लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०७४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ७४
[[लेखकः :|]]
अध्यायः ०७५ →

श्रीकृष्ण उवाच-
शृणु रासेश्वरि श्रीमत्कृष्णनारायणोत्सवे ।
नवमे वत्सरेऽष्टम्यां समाजोऽभूत् त्रिलोकिनाम् ।। १ ।।
मुक्तास्तथाऽवताराश्च मुक्तान्योऽधीश्वरास्तथा ।
ईश्वरिण्यः सुरा देव्यः पितरो मुनयस्तथा ।। २ ।।
आर्ष्यः काश्यपवंशाश्च काश्यप्यो मानवास्तथा ।
नागा दैत्यादयो वृक्षा वल्लयः पशुपक्षिणः ।। ३ ।।
जलजाः स्थलजाश्चापि स्थावरा जङ्गमा अपि ।
आययुः साधवः साध्व्यः कला नद्यश्च सागराः ।। ४ ।।
ऋतवो वसवश्चापि पर्वतास्तीर्थकोटयः ।
दिगीश्वराश्च राजानो दीनान्धकृपणादयः ।। ५ ।।
समाययुर्बालकृष्णं पूजयामासुरादरात् ।
आशीर्वादान् ददुश्चाप्युपदा न्यधुः पुरो हरेः ।। ६ ।।
लोमशेन कृता पूजा तथान्यैर्मुनिभिः शुभा ।
आगतानां च सत्कारं चक्रे गोपालकृष्णकः ।। ७ ।।
ददौ मिष्टामृतभोज्यभक्ष्यलेह्यानि कम्भरा ।
पानानि मधुपर्कादि जलताम्बूलकानि च ।। ८ ।।
सर्वैर्नीराजनं चावर्तितं शतैकवर्तिभिः ।
स्तुतः श्रीमत्कृष्णनारायणस्वामी परेश्वरः ।। ९ ।।
ददौ प्रसादमेतेभ्यो विश्रम्याशीर्विधाय च ।
ययुर्विमानकैर्नैजान् देशान् लोकान् दिगन्तकान् ।। 2.74.१ ०।।
अथाऽऽश्चर्यमभूत् सायं शृणु नीराजनोत्तरम् ।
गुर्जरे किमनद्यास्तु तटे चोत्तरतः शुभा ।। १ १।।
कुशाम्बानाम नगरी चातुर्वर्ण्यजनाश्रिता ।
आसीद् यत्र महर्षिश्च कौशिकाम्बो महामुनिः ।। १२।।
देवध्यानपरो यज्ञपरो योगक्रियापरः ।
आकाशगतिमाँश्चापि कुम्भकायामनिष्ठितः ।। १३।।
अनादिश्रीकृष्णनारायणध्यानपरः स तु ।
ददाति मोक्षज्ञानं च शरणागतवत्सलः ।। १४।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्त्यजजातयः ।
ये केचित्तु समायान्ति स्वाश्रमं तानबोधयत् ।। १५।।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
इति मन्त्रं सदा प्राप्तशिष्येभ्यः प्रददाति च ।। १६ ।।
एकदा त्वन्त्यजो नाम्ना त्र्यष्टकारुस्तु निर्धनः ।
स्त्रीसंयुक्तः समायातो दर्शनार्थमृषेः प्रगे ।। १७।।
अनपत्योऽभवच्चापि जलोदरप्रपीडितः ।
पत्नीतस्याऽभवत् कुष्ठरोगव्याप्ताऽतिदुःखिता ।। १८।।
कौशिकाम्बो महर्षिश्च कथां नित्यं करोति हि ।
लक्ष्मीनारायणसंहिताया यत्र सभास्थले ।। १ ९।।
तत्र गत्वाऽन्त्यजो वृक्षच्छायायां निषसाद ह ।
कथां शृणोति तत्रैव भार्यया सह भावतः ।। 2.74.२० ।।
श्रुतं तत्र तु सौराष्ट्रेऽनादिकृष्णनरायणः ।
परधामपतिः सर्वस्वामी श्रीपुरुषोत्तमः ।।२१ ।।
