लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०२७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०२६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २७
[[लेखकः :|]]
अध्यायः ०२८ →

श्रीकृष्ण उवाच-
शृणु वै राधिके देवा दैत्या दानवकोटयः ।
मानवाः ऋषयः सन्तो हरेः पुत्राः समानकाः ।। १ ।।
नाऽप्रियो न प्रियः कश्चित्तस्य भवति राधिके ।
भक्तः प्रियो न त्वभक्तो भक्तिप्रियो हि माधवः ।। २ ।।
आत्मनो नाऽसुरा देवा दैत्या वा मानवाः प्रिये ।
स्वभावा गुणजा दैत्या देवाऽसुश्च मानवाः ।। ३ ।।
स्वभावाश्चागमापायाः प्रयोजनवशानुगाः ।
प्रयोजनं सुखं तच्च देहजात्यनुसारगम् ।। ४ ।।
देहो नारी नरश्चेति षण्ढश्चेति त्रिधा मतः ।
बालो युवा च वृद्धश्च गृही त्यागी व्रती वनी ।। ५ ।।
क्रिया देहानुकूला च वाञ्च्छा देहानुसारिणी ।
बाल्ये क्रीडति वार्धक्ये शमं याति युवा तु न ।। ६ ।।
नारी नराश्रया सर्वा नरः स्वातन्त्र्ययन्त्रितः ।
ब्राह्मणो भिक्षुकः क्षत्त्रं प्रसह्य बलवत् सदा ।। ७ ।।
श्वादौ सहनता नित्या सर्पे सा नैव विद्यते ।
वृक्षे परोपकारश्च वानरे स्वार्थ एव च ।। ८ ।।
साधौ दया धनाढ्ये तु गर्वो रंके तु नम्रता ।
मातरि वत्सलो भावः शत्रौ निर्दयता स्थिता ।। ९ ।।
चौरे निर्घृणता विद्यावति विचार्यकारिता ।
लज्जा युवतीवर्गे च बालायां दोषहीनता ।। 2.27.१ ०।।
दिगम्बरत्वं वैराग्ये सरागे नववस्त्रिता ।
व्योमवद् विद्यते चात्मा देहः सन्ध्या दिवा निशा ।। १ १।।
आयान्ति च वियन्त्यस्य गुणवेगाः प्रयोजनात्। ।
तद्गुणा मायिकी माया जडा कर्ममयी सदा ।। १२।।
सा न चात्मनि संलग्ना नात्मा तत्र च जन्मितः ।
द्वयोः पन्था विभिन्नोऽस्ति नित्यबद्धाऽतिमुक्तयोः ।। १३।।
इत्येवं राधिके ज्ञात्वा पुमान्नैव विलुप्यते ।
अज्ञाने जायते रागो द्वेषश्चेत्युभदूषणे ।। १४।।
रागाद्भवति प्रवृत्तिर्वासनाप्रचुरा दृढा ।
द्वेषान्निवर्तते यद्वा प्रवर्ततेऽतिदारुणम् ।। १५।।
अनिष्टं वहते चेष्टच्छन्नं चासुरभावनम् ।
त एते दैत्यदेहाश्च वियन्ति परमात्मनः ।। १६ ।।
अभियन्ति यदा ते च सुरा भवन्ति दैविनः ।
अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः ।। १७।।
दानं दया च क्षान्तिश्च ब्रह्मचर्यममानिता ।
शुभा सत्या च मधुरा वाङ् नित्यं सक्रियारतिः ।। १८।।
सदाचारनिषेवित्वं धर्मा दैवत्वदायकाः ।
सुकेश्यभूत् पुरा दैत्यो लोमशस्याऽऽश्रमं गतः ।। १ ९।।
धर्मान् पप्रच्छ कुशलान् श्रुत्वा चैतान् त्रयोदश ।
लोमशात्तु महर्षेः स ययौ नैजं पुरं ततः ।।2.27.२०।।
