लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०२६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०२५ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २६
[[लेखकः :|]]
अध्यायः ०२७ →

श्रीकृष्ण उवाच-
आकर्णय वृषभानुसुते चमत्कृतिं हरेः ।
अन्यां तृतीयवर्षोत्थां कथयामि सुखप्रदाम् ।। १ ।।
श्रावण्यां ब्राह्मणाः सर्वे कुंकुमवापिकाश्रयाः ।
अश्वपट्टसरस्तीरे ब्रह्मसूत्रक्रतूत्सवे ।। २ ।।
मिलिता ब्रह्मसूत्रस्य नव संस्कारशुद्धये ।
सहस्रशस्ते ऋषयो लोमशाद्याः सदर्भकाः ।। ३ ।।
सपात्रा हव्यकव्यादिसहिता देहशोधनम् ।
संचक्रुः पञ्चगव्याद्यैः स्नानैः पितृप्रतर्पणम् ।। ४ ।।
देवानां पूजनं चापि चक्रुश्च हवनादिकम् ।
नवं यज्ञोपवीतं च धारयामासुरुज्ज्वलम् ।। ५ ।।
तन्निमित्तं महारुद्रं विष्णुयज्ञं च नैत्यकम् ।
चक्रुर्महोत्सवं तीरे गीतवाद्यप्रनर्तनैः ।। ६ ।।
लक्ष्मीनारायणसंहितायाः कथोपदेशनैः ।
आन्धसिकाः सरस्तीरे वटाऽधस्तान्महानसे ।। ७ ।।
चूर्णमौक्तिकलड्डुकान् पूरिकाऽपूपपायसान् ।
श्रीखण्डक्वथिकाफुल्लवटीव्यञ्जनभाजिकाः ।। ८ ।।
सूपोदनानि च तथा मिष्टतिक्तद्रवाणि च ।
राजिकाराद्धचटनीश्चारनालानि पोलिकाः ।। ९ ।।
पाचयामासुरत्यर्थं कोट्यर्बुदद्विजार्थकम् ।
पक्वान्नानां पर्वताश्च घृतानां पयसां ह्रदा ।। 2.26.१ ०।।
तक्राणां सरितश्चापि पायसानां सरांसि च ।
कृतानि करितान्येव कल्पवृक्षैर्महर्षिभिः ।। ११ ।।
मध्याह्ने हवने तत्र प्रवर्तिते मखानले ।
तावद् व्योम्नः समायातं सैन्यं दैत्यजनात्मकम् ।। १ २।।
क्रोशमात्रं तु तद् दूरमभवद् यज्ञभूमितः ।
तावदाक्रोशनं तेषां श्रुत्वा वै लोमशो मुनिः ।। १३।।
शीघ्रं चालोकयामास दिव्यदृष्ट्या तु दानवान् ।
दानवीभिः सहिताँश्च धृतशस्त्राऽस्त्रबन्धनान् ।। १४।।
सालेमालस्य तु वैरनिर्यातनार्थमेव तान् ।
समागतान् महाक्रूरान् योद्धुकामानवस्थितान् ।। १५।।
एषः प्रदेशः शत्रोर्नः कृष्णसौधोऽयमेव च ।
द्विजाग्र्यो लोमशश्चायं घ्नन्तु तान्मारयन्तु च ।। १६।।
अनेन बालकृष्णेन मारितोऽस्मत्पिता प्रभुः ।
मर्दयन्तु बालकृष्णं तत्पितरौ च लोमशम् ।। १७।।
एष आश्रमग्रामश्च ब्राह्मणानां द्रुमेष्वपि ।
भिद्यतां छिद्यतां प्रज्वाल्यतां विनाश्यतां क्षणात् ।। १८।।
सालपुत्राः सहस्रं च भृत्या नार्यश्च दासिकाः ।
बान्धवाः सालमालस्य निपेतुः सरसस्तटे ।। १९।।
अन्ये चाकाशमार्गेण समापतन्ति वेगतः ।
कन्यका दैत्यपत्न्यश्च बाला वृद्धाः सुयौवनाः ।। 2.26.२०।।
यावद्यज्ञक्षितिं नैते चायातास्तावदेव च ।
लोमशः स्तंभयामास त्वाथर्वणैर्विहायसि ।।२१ ।।
तटस्थान् तटपार्श्वे च स्तम्भयामास तत्क्षणात् ।
पक्वान्नानि तथा यज्ञो यथा गच्छेन्न भ्रष्टताम् ।।२२।।