वर्तते बालरूपेण श्रीमद्गोपालनन्दनः ।
अश्वपट्टसरःक्षेत्रे परब्रह्म पुमुत्तमः ।।।२।।
यस्य वन्दनमात्रेण नाममन्त्रग्रहेण च ।
रोगा दैन्यं च दारिद्र्यं चानपत्यादिकं तथा ।। २३।।
सर्वं लयं प्रयात्येव सौभाग्यं च विवर्धते ।
इष्टप्राप्तिर्भवेच्छीघ्रं तच्छरणागतस्य वै ।।२४।।
इति श्रुत्वा कथान्ते च प्रयाते श्रोतृवर्गके ।
आमध्याह्नं चाश्रमान्ते वटोऽधःसंस्थितोऽभवत् ।।२५।।
चिन्तयत्येव तद्वाक्यं कथं पृच्छामि तं मुनिम् ।
अन्तर्वेदित्वशक्त्या वै ज्ञात्वा तन्मानसं मुनिः ।।।२६।।
कौशाम्बिकस्त्वन्त्यजं तम् आह्वयामास चास्तिकम् ।
ब्रह्मभक्तं सुजिज्ञासुं ज्ञात्वा स्वाश्रममागतम् ।।२७।।
तीर्थागतं ददौ तस्मै भोज्यं जलं फलादिकम् ।
स्वागतं चापि सत्कारं कृतवान् सर्वमित्रकः ।।२८।।
विश्रान्तं तं त्वन्त्यजं च पप्रच्छ कुत एव ह ।
कथं चात्रागतो भक्त वद यन्मानसे स्थितम् ।।२९।।
भक्तः स त्र्यष्टकारुश्च प्राह विनयमावहन् ।
कृत्वाऽथ दण्डवत् गृणन् महर्षेर्विजयोऽस्तु वै ।।2.74.३० ।।
क्षेमं चास्तु कुशलं च सौख्यमृषेः सदाऽस्तु वै ।
चिरं जीवतु चित्तज्ञ दयालो देवदेवते ।।।३ १।।
भवादृशः साधवोऽत्र तारकाः पापिनां गुरो ।
पापक्षालनकार्यार्थं यदहं चात्र संगतः ।।३२।।
कार्यं मे सफलं जातं तीर्थं मे परमं तथा ।
साक्षाद् देवस्वरूपस्य दर्शनात् कृतकृत्यता ।।३३।।
कथालाभेन मे जन्मसाफल्यं त्वद्य वर्तते ।
अनुग्रहेण भवतो भाग्यं मेऽद्य विवर्धते ।। ३४।।
अहं पापी चान्त्यजोऽस्मि तारितोऽहं त्वया गुरो ।
इत्युक्त्वा चाश्रमधूलिं मस्तके धृतवान् मुहुः ।।३५।।
पश्चादुवाच च मुनिं यद्याज्ञा भवतोऽस्ति चेत् ।
प्रच्छामि मानसं यत्र रमते मे कथाश्रवात् ।। ३६।।
ऋषिः प्राह सुखं पृच्छ ते जानामि मुमुक्षुताम् ।
नाऽयमाप्माऽन्त्यजः क्वापि शुद्धः सत्त्वमयः सदा ।।३७।।
शरीरं चान्त्यजं पूर्वकर्मणा जायतेऽस्य वै ।
एवं श्रुत्वाऽन्त्यजः प्राह कथं चाहं तथाऽभवम् ।। ३८।।
अनादिश्रीकृष्णनारायणः कथमवाप्यते ।
किं मया मोक्षसिद्ध्यर्थं कर्तव्यं चात्र दैविकम् ।। ३९।।
अनपत्यत्वनाशार्थं रोगनाशार्थमित्यपि ।
किं मम स्यादनुष्ठेयं वद मे कृपया प्रभो ।।2.74.४०।।
इति पृष्ठो मुनिः प्राह शृणु चान्त्यज कर्म ते ।
पुरा त्वमभवो विप्रः सप्तपुराद्रिवासकृत् ।।४१ ।।
नाम्ना देवप्रियश्चेयं पत्नी ते द्युमती तदा ।
तत्र विष्णोर्मन्दिरं च लक्ष्मीनारायणान्वितम् ।।४२।।
वर्तते तत्र पूजां त्वमकरोर्दासवत् सदा ।
पत्नी ते पाकशालां च नैवेद्यार्थं तदाऽकरोत् ।।४३।।
शैत्ये स्नानं विना त्वं च मलिनो मलिनाम्बरः ।