समाहूयाऽब्रवीत् सर्वान् राक्षसान् धार्मिकं वचः ।
अहिंसाद्यान्महाधर्मान् पालयन्तु सदाऽसुराः ।।२१।।
सोऽहमाज्ञापये सर्वान् क्रियतामविकल्पितम् ।
ततः सुकेशिवचनात् सर्व एव निशाचराः ।।२२।।
त्रयोदशांशतो धर्मं चक्रर्मुदितमानसाः ।
ततः प्रवृद्धिं सुतरामगच्छँस्ते निशाचराः ।।२३ ।।
प्रासादवाटिकाक्षेत्रोद्यानयानमहर्द्धयः ।
पुत्रपौत्रार्थसंयुक्ता ह्यभवन् सुखसंभृताः ।।२४।।
निशाचराणां नगरं तेजोमयं ह्यभूत्तु खे ।
यत्र सूर्यस्य चन्द्रस्य तेजोऽऽपेक्षा न चाऽभवत् ।।२५।।
ततस्तु तेजसा तेषां राक्षसानां महात्मनाम् ।
गन्तुं नाऽशक्नुवन् सूर्या नक्षत्राणि च चन्द्रमाः ।।२६।।
एवं धर्मप्रभावोऽस्ति राधिके तेजसोर्जितः ।
ततस्त्रिभुवने दीप्तं निशाचरपुरं ह्यभूत् ।।२७।।
दिवा सूर्यस्य सदृशं रात्रौ चन्द्रसमं ह्यभूत् ।
यत्र सूर्यस्य चन्द्रस्य तेजोऽपेक्षा न विद्यते ।।२८।।
प्रत्युत तत्पुरेणैव पृथ्व्यां सर्वग्रहेषु च ।
दिवसः सर्वदा चास्ते तेजोवैभवकारणात् ।।२९।।
न ज्ञायते गतिर्व्योम्नि भास्करस्य ततोऽम्बरे ।
चन्द्रस्यापि गतिर्नैव ज्ञायतेऽन्यगतिः कुतः ।।2.27.३ ०।।
कौशिकाद्यास्तु मुमुहुर्विना रात्रिं निशाचराः ।
गृहस्था दुःखमापन्नाः स्त्रीधर्मा रात्रिमन्तरा ।।३ १ ।।
तर्कयन्ति तदा केचिन्नूनं रात्रौ सुदुःखिता ।
पतियोगं विना कान्ता सती पतिव्रता सखी ।।३२।।
परदेशगते कान्ते वियोगदुःखिता हि सा ।
तपसा सूर्यास्तमनं रुरोध यावता भवेत् ।।३३।।
प्रियस्य दर्शनं योगस्तावताऽऽयान्न वै निशा ।
यज्वानो होमशालासु सहर्त्विग्भिरथाऽध्वरे ।।३४।।
प्रावर्तयन्त कर्माणि रात्रावपि च राधिके ।
महाभागवताः पूजां विष्णोः कुर्वन्ति भक्तितः ।।३५।।
रवेः शशिनश्चाप्यन्ये ब्रह्मणोऽन्ये हरस्य च ।
कुर्वन्ति पूजनं मत्वा दिवा रात्रावपि प्रजाः ।।३६।।
विवेकिनस्तु जानन्ति विकसितैर्हि पङ्कजैः ।
सूर्यस्योदयनं चन्द्रोदये तु कुमुदोत्कचैः ।।३७।।।
एवं प्रतापमापन्ने निशाचरपुरे वृषैः ।
सूर्यस्त्वसहमानस्तत् तद्विघातमचिन्तयत् ।। ३८।
स भानुना तदा दृष्टः क्रोधाध्मातेन चक्षुषा ।
सुकेशी ग्रामसहितः प्रजज्वाल तदाऽम्बरे ।।३ ९।
सूर्यश्चक्रं च सौरं स्वं मुमोचाऽस्मै द्रुतं च तत् ।
चक्रं वै भेदयामास पुरं निशाचरस्य तत् ।।2.27.४०।
निपपाताऽम्बराद् भ्रष्टं केशिना सह राक्षसैः ।
सुकेशी शंभवे नम इदमुच्चैरुदैरयत् ।।४१।
तदाक्रन्दितमाकर्ण्य कैलासे शंकरः प्रभुः ।
ज्ञात्वा ध्यानेन सूर्येण पातितं भक्तपत्तनम् ।।४२।
क्रुद्धस्तृतीयनेत्रेण सूर्यं शंभुरपश्यत ।