तथा वै लोमशः कृत्वा सस्मार श्रीपतिं प्रभुम् ।
बालकृष्णः किशोरः सन्नुपाययौ क्षणात् क्रतुम् ।।२३।।।
विप्रैः सम्मानितः कृष्णोऽर्चितः सुदर्शनान्वितः ।
प्रार्थितः सगरुडश्च दैत्याऽनीकनिवारणे ।।२४।।
शीघ्रं नत्वा ऋषिभ्यश्च शंखचक्रगदाधरः ।
आरुह्य गरुडं शीघ्रं व्योममार्गं जगाम ह ।।२५।।
सैन्यस्य सन्निधौ गत्वा दध्मौ शंखं हरिः स्वयम् ।
लोमशश्चाथर्वमन्त्रान् वारयामास तावता ।।२६।।
सैन्यं सचेतनं योद्धुं न्यपतत् श्रीहरिं प्रति ।
गदया श्रीहरिः सैन्यं पोथयामास सर्वतः ।।२७।।
पक्षाभ्यां च नखाभ्यां च चञ्च्वा च गरुडस्तदा ।
ताडयामास बहुधा पातयामास भूतले ।।२८।।
द्रावयामास शेषांश्च रक्षयामास योषितः ।
अथ विद्राविता दैत्या धृत्वा शिला द्रुमाँस्तथा ।।२९।।
प्रत्यावृत्त्य निजघ्नुश्च श्रीकृष्णं पुरुषोत्तमम् ।
ततः सुदर्शनं चक्रं मुमोच भगवान् स्वयम् ।।2.26.३ ०।।
कर्तयामास तान् सर्वानसुरान् सालवंशजान् ।
तेषां तेजांसि च हरौ समागत्य विशश्रमुः ।।३ १।।
नार्यस्तेषां कन्यकाश्च तुष्टुवुः परमेश्वरम् ।
वंशवटे स्थिताः सर्वा ववुश्च वरदानकम् ।।३२।।
एतेषां कृष्ण दैत्यानां मोक्षं कुरु तथा च नः ।
रक्ष रक्ष कृपासिन्धो शरणं ते प्रदेहि नः ।। ३३।।
अनादिश्रीकृष्णनारायणः श्रीगरुडस्थितः ।
चक्रस्य तेजसा तासां पापान्यदाहयत्तदा ।।३४।।
कायाकल्पान् विधायैव दिव्यरूपधराश्च ताः ।
शरण्यो भगवाँस्ताभ्यः शरणं स्वं ददौ मुदा ।।३५ ।।
लोमशस्याऽऽश्रमे स्थातुं नियुयोज परेश्वरः ।
लोमशस्ता जलेनापि संप्रोक्ष्याऽऽप्लाव्य वारिभिः ।।३६ ।।
पञ्चगव्येन च शुद्धिं कारयित्वा ततः परम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।३७।।
दत्वा मन्त्रं च तुलसीस्रजं च तिलकादिकम् ।
ताः सर्वा दीक्षयामास वैष्णवीः प्रचकार ह ।।३८।।
ततस्ता भोजयामास शतं पञ्चशतानि च ।
मातॄश्च कन्यकाश्चापि प्रेषयामास चाश्रमम् ।।३ ९।।
लोमशाद्या ऋषयश्च कृत्वा क्रतुविधिं ततः ।
यज्ञसूत्राणि सन्धृत्वाऽन्तिमं होमं विधाय च ।।2.26.४० ।।
भोजयामासुरत्यर्थं कन्यकाः कोटिसंख्यकाः ।
कुटुम्बिनस्तथाऽतिथीन् भोजयामासुरैश्वराः ।।४१ ।।
ददुर्दानानि च तथोत्तमानि विविधानि च ।
गोक्षेत्रारण्यरत्नानि वस्त्रभूषागृहाणि च ।।४२।।
सोपस्कराणि यानानि वाहनाऽन्नजलान्यपि ।
एवं दानानि दत्वैव यज्ञकार्यं समाप्य च ।।४३ ।।
वदन्तः परमाश्चर्यं स्वस्वगृहं ययुर्मुदा ।
गोपालकृष्णकश्चापि बालकृष्णयुतस्ततः ।।४४।।
निजालयं ययौ पक्षी वैकुण्ठं प्रययौ ततः ।
लोमशाद्या ययुर्नैजाश्रमान् सुखान्वितास्तदा ।।४५।।
एवं वै राधिके सालेमालीया दैत्यपुंगवाः ।
हताः श्रीहरिणा सर्वे ययुर्वैकुण्ठमेव ते ।।४६।।
तत्कन्यका हरिं वव्रुर्लोमशस्याश्रमस्थिताः ।
तन्मातरो दैत्यपत्नो याश्च वैधव्यमाश्रिताः ।।४७।।
