लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०२९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२८ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २९
[[लेखकः :|]]
अध्यायः ०३० →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके वर्षे चतुर्थे माघमासि च ।
नियमं जगृहुर्माघस्नानस्याऽश्वसरोजले ।। १ ।।
ब्राह्मणा ऋषयः कन्यास्तथाऽन्ये तत्र वासिनः ।
ब्राह्ममुहूर्तमारभ्य जनाः स्नान्ति सरोवरे ।। २ ।।
नित्यं जले निमज्जन्ति पञ्चषो बालबालिकाः ।
अकस्मात्ते न दृश्यन्ते स्नानकृद्भिर्जलस्थितैः ।। ३ ।।
जनैरपीति तीरस्थैर्वीक्ष्यते नैव कारणम् ।
कल्पयन्ति जनास्तत्र मकराः सन्ति घातकाः ।। ४ ।।
अन्ये वदन्ति च ग्राहा विद्यन्तेऽत्र समागताः ।
परे तु तर्कयन्त्येवं पिशाचाः सन्ति वासिनः ।। ५ ।।
राक्षसा भक्षयन्त्येतान् बालान् घातकिनः खलु ।
किमिदं कारणं तत्तु प्रत्यक्षं ज्ञायते नहि ।। ६ ।।
आक्रोशोऽभूत्तदा देशे सौराष्ट्रे सर्वतोदिशि ।
अश्वपट्टसरोवारि जीवान् ग्रसति पञ्चषट् ।। ७ ।।
स्नानं तत्र न कर्तव्यं म्रियन्ते बालका यतः ।
केनचिद्वै जले बाला ह्रियन्तेऽश्वसरोवरे ।। ८ ।।
श्रीराधिकोवाच-
कोऽयं बालप्रहर्ता वै जले तत्राऽभवत्तदा ।
वद मे कारणं तस्य बालानामभवच्च किम् ।। ९ ।।
श्रीकृष्ण उवाच-
शृणु तद् राधिके सर्वं कथयामि समासतः ।
पश्चिमे आरक्तदेशे राजाऽभूत् शावदीनकः ।। 2.29.१० ।।
शवे देहे भवश्चात्मा शावस्तत्रैव दीनवत् ।
वर्तते ज्ञानवृत्त्येति शावदीनाऽभिधानवान् ।। ११ ।।
तस्य भार्याशतं चासीत् किन्तु पुत्रो न चाऽभवत् ।
पुत्र्यस्तस्य सहस्रं वै विद्यन्ते पुत्र एव न ।। १२।।
ततः शोकं गतो राजा पप्रच्छ स्वगुरुं यतिम् ।
कथं पुत्रः प्रजायेत कारणं मे वदाऽत्र नु ।। १३ ।।
यतिदीनो गुरुस्तस्योवाच ध्यात्वा क्षणं च तम् ।
ऋणानुबन्धनात्पुत्रो जायते ऋणकाम्यया ।। १४।।
अनिर्वृत्ते ऋणे मृत्युर्यस्य लोके प्रजायते ।
ऋणं दातुं गृहे तस्य पुत्रो वृषोऽश्व एव वा ।। १५।।
उष्ट्रोऽजः खर एवाऽसौ जायते कर्मबन्धनात् ।
अधमर्णगृहे यद्वा उत्तमर्णः सुतो भवेत् ।। १६।।
पूर्वं दत्तं धनं नीत्वा मृत्युं गच्छति निर्ऋणः ।
राजँस्त्वं कस्यचिन्नाऽऽस्से ह्यधमर्णः पुरा भवे ।। १७।।
तेन कोऽपि तव नाऽऽसीदुत्तमर्णो धनप्रदः ।
तदृणं ते च नैवाऽस्ति कस्ते सुतोऽत्र संभवेत् ।। १८।।
आनृण्यं सर्वथा श्रेष्ठं चेष्टं मुक्तिप्रदं भवेत् ।
तथापि चेत्तवेच्छाऽस्ति पुत्रार्थं कुरु पूजनम् ।। १९।।
शावदीना महाकाली पूजिता बलिदानतः ।
