लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५७८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५७७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५७८
[[लेखकः :|]]
अध्यायः ५७९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि कथां त्वन्यां तीर्थानां पापनाशिनीम् ।
शंकरोक्तामृक्षकाद्रौ पार्वत्यै ते वदाम्यहम् ।। १ ।।
गायमानस्य मे क्षेत्रे मन्दिरे मम सन्निधौ ।
पुण्यं वादयमानस्य नृत्यतो जाग्रतस्तथा ।। २ ।।
गोदातुरन्नदातुश्च जलदातुश्च यत्फलम् ।
मार्जयितुर्लेपयितुर्गन्धपुष्पप्रदायितुः ।। ३ ।।
धूपदीपसुनैवेद्यप्रदातुश्चापि यत्फलम् ।
जपयज्ञादिकर्तुश्च यत्फलं चैहिकं तथा ।। ४ ।।
पारलौकिकमेवापि जायते तद् वदामि ते ।
शृणु पूर्वं खञ्जरीटः पक्षी गंगातटेऽभवत् ।। ५ ।।
कीटान् बहून् प्रभुक्त्वा स ह्यजीर्णातिप्रपीडितः ।
गंगायां पतितस्तत्र जले मृत्युमुपागतः ।। ६ ।।
तेन पुण्येन वैश्यस्य कोट्यधिस्वामिनो गृहे ।
धनरत्नमहास्मृद्धेऽजायत प्रविभक्तिमान् ।। ७ ।।
मानं करोति सततं देवाग्रे मन्दिरे मम ।
एककीर्तनजं पुण्यं सप्तजन्माघनाशनम् ।। ८ ।।
इति मत्वा करोत्येषो गायनं कृष्णसन्निधौ ।
द्वादशाब्दे गते वर्षे पितरौ प्राह हर्षतः ।। ९ ।।
मत्प्रियं यदि कर्तव्यमेको मे दीयतां वरः ।
न चाहं वारणीयो वै पित्रा मात्रा कथंचन ।। 1.578.१ ०।।
सत्यं व्रतं समास्थाय तीर्थयात्रा मयेष्यते ।
श्रुत्वा तं पितरौ तुष्टावूचतुर्वद चेप्सितम् ।। ११ ।।
गावस्त्रिंशत्सहस्राणि सर्वा वै शुभदोहनाः ।
यद्यत्र रोचते दानं देहि त्वमविचारितम् ।। १२।।
लक्षकोट्यात्मकं द्रव्यं दाने प्रदीयतां धनम् ।
धनधान्यानि रत्नानि देहि पुत्र ह्यवारितः ।। १ ३।।।
कन्या वै रमणीयाः सु समुद्वह विधानतः ।
यज्ञैर्यष्टं समिच्छा ते यज देवं जनार्दनम् ।। १४।।
यावद्भोजनतृप्तान् वा साधूनिच्छसि तर्पितुम् ।
सर्वं निजेच्छया पुत्र कर्तुमर्हसि साम्प्रतम् ।। १५।।
नय सार्धं त्वया पुत्र तीर्थयात्राकृतेऽपि च ।
शुभं वै चिन्तितं पुत्र तीर्थं नारायणाश्रमम् ।। १६ ।।
अद्य मातृस्तनौ धन्यौ त्वया पुत्रेण सार्थकौ ।
आयान्ति च पुनर्यान्ति गता गच्छन्ति चापरे ।। १७।।
दृश्यते च क्षणे नष्टो पुनर्भवति नश्यति ।
तस्माद्भक्तिर्हरेस्तीर्थं कर्तव्यं वै सुपुत्रकैः ।। १८।।
मातापितृसहस्राणि पुत्रदारशतानि च ।
जन्मजन्मनि वर्तन्ते कस्य ते कस्य वा वयम् ।। १ ९।।
तस्मात् पुत्र त्वया चाद्य शुभकार्येण तारिताः ।
पितरः पितरश्चापि वयं धन्याः सुपुत्रतः ।।1.578.२०।।
