषयोऽपि शवा इव ।
अभवन्नाश्रमे नार्यो विधवा इव निष्प्रभाः ।।२६।।
हाहाकारो महानासीदाश्रमे देशमण्डले ।
दैत्याः सप्तपुटाद्रिस्था हरन्ति विप्रबालकान् ।।२७।।
मारयन्ति च खादन्ति हा कष्टं कालनोदितम् ।
अहो त्राता न चास्माकं घातयिता न रक्षसाम् ।।२८।।
कश्चिदास्ते विना कृष्णं कृष्णस्तिष्ठति कुत्र वा ।
श्रुतं पूर्वं कथायां वै चाश्वपट्टसरोऽन्तिके ।।२९।।
कुंकुमवापिकाक्षेत्रे राजते भगवान् स्वयम् ।
कौशिकाम्बर्षिमुखतश्चापि श्रुतं तथैव च ।।2.75.३ ०।।
तथाऽन्येभ्यो ब्राह्मणेभ्यः श्रुतं कृष्णो विराजते ।
मूर्तिमान् मानवो भूत्वा श्रीमद्गोपालनन्दनः ।।३ १ ।।
लक्ष्मीनारायणसंहितायां श्रुतो हरिः स्वयम् ।
राजतेऽनादिदेवः स कृष्णनारायणः प्रभुः ।।३२।।
स कुर्याद् रक्षणं नस्तु महापत्कालतः खलु ।
इत्येवं शोकसम्मग्ने हिरण्यकेशकाश्रमे ।।३३ ।।
तत्र तावत् समायातो महर्षिः कौशिकाम्बकः ।
योगधर्मेण विज्ञाय चार्तनादान् ऋषिकृतान् ।।३४।।
पौषमासे तु पूर्णायां हिरण्यकेशकाश्रमे ।
आदृतः सत्कृतो मधुपर्काद्यैरर्चनैर्मुनिः ।।३५।।
दत्तासनो न्यषीदच्च पप्रच्छ रोदनोद्भवम् ।
हिरण्यकेशकः प्राह राक्षसैर्विप्रबालकैः ।।३६।।
ब्रह्माध्यायपरास्तापीतटे ब्राह्ममुहूर्तके ।
स्नातुं याताश्च बहवो राक्षसैः संहृता मुने ।।३७।।
षट्शतानि हताश्चैवं ज्ञायते हि विचारतः ।
दशसाहस्रविप्रेषु गुरोः कुले वसत्सु वै ।।३८।।
आसुराणां महानेवमुपद्रवो व्यजायत ।
किं कुर्मः क्व प्रयामश्च किमभूत् क्व गताश्च ते ।।३९।।
यद्येवं विप्रबालानां ह्रासतन्तुः प्रवर्तते ।
का गतिश्चाश्रमस्याऽत्र भवेदिति विपन्ननु ।।2.75.४०।।
यदि कश्चिदुपायोऽत्र विनाशरोधकोऽस्ति चेत् ।
बालानां लब्धिहेतुश्च वद योगिन् प्रकुर्महे ।।४१।।
इत्युक्त्वा विररामाऽसौ हिरण्यकेशको मुनिः ।
कौशिकाम्बश्च तं प्राह राधिके संस्मरन् हरिम् ।।४२।।
मा विषादं याहि विप्र सर्वं जानामि योगतः ।
पूर्वं ममाश्रमेऽप्येषामुपद्रवो महानभूत् ।।४३ ।।
मया तु राक्षसा दैत्या नाशिता वै मुहुर्मुहुः ।
पुनस्ते नूतना जातास्तां दिशां न प्रयान्ति ते ।।४४।।
तवाश्रमे प्रकुर्वन्ति तापीतटे ह्युपद्रवम् ।
मानवानपि खादन्ति सप्तपट्टाद्रिवासिनः ।।४५।।
अहं योगबलेनैव ज्ञात्वा तद्वैशसं महत् ।
स्मराम्यनादिदेवं श्रीकृष्णनारायणं प्रभुम् ।।४६।।
वसन्तं कुंकुमवापीक्षेत्रे सर्वहृदि स्थितम् ।
गच्छामः शरणं तस्य रक्षणं स करिष्यति ।।४७।।
क्षेमं च कुशलं तस्य हस्तगं वर्तते च नः ।
विनाऽनादिकृष्णनारायणं शक्तो न चाऽपरः ।।४८।।
अवितुं दुःखसंसारादापद्भ्यश्च भवाम्बुधौ ।
इत्युक्त्वा श्रीहरिं स्मृत्वा व्योममार्गेण योगिराट् ।।४९।।
नीत्वा हिरण्यकेशं च सहैवाऽश्वसरो ययौ ।
सूर्यचन्द्रसमौ ज्योत्स्नागोलकाविव भासुरौ ।।2.75.५०।।
व्योममार्गाल्लोमशस्याश्रमाग्रे चावतेरतुः ।
प्रथमं लोमशं नत्वा प्रसम्पूज्य परस्परम् ।।५१ ।।
अश्वपट्टसरस्येव स्नात्वा कुंकुमवापिकाम् ।
