लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०७६
← अध्यायः ०७५ | लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः) अध्यायः ७६ [[लेखकः :|]] |
अध्यायः ०७७ → |
श्रीकृष्ण उवाच-
आकर्णय ततो राधे! त्ववशिष्टानि यान्यपि ।
पञ्चसहस्ररक्षांसि महाबलानि वेगतः ।। १ ।।
व्योमयुद्धं प्रचक्रुश्च तरुपाषाणपर्वतैः ।
प्रजग्मुः राक्षसास्ते च विमानं परितस्तदा ।। २ ।।
शंभुं गणपतिं सुदर्शनं च वीरभद्रकम् ।
विमाने सम्प्रविश्यैव प्रजघ्नुस्तोमरादिभिः ।। ३ ।।
ततो वीरो गणेशश्च सुदर्शनं शिवस्तथा ।
विमानान्तर्गतान् दैत्यान् धृत्वा धृत्वा त्रिशूलकैः ।। ४ ।।
निजघ्नुः प्राणतः सर्वान् वीरभद्रो मुखे च तान् ।
निक्षिप्य चर्वयांचक्रे जीवतो रक्षसां गणान् ।। ५ ।।
मृतेभ्यो ये च जायन्ते मृषारूपाश्च तान् हरः ।
महामायोत्थवडवानलैर्भस्मीचकार ह ।। ६ ।
चतुःसहस्रदैत्यास्ते नष्टा वै भस्मतां गताः ।
अथ सहस्रसंख्यास्ते दुद्रुवुर्व्योममार्गतः ।। ७ ।
विविशुः सप्तपुटके पर्वते गह्वरादिषु ।
कल्पलतासमुत्पन्ना योद्धारस्तदनुक्रमाः ।। ८ ।
विविशुर्गह्वरादौ च जगृहुस्तान् समन्ततः ।
सुदर्शनं महाचक्रं ककर्त कण्ठदेशतः ।। ९ ।
अग्निस्तान् परितो वीक्ष्य भस्मीचकार सर्वथा ।
एवं हता महादैत्याः सप्तपट्टाद्रिवासिनः ।। 2.76.१० ।
ततो भीता दैत्यपत्न्यः सापत्याः शरणं हरेः ।
आययुर्वै रुदन्त्यस्ताः प्राणरक्षार्थमित्यथ ।। ११ ।
दयालुः श्रीहरिस्तत्र चक्रं सुदर्शनं स्वकम् ।
वारयामास ताभ्यश्च ददौ जीवप्रदानकम् ।। १ २।
मृतानां विप्रबालानां खादितानां तु राक्षसैः ।
अस्थीनि दर्शयामासुर्गर्तक्षिप्तानि तास्तदा ।। १ ३।
षट्शतानां द्विजानां च तथा सहस्रयोषिताम् ।
दशसाहस्रसंख्याकपुरुषाणां च पक्षिणाम् ।। १४।।
पशूनां बालकानां च नाऽस्थिसंख्या प्रविद्यते ।
क्रोशसंस्थे महागर्ते तानि वीक्ष्य समन्ततः ।। १५।।
लक्ष्मीमाज्ञापयामास तत्रस्थां कल्पवल्लिकाम् ।
सञ्जिवन्यादिविद्याश्च जीवयितुं तदस्थितः ।। १६।।
ततो लक्ष्मीः कृष्णनारायणपादजलं शुभम् ।
जग्राह स्वघटे स्वर्णनिर्मिते त्वक्षये स्वयम् ।। १७।।
हंसस्थाऽथ विमानात् सा साऽमृतकलशा ययौ ।
गर्तं सर्वं भ्रमित्वा तु व्योम्नाऽस्थीनि पुनः पुनः ।। १८।।
चक्रे संप्रोक्षणं तस्य जलस्यामृतबिन्दुभिः ।
अस्थीन्याप्यायितान्येव सप्राणानि तदाऽभवन् ।। १९।।
कल्पवल्ली ततो याता रसान् भृत्वा घटेऽक्षये ।
चक्रे संप्रोक्षणं तस्य रसस्याऽमृतबिन्दुभिः ।।2.76.२०।।
तेन देहाः समुत्पन्ना मांसमज्जात्वगन्विताः ।