ममार्चनं स्पर्शनं चाऽकरोस्त्वं च तव प्रिया ।।४४।।
अगालितसलिलेन पाकादिकं तदाऽकरोत् ।
अस्नाता चाऽधौतवस्त्रा नैवेद्यं चार्पयत्तदा ।।४५।।
अगालितं जलं चापि मत्पानार्थं समार्पयत् ।
अशुद्धदेहा मां नित्यमस्पृशद्भामिनी तव ।।४६।।
राजस्वल्यादिकं चेयं तदा नातीव मन्यते ।
एवं त्वशुद्धिजं पापं भुक्तवन्तौ युवां चिरम् ।।४७।।
यमलोके वैतरण्यां ततो मार्जारतां गतौ ।
ततश्चान्त्यजदेहस्थौ स्थ इदानीं दैवसेवया ।।४८।।
पुण्यशेषेण च साधुसंगतिं कुरुथोऽनघौ ।
कालान्तरकृता सेवा पित्रोर्देवस्य वा गुरोः ।।४९।।
जन्मान्तरे तु सा श्रेयस्करी समुपतिष्ठति ।
हुतं दत्तं कृतं जप्तं सर्वं याति भवान्तरे ।।2.74.५०।।
हिंसा पीडा क्षतिर्निन्दा कापट्यं छलमुग्रता ।
वञ्चना घातना सर्वं प्रत्यायाति भवान्तरे ।।५१ ।।
पुण्यं पापं स्वभावश्च संस्कारो वासना मनः ।
इन्द्रियाणि द्वेषरागौ प्रयान्त्येव भवान्तरे ।।५२।।
अभ्यासो जपनं भक्तिः सेवा परोपकारिता ।
शीलं व्रतं प्रपत्तिश्च प्रयान्त्येव भवान्तरे ।।५३।।
ज्ञानं विज्ञानमास्तिक्यं विवेको देवपूजनम् ।
आशीर्वादस्तथा शापः प्रयान्त्येव भवान्तरे ।।५४।।
ऋणं पतिव्रता पत्नी पतिः पत्नीव्रतस्तथा ।
शत्रवश्चातिरूढाश्च प्रयान्त्येते भवान्तरे ।।५५।।
भाग्यं च सञ्चितं कर्म पश्चाद् दत्ता जलाञ्जलिः ।
श्राद्धं तपश्च सन्तोषः प्रयान्त्येव भवान्तरे ।।५६।।
युवाभ्यां तु कृता सेवा भक्तिर्मालिन्यसंभृता ।
कालान्तरे फलं तस्या लब्धं यज्जन्म मानुषम् ।।५७।।
मालिन्यदोषजं जन्म चान्त्यजं चाभवत्ततः ।
राजस्वल्यादिदोषस्य फलं कुष्ठं हि योषितः ।।५८।।
अगालिताऽम्भसः पानं यदर्पितं तु माधवे ।
जलोदरं तव जातं सदा दुःखतरं तव ।।५९।।
असंस्कृतान्ननैवेद्यं यदर्पितं त्वया हरौ ।
तत्फलं तव लोकेऽत्र दारिद्र्यं चातिवर्तते ।।2.74.६०।।
अश्रद्धायाः फलं पापं नास्तिक्यमुपजायते ।
नास्तिक्येन च ते तत्र श्राद्धादिहीनताऽभवत् ।।६ १ ।।
तेन तेऽत्राऽनपत्यत्वं वर्तते चान्त्यजोत्तम ।
कथितस्तव वृत्तान्तः पूर्वगोऽत्रापि संशृणु ।।६२।।
अन्त्यजोऽपि सतां सेवां तीर्थयात्रां करोषि यत् ।
कथायाः श्रवणं चापि भजनं च करोषि यत् ।।६३।।
तेन पुण्यप्रतापेन गुर्वाशीर्वादतस्तथा ।
रोगोऽनपत्यता चापि दारिद्र्यं दुःखिता तथा ।।६४।।
पीडाश्चान्या द्रुतं नाशमेष्यन्ति श्रीपतेः स्मृतेः ।
आश्रयं श्रीकृष्णनारायणस्य कुरुत द्रुतम् ।।६५।।
राजते कुंकुमवापीक्षेत्रे चाश्वसरस्तटे ।
कम्भराश्रीगृहे बालः कृष्णो गोपालनन्दनः ।।६६।।
सर्वावतारधर्ता च सर्वकारणकारणम् ।
सर्वेशानां नियन्ता च सर्वान्तर्यामिसंस्थितिः ।।६७।।