आत्मश्रेयः पप्रच्छुस्ता लोमशं मुनिपुंगवम् ।
केनाऽत्र कर्मणा विद्वन् श्रेयः स्यादुभयत्र नः ।।४८।।
तद्वदाऽत्र दैत्यपत्नीः कृपया मुनिपुङ्गव ।
लोमशश्च तदा ताभ्यस्तत्सुताभ्यश्च सर्वथा ।।।४९।।
सदाश्रेयस्करान् धर्मानुवाचाऽभ्युदयप्रदान् ।
अहिंसा सत्यमस्तेयं दानं क्षमा दमो दया ।।।2.26.५ ०।।
अमानित्वं च शौचं च तपश्च ब्रह्मचारिता ।
शुभा वाक् साधुसेवा च परश्रेयःप्रदायकाः ।।५ १ ।।
त्रयोदशांऽशो धर्मोऽयं नरनारीप्रपालितः ।
ऐहिकं सुखदं श्रेयो ददाति शाश्वतं ह्यपि ।।५२।।
श्रीकृष्णभजनं चाग्निसेवनं स्नानमित्यपि ।
भिक्षादनं गुरोः सेवा गुरोः प्रीत्युपपादनम् ।।५३ ।।
ऐहिकं सुखदं श्रेयो ददाति ह्यपि शाश्वतम् ।
गुरोर्गेहे वसेन्नित्यं तत्पत्नीं तत्सुतादिकम् ।।५४।।
देवान्मत्वा तथा देवीर्मत्वा संपूजयेत् सदा ।
शुश्रूषयेच्च निर्माना सा मृत्युं जयति ध्रुवम् ।।५५।।
आत्मभावनया साध्वी पितृदेवाऽतिथीनपि ।
सम्यक सम्प्रीणयेद् भक्त्या सा मृत्युं जयति ध्रुवम् ।।५६।।
सदाचारः सदा रक्ष्यो दैत्यैर्देवैश्च मानवैः ।
न चाऽऽचारविहीनाया भद्रमत्र परत्र च ।।५७।।
यज्ञदानतपांसीह सदा भवन्ति भूतये ।
सदाचारविहीनाया निष्फलान्येव तान्यपि ।।५८।।
दुराचारा हि वामाङ्गी नेह नामुत्र नन्दति ।
कार्यां यत्नः सदाचारे स त्वभद्रस्य नाशकः ।।५९।।
सदाचारस्तरुश्चास्ति नारीदेहे हि वर्तते ।
स चापत्यशरीरेऽपि ह्यवातरति सौख्यकृत् ।।2.26.६० ।।
धर्मो मूलं तरोस्तस्य ह्यर्थः शाखाः सुसम्पदः ।
कामः पुष्पाणि रम्याणि मोक्षः फलं रसान्वितम् ।।६ १ ।।
सोऽयं प्रसेवितो नार्या भद्रदोऽत्र परत्र च ।
ब्राह्मे मुहूर्ते प्रथमं बुध्येदनुस्मरेद्धरिम् ।।६२।
देवानृषीन् सतीश्चापि वदेत् प्रभातमंगलम् ।
शंकरो वैष्णवश्रेष्ठश्चोक्तवान् मंगलं परम् ।।६३।।
प्रभाते यत् पठन्मर्त्यो मुच्यते पापबन्धनात् ।
प्राभातिकं मंगलं तत्कथयामि निबोधत ।।६४।।
श्रुत्वा स्मृत्वा पठित्वा च सर्वपापैः प्रमुच्यते ।
एतन्मंगलरटनाद् बहवो मोक्षणं गताः ।।६५।।
सर्वावतारजनकोऽक्षरतः परश्चा-
ऽनादिश्चकृष्णभगवान् परमेश्वरश्च ।
मुक्तास्तथाऽगणितसृष्टिषु वर्तमानाः
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ।।६६।।
राधायुतोऽगणितगोपसुगोपिकाभिः
संसेवितो हृदयपद्मगतश्च कृष्णः ।
लक्ष्मीरमापतिरथाऽस्य च पार्षदाद्याः
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ।।६७।।
श्रीवासुदेवसहिताः परमेश्वराश्च
नारायणा विविधधामगताश्च मुक्ताः ।
माणिक्यपारवतिकाकमलाप्रभाश्च
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ।।६८।।
हैरण्यगर्भहरिशंकरसूर्यचन्द्राः
पृथ्वीसुतः शशिसुतो गुरुशुक्रधर्माः ।
आर्षाः शनिः पितर ऐशगणेश्वराश्च.
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ।।६९।।
रैभ्यश्च गौतमपुलस्त्यमरीचयश्च
भृग्वङ्गिरःपुलहलोमशगालवाद्याः ।
वासिष्ठभार्गवरिभुच्यवनादिकाश्च
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ।।2.26.७०।।
श्रीपार्षदाः सनकनन्दनसत्कुमाराः
सौजातपिङ्गलसनातननारदाद्याः ।
इन्द्रादयो दिगधिपाः सुरकोटयश्च
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ।।७ १ ।।
सप्तस्वराः क्षितितलाश्च सुसूक्ष्मभूताः
स्थूलाश्च तत्त्वनिकरा गिरिवार्धयश्च ।
तीर्थानि चापगवराश्च पतिव्रताश्च
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ।।७२।।
रुक्मागदो ध्रुवसुयज्ञकपुण्डरीक
प्रह्लादसूतशतसुव्रतकाऽम्बरीषाः ।
श्रीकृष्णवल्लभदिवोदशुकादिकाश्च
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ।।७३।।
इत्थं प्रभाते परमं पवित्रं शृणुयात्पठेत् ।
स्मरेद् भक्त्या सुप्रभातं भवेदेव न संशयः ।।७४।।
हरिं स्मृत्वा देहशुद्धिं कृत्वा स्नात्वा विधानतः ।
तर्पणं च तथा सन्ध्यां कुर्याच्छ्रीहरिपूजनम् ।।७५।।
तिलकं चन्द्रकं कुर्याद् देवपूजनमित्यपि ।
सूर्याय नमनं कुर्यात् प्रणमेत् पितरौ पतिम् ।।७६ ।।
गुरुं नत्वा सतीं नत्वा गां नत्वा होममाचरेत् ।
पश्येत् प्रातर्दधि दूर्वां सर्पिर्धेनुं सवत्सिकाम् ।।७७।।
उदकुंभं च वृषभं सुवर्णं स्वस्तिकं मधु ।
गोमयं चाऽक्षतान् लाजा मृदं ब्राह्मणकन्यकाः ।।७८।।
श्वेतपुष्पाणि सस्यानि वह्निं चन्दनमर्ककम् ।
अश्वत्थं साधुपुरुषं दर्पणं प्रतिमां हरेः ।।७९।।
अतिथिं पूजयेद्भावात् साधुसङ्गं समाचरेत् ।
अर्केऽभ्यङ्गं न वै कुर्यान्मंगले क्षीरमेव न ।।2.26.८०।।
बुधे न योषितं गच्छेन् पतिं गच्छेन्न पर्वणि ।
उदक्छिराः स्वपेन्नैव प्रतीचीमस्तको न च ।।८ १ ।।
देवालयं चैत्यतरुं विद्वांसं च चतुष्पथम् ।
गुरुं वृद्धं प्रकुर्यात्तु प्रदक्षिणं वृषप्रदम् ।।८२।।
अन्यधृतं च मलिनं वस्त्रं नैव हि धारयेत् ।
स्नायान्नित्यं ग्रहादौ च देवदानादिकं चरेत् ।।८३।।
सत्सु वसेन्न त्वसत्सु पुण्यदेशेषु संवसेत् ।
बद्धवैरे वसेन्नैव धर्महीने जनेऽपि च ।।८४।।
अभोज्याः सूतिकाः षण्डो मार्जाराखू च कुक्कुटाः ।
पतिताऽपविद्धनग्नाश्चाण्डाला अधमाश्च ये ।।८५।।
ब्राह्मणी ब्राह्मणश्चापि भिक्षुकौ व्यभिचारिणौ ।
तावुभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम् ।।८६।।
न जुहोत्युचिते काले न स्नाति न ददाति च ।
पितृदेवार्चनाद्धीनः स षण्डः परिगीयते ।।८७।।
दंभार्थं जपति यश्च तपति पठतीत्यपि ।