बालकाश्च नरा नार्यः पशवः पक्षिणस्तथा ।।२ १।।
ये ये मृता भक्षिताश्च लक्षाधिका हि देहिनः ।
तान् सजीवान् ततः कर्तुं विद्या संजीवनी स्वयम् ।।२२।।
आज्ञप्ता वृष्टिरूपा सा पपात सर्वदेहिषु ।
वृष्टिकणा जीवरूपाश्चेतना विविशुस्ततः ।।२३।।
उत्थिता घोरनिद्रातः सर्वे गर्ताऽस्थिसंभवाः ।
यथा देहस्वभावाश्च यथावत्सरशालिनः ।।२४।।
यथायोनिस्वभावाश्च नरा नार्योऽन्ययोनयः ।
सञ्जाता जीववन्तस्ते तदाश्चर्यमभून्महत् ।।२५।।
पशवः पक्षिणः सर्वे ययुर्वनान्तरं प्रति ।
अनादिश्रीकृष्णनारायणं नत्वा मुहुर्मुहुः ।।२६।।
मानवाश्च नरा नार्यो बाला कन्याश्च ते ततः ।
गर्तान्निम्नोच्चदेशेन निर्ययुर्बहिराययुः ।। २७।।
श्रीहरिस्तत्र वै देशे विमानं चावतारयत् ।
ददौ भोज्यं ततस्तेभ्यो जलं सुतृप्तिकारकम् ।।२८।।
वस्त्राण्यपि ददौ तेभ्योऽपेक्ष्यवस्तूनि यानि तु ।
प्रददौ स्मरणं तेभ्यो यज्जन्मग्रामबान्धवाः ।। २९।।
येषां यत्र भवन्त्येव तेषां प्रस्फुरितं तु तत् ।
श्रीभगवानाह कौशाम्बिकाय योगिने ।।2.76.३० ।।
एभ्यः प्रदेहि मे मन्त्रं परमं वैष्णवम् ऋषे ।
कौशाम्बिको ददौ मन्त्रं श्रीकृष्णस्य तदाज्ञया ।।३ १ ।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
हिरण्यकेशो मन्त्रं तं जग्राह ऋषितस्तदा ।। ३२।।
अथ श्रीभगवान् सर्वान् समगृह्य विमानके ।
विशाले शंकरं प्राहु शंभो ह्येतान् निजं स्थलम् ।।३३ ।।
अनेनैव विमानेन प्रापय क्षणमात्रतः ।
शभुर्ध्यानपरो भूत्वा दृष्ट्वा तेषां तु भूमिकाः ।।३४।।
लक्षगणान् समुत्पाद्य तत्तद्व्योमविचारिणः ।
सर्वान् वै क्षणमात्रेण प्रापयामास तद्गृहान् ।। ३५।।
कुटुम्बिनश्च ते जाता हृष्टाः स्वजनलाभतः ।
चमत्कारं परं श्रुत्वा जातास्ते वैष्णवास्ततः ।। ३६।।
हिरण्यकेशशिष्याश्च प्रापिता वै तदाश्रमम् ।
आश्रमः सुखितो जातो वैष्णवो भगवन्मयः ।। ३७।।।
अथ राक्षसकन्याश्च पञ्चसाहस्रकन्यकाः ।
बालकृष्णं विलोक्य वव्रिरे तद्रपमोहिताः ।।३८।।
तन्मातृभिः प्रदत्ता सञ्जग्राह भगवाँस्तु ताः ।
रक्षसां बालकान् दारान् मन्त्रमश्रावयन्मुनिः ।।३९।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
ततश्चासुरदाराणामाज्ञां चक्रे स्वयं प्रभुः ।।2.76.४० ।।
अद्यप्रभृति कस्यापि हिंसनं कार्यमेव न ।
कृषिं कृत्वाऽत्र वै क्षेत्रे जीवन्तु निवसन्तु च ।।४१ ।।
दाताऽहं भवतीनां वै जलान्नाम्बरसम्पदाम् ।
इत्युक्त्वा चाऽभयं दत्वा नीत्वा कन्यास्तदर्पिताः ।।।४२।।
स्नात्वा तत्र तपत्यां च कृत्वा तीर्थं तदुत्तमम् ।
ययौ तीर्थनिमित्तेन श्रीहरिर्दक्षिणां दिशम् ।।४३ ।।