सर्वकर्मफलानां स प्रदाता मोक्षदायकः ।
कर्तुमकर्तुमन्यथाकर्तुं समर्थ एव सः ।।६८।।
ज्ञानशक्तिक्रियाशक्तिकार्यकारणशक्तिमान् ।
राधालक्ष्मीप्रभापारवतीमाणिक्यशक्तिपः ।।६९।।
सगुणामञ्जुलाहंसालीलाभूधरणीश्वरः ।
वृन्दातुलसीपद्मेशः शक्त्यैश्वर्यविभूतिपः ।।2.74.७०।।
नन्दनारदशंकरसनकादिसतां प्रभुः ।
धाता निधाता संहर्ता जगतां भक्तमोक्षकृत् ।।७१ ।।
सर्वकामः सर्वरसः सर्वगन्धः समस्तदृक् ।
सर्वानन्दः सर्वपाता सर्वपतिः सतीप्रियः ।।७२।।
साध्वीनाथः साधुमित्र त्यागिवर्यो गुरोर्गुरुः ।
शाश्वतं परमं तत्त्वं परब्रह्म सनातनः ।।७३।।
ब्रह्मचर्यपरा देवा न्यासिनो योगिनस्तथा ।
संयमिनो निरोधाच्च यं प्रपश्यन्ति सूरयः ।।७४।।
तं प्रभुं बालकृष्णं त्वं भज पत्न्या सहाऽन्वहम् ।
अनादिश्रीकृष्णनारायणं श्रीस्वामिनं पतिम् ।।७५।।
आद्यं वै मानवं रूपं पारमेश्वरसंज्ञितम् ।
युगे युगे जायमानं ततो बहुस्वरूपिणम् ।।७६।।
कृपारूपं चोग्ररूपं ज्ञानरूपं वृषात्मजम् ।
विद्यारूपं राजरूपं शासकं तापसं च वा ।।७७।।
व्यूहरूपं विभवं वा प्रातिमं चान्तरस्थितम् ।
स्वरूपं साधुरूपं वा भज तं पुरुषोत्तमम् ।।७८।।
अंशरूपं कलारूपमावेशात्मकमित्यपि ।
विभूतिं वा पूर्णरूपं परिपूर्णं परेश्वरम् ।।७९।।
अवतारं चैश्वरं वा विष्णुं महाप्रविष्णुकम् ।
आक्षरं वा परब्रह्म परिपूर्णात्तमोत्तमम् ।।2.74.८०।।
एवं बहुविधं चैनमनादिश्रीनरायणम् ।
भज पत्न्या सहितस्त्वं ततो निर्वाणमेष्यसि ।।८१ ।।
एह्यागच्छ गृहाणेदं जलं तच्चरणामृतम् ।
पिब धारय शिरसि देहे प्रोक्षणमाचर ।।।८२।।
पापानि ते विनश्येयुः सस्त्रीकस्यात्र सत्वरम् ।
एवमुक्त्वा ददौ वारि पूजाप्रसादजं शुभम् ।।८३।।
त्र्यष्टकारुः पपौ तस्य भार्या पपौ च कुष्ठिनी ।
जलपानादृषेरात्मबलात् कृष्णकृपालवात् ।।८४।।
जलोदरं च दारिद्र्यं कुष्ठिता चानपत्यता ।
चत्वारस्ते महारोगा निष्क्रान्ता देहतोऽभवन् ।।८५।।
पार्श्वे स्थित्वा रुरुदुस्ते नेमुस्तं कौशिकाम्बकम् ।
क्व यास्यामो वयं विप्र जीवनं देहि चाऽऽर्थयन् ।।८६ ।।
ऋषिर्जलोदरं पृथ्व्यै कदल्यै श्रीफलाय च ।
ददौ विभागतश्चाऽप्यपेयपानकृतेऽपि च ।।८७।।
सतृष्णकाय लुब्धाय दानस्नानवियोगिने ।
ददौ व्यसनिने चापि दारिद्र्यं लम्पटाय च ।।८८।।
वियोनिसंगलुब्धाय वर्णसांकर्यकारिणे ।
धर्मविद्वेषिणे स्तैन्यकारिणे कुष्ठितां ददौ ।।८९।।
पराऽपत्यादिहन्तृभ्यो गर्भपातादिकारिणे ।
शापितेभ्योऽनपत्यत्वं ददौ श्राद्धविलोपिने ।।2.74.९०।।
इत्युक्तास्ते चतुर्दोषा ययुस्तादृशपात्रके ।
अन्त्यजो निर्मलो जातः सस्त्रीको रोगवर्जितः ।।९ १ ।।
ऋषिस्तस्मै ददौ मन्त्रं पावनं पारमेश्वरम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।९२।।
जपं कुर्वन् ततस्तस्थावाश्रमे सेवको यथा ।
यथायोग्यं मार्जनादि चकारोद्यानसेवनम् ।।९३।।
कथां श्रुत्वा बभूवाऽसौ प्रक्षीणक्लेशवासनः ।
चान्द्रे तु कार्तिके मासे तदा कृष्णाष्टमीतिथौ ।।९४।।
ऋषिर्जन्मोत्सवं चक्रे कृष्णनारायणस्य वै ।
तत्र दिव्यं विमानं तु शतसूर्यसमप्रभम् ।।९५।।
समायातं यत्र कृष्णनारायणो विराजते ।
पार्षदास्तत्र दिव्याश्च राधाद्या योषितस्तथा ।।९६।।
विराजन्ते हरिस्तस्मात् सहसा समवातरत् ।
ऋषिकृतां महापूजां जग्राह भगवान् स्वयम् ।। ९७।।
ददौ प्रासादिकं तस्मै त्र्यष्टकारुं च तत्स्त्रियम् ।
ऋषिं धृत्वा विमाने च कुंकुमवापिकां ययो ।।९८।।
हरिश्चाऽदृश्यतां प्राप्तो विमानं व्योममण्डले ।
कुंकुमवापिकाक्षेत्रवासिभिः समलोकितम् ।।९९।।
अवाऽतरद् विमानं तच्चाश्वपट्टसरस्तटे ।
सायं स्नानं चावतीर्य त्र्यष्टकारुस्तदाऽकरोत् ।। 2.74.१० ०।।
तत्पत्नी चापि वै स्नानं सरस्येव तदाऽकरोत् ।
तयोर्देहौ तु पतितौ, दिव्यदेहौ चतुर्भुजौ ।। १०१ ।।
बभूवतुस्तौ तत्कालं दिव्यालंकारभूषणौ ।
दिव्यदृष्टी दिव्यगती दिव्यविज्ञानसंभृतौ ।। १ ०२।।
तूर्णं तौ श्रीबालकृष्णं मातरं पितरं तथा ।
लोमशं च मुनिं दृष्ट्वा कृत्वा पूजामलौकिकीम् ।। १०३ ।।
ययतुस्तद्विमानेन ब्रह्मलोकं परं पदम् ।
ऋषिः कृष्णेच्छया तस्थौ कार्तिकावधिमत्र च ।। १ ०४।।
पश्चात् कृष्णाज्ञया यातः कुशाम्बां किमसन्निधौ ।
भक्तानुपदिशन् लक्षवर्षाणि वासमाचरत् ।। १ ०५।।
प्रतिसम्वत्सरं चक्रे हरेर्जन्मोत्सवम् ऋषिः ।
किमनद्यास्तटे गत्वा तत्तीर्थे श्रीनरायणः ।। १०६ ।।
ऋषिकृतां समर्हां च गृहीत्वा तु सरिज्जले ।
स्नात्वा चायाति दिव्येन विमानेन क्षणान्तरे ।। १ ०७।।
एवं तीर्थं कौशिकाम्बं किमनद्यां विराजते ।
राधिके! श्रीकृष्णनारायणावतरणोद्भवम् ।। १ ०८।।
ऋषिस्ततो ययौ धाम परमं पारमेश्वरम् ।
अक्षरात्परतश्चापि परं मुक्तजनाश्रितम् ।। १०९।।
इत्येवं कथितो राधे चमत्कारो हरेस्तव ।
पठनाच्छ्रवणाच्चास्य परं मोक्षमवाप्नुयात् ।। 2.74.११० ।।
अपत्यधनदारादेः फलं मोक्षो महोत्तमम् ।
तल्लब्धं तेन भक्तेन किमपत्यादिभिः खलु ।। ११ १।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने किमनद्यास्तटे कुशाम्बापत्तनस्थकौशिकाम्बर्षियोगेनाऽन्त्यजस्य रोगिणस्त्र्यष्टकारो सस्त्रीकस्य प्रभोर्भक्त्या मुक्तिपदलाभ इत्यादिनिरूपणनामाचतुःसप्ततितमोऽध्यायः ।। ७४ ।।