किन्तु वद विशेषं चेद् गुप्तं रहस्यमस्ति चेत् ।
वैराग्यं वा गृहौदासीनता ते वर्तते किमु ।। २१ ।।
गुप्तं चेन्नैव गोप्तव्यं पितरौ प्रति पुत्रक ।
इति श्रुत्वा द्वयोर्वाक्यं नत्वा प्राह शुभं सुतः ।।२२।।
तत्राऽहं कथयिष्यामि तीर्थे श्रीहरिसन्निधौ ।
बाढमित्येव तं पुत्रं दम्पती प्रोचतुस्तदा ।।२३ ।।
गमने कृतसंकल्पा ययुः सौकरवं प्रति ।
यत्तु किंचिद्गृहे चास्ति कृतं नारायणं प्रति ।। २४।।
वैशाखद्वादशिकायां तीर्थक्षेत्रमुपागताः ।
स्नाताः सन्तृप्य विष्णुं वै ददुर्दानानि भूरिशः ।।२५।।
षण्मासा विगतास्तेषां कृष्णलग्नहृदां ततः ।
कौमुदे कार्तिके शुक्ले ह्येकादश्यां व्रतान्विताः ।।२६ ।।
द्वादश्यां च सुतः पृष्ठः पितृभ्यां स्मारकं प्रति ।
पुत्रस्तच्चरणौ स्पृष्ट्वा पितरौ समभाषत ।।२७।।
खञ्जरीटो ह्यहमासं पक्षी चात्र स्थले पुरा ।
अजीर्णेन मृतस्त्वत्र तेन पुण्येन वां सुतः ।। २८।।
जातोऽस्मि भक्तिमान् जातिस्मरश्चाऽथ नमामि वाम् ।
प्रकाशे गोपनीयस्य ममाऽऽयुर्याति पूर्णताम् ।।२९।।
गमिष्ये भगवद्धाम गायमानस्य मे फलम् ।
इत्युक्त्वा च जलं पीत्वा नत्वा च पितृपादयोः ।।1.578.३ ०।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
इत्येवं गायमानः स भूत्वा दिव्यवपुर्धरः ।।३ १ ।।
चतुर्बाहुः पार्षदैश्च विमाने सन्धृतश्च सः ।
मुक्तो भूत्वा ययौ धामाऽक्षरं प्रकृतिपारगम् ।।३२।।
ततो माता पिता चान्ये दृष्ट्वाऽऽश्चर्यमनुत्तमम् ।
तेऽपि भक्तिं परां चक्रुश्चान्ये ये च समागताः ।।३३।।
स्वल्पेनैव च कालेन मम मुक्तिमुपागताः ।
सर्वे हि योगिनस्तत्र धाम्नि चोत्पलगन्धिनः ।।३४।।
मोदन्ते तु यथाभावं प्रसादात् क्षेत्रजान्मम ।
एवं वै गायमानस्य मुक्तिर्भवति मेऽनधे ।।३५।।
शृणु तत्त्वेन मे देहि लिम्पमानस्य यत्फलम् ।
मृत्तिकायुग्गोमयेन मम वेश्मोपलेपयेत् ।।३६।।
न्यस्तानि तत्र यावन्ति पदानि तु विलिम्पता ।
तावद्वर्षसहस्राणि दिव्यानि दिवि मोदते ।।३७।।
सकामश्चेद् भवेद् राजा दिव्यवर्षसहस्रकम् ।
भक्तौ व्यवस्थितः पश्चान्मम धामाऽभिगच्छति ।।३८।।
समीपे वा यदि दूरे गत्वा नयति गोमयम् ।
यावन्ति तत्पदान्यस्य तावद्वर्षसहस्रकम् ।।३९।।
गोमयानां च नेता स स्वर्गलोके महीयते ।
ततश्च राजा भवति पदवर्षसहस्रकम् ।।1.578.४०।।
मम भक्तिं सदा कृत्वा त्वन्ते मद्धाम याति हि ।
उपलेपने स्नाने वा सलिलं यो ददाति सः ।।४१ ।।
यावन्तो बिन्दवस्तत्र पानीयस्य भवन्ति हि ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।४२।।