गत्वा तज्जलपानं च कृत्वा नत्वा च देवताः ।।५२।।
ययतुः श्रीकृष्णनारायणान्तिकं तु मन्दिरे ।
राजते यत्र भगवान् परमेशः परात्परः ।।५३ ।।
गजासने तु सौवर्णे मणिरत्नसमञ्चिते ।
तीर्थैश्च मुनिभिर्देवैर्लक्ष्म्यादिभिः प्रसेवितम् ।।५४।।
दिव्यतेजोमयं दिव्यभूषामालाम्बरान्वितम् ।
पूजितं चारुसौगन्ध्यैः प्रसन्नवदनाम्बुजम् ।।५५।।
बालकृष्णं परब्रह्म दृष्ट्वा प्रणेमतुर्मुहुः ।
साश्रू स्नेहभरौ सौम्यौ प्रचक्रतुश्च दण्डवत् ।।।५६।।
सत्कृतौ हरिणा तूर्णं प्रापितौ मधुपर्ककम् ।
दत्तासनौ सुखं पृष्टौ निषेदतुः समीपतः ।।५७।।
आगमे कारणं पृष्टावूचतुः परमेश्वरम् ।
विप्रगोधरणिसाधुसाध्वीधर्मप्रपालक ।।५८।।
दीनार्त्तकृपणाऽनाथनिराश्रयसमाश्रय ।
ब्राह्मणा बहवो नष्टा विद्यार्थिब्रह्मचारिणः ।।५९।।
राक्षसैर्नीयते नित्यं यद्यद्धस्तगतो भवेत् ।
तेभ्यो रक्षां बालकृष्ण परब्रह्म विधेहि नः ।।2.75.६०।।
मृतानां जीवनं कृष्ण तव संकल्पजं भवेत् ।
यथासौख्यं यथायोग्यं भवेत् तत् त्वं तथा कुरु ।।६ १ ।।
राक्षसानां परं दण्डं विधेहि प्रतिपालक ।
त्वं धाता त्वं विधाता च त्वं दुर्धाता पुमुत्तम ।।६२।।
त्वदाश्रया वृषो यज्ञो वेदो विद्या च भूसुराः ।
आश्रमा योगयतयस्त्वदधीनप्रजीवनाः ।।६३।।
श्रुत्वैवं श्रीबालकृष्णश्चक्रं सुदर्शनं निजम् ।
सस्मार शंकरं देवीं पार्वतीं वीरभद्रकम् ।।६४।।
मृतसञ्जिवनीं विद्यां सन्धिनीं प्राणदायिनीम् ।
कल्पवल्लीं विमानं च वैहायसं सदाऽव्ययम् ।।६५।।
लक्ष्मीं सिद्धिं गणेशं च तूर्णं ते समुपस्थिताः ।
अनादिश्रीकृष्णनारायणं नेमुश्च दण्डवत् ।।६६।।
प्रभुः प्राह महादेव गणेश सिद्धि पार्वति ।
लक्ष्मि विद्ये कल्पवल्लि वीरभद्र सुदर्शन ।।६७।।
हता बालास्तु बहवः सन्तापनादिराक्षसैः ।
वर्तन्ते राक्षसाः सप्तपुट्टकाद्रौ सहस्रशः ।।६८।।
हन्तव्यास्तेऽद्य युष्माभिर्जीवनीयाश्च भूसुराः ।
तदर्थं च वयं तत्र गच्छामो हेतिभिर्युताः ।।६९।।
आरोहन्तु भवन्तोऽत्र विमाने वै मया सह ।
इत्युक्तास्ते चारुरुहुः साकं श्रीपतिना तथा ।।2.75.७०।।
कौशिकाम्बेन सहिता हिरण्यकेशिना युताः ।
विमानं ध्यातमात्रं तद् गतं तत्र विहायसा ।।७१।।
सप्तपट्टकशैलोर्ध्वे व्योम्नि भ्रमणमावहत् ।
तद् दृष्ट्वा दिव्ययानं तु राक्षसा निर्ययुर्बहिः ।।७२।।
हर्तुं विमानं दिव्यं च सशस्त्रा व्योमगामिनः ।
केचिद्वै पर्वतप्रायाः केचिद्गह्वरनासिकाः ।।७३।।
केचित्ताडसमांऽगुष्ठाः केचित्तटाककर्णकाः ।
केचिद्विद्युन्निभनेत्राः केचित्सूर्यनखास्तथा ।।७४।।
अपरे वंशवत्केशा अब्भ्रबाष्पाननाः परे ।
नैकरूपधरा नैकवेषा मायाप्रवेदिनः ।।७५।।
निर्जग्मुर्दशसाहस्राः शैलगह्वरवासिनः ।
तान् दृष्ट्वा श्रीहरिस्तूर्णं शंखं दध्मौ सुदारुणम् ।।७६।।
युद्धस्याऽऽवेदकं ध्वानं प्रादुश्चकार भीप्रदम् ।
तावत्ते परितो वृत्त्वा मुमुचुश्चाट्टहासनम् ।।७७।।
विमानं धर्तुमुद्युक्ता विनेदुः प्रबलोन्मदाः ।
तावच्छ्रीभगवानाह कल्पवल्लीं सतीं प्रियाम् ।।७८।।
समुत्पादय सैन्यानि युद्धार्थं शक्तिमन्ति वै ।
श्रुत्वा कल्पलता योद्धृन् दशसाहस्रसंख्यकान् ।।७९।।
प्राविश्चकार सहसा योद्धारो युद्धमाचरन् ।
विमानान्निर्ययुः सर्वेऽभितो राक्षससन्निधौ ।।2.75.८०।।
काल्पानां रक्षसां व्योम्नि युद्धं घोरतरं ह्यभूत् ।
परस्परं विहन्यन्ते विजयार्थं रणान्धकैः ।।८१ ।।
गदाभिरसिभिः खङ्गैस्तोमरैः परिघैस्तथा ।
स्तंभैर्वृक्षैश्च पाषाणैर्मुशलैः शूलशक्तिभिः ।।८२।।।
नाराचैः पट्टिशैर्भल्लैर्निजघ्नुस्ते परस्परम् ।
अकस्माद्वै समापन्नं युद्धं तद् रक्षसां भुवि ।।८३ ।।
शिरांसि रक्षसां तत्र पृथ्व्यां पतन्ति वृष्टिवत् ।
भिन्नान्यंगानि दैत्यानां पतन्ति शृंगवद् भुवि ।।८४।।
केचिद्धस्तविहीनाश्चाऽपरे पादविवर्जिताः ।
कटिच्छिन्नाः परे द्वेधा स्कन्धच्छिन्नास्तथाऽपरे ।।८५।।
निपेतुर्भूतले घोरा राक्षसाः प्राणतो हताः ।
विहतेभ्यस्तु देहेभ्यो जायन्ते नूतना नवाः ।।८६।।
ते समागत्य चाकाशे योधयन्ति महाबलाः ।
एवं सैन्यं रक्षसां तु वर्धमानं हि कोटिभम् ।।८७।।
व्यदृश्यत तदा व्योम्नि भयंकरमसीमकम् ।
कल्पभटाश्च तान् धृत्वा धृत्वा केशेषु चासिभिः ।।८८।।
द्वेधा कुर्वन्ति भिन्नाँश्चास्कन्धाच्चाकटि पारगैः ।
निपतन्ति शिरोहीना युद्ध्यन्ति चोत्थिताश्च ते ।।८९।।
कोटिशो व्याहताः कल्पलतोत्थैः रणमूर्धनि ।
हस्तपादादयस्तेषामुत्थायोत्थाय रोषतः ।।2.75.९०।।
ताडयन्ति कल्पभटान् व्योम्नि चोड्डीय जीववत् ।
हन्यन्ते कालयोद्धारो दिव्याश्चिद्यन्त एव न ।।९१।।
शस्त्राणि येषु चाकाशे यथा रोधं न यन्ति हि ।
अथ दैत्यास्ततश्चक्रुर्मायां पार्वतसर्जिनीम् ।।९२।।
पर्वताश्चाऽभवन् व्योम्नि निपेतुश्चोपरिस्थिताः ।
विमानोपरि वेगाद्वै विनाशार्थं तथापि च ।।९३।।
विमानं दिव्यमेवाऽऽसीद् देवा दिव्याश्च देविकाः ।
अस्पृश्या व्योमवत् सर्वे तान् धर्षितुं न शेकिरे ।।९४।।
विमानं व्योमवद् व्योम्नि यथावस्थं स्थिरायते ।
पतन्ति पर्वतास्तस्माद् अभिव्याप्याऽपि भूतले ।।९५।।
आश्चर्यं परमं प्राप्ता दृष्ट्वा दैत्याश्च राक्षसाः ।
नैतद्धर्तुं च वा हन्तुं योग्यं विमानकं नु वै ।।९६।।
नैते देवाश्च योद्धारो हन्तुं योग्या भवन्ति हि ।
इति मत्वाऽपरेशौर्यवर्जिता दुद्रुवू रणात् ।।९७।।
ते हताश्चापि नाराचैः काल्पयोद्धृप्रमुक्तकैः ।
भिन्नदेहाश्च ते भिन्नमस्तकाः प्राणवर्जिताः ।।९८।।
निधनं हि तदा प्राप्ता उत्पन्ना अपि सर्वशः ।
अन्ये मोहाच्च युद्ध्यन्ति काल्पभटैः समन्ततः ।।९९।।
कल्पलतोत्थवह्निस्तान् भस्मीचकार सर्वशः ।
कोटिकोट्यात्मकं सैन्यं रक्षसां भस्मतां गतम् ।। 2.75.१० ०।।
मूलास्तु पञ्चसाहस्राः क्षयं याता हि राक्षसाः ।
पञ्चसाहस्रमात्राश्च प्रशिष्टा युद्धकारिणः ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हिरण्यकेशर्षिगुरुकुलस्थानां षट्शतबालानां राक्षसैर्नाशे कृते श्रीहरिणा राक्षसानां नाशार्थं कृतोद्यमयुद्धादिनिरूपणनामा पञ्चसप्ततितमोऽध्यायः ।। ७५ ।।