न परत्रार्थमुद्युक्तो मार्जारः परिकीर्तितः ।।८८।।
विभवे सति नैवाऽत्ति न ददाति न जुहोति न ।
तमाहुराखु तस्यान्नं भोक्तव्यं नैव धर्मिणा ।।८९।।
सभागतानां यः सभ्यः पक्षपातं समाश्रयेत् ।
तमाहुः कुक्कुटं तस्य जलान्नं बहु गर्हितम् ।।2.26.९० ।।
स्वधर्महाः परधर्मग्राहकः पतितः स्मृतः ।
देवपितृगुरुत्यागी गोविप्रस्त्रीविघातकः ।।९ १ ।।
अपविद्धस्तदन्नं न भोक्तव्यं पापदूषितम् ।
येषां कुले न वेदोऽस्ति न कथा नैव च व्रतम् ।।९२।।
ते नग्नाः कीर्तितास्तेषामन्नं संस्कारदूषितम् ।
आशार्त्तानामदाता च दातुश्च प्रतिषेधकः ।।९३ ।।
शरणागतसन्त्यक्ता स चाण्डालोऽधमो जनः ।
तेषामन्नं न भोक्तव्यं दोषभागन्यथा भवेत् ।।९४।।
यच्चापि कुर्वतो नात्मा जुगुप्सामेति सर्वथा ।
तत्कर्तव्यमशंकेन यत् स्यात् कल्याणदं परम् ।।९५।।
एवमाचारवत्याश्च सत्या गृहे वनेऽपि वा ।
धर्मार्थकाममोक्षा वै भवन्त्येव न संशयः ।।९६ ।।
भूमौ शय्या ब्रह्मचर्यं तपोभिश्चात्मदर्शनम् ।
सर्वसंगपरित्यागः श्रीकृष्णस्मरणं सदा ।।९७।।
सर्वार्पणं हरौ कृष्णे गुरौ सर्वान्तरात्मनि ।
यया कृतं न लिप्येत देहजैः कर्मभिः क्वचित् ।।९८।।
भवत्यः सर्वथाऽनादिकृष्णनारायणं हरिम् ।
बालरूपं प्रसेवन्ताम् परो मोक्षो भविष्यति ।।९९।।
अत्र चात्मनिवेदित्वं कृतं यया तु योषिता ।
तस्या धाम्नि परा मुक्तिर्भवत्येव न संशयः ।। 2.26.१० ०।।
निद्रायां जाग्रति स्वप्ने स्थूले सूक्ष्मे हृदन्तरे ।
राजसे तामसे सत्वभावे स्मरन्तु माधवम् ।। १०१ ।।
आत्मना चेन्द्रियैर्वापि देहेन सेवया हरिम् ।
अन्तःकरणैः कर्मभिः प्रसादयन्तु तं पतिम् ।। १ ०२।।
इत्युक्तास्ताश्च जगृहुर्नाममन्त्रं हि लोमशात् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।। १ ०३।।
इत्यस्य रटणं चक्रुर्दिवारात्रमतन्द्रिताः ।
शतं ता दिव्यतां प्राप्ताः सततं जपकारणात् ।। १ ०४।।
अनादिश्रीकृष्णनारायणो बालो विमानगः ।
शतेन तु विमानानां सहितः समुपाययौ ।। १ ०५।।
ताः समारोहयामास विमानाग्र्येषु माधवः ।
निनाय ताः परंधामाऽक्षरादप्युत्तरं हि यत् ।। १ ०६।।
अथ याः कन्यकास्तास्तु गृहीत्वा लोमशाद् गुरोः ।
उपदेशं च तं कृष्णं बालं मत्वा पतिं निजम् ।। १ ०७।।
भेजुस्तत्रैव कन्यासु स्थित्वा सहस्रशस्तदा ।
पठनाच्छ्रवणाच्चापि बालकृष्णं लभेत् सती ।। १ ०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रावण्यां सरसस्तटे यज्ञसूत्रोत्सवे सालमालवंशीयदैत्यानामागमनं युद्धं प्रभुणा तेषां नाशो मोक्षधर्मा लोमशोपदिष्टाश्चेत्यादिनिरूपणनामा षड्विंशतितमोऽध्यायः ।। २६ ।।