सूर्यो व्योम्नः परिभ्रष्टो निपपात भुवस्तलम् ।।४३।
योगिशायिनमारभ्य यावत्केशवदर्शनम् ।
प्रयागात् केशवं यावत् विस्तृतं भूतलं शुभम् ।।४४।।
एतत् क्षेत्रं हरेः पुण्यं नाम्ना वाराणसी पुरी ।
वरणायास्तथैवाऽस्यास्त्वन्तरे निपपात सः ।।४५।।।
भानुर्दहन् क्षणं चास्यां लुलन् ह्रदे ततः पुनः ।
वरणायां च गङ्गायां लुलन् लोलार्कनामवान् ।।४६।।
अभवच्चाऽथ सूर्यः स क्षमां हरादयाचत ।
हरोऽपि भानुमादाय पाणिनाऽऽरोपयद् रथम् ।।४७।।
सुकेशिनं पुरं चाप्यारोपयद् दिविं दैववत् ।
एवं धर्मेण बलवान् जायते राक्षसोऽपि हि ।।४८।।
शंभुर्यस्य सहायोऽभूत् सूर्योऽवाप रुषः फलम् ।
एवं वै लोमशो दैत्यकन्याभ्यस्तु वृषान् शुभान् ।।४९।।
प्राह श्रेयस्करान् ताश्च पुनः पप्रच्छुरादरात् ।
कस्य पूजा कथं कार्या वद नो गुरुराट् प्रभो ।।2.27.५०।।
लोमशस्ताः समुवाच नारायणः श्रियाः पतिः ।
आषाढैकादशीप्रातर्भोगिभोगे स्वपित्यतः ।।५१ ।।
शेषाऽहिभोगपर्यंकं कृत्वा सम्पूज्य केशवम् ।
प्रास्वापयेदनादिश्रीकृष्णनारायणं क्षणम् ।।५२।।
त्रयोदश्यां स्वपित्यैव कामः स्वशयने शुभे ।
कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते ।।५३।।
तत्र तदा सुशृंगारैः कामः प्रीतिरतिप्रभुः ।
पूजनीयो विशेषेण कृष्णमूर्तौ सुखप्रदः ।।५४।।
चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले ।
सौवर्णपङ्कजकृते सुखास्तीर्णोपधानके ।।५५।।
यक्षेशो यक्षयुक्तश्च मणिभद्रादिभिर्युतः ।
पूजनीयोऽन्नपानाद्यैस्तर्पणीयो विशेषतः ।।।५६।।
पूर्णमास्या स्वपित्युमानाथः स्वचर्मसंस्तरे ।
वैयाघ्रे च जटाभारं समुद्ग्रथ्याऽन्यचर्मणा ।।५७।।
शंभुस्तत्राऽर्चनीयश्च धत्तूरस्य सुमादिभिः ।
ततो दिवाकरो राशिं सम्प्रयाति तु कर्कटम् ।।५८।।
तेनामराणां रजनी भवते दक्षिणायनम् ।
ब्रह्मा ततः प्रतिपदि नीलोत्पलमये प्रिये ।।५९।।
तल्पे स्वपिति लोकानां शुभचिन्तनकाम्यया ।
विश्वकर्मा द्वितीयायां तृतीयायां तु पार्वती ।।2.27.६० ।।
विनायकश्चतुर्थ्यां च पञ्चम्यामपि धर्मराट् ।
षष्ट्यां स्कन्दः प्रस्वपिति सप्तम्यां भगवान् रविः ।।६ १ ।।
कात्यायनी तथाऽष्टम्यां नवम्यां कमलालया ।
दशम्यां भुजगेन्द्राश्च स्वपन्ति वायुभोजनाः ।।६२।।
एकादश्यां तु कृष्णायां साध्या देवाः स्वपन्ति च ।
तत्तत्तिथौ तत्सुराणां पूजनं प्राचरेत् सती ।।६३।।
तेन श्रेयः सर्वविधं त्वानुयाद् व्रतिनी सती ।
द्वितीयायां प्रस्वपिति विश्वकर्मा प्रजापतिः ।।६४।।
तस्य मूर्तिर्विधातव्या यदा लक्ष्म्या युतो हरिः ।
