लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०२८
← अध्यायः ०२७ | लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः) अध्यायः २८ [[लेखकः :|]] |
अध्यायः ०२९ → |
श्रीकृष्ण उवाच-
एवं वै राधिके दैत्यकन्याभ्यो लोमशो मुनिः ।
उपादिदेश च वृषान् व्रतानि विविधानि च ।। १ !।
ताश्च चक्रुर्वृषाचारान् व्रताचरणमित्यपि ।
अशून्यशयनं चापि चातुर्मास्यव्रतानि च ।। २ ।।
वत्सरीयं शिवकालाष्टमीव्रतं च पुण्यकम् ।
चक्रुः श्रीगुरुसेवां च भेजुः कृष्णनरायणम् ।। ३ ।।
भूत्वा पावनदेहाश्च पावनात्मान इत्यपि ।
विमानैः पार्षदवरैर्वाहितैर्धाम चाक्षरम् ।। ४ ।।
गत्वा दृष्ट्वा दिव्यरूपाश्चाययुर्लोमशाश्रमम् ।
प्रपूज्य कन्यकाः सर्वा लोमशं च गुरुं हरेः ।। ५ ।।
ज्ञात्वा पूर्णं महिमानं बालकृष्णस्य शार्ङ्गिणः ।
परं कान्तं हरिकृष्णं भेजुस्तं पतिमीश्वरम् ।। ६ ।।
एवं तु वत्सरे याते तृतीये सुमहोत्सवे ।
चतुर्थवर्षारम्भे च कृतजन्ममहोत्सवे ।। ७ ।।
पिता सुभोजयामास कोटिशो देहिनस्तदा ।
दानानि दापयामास रत्नसौवर्णजानि च ।। ८ ।।
तत्राऽभूदेकमाश्चर्यं राधे शृणु वदामि ते ।
पातालान्नागदेहश्च तथा मानवमस्तकः ।। ९ ।।
कृतहस्ताञ्जलिर्नागस्तालमानोऽतिदुःखितः ।
स्वस्तिकाख्यो रुदन् कृष्णनारायणसमीपतः ।। 2.28.१ ०।।
त्राहि त्राहीत्यर्थयंश्चाययौ कुटुम्बशून्यकः ।
अनादिश्रीकृष्णनारायणश्चास्ते गजासने ।। ११ ।।
तत्रागत्य च पतितः पादयोः श्रीहरेर्मुहुः ।
उवाच भगवँस्त्राहि मां नागं शरणागतम् ।। १२।।
त्वां विना रक्षको मे न विद्यते भुवनत्रये ।
श्रीहरिः प्राह किं दुःखं त्वागतं ते निरूपय ।। १३ ।।
नागः सर्वेषु शृण्वत्सूत्सवे समागतेषु च ।
वर्णयामास दुःखं स्वं पाताले युद्धजं यथा ।। १४।।
पाताले भगवन्नागा वसन्ति बहुजातयः ।
शेषस्य जातिमन्तो ये ते राजानो भवन्ति च ।। १५।।
वासुकेर्जातिमन्तश्च मन्त्रिणस्ते भवन्ति च ।
तक्षकस्य च जातीया राजमान्या हि नागराः ।। १६।।
अहं स्वस्तिकजातीयो ब्राह्मणोऽस्मि गुरुक्रियः ।
धृतराष्ट्राः क्षत्रियास्ते कर्कोटका भटक्रियाः ।। १७।।
कुहकस्य तु जातीया व्यापारिणो भवन्ति च ।
सुषेणस्य तु जातीयाः शाकादिकृषिकारिणः ।। १८।।
हारिता वनवासाश्चारण्यरक्षाकरा हि ते ।
कार्बुरकाः सदा दास्यं कुर्वन्ति राजमण्डले ।। १ ९।।
कृष्णजातीयनागाश्च सैन्याधिपत्यभोगिनः ।
पुण्डीकास्तथा नागा भवन्ति वाटिकाकराः ।।2.28.२०।।
अम्बरीषाः सूतकार्यकरा वाहनरक्षिणः ।
गोधूमीयाश्च ते नागाश्चारणा वंशबोधकाः ।।२१।।
भद्रजातीयनागाश्च पण्डिता ब्राह्मणा इमे ।
वाचयन्ति कथाकाण्डान् बालानध्यापयन्ति च ।।२२।।
कुमुदा भोगिनो दासा भवन्ति पारवश्यगाः ।
पिशंगाः सूदकर्माणो भृत्या भवन्ति सर्वथा ।।२३।।
केशीया नाट्यकुशलाः शैलूषा नृत्यकारिणः ।
आमृतिका गीतिकारा डांडिका वृद्धसम्मताः ।।२४।।
भूफालास्तु समुद्यानकराः शुकाः कथार्थिनः ।
कपर्दजातीयकास्ते ग्रामशुद्धिकराः सदाः ।।२५।।
एवमन्ये बहुसंज्ञा भवन्ति तत्र वासिनः ।
तेषां राजा वर्ततेऽद्य नाम्ना कारण्डवो महान् ।।२६।।
मन्त्री तस्य सुमध्वाख्यो विद्यते सर्पमण्डले ।
मान्यः पूज्यो बुद्धिमांश्च महाबलपराक्रमः ।। २ ७।।
अन्यायी स्वार्थमात्रेऽपि परार्थकृद्धि वर्तते ।
प्रजानां हितकर्ताऽस्ति शरणागतमानकृत् ।।२८ ।।
अतः प्रजास्तु त सम्यङ्मानयन्ति यथा नृपम् ।
राजा महोत्सवं तत्र हाटकेश्वरशूलिनः ।।२९।।
करोति श्रावणे मासि बिल्वादिभिः प्रपूजनम् ।
दानं च दक्षिणायुक्तं ददाति द्विजतृप्तये ।। 2.28.३ ०।।
अस्मिन् वर्षे सुमधुना मन्त्रिणा तन्नृपस्य वै ।
आहूता ब्राह्मणास्तत्र शतरुद्रीयजापने ।। ३१ ।।
सहस्रशोऽभवँस्तत्र जापकाः पाठकास्तथा ।
पूजका होमकर्तारस्तत्राऽहं जापकोऽभवम् ।।३२।।
मम पुत्राः शतं सन्ति कन्यका विंशतिस्तथा ।
ते च तत्र पाठकाश्चाऽभवन् मन्त्रिकृपावशात् ।।३३ ।।
कन्यका ब्राह्मणपुत्र्यश्चायान्ति यान्ति नित्यशः ।
हाटकेशस्य पूजार्थं दर्शनार्थं वियन्ति च ।। ३४।।
मम विंशतिकन्याश्च सुरूपाः प्राप्तयौवनाः ।
एकगर्भप्रसूताश्च सर्वा उर्वशीरूपिताः ।। ३५।।
विलोकिताः सुमधुना सर्वावयवशोभनाः ।
रूपे चम्पकवर्णाभाः श्रीतुल्यादीर्घलोचनाः ।।३६।।
पिंगनेत्राश्च शिरसः परितः कान्तिमण्डलाः ।
पारदृश्याऽच्छदेहाश्च तेजोमणिनखान्विताः ।। ३७।।
कामरूपधराः सर्वास्तनुमध्याः सुकेशिकाः ।
वह्निवस्त्रधरा मिष्टकण्ठा माधुर्यसंभृताः ।।३८।।
सुगन्धपूर्णदेहाश्च पवित्रा द्विजकन्यकाः ।
पद्मिनीलक्षणाः सर्वा विलोक्य सुमधुश्च माम् ।। ३९।।
प्रोवाचाऽऽहूय निलयं देहि विंशतिकन्यकाः ।
मम योग्या राजयोग्या भवन्त्येताः प्रदेहि मे ।।2.28.४०।।
मया विचार्य तु तदा प्रोक्तो मन्त्रिवरः प्रभो ।
कन्यका मे यदीच्छेयुर्दास्याम्येव न संशयः ।।४१ ।।
तासां मानसमिष्टं यत् कर्तव्यं तन्मया सदा ।
ततः पृष्टा मया सर्वास्तन्मात्रा चापि बोधिताः ।।४२।।
वरयोग्या भवत्यो वै वदन्त्विच्छन्ति कं वरम् ।
ताः प्राहुर्वै श्रुतं तात मातर्मानवभूतले ।।४३ ।।
अनादिश्रीकृष्णनारायणः सर्वपतिः प्रभुः ।
वर्तते श्रीकम्भराया गृहे गोपालबालकः ।।४४।।
रूपरूपानुवयवश्चातिकान्तमनोहरः ।
श्रुतं चास्माभिरत्रैव सखीभ्य सर्वथा हि सः ।।४५।।
वरयोग्योऽसि भगवान् श्रीपतिः पुरुषोत्तमः ।
अन्या अपि च नागानां कन्यकास्तं परेश्वरम् ।।४६।।
विवाहेन पतिं कर्तुं समिच्छन्ति सहस्रशः ।
ततो वयं शेषपतिं श्रीपतिं श्रीधरं विना ।।४७।।
नान्यं वरितुमिच्छामो यदि नः श्रेय इच्छसि ।
इत्युक्तः कन्यकाभिश्च स्वस्तिकोऽहं च तत्पिता ।। ४८।।।
मन्त्रिणे चोक्तवान् कन्याभिप्रायं मन्त्रिराट् ततः ।
क्रुद्धाऽऽह मां पितुः कन्यास्त्वधीना न स्वतन्त्रिकाः ।।४९।।
त्वं देहि मे वदाम्येवं सर्वसौख्यमवाप्स्यसे ।
नो चेद् दुःखं भवेत्तेऽत्र सर्वस्वं ते हृतं भवेत् ।।2.28.५० ।।
यद्वा राक्षसविधिना हरिष्ये तव कन्यकाः ।
ततो नम्रतया कन्याश्चानुसरन्तु मां तव ।।५१ ।।
वद ता यदि नेच्छन्ति श्वो हरिष्ये शुभे दिने ।
इत्युक्तवानहं पश्चात् पुनस्ता मम कन्यकाः ।। ५२।।
अकथयं च तत्सर्व तथापि ता न मेनिरे ।
ततोऽहं गतवान् भूपं प्रत्यनिवेदयं च तत् ।।५३ ।।
भूपोऽपि तत्पक्षपातीतल्लाभं प्रजगाद मे ।
देहि त्वं कन्यकास्तस्मै मन्त्रिणे प्रसुखी भव ।।५४।।
मम श्रुतं न वै राज्ञा मेऽनुमोदनमाहितम् ।
मया श्रुत्वा पुनः सर्वं कन्यकाभ्यो निवेदितम् ।।५५।।
ताः प्राहुः सप्रतिज्ञं वै वरयामो हरिं प्रभुम् ।
अनादिश्रीकृष्णनारायणं बालस्वरूपिणम् ।।५६।।
अन्यथा मरणं तात चाश्रयामस्तथैव तत् ।
मया निवेदितं तत्तु ज्ञातिवर्गाय सर्वथा ।।५७।।
ज्ञातिजनैश्चापि तथा देहीति चानुमोदितम् ।
न राज्ञा तज्जनेनापि विरोधः श्रेयसां पदम् ।।५८।।
तस्माद् देया मन्त्रिणे वै कन्यका विघ्ननाशनम् ।
अथाऽहं प्रावदं सर्वं मम पत्न्यै तदा तु सा ।।५ ९ ।।
प्रोवाच मां न वै देया मन्त्रिणे कुष्ठिने त्वया ।
यद् भवेत् तद् भवत्वेव न देयाः कुष्ठिने पते ।।2.28.६ ० ।।
मयोक्तं स कथं कुष्ठी ज्ञायते तु त्वया प्रिये ।
प्रिया प्रोवाच मां दासी तस्य नाम्ना करण्टिका ।।६ १ ।।
सुमधोः सेविका भृत्या तस्य सेवां करोति या ।
पादसंवाहनं स्नानं तैलमर्दनकादिकम् ।।६२।।
करोति नित्यशो मन्त्रिवर्यं पश्यति सा रहः ।
तच्छरीरे गुप्तभागे वर्तन्ते रक्तकुष्ठकाः ।।६३ ।।
रोगवार्ताप्रलापे सा मन्त्रिकुष्ठानवर्णयत् ।
ततो न कन्यका देयास्तस्मै वै कुष्ठिमन्त्रिणे ।।६४।।
इत्युक्त्वा विररामेयं भाविकष्टशुचं गता ।
स्वस्तिकोऽहं शोकमाप्तो वैपरीत्यं भविष्यति ।।६५।।
सहितव्यं च तत्कष्टं दैवाच्चेत् समुपागतम् ।
दैवं तु भगवान् कृष्णनारायणः परेश्वरः ।।६६।।
यस्माच्चायं हाटकेशः समुत्पन्नः स चाऽवतु ।
एवं विचार्य चाऽहं वै दक्षिणां प्रतिगृह्य च ।।६७।।
गृहं गतोऽपि निद्रां न लेभे न स्त्रीर्न कन्यकाः ।
प्रातर्जातं तदा मन्त्रिभटास्तत्र समागताः ।।६८।।
विंशतिकन्यकाः सर्वा मन्त्रिणा वाञ्छिता यतः ।
आरोहन्तु रथान् दिव्यान् उद्वाहार्थं हि मन्त्रिणा ।।६९।।
इत्येवं राजवचसा मन्त्रिवाक्येन वै वयम् ।
राजभटाः कथयामोऽन्यथा नेष्याम आग्रहात् ।।2.28.७०।।
कन्याः पिता च माता च पुत्रा दीनजना यतः ।
रुरुदुश्च पुनर्योद्धुं कृतादरास्तदाऽभवन् ।।७ १ ।।
प्रहरं तत्र युद्धेन भटैः सर्वैर्धृता वयम् ।
पाशिताः कन्यकाः पुत्रा नीत्वा काराग्रहे धृताः ।।७२।।
मोचितोऽहं मम पत्न्या सहितो भाद्रमासि वै ।
कन्या नेच्छन्ति वरितुं काराग्रहे वसन्ति ताः ।।७३।।
त्राहि वै भगवन् पत्न्या प्रेषितोऽत्र समागतः ।
त्वदर्थं कृतजीवास्ताः समुद्धारय केशव ।।७४।।
इत्युक्तो बालकृष्णस्तं चाभयं प्रददौ हसन् ।
प्रसस्मार च गरुडं भयानकसुदर्शनम् ।।७५।।
तावुभौ द्राक् समायातौ कोटिसूर्यसमक्रमौ ।
आज्ञापितौ ययतुश्च नीत्वा स्वस्तिकमेव तम् ।।७६।।
पातालं यत्र ते सर्पाः कृतराज्या वसन्ति च ।
गरुडः प्राह राजानं न्यायं करोतु सर्पराट् ।।७७।।
प्रसह्य कन्याहरणं मन्त्रिणा धर्मविप्लवः ।
कृतो राजन् विप्रकन्याः प्रयच्छ स्वस्तिकाय वै ।।७८।।
साम्ना सर्वं प्रकर्तव्यं वैरं दुरन्तमेव यत् ।
अनादिश्रीकृष्णनारायणेन भूतलादिह ।।७९।।
प्रेषितश्चागतोऽस्म्यत्र गरुडः सर्पभक्षकः ।
नारायणेन मे दत्तं प्रायुधं वै सुदर्शनम् ।।2.28.८०।।
यदि नो मुञ्चसि कन्या युद्धं कुरु मया सह ।
इत्येवं बोधितो राजा कारण्डवो रुषा ज्वलन् ।।८ १ ।।
मन्त्रिणं च समाहूय युद्धार्थं तत्परोऽभवत् ।
शेषा वासुकयश्चापि तक्षकाः कुहकास्तथा ।।८२।।
धृतराष्ट्राः सुषेणाश्च हारिताः कर्बुरादिकः ।
कृष्णाश्च पुण्डरीकाश्चाऽम्बरीषा भद्रकास्तथा ।।८३ ।।
कुमुदाश्च पिशंगाश्च केशीयाश्चामृतास्तथा ।
शैलूषाश्च कपर्दाश्च भूफाला डाण्डिकाः शुकाः ।।८४।।
एतेऽन्ये नृपतेर्वाक्यात् सैन्यान्यादाय संगरम् ।
कर्तुं समाययुः सर्वे मृधे शस्त्रास्त्रहेतिभिः ।।८५।।
ज्ञात्वा तु पक्षिणं स्वल्पं चक्रं स्वल्पबलं तदा ।
किन्तु श्रीगरुडस्तत्र सस्मार परमेश्वरम् ।।८६।।
रूपं दधार विपुलं दिगन्तव्याप्तिमत्तदा ।
पक्षाभ्यां सर्वपातालं चच्छाद पिच्छकैरथ ।।८७।।
देहेनापूरयद् व्योम पद्भ्यां पातालकं तलम् ।
चञ्च्वा नखाभ्यां पक्षैश्च संहारमकरोत्तदा ।।८८ ।।
युद्धारम्भं प्रकर्तॄणां नागानां हेतिघातिनाम् ।
चञ्च्वा राजा धृतस्तूर्णं भक्षितो मन्त्रिणा सह ।।८९।।
सैन्यानि घातितान्यस्य तीक्ष्णतुण्डेन पक्षिणा ।
तीक्ष्णनखैस्तथा पक्षैर्घातितान्यपि लक्षशः ।।2.28.९०।।
अन्ये प्रदुद्रुवुः पारे क्षीरोदस्य तटस्य वै ।
शेषं निवेदयामासुरनन्तसंज्ञकं मृधम् ।।९१।।
शेषस्तत्र समायातो दृष्टवान् गरुडं तथा ।
सुदर्शनं विलोक्येव नेमे परमभावतः ।।९२।।
सर्पान्निवारयामास योद्धॄन् तथापि ते यदा ।
न न्यवर्तन्त वै चक्रं मुमोच गरुडो मृधे ।।९३।।
प्रजज्वाल च पातालं सर्वसर्पकुलान्यपि ।
हाहाकारो महानासीत् सम्मर्दोऽभून्महाँस्तदा ।।९४।।
शेषस्तुष्टाव तच्चक्रं गरुडं चातिभावतः ।
गरुडेन कृतं शान्तं चक्रं शेषस्य तुष्टये ।। १५।।
समर्प्याऽनन्तशेषाय पातालराज्यमित्यपि ।
स्वस्तिके तन्मन्त्रिपदं सन्न्यस्य गरुडस्ततः ।।९६।।
स्वस्तिकस्य सुतान् पुत्रीर्मोचयामास बन्धनात् ।
शेषस्वस्तिकगरुडाश्चक्रं सस्मरुरीश्वरम् ।। ९७।।
अनादिश्रीकृष्णनारायणं बालस्वरूपिणम् ।
तावत् किशोररूपोऽयं भूत्वा श्रीभगवान् हरिः ।।९८।।
ब्राह्मं गजं समारुह्य पाताले चाजगाम ह ।
स्वागतं कृतवन्तस्ते भक्ताः कृष्णस्य वै ततः ।।९९।।
हरिणा तिलकं तत्राऽनन्तशेषकपालके ।
कृतं पातालराज्याभिषेचनं तस्य सर्वथा ।। 2.28.१ ००।।
मन्त्रिणा स्वस्तिकेनापि कृष्णनारायणाय वै ।
अर्पिताः कन्यकाः स्वस्य मुदा विंशतिसंख्यिकाः ।। १० १।।
चक्रं च गरुडं नीत्वा गजस्थाः कन्यकास्तदा ।
नीत्वा श्रीभगवान् शीघ्रं चाऽश्वपट्टसरोवरम् ।। १ ०२।।
कुंकुमवापिकाक्षेत्रं योगतः प्रसमाययौ ।
स्नापयित्वा कन्यकास्तु चाऽश्वपट्टसरोवरे ।। १०३ ।।
लोमशस्याऽऽश्रमे स्थातुं समादिदेश तं मुनिम् ।
ताभ्यो मन्त्रान् ददौ माला लोमशश्चाश्रमे तथा १ ०४।।
ररक्ष गरुडश्चाज्ञामाप्य वैकुण्ठकं ययौ ।
चक्रं शान्तं हरेर्हस्ते कन्यास्तस्थुस्तथाश्रमे ।। १ ०९।।
एवं श्रीभगवाँश्चक्रे चमत्कारं हि राधिके ।
चतुर्थवत्सरारम्भे दिव्यसद्गुणशेवधिः ।। १ ०६।
अथ पातालके तत्र शेषपत्नी सुनन्दिनी ।
बालकृष्णं प्रसस्मार कार्तिके दर्शनाय वै ।। १ ०७।।
श्रीहरिस्तन्मनो ज्ञात्वा ययौ किशोररूपवान् ।
तया सम्पूजितश्चाऽयं ददौ तस्यै मनुं निजम् ।। १ ०८।।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
मालां च तिलकं प्रादाद् भक्ताऽभजद्धरिं तु सा ।। १ ०९।।
मृतानां भोगिनां कन्याः सहस्राणि दशाऽभवन् ।
ताभ्यो मनुः सुनन्दिनीं ददौ मालादिकं ददौ ।। 2.28.११ ०।।
ताः सर्वा वैष्णवीश्रेष्ठतमा जाता हरेः प्रियाः ।
श्रीहरिणा समं सर्वाश्चाययुर्भूतलं शुभाः ।। १११
अनन्तेनाऽर्पिता व्योमयानस्थाः सोपदा हि ताः ।
लोमशस्याऽऽश्रमे ताश्च रक्षिताः परमात्मना ।। १ १२।।
धन्यास्ता योषितो राधे याः कृष्णाय प्रकल्पिताः ।
परब्रह्म स्वयं यासु रमिष्यते सुमुक्तिकृत् ।। १ १३।।
सर्वस्वं यत्र वै देयं दातव्यं नाऽवशिष्यते ।
अवाप्तव्यं च यत् प्रोक्तं तेन चेद् यदि गृह्यते ।। १ १४।।
को लाभोऽस्मात्परो लोके तन्वा प्रीणाति चेद्धरिः ।
पठनाच्छ्रवणाच्चास्याऽऽनन्दप्रदो भवेत्प्रभुः ।। १ १५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोश्चतुर्थवर्षारम्भोत्सवे पातालनागस्य स्वस्तिकस्य गरुडद्वारा पातालराजमन्त्रिणः सुमृधोः सकाशादागतकष्टमोक्षणम् , नागकन्यानां लोमशाश्रमानयनं
चेत्यादिनिरूपणनामाऽष्टाविंशतितमोऽध्यायः ।। २८ ।।