पुत्रं ते दास्यति सार्वभौमं चिरप्रजीविनम् ।।2.29.२ ०।।
शावदीनामहाकाल्यै बालस्य बलिदानतः ।
बाललाभो भवेत्तत्र बलिः श्रेष्ठ उदाहृतः ।। २१ ।।
पञ्चमाद् वत्सरान्न्यूनो बालश्चेच्छुभलक्षणः ।
दीयेत यदि शाविन्यै तदा सापि दहेत् सुतम् ।।२२।।
राजा प्राह कथं कीदृग्लक्षणो बालकोऽर्प्यते ।
वद् तल्लक्षणं येन सार्वभौमो भवेत् सुतः ।।२३।।
यतिदीनोऽवदत्तं च शृणु राजन् वदामि तत् ।
यस्य हस्ते मत्स्यरेखा धनुष्यं ज्याशरान्वितम् ।।२४।।
ध्वजः शूलं स्वस्तिकं च चक्रं यवो भवेच्च वा ।
यस्य पादे त्रिगुल्फानि च वा प्रासादलेखनम् ।।२५।।
यल्ललाटे त्वेकरेखा कण्ठे श्यामतिलश्च वा ।
यद्रूपं चम्पकाभं च नेत्रप्रान्ते दलायते ।।।२६ ।।
यज्जघने पुत्तली च रेखारूपा विराजते ।
यद्वा वामे सक्थिनि यत् पाण्डुरं कमलं भवेत् ।।२७।।
स बालो वै महाकाल्यै देयो बलिंविधानतः ।
तेन ते भविता पुत्रश्चक्रवर्तीमहानृपः ।। २८।।
यतिदीनात्तथा श्रुत्वा शावदीनो नरेश्वरः ।
तादृग्बालान्वेषणार्थं सिद्धयतीन् युयोज ह ।।२९।।
व्योमगाः सिद्धयतयो हस्तरेखापरीक्षकाः ।
नीलाम्बरधरा उर्व्यां विचेरुर्बाललब्धये ।।2.29.३ ०।।
पश्यन्ति बालरेखास्ते तथा ज्योतिर्ग्रहादिकान् ।
सर्वखण्डेषु यतयश्चरन्ति स्म तदा प्रिये ।।३ १।।
तत्रैकः कासदीनाख्यः सौराष्ट्रं त्वाययौ तदा ।
अश्वपट्टसरस्तीरं चाययौ लोमशाश्रमम् ।।३२।
उक्तलक्षणबालं श्रीकृष्णनारायणाह्वयम् ।
श्रुतवान् लोमशात् सोऽपि कम्भरानन्दनं तदा ।।३३ ।।
वीक्ष्य लक्षणसम्पन्नं सर्वरेखान्वितं शुभम् ।
ययौ व्योम्ना द्रुतम् आरक्तदेशे नृपतिं प्रति ।।३४।।
उवाच विद्यते देशे सौराष्ट्रे बालकस्तथा ।
कुंकुमवापिकाक्षेत्रे गोपालकृष्णपुत्रकः ।। ३५।।
श्रुत्वा स्वेष्टं तदा राजा यतये ग्रामपञ्चकम् ।
ददौ चाथ यतीन् पञ्च त्विन्द्रजालविदस्तदा ।।३६।।
प्रेषयामास सौराष्ट्रं चाश्वपट्टसरोवरम् ।
माघे स्नानपरा लोका यत्र स्नान्ति जले शुभे ।।३७।।
तत्र ते यतयो नित्यमचक्षुर्गोचरास्तटे ।
भ्रमन्ति स्म च तद्बालं हर्तुं यत्नपुरःसराः ।।३८।।
पञ्चषड् बालकान् नित्यं जलेऽन्तर्भावयन्ति ते ।
नयन्ति तान् द्रुतं चारक्तदेशं भूमिपालये ।।३९।।
जीवतस्तान् प्ररक्षन्ति राजभृत्याः सुखप्रदाः ।
यतयोऽश्वपट्टतटे कुर्वन्त्येवं दिवानिशम् ।।2.29.४०।।
रेखान्वितस्य बालस्य लाभार्थं चाऽविदो हि ते ।
रेखाऽनभिज्ञास्ते सर्वे हरन्ति बहुबालकान् ।।४१ ।।
यतिदीनस्तु रेखाणां वीक्षणं प्रकरोति हि ।
दृश्यते नैव रेखा सा तावन्नैव विमुञ्चति ।।४२।।