सौवर्णस्य विधातव्यः श्रीवत्सांकश्चतुर्भुजः ।।६५।।
पर्यके तं समं लक्ष्म्या गन्धपुष्पादिभिर्युते ।
शय्यायां पूजयेत् कृष्णं प्रक्षिपेत् सत्फलानि च ।।६६।।
सुरभीणि निवेद्येत्थं प्रार्थयेत् श्रीयुतं हरिम् ।
अशून्यशयने नाथ यथा त्वं राजसे श्रिया ।।६७।।
तथा चाऽशून्यशयनं रक्ष मे सर्वदाऽस्तु च ।
लक्ष्म्या युक्तं शयनं ते यथा शून्यं कदापि न ।।६८।।
तथा ममापि भगवान् गार्हस्थ्यं माऽस्तु शून्यकम् ।
लक्ष्मीधरः प्रसन्नोऽस्त्वित्युच्चार्य व्रतमाचरेत् ।।६९।।
चातुर्मास्ये प्रभुञ्जीत तैलक्षारविवर्जितम् ।
लक्ष्मीधरः प्रीयतां मे इत्युच्चार्य द्विजातये ।।2.27.७०।।
फलं स्वर्णं वस्त्रशय्यां गां दानं वितरेद् व्रती ।
व्रतिनस्तेन पुण्येन गार्हस्थ्यं मोदते सुखम् ।।७१ ।।
रविराषाढमासाद्य मिथुनाऽभिमुखो भवेत् ।
तत आरभ्य यावत्स वृश्चिकस्थो विभाति हि ।।७२।।
चातुर्मास्यं चान्तरे वै काले बोध्य व्रतार्थिना ।
सुरास्ततो विबुध्यन्ते क्रमशस्तत्र राधिके ।।७३।।
तुलास्थे च रवौ पूर्वं हरिः कृष्णः प्रबुध्यते ।
तस्य पूजा प्रकर्तव्या महादानार्पणादिभिः ।।७४।।
कामदेवस्तत्र ततः प्रबुध्यते तमर्चयेत् ।
द्वितीयायां सुवर्णस्य मूर्तिर्लक्ष्मीधरस्य तु ।।७५।।
शय्या चास्तरणोपेता यथाविभवमात्मनः ।
दातव्यैतद्व्रतेनाऽत्र दम्पत्योर्न वियोगिता ।।७६ ।।
अथ भाद्रपदे कृष्णाष्टमी कालाष्टमी मता ।
युक्ता मृगशिरेणाऽस्यां लिंगे स्वपिति शंकरः ।।।७७।।
गोमूत्रेण जलेनाऽपि स्नायात् संस्नापयेच्छिवम् ।
ततः सम्पूजयेत्पुष्पैर्धत्तूरस्य च चन्दनैः ।।७८।।
धूपं केसरनिर्यासं नैवेद्यं मधुसर्पिषी ।
प्रीयतां मे विरूपाक्षस्त्विति कुर्यात्तदर्थनाम् ।।७९।।
आश्विने स्नापयेत् स्नायाद् गोमयेनाऽथ पूजनम् ।
पंकजैर्धूपयेत् सर्जनिर्यासैर्मधुमोदकान् ।।2.27.८०।।
भोजयेत् प्रीयतां हिरण्याक्षो मे चेति चार्थयेत् ।
कार्तिके पयसा स्नानं करवीरेण चार्चनम् ।।८ १ ।।
धूपं श्रीवासनिर्यासं नैवेद्यं मधुपायसम् ।
प्रीयतां स्थाणुरुच्चार्य देयं रजतदानकम् ।।८२।।
मार्गशिरे दधिस्नानं नैवेद्यं मधुनौदनम् ।
धूपं श्रीवृक्षनिर्यासं प्रीयतां शर्व आर्थयेत् ।।८३।।
पौषे स्नानं तु हविषां पूजा बिल्वैस्तथा फलैः ।
धूपो मधुकनिर्यासो नैवेद्यं मधुसक्तुकैः ।।८४।।
प्रीयतां त्र्यम्बक इत्यभ्यर्थयेन्मुद्रिकां ददेत् ।
माघे कुशोदकस्नानं कुमुदेन शिवार्चनम् ।।८५।।
धूपः कदम्बनिर्यासो नैवेद्यं सतिलौदनम् ।
प्रीयतां मे महादेव इत्यभिप्रार्थयेन्नमः ।।८६ ।।
एवं षाण्मासिकं चैतद्व्रतं सौभाग्यदं सदा ।
अथ च फाल्गुने पञ्चगव्यस्नानं प्रकारयेत् ।।८७।।
पूजयेत् कुन्दकुसुमैर्धूपयेच्चन्दनेन च ।
नैवेद्यं सघृतं दद्यात्ताम्रपात्रे गुडौदनम् ।।८८।।
प्रीयतां रुद्र मे प्रोच्य वस्त्रयुग्मं प्रदापयेत् ।
चैत्रे चौदुम्बरजलैः स्नानं मन्दारकार्चनम् ।।८९।।
धूपं च गुग्गुलकृतं मोदकान् विनिवेदयेत् ।
मृगचर्मप्रदानं प्रीयतां नागेश्वरो मम ।।2.27.९०।।
वैशाखे गन्धकुसुमैः स्नानं पूजाऽऽभ्रपुष्पकैः ।
धूपः सर्जस्य निर्यासो नैवेद्यं सफलं घृतम् ।।९ १।।
शालघ्नः प्रीयतां चेति जलकुंभप्रदानकम् ।
ज्येष्ठे स्नानं चामलकैः पूजाऽर्ककुसुमैस्तथा ।।९२।।
दधिसक्तूभोजनं च छत्रोपानत्प्रदानकम् ।
धूपं तु चान्दनं भगनेत्रघ्नः प्रीयतां मम ।। ९३।।
आषाढे श्रीफलैः स्नानमर्चनं कानकैः सुमैः ।
धूपयेत्। सल्लिकया च पूपा नैवेद्यमुत्तमम् ।।९४।।
प्रीयतां दक्षयज्ञघ्नो दानं यवकणादिकम् ।
श्रावणे भृंगराजेन स्नानं श्रीद्रुदलार्चनम् ।।९५ ।।
अगुरुधूपनं नैवेद्यं दधि मोदकास्तथा ।
स्वर्णगोवस्त्रदानं मे गंगाधरः प्रसीदतु ।।९६।।
एभिः षडभिस्तथा मासैः पूजन व्रतपुष्टिदम् ।
नवम्यां पारणं कुर्यात् पूर्णे संवत्सरे ततः ।।९७।।
द्वादशकृष्णपक्षीयाऽष्टम्युपवासनं सदा ।
तत उद्यापनं कुर्यान्महेश्वरवचो यथा ।।९८।।
अक्षयं लभते सौख्यं दम्पती पुण्यकव्रतात् ।
धर्मार्थकाममोक्षकृत् तत्तथा न तदन्यथा ।।९९।।
पद्मं प्रजापतेर्नाभ्या निर्यातं चाश्विने यतः ।
ब्रह्मणः पूजने पद्मं देयं प्रीतिविवर्धनम् ।। 2.27.१ ००।।
कामकरे कदम्बश्च यक्षकरे वटद्रुमः ।
धत्तूरश्च शिवहृदि वेधोमध्याद्धि खादिरः ।। १० १।।
विश्वकर्ममध्यदेहात् कण्टकी समजायत ।
गिरिजायाः करतले कुन्दगुल्मस्त्वजायत ।। १ ०२।।
गणाधिपस्य कुंभस्थो राजते सिन्दुवारकः ।
यमस्य दक्षिणे पार्श्वे पालाशो वै व्यजायत ।। १०३ ।।
यमस्य दक्षिणोत्तरे जातः कृष्ण उदुम्बरः ।
स्कन्दस्य बन्धुजीवश्च रवेरश्वत्थ एव च ।। १ ०४।।
कात्यायन्याः शमी जाता बिल्वो लक्ष्म्याः करेऽभवत् ।
नागमुखे शरस्तम्बा दूर्वा वासुकिपृष्ठके ।। १ ०५।।
साध्यहृदि चन्दनश्च व्यजायत च राधिके ।
कल्पान्तरकथा चेयं सृष्ट्यादौ समजायत ।। १ ०६।।
तैः पूजने तत्सुराणां प्रीतिः सर्वाऽधिका भवेत् ।
धर्मार्थकाममोक्षाश्च दीयन्ते तैः प्रसादितैः ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने दैत्यनारीणां धर्मोपदेशे सुकेशिसमाख्यानम्, अशून्यशयनव्रतशिवपुण्यकव्रतादि, देवानां भिन्नतिथिषु स्वापाः, पूजा चेत्यादिनिरूपणनामा सप्तविंशति-
तमोऽध्यायः ।। २७ ।।