लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५७७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५७६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५७७
[[लेखकः :|]]
अध्यायः ५७८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! शृगाल्याश्च गृध्रस्य च मृतेरनु ।
तीर्थस्पर्शप्रसंगेन राज्यलब्धिश्च मोक्षणम् ।। १ ।।
अकामा या मृता तीर्थे बभूव राजपुत्रिका ।
शृगाल्यपि विशालाक्षी चतुःषष्टिकलान्विता ।। २ ।।
तत्र मृतस्तथा गृध्रः सोऽपि राजा बभूव ह ।
अहो तीर्थप्रभावो वै तिर्यञ्चौ दिव्यतां गतौ ।। ३ ।।
हैमदेशे ब्रह्मदत्तोऽभवत् काम्पिल्यभूपतिः ।
तत्कुमारः सोमदत्तः श्राद्धार्थं प्रविचिन्त्य च ।। ४ ।।
पित्रर्थे मृगयां यातो मृगलिप्सुर्वने तदा ।
न तत्र लभते किञ्चिच्छृगाली तेन वीक्षिता ।। ५ ।।
शरेण तेन विद्धा सा गंगाजलमुपागता ।
तीरे पीत्वा जलं शीघ्रं तीर्थे प्राणान् मुमोच ह ।। ६ ।।
तावद् वटे कुमारः स गृध्रं ददर्श संस्थितम् ।
शरेण पातयामास गृध्रं राजकुमारकः ।। ७ ।।
मृतः सोऽपि जलतीरे पतित्वा पुण्यमाप्तवान् ।
सोमदत्तो द्वयं नीत्वा ययौ गृहं ततश्च तौ ।। ८ ।।
गृध्रः कलिंगराजस्य सुतो बभूव शोभनः ।
सृगाली सा तथा जज्ञे काञ्चीराजस्य पुत्रिका ।। ९ ।।
द्वयोस्तीर्थप्रभावेण सम्बन्धोऽजायत स्वतः ।
विवाहितौ सुखं कालं निन्यतुश्चातिभावुकौ ।। 1.577.१ ०।।
प्रेम्णा व्याप्तौ न चान्योन्यं सेहाते विरहं क्वचित् ।
अथैकदा वधूः प्राह स्वामिनं प्रणयान्विता ।। ११ ।।
मयैकं हि व्रतं कार्यं देयाऽनुज्ञा त्वया प्रिय! ।
मम स्नेहात् प्रियं चेत् तेऽनुज्ञां दातुमिहाऽर्हसि ।। १ २।।
सत्यं मूलं प्रजानां च विष्णुः सत्ये प्रतिष्ठितः ।
सत्यमूलं सदा राज्यं व्रतं सत्येन वर्धते ।। १३।।
इत्युक्तस्तु पतिः प्राह विज्ञापय कुरु प्रिये ।
ययेष्टं चर सर्वं तद् दास्ये साहाय्यमुत्तमम् ।। १४।।
साऽपि भर्तृवचः श्रुत्वा सविश्रम्भा ह्युवाच तम् ।
एका स्वपितुमिच्छामि मध्याह्नेहं तथाविधा ।।१५।।
यथा कश्चिन्न मां पश्येत् स्वल्पकालं तु नित्यदा ।
श्वशुरो यदि वा श्वश्रूः पतिश्चान्योऽपि वा जनः ।। १६ ।।
सुप्तां मां नैव पश्येत् स व्रतमेतन्मुहूर्तकम् ।
श्रुत्वा बाढमुवाचैनां पत्नीं राजकुमारकः ।।१७।।
सौधं स्वतंत्रं तस्यै स ददौ यत्र न वै जनः ।
कश्चिदपि द्रक्ष्यते न शयनीये महाव्रताम् ।।१८।।
एवं वै समयं कृत्वा वर्तते स कुमारकः ।
पित्रा दत्तं तु तद्राज्यं बुभुजे प्रशशास सः ।। १९।।
तस्याऽभवन् पञ्च पुत्रा ज्येष्ठाय राज्यमाददत् ।
अथ स्वयं यथा पत्नी तथा व्रतमुपाश्रितः ।।1.577.२०।।
एकाकी स्वपते यत्र कश्चिज्जनो न पश्यति ।
सप्तसप्ततिवर्षाणि व्यतीतान्यस्य वै ततः ।।२१।।