ह्रियन्ते बालकास्तत्र हाहाकारो हि वर्तते ।
अनादिश्रीकृष्णनारायणः स्नाति गृहान्तरे ।।४३।।
यतीनां करगो नाऽभूदशृणोद् बालनाशनम् ।
ततोऽसौ भगवान् मात्रा समं प्रसह्य वै गृहात् ।।४४।।
विनिर्गत्य ययौ त्वश्वपट्टसरोऽवगाहितुम् ।
माता स्नाति तटे बालो वर्तते सन्निधौ यदा ।।४५।।
तं जिघृक्षुर्यतिस्तत्राऽदृश्यः शीघ्रमुपाययौ ।
जलमानवरूपोऽसौ भूत्वा जग्राह बालकम् ।।४६।।
रूपद्वयधरो बालस्तस्य हस्तगतोऽभवत् ।
द्वितीयेन स्वरूपेण रमते मातृसन्निधौ ।।४७।।
माँ माँ माई पश्य अम्माँ जलमानुषमुल्बणम् ।
बालकं प्रतिगृह्णन्तं मां पश्यन्तं मुहुर्मुहुः ।।४८।।
अपरं बालकं नीत्वा यान्तं जलतलं च माँ ।
पश्य पश्य सबालं तं जले विशन्तमायतम् ।।४९।।
त्रितालमानं चन्द्राभं पिशंगकेशमस्तकम् ।
सिंहचक्षुःसमभ्राजच्चक्षुःपिशंगतारकम् ।।2.29.५०।।
रज्जुवद्दीर्घिकाः सर्वांगुलयो भुजयोर्द्वयोः ।
शाखावल्लम्बमानौ च भुजौ पीनौ च शुण्ढवत् ।।५१।।
मुखं वानरतुल्यं च रक्तश्मश्रुसमन्वितम् ।
दंष्ट्राचतुष्टयं पार्श्वे दृश्यते बर्हिरुल्बणम् ।।५२।।
शृंगं चांकुशवत्तस्य कपालोर्ध्वे च विद्यते ।
स्कन्धे पुच्छद्वयं पुच्छद्वयं तस्य नितम्बयोः ।।५३ ।।
रज्जुचतुष्टयतुल्य विद्यतेऽस्य सुदीर्घकम् ।
हृद्ये पृष्ठके चाऽस्य दीर्घरोगाढ्यताऽस्ति च ।।।५४।।
हस्तपादांगुलिमध्ये जालचर्माणि सन्त्यपि ।
नाभौ चास्य पतंगोऽस्ति दीपवद्वै प्रकाशते ।।५५।।
सजालपादाऽङ्गुलिका दीर्घा विद्यन्त एव च ।
उदरे कोष्टली चास्ते बालशालासमाऽस्य तु ।।५६ ।।
पादौ कुरुतः करयोः करौ कार्यं च पादयोः ।
अस्तनश्चाप्यकर्णश्च वह्निरोमा भयप्रदः ।।५७।।
चिंचिंहुक् चिंचिंशब्दं कुर्वन् जलतले गतः ।
पश्यैनं बालकानत्र हरन्तं दैत्यसन्निभम् ।।५८।।
पश्यन्तु च जनाः सर्वे मारयन्तु च तं यतः ।
घातिनं हिंसकं शीघ्रं नाशयेत् सर्वयत्नकैः ।।५९।।
इत्युक्त्वा तद्धस्तगतो हरिर्विनिर्ययौ जलात् ।
दर्शकाश्च जनास्तत्र नरा नार्यश्च संहताः ।।2.29.६ ०।
अभवन् त्रासमापन्नाः शुशुचुर्बहुबालकान् ।
हृतान् बालांश्च संस्मृत्य हननोपायमाचरन् ।।६ १ ।
शतघ्नी रक्षिता तीरे कृत्रिमाबालपुत्तलाः ।
नेतुं तान् पुत्तलाँश्चायाद् यदा तीरे जलेऽपि च ।।६ २।।।
शतघ्न्या नाशयितव्य इत्येवं निर्णयं व्यधुः ।
अथाऽयं वायुरूपेण झंझावाते विधाय च ।।६३।।
सिद्धदीनोऽहरद्वेगात् शतघ्नीं पुत्तलीस्तथा ।
त्रस्ताश्च दिवसे लोकाः स्वस्वगृहमुपाययुः ।।६४।।
पुत्तल्ल्यश्च शतघ्नी च सर्वं नष्टं तदाऽभवत् ।
आश्चर्यं हि जनाः प्राप्ता लोमशं शरणं ययुः ।।६५।।
जलमानवनाशार्थं कि कार्यमृषिसत्तम ।
बालान् हरति दुष्टात्मा संहारोऽयं भयंकरः ।।६६ ।।
श्रुत्वा वै लोमशः प्राह संविचार्य क्षणं हृदि ।
एते चारक्तदेशीयाः यतयः पञ्च सन्ति ते ।।६७।।
इन्द्रजालमहाविद्या बहुरूपधरास्तथा ।
म्लेच्छा म्लेच्छक्रिया म्लेच्छनृपाऽऽज्ञयाऽत्र चागताः ।।६८।।
आसुराः कार्मणकाश्च हिंसका निर्दयास्तथा ।
तेषां विनाशनं कृष्णः स्वयमेव करिष्यति ।।६९।।
अनादिश्रीकृष्णनारायणो जानाति तद्विधाम् ।
आसुराणां विनाशार्थं प्राकट्यं श्रीहरेर्यतः ।।2.29.७०।।
राक्षसानामौषधं च स्वयमेव करिष्यति ।
एवमुक्त्वा लोमशोऽत्र सस्मार बालकृष्णकम् ।।७१ ।।
हरिर्हसन् समायाच्च प्रभुः कैशोररूपधृक् ।
गरुडस्थः सचक्रश्च प्रोवाच लोमशादिकान् ।। ७२।।
कथं संस्मृतवानस्मि वदन्तु शीघ्रमेव मे ।
लोमशाद्यास्तदा नत्वा प्राहुर्बालाद्युपद्रवम् ।।७३ ।।
जलमानुषरूपेण राक्षसानां सरःस्थितिम् ।
श्रुत्वा सर्वं हरिः प्राह मत्स्यशूलधनुर्धरम् ।।७४।।
सध्वजं बालकं ते च मार्गयन्ति जले स्थिताः ।
मदर्थं ते यतन्ते च शावदीनाप्रपूजने ।।७५।।
अर्पणीयो बालकः समत्स्यशूलधनुर्ध्वजः ।
बलिदानेन राजा च सुतं वै तादृशं लभेत् ।।७६।।
अहं हस्तगतस्तेषां नाऽभवं चाऽत एव ते ।
व्यापारयन्ति बालानां हरणे शिक्षयामि तान् ।।७७।।
इत्युक्त्वा भगवान् बालो ययावश्वसरस्तटम् ।
तावत् स धृतवान् कृष्णं जलमानुषरूपधृक् ।।७८।।
सहस्रेषु च लोकेषु पश्यत्स्वेव हि राधिके ।
अथ हाहाकृतं सर्वं चासीत् तत्र सरस्तटे ।।७९।।
हरिर्जले सचक्रश्च प्रविष्टो दिव्यरूपवान् ।
असुरेण धृतस्तेन युयुधे च जलान्तरे ।।2.29.८० ।।
चक्रेण भगवाँस्तस्य रज्जुबन्धचतुष्टयम् ।
छेदयित्वा शिरःशृंगं हस्तपादप्रकोष्ठकान् ।।८१ ।।
तालत्रयसमः कृष्णश्चाबद्ध्य तं च रज्जुभिः ।
आनयामास च बहिर्जलाज्जीवन्तमेव च ।।८२।।
तालत्रयप्रमाणं च श्वेतं तं जलमानुषम् ।
दृष्ट्वा जना महाश्चर्यमवापुर्विस्मयं गताः ।।८३।।
अथाऽन्ये यतयस्तत्र चत्वारो ये जले स्थिताः ।
तेऽपि वारिमनुष्याणां रूपैर्बहिः समाययुः ।।८४।।
प्रार्थयामासुरत्यर्थं प्राणरक्षणहेतवे ।
बालका मारिता नैव सर्वे जीवन्ति ते जगुः ।।८५।।
आनयिष्याम एवाऽत्र प्राणदानं तु देहि नः ।
इत्युक्तो भगवान् विष्णुः कृष्णनारायणः प्रभुः ।।८६।।
जीवदानं ददौ तेभ्यः समुवाच प्रभुः पुनः ।
आगच्छन्तु मया सार्धं व्योम्ना गरुडगामिना ।।८७।।
यत्रैते बालकाः सन्ति रक्षिता जीविनः खलु ।
म्लेच्छा वारिमनुष्यास्ते श्रुत्वा कृष्णवचस्तदा ।।८८।।