पूर्णायां त्वकरोत् स्नानं चाम्बिकायां ततः परम् ।
सह्याद्रौ तु विमानेन भ्रमित्वा वै ततः परम् ।।४४।।
महाबलेश्वरं गत्वा भीमायां स्नानमाचरत् ।
कृष्णायां तु ततः सस्नौ तुंगभद्राजले ततः ।।४५।।
पश्चिमघट्टके वार्धौ स्नात्वा श्रीपर्वतं ययौ ।
नीलगिरिं विलोक्याऽथ एलाद्रिं वै ततो ययौ ।।४६।।
अखातेऽपि ततः स्नात्वा सिंहलं द्वीपकं ययौ ।
तत्र पुष्पनदीं स्पृष्ट्वा कावेर्यां स्नानमाचरत् ।।४७।।
कटुनद्यां ततः स्नात्वा पन्नारीस्नानमाचरत् ।
द्रोणाचलं ततो गत्वा कृष्णायां स्नानमाचरत् ।।४८।।
कोलारसरसि स्नात्वा ततो गोदावरीं ययौ ।
मञ्जिरायां ततः स्नात्वा ततश्चन्द्रावतीं ययौ ।।४९।।
इन्द्रावत्यां ततः स्नात्वा ततश्चिलसरो ययौ ।
महानद्यां ततः स्नात्वा हुहूगल्यां ततो ययौ ।।2.76.५०।।
गंगानद्यां ततः स्नात्वा ब्रह्मपुत्रां ततो ययौ ।
स्नात्वा कंचनगंगायां कुश्यां स्नात्वा ततः परम् ।।५१।।
ग्ण्डक्यां वै ततः स्नात्वा गोगरास्नानमाचरत् ।
नन्दायां तु ततः स्नात्वा यमुनायां ततः परम् ।।५२।।
चम्बलायां ततः स्नात्वा स्नात्वा सरसि शंभरे ।
शतलाजाजले स्नात्वा राव्यां स्नात्वा ततः परम् ।।५३।।
चीनापायां ततः स्नात्वा झेलमास्नानमाचरत् ।
काबिलायां ततः स्नात्वा सिन्धुस्नानं समाचरत् ।।५४।।
लुणीस्नानं ततः कृत्वा गत्वा नारायणं सरः ।
अखातं समतीप्यैव गोमतीस्नानमाचरत् ।।५५।।
भद्रावत्यां ततः स्नात्वा चाश्वपट्टसरो ययौ ।
कुंकुमवापिकाक्षेत्रे लोमशस्याऽऽश्रमे हरिः ।।५६।।
विमानं स्थापयामास गुरुं नत्वा ततः परम् ।
गृहं गत्वा स्वपितरौ प्रणम्याऽऽभाष्य यत्कृतम् ।।५७।।
निवेदयामास कन्याः पञ्चसाहस्रसंख्यकाः ।
भोजयामास ताश्चोपकरणानि ह्यदापयत् ।।५८।।
लोमशस्याऽऽश्रमे तास्तु स्थापयामास माधवः ।
शंकरश्च गणेशश्च वीरभद्रो निजालये ।।५९।।
ययुः सुदर्शनं चापि विमानं च तिरोऽभवत् ।
लक्ष्म्याद्याः श्रीहरेः क्षेत्रे तीर्थे नैजे च मन्दिरे ।।2.76.६० ।।
ययुः प्रसादमाभुक्त्वा बालकृष्णो निजालये ।
विशश्राम सुखं राधे सर्वभक्तैः प्रसेवितः ।।६१ ।।
चान्द्रे माघे कृष्णपक्षे चतुर्थ्यां परमेश्वरः ।
रक्षयित्वा जीवयित्वा कृत्वा तीर्थानि भूतले ।।६२।।
आजगाम निजे क्षेत्रे सर्वप्राणप्रदः प्रभुः ।
पठनाच्छ्रवणाच्चास्य भुक्तिर्मुक्तिर्भवेद् ध्रुवम् ।।६३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सन्तापनदैत्यमारितानां हिरण्यकेशशिष्याणां सजीवीकरणं, दैत्यानां नाशः, दक्षिणनदीनां तीर्थीकरणं चेत्यादिनिरूपणनामा षट्सप्ततितमोऽध्यायः ।। ७६ ।।