तावद्वर्षसहस्राणि राजा भूत्वा ततः परम् ।
मां प्रसाद्य गुणैर्भक्तो मम धामाभिगच्छति ।।४३।।
सम्मार्जनं मन्दिरस्य करोति स्त्री नरोऽपि वा ।
यावन्तः पांसवो भूमेरुड्डीयन्ते तु मार्जिताः ।।४४।।
तावद्वर्षशतान्याशु स्वर्गलोके महीयते ।
तावद्वर्षशतान्यत्र राजा भूत्वा ततः परम् ।।४५।।
मम भक्त्या मम धाम प्रयाति मत्स्वरूपवान् ।
गायनं ये प्रकुर्वन्ति मम सेवापरायणाः ।।४६।।
प्रत्यक्षरं तु वर्षाणां सहस्रं दिवि मोदते ।
सर्वसेवागुणयुक्तो नित्यदा मम पूजकः ।।४७।।
ततो भूमौ भवेद् राजा वैष्णवो वैष्णवैः सह ।
गायन्मम यशो नित्यं भक्त्या परमया युतः ।।४८।।
मत्प्रसादादायुषोऽन्ते मम धामाऽभिगच्छति ।
चाण्डालो ह्यभवत् कश्चिद् वने मन्मूर्तिसन्निधौ ।।४९।।
गायति स्म सदा गीतिं दूरमागत्य चैकदा ।
धृतः स रक्षसा तूर्णं खादितुं तु तदा हि सः ।।1.578.५० ।।
उवाच राक्षसं गीत्युत्तरं मां खाद निर्भरम् ।
इदानीं तु क्षणं मुञ्च व्रतपुण्यं करोम्यहम् ।।५ १।।
विष्णोर्वै तोषणार्थं च मया गीतिः प्रगीयते ।
जागरं चर्यते रात्रौ प्रातर्भुक्ष्वाऽऽगतं च माम् ।।५२।।
अस्नातानां गतिं यास्ये यद्यहं नागमे पुनः ।
ब्रह्मघ्नानां सुरापानां स्तेनानां पिशिताशिनाम् ।।५३।।
व्यवायिनां गतिं यास्ये यद्यहं नागमे पुनः ।
श्रुत्वैवं रक्षसा मुक्तो गीतिं च जागरं तथा ।।५४।।
चण्डालः प्रचकाराऽथ प्रातर्हरिस्तु भूसुरः ।
भूत्वा समाययौ प्राह मा गच्छ राक्षसं प्रति ।।५५।।
जिवितार्थाय सत्यस्य त्यजने दूषणं न वै ।
श्रुत्वा तं श्वपचः प्राह सत्यं मे निश्चितं व्रतम् ।।५६ ।।
सत्यमूलं जगत्सर्वं ह्यात्मा सत्ये प्रतिष्ठितः ।
नाऽहं मिथ्या चरिष्यामि गच्छ विप्र नमोऽस्तु ते ।।५७।।।
एवमुक्त्वा श्वपाकस्तु गतो यत्र स राक्षसः ।
प्राह शीघ्रं खाद मां च मोक्षो ते मे भवेद् द्रुतम् ।।५८।।
रक्षः प्राह प्रसन्नोऽस्मि सत्याधारं च पालितम् ।
ब्रह्म सत्यधृतिः प्रोक्तं त्वया तद्रक्षितं यतः ।।।५९।।
नेच्छामि भक्षितुं त्वां च देहि मे गीतिजं फलम् ।
येन मोक्षं प्रगच्छामि त्वया साकं सुभक्तिमन् ।।1.578.६०।।
चण्डालेन तदा दत्तं रक्षसे गीतिकाफलम् ।
रक्षो देहं परित्यज्य ययौ वैकुण्ठमुत्तमम् ।।६१ ।।
चण्डालोऽपि हरेर्भक्तो ययौ यानेन धाम च ।
तत्र चतुर्भुजो भूत्वा सिषेवे परमेश्वरम् ।।६२।।
एवं वै गीतिकापुण्यं स्वर्गमोक्षादिदायकम् ।
पापघ्नं दिव्यतासम्पादकं कीर्तनमेव मे ।।६३।।
वाद्यवादयितुः पुण्यं वदामि यद्धि जायते ।
प्रतिस्वरं शतवर्षं स्वर्गे लोके महीयते ।।६४।।
पश्चात् संजायते राजा दशवर्षसहस्रकम् ।
ततो याति मम भक्तो मम धाम परात्परम् ।।६५।।
नृत्यतो मत्सन्निधौ च लक्ष्मीस्थानं हि निश्चितम् ।
नरस्यापि योषितोऽपि यथेष्टं प्रददाम्यहम् ।।६६।।
धाम्नि मे नर्तको मुक्तो भवत्येव चतुर्भुजः ।
नृत्यं वै शाश्वतानन्दं ददाम्यस्मै हि धामनि ।।६७।।
जाग्रतो मम मूर्तेश्च सन्निधौ दिव्यमुत्तमम् ।
सार्वज्ञ्यं चापरोक्ष्यं च ददामि च यथा मम ।।६८।।
गोदात्रे मम गोलोकं ददामि मुक्तिमण्डलम् ।
अन्नदात्रेऽमृतं स्वर्गं ददाम्यक्षतभोजनम् ।।६९।।
जलदात्रेऽमृतलोकं ददाम्यक्षततृप्तिदम् ।
गन्धपुष्पप्रदात्रे च ददामि दिव्यवर्ष्म यत् ।।1.578.७०।।
शाश्वतं चाऽपूरकं च तत्त्वानां सुखलब्धये ।
लक्षैश्वरीभिः रमते ईश्वरो भोगपूरितः ।।७१ ।।
धूपदस्य च सौगन्ध्यं मन्मूर्तेरिव जायते ।
दीपदस्य सदा दिव्यं चक्षुर्भवति सूर्यवत् ।।७२।।
अन्ते स्वर्गादिकं भुक्त्वा मुक्तो मद्धाम याति च ।
नैवेद्यस्य फलं तस्मै वैकुण्ठं प्रददाम्यहम् ।।७३।।
ब्रह्मराज्यं सदा भुंक्ते सदा नैवेद्यदो मम ।
जपयज्ञादिकर्त्रे च सार्वभौमस्थलं महत् ।।७४।।
प्रददामि पृथिव्यां वै ततः स्वर्गं ततः परम् ।
वैराजं पदमेवापि ततो मोक्षं ददामि च ।।७५।।
सकामानां कामपूरान् लोकान् यच्छामि सर्वथा ।
अकामानां मम धाम प्रयच्छामि च शाश्वतम् ।।७६।।
नराणां योषितां वापि यथेष्टं प्रददामि वै ।
देवत्वं वापि देवीत्वं स्वर्गादौ वितराम्यहम् ।।७७।।
ईशत्वं चेश्वरीत्वं वा वैराजादौ ददामि च ।
मुक्तानीत्वं च मुक्तत्वं यथेष्टं प्रकरोम्यहम् ।।७८।।
ब्राह्मीत्वं ब्रह्मतां चापि ददामि तदभीप्सितम् ।
कृष्णत्वं चापि कृष्णात्वं ददामि च तदीप्सितम् ।।७९।।
नारायणीत्वं च यद्वा नारायणत्वमित्यपि ।
अवतारत्वमेवाऽप्यवतारिणीत्वमित्यपि ।।1.578.८०।।
यथाभक्ति यथादास्यं यथापुण्यं ददाम्यहम् ।
परमेश्वरता मेऽस्ति सा तु नान्यस्य कस्यचित् ।।८ १ ।।
सोऽहं चानादिश्रीकृष्णनारायणोऽस्मि चाक्षरात् ।
धाम्नः परे मम धाम्नि वर्तामि पुरुषोत्तमः ।।८२।।
इत्येतत् कथितं लक्ष्मि! तव जिज्ञासितं मया ।
शंभुना कथितं पूर्वं सत्यै तीर्थेषु तिष्ठता ।।८३।।
पठनाच्छ्रवणाच्चास्य भुक्तिर्मुक्तिर्भवेत्तथा ।
मम दास्यं दुर्लभं भक्तानां ददामि शाश्वतम् ।।८४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गायमानस्य खञ्जरीटस्य मुक्तिः, वादयमानस्य नृत्यतो जाग्रतो गोदातुरन्नदातुर्जलदातुः सम्मार्जयितुर्लेपयितुर्गन्धपुष्पादिदातुर्धूपदीपसुनैवेद्यदातुर्जपयज्ञादिकर्तुश्च फलप्राप्त्यादिनिरूपणनामाऽष्टसप्तत्यधिकपञ्चशततमोऽध्यायः ।।५७८।।