व्योम्ना ययुर्हरिं नीत्वा देशमारक्तमुज्ज्वलम् ।
रक्तवर्णं रक्तजलं रक्तमानवमण्डलम् ।।८९।।
यत्रास्ते सर्वमारक्तं प्रायशो भूस्तरं तथा ।
शावदीनो महाराजो यतिदीनो गुरुस्तथा ।।2.29.९०।।
शावदीना महाकाली यत्रास्ते भूमिपालये ।
तत्र कृष्णो यतयस्ते ययुः राज्ञा सुसत्कृताः ।।९ १ ।।
बालका दर्शितास्तत्र पञ्चाशत् सुखिनोऽव्यथाः ।
सुन्दरं बालकृष्णं च दृष्ट्वा नृपादयः खलु ।।९२।।
ज्ञात्वा सिद्धयतिभ्यश्च चमत्कारं परं शुभम् ।
राजपत्न्यो राजकन्याः श्रीहरिं पुरुषोत्तमम् ।।९३।।
सम्मृद्य चोत्तरतैलैः सुगन्धिचूर्णकैस्तथा ।
स्नपयामासुरत्यर्थं कवोष्णैर्वारिभिस्तदा ।।९४।।
रूपानुरूपावयवं मीनशूलधनुर्धरम् ।
सध्वजं च करं दृष्ट्वा मुमुहुर्मुमुदुस्तथा ।।९५।।
अहोऽयं बलियोग्योऽस्ति स दिष्ट्याऽत्र समागतः ।
एवमावेदयाञ्चक्रुः राजानं सत्वरं स्त्रियः ।। ९६।।
राजा विचार्य तूर्णं हि भटान् सेनापतींस्तथा ।
कारागारे तु तं धर्तुमाज्ञां ददौ प्रहस्य वै ।। ९७।।
रूपमुग्धाश्च ताः कन्या नेच्छन्ति मरणं हरेः ।
राज्ञ्यः पुत्रेच्छया तत्र बलिमिच्छन्ति वै हरिम् ।।९८।।
बालरूपधरः कृष्णो धृतो भटैस्तु तत्क्षणम् ।
अवाद्यन्त च वाद्यानि राजा मेने कृतार्थताम् ।।९९।।
सुदर्शनं च गरुडो बालौ भूत्वा शुभास्यकौ ।
बालेषु च मिलित्वैव धैर्यं ददतुः रक्षकौ ।। 2.29.१ ००।।
अथ कृष्णो निगडस्थः कारागारे कृतो भटैः ।
कन्यका मोहमापन्नाः सहस्रसंख्यकास्तदा ।। १० १।।
शावदीनामहाकालीनियमं जगृहुर्मुदा ।
यदि बालो विमुच्येत भवेच्चास्मत्पतिस्तदा ।। १ ०२।।
करिष्यामो व्रतं मासं केवलं हि पयोव्रतम् ।
शावदीनापूजनं च करिष्यामो दिवानिशम् ।। १०३ ।।
अद्यतस्त्यज्यते मिष्टं मधु शृंगारकादिकम् ।
शावदीनादेविकायाः कुर्मो मालाद्विपञ्चकम् ।। १ ०४।।
इत्येवं नियमं ताश्च जगृहुर्बालरक्षकम् ।
अथ रात्रौ प्रसुप्ताश्च प्रजा राजा भटादयः ।। १ ०५।।
श्रीहरिर्बन्धने सुप्तो लोकलीलाप्रदर्शकः ।
द्वितीयेन स्वरूपेण वर्तते स्वगृहे प्रभुः ।। १ ०६।।
कुंकुमवापिकाक्षेत्रे सर्वानन्दकरो हरिः ।
वक्ति चारक्तदेशोत्थां वार्तां श्रीलोमशर्षये ।। १०७।।
शृण्वन्ति सर्वे साश्चर्यं मन्वते दूरभूमिजम् ।
एवं रात्रिर्व्यतीता च प्रभातं समजायत ।। १ ०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आरक्तदेशीयराज्ञा पुत्रार्थं शावदीनाकाल्यै बालबलिदानार्थकबद्धबालानां मोक्षणार्थं श्रीहरेस्तत्र गमनं सहस्रकन्यकानां हरौ मुग्धता चेत्यादिनिरूपणनामा एकोनत्रिंशत्तमोऽध्यायः ।। २९ ।।