अष्टसप्ततिके वर्ष ह्येकान्ते स नराधिपः ।
तमेव चिन्तयन्नर्थं मध्यसंस्थे दिवाकरे ।।२२।।
वैशाखस्य तु मासस्य शुक्ले द्वादशिकादिने ।
बुद्धिः प्रवर्तिता तस्य प्रियादर्शनलालसा ।।२३।।
कोऽर्च्यस्तत् किं व्रतं त्वस्या एषा स्वपिति निर्जने ।
न सुप्ताया व्रतं किञ्चित् सम्पद्यते सुपुण्यकृत् ।।२४।।
न केनचित् कृतो धर्मः सुप्तव्यं व्रतमेव तत् ।
भुक्त्वा तु कामभोगान् वै भुक्त्वा तु पिशितोदनम् ।।२५।।
ताम्बूलं क्षौमवस्त्रादि विभूषणानि मालिकाः ।
शृंगारादिकसर्वाणि सुगन्धरञ्जनानि च ।।२६।।
व्रतं कस्माद् भवेदत्र सुप्ता करोति यद्व्रतम् ।
अवश्यमेव द्रष्टव्या कीदृशं चरति व्रतम् ।।२७।।
कुप्येताऽपि तु सन्दृष्टा कुप्यत्वेव तथापि वै ।
यद्वा गच्छति क्रुद्धा सा यत्र गच्छतु रोचते ।।२८।।
यद्वा हानिर्भवेत् काचित् सापि चास्तु तथापि सा ।
द्रष्टव्यैवं चिन्तयतो व्योम प्राप्तो दिवाकरः ।।२९।।
स्नातः स विधिना चाथ क्षौमाभ्यामुपसंवृतः ।
भूत्वा चोत्सारयामास सर्वान् भृत्यान् समीपतः ।।1.577.३०।।
अद्य व्रते मया स्थेयं नागन्तव्यं जनैर्गृहम् ।
राजभवनद्वारं वा नरेणापि च योषिता ।।३ १।।
यद्यागमिष्यति कश्चिन्मम वध्यो भविष्यति ।
एवमाज्ञापयित्वा तु राजा सौधान्तरं गतः ।।३२।।
पर्यंकस्य तले राज्ञ्या गुप्तो बभूव छादनैः ।
राज्ञी मध्याह्नवेलायां समायाता तदासने ।।३३।।
रुजार्ता रुरुदे तत्र शिरोवेदनपीडिता ।
किं मया तु कृतं पूर्वं यत्फलं वेदनात्मकम् ।।३४।।
भर्ताऽपि मां न जानाति पीडायुक्तां स्वमस्तके ।
किं कर्तव्यं क्व गन्तव्यं मे मर्तव्यं भवेत् खलु ।।३५।।
भर्ता पृच्छति नैवात्र किं व्रतं कीदृशं च ते ।
मया तस्मै कथितव्यं नान्यथाऽन्तो भविष्यति ।।३६।।
कथने मरणं मे स्याद् वक्तव्यं नाशकृद् भवेत्! ।
अकथने सदा दुःखं सोढव्यं न निवर्तते ।।३७।।
तस्मान्मया प्रगन्तव्यं भर्त्रा सह च तत्स्थलम् ।
यत्राऽहं दुःखमापन्ना कथयिष्ये ततः पतिम् ।।३८।।
इति प्रियावचः श्रुत्वा समुत्थाय ततो नृपः ।
दोर्भ्यामालिंग्य वै भार्यां धैर्येणोवाच सुन्दरीम् ।।३९।।
किमिदं भाषसे भद्रे स्वात्मानं पीडितं प्रति ।
भिषजः सन्ति बहवो नाशयिष्यन्ति पीडनम् ।।1.577.४०।।
त्वया पूर्वं व्रतमिषाद् वेदनेयं सुगोपिता ।
येन वै क्लिश्यसे भद्रे शिरस्यसुखपीडिता ।।४१ ।।
या त्वं च भाषसे भद्रे यत्र वै दुःखपीडिता ।
पूर्वं जाता तत्र गत्वा कथयिष्ये च मे पतिम् ।।।४२।।
भद्रे किं तत् स्थलं ब्रूहि यात्रां ते रोचते यदि ।
अवश्यं तत्र संयाहि मया साकं सुखं लभ ।।४३।।
किमिदं गोप्यते देवि पत्यग्रे त्वं पतिव्रते ।
भर्ता धर्मो यशो भर्ता भर्तैव प्रियमात्मनः ।।४४।।
भर्त्रे वाच्यं गोप्यमपि धर्मः पतिव्रतोदितः ।
इत्युक्ता सा पतिं प्राह कथनेऽत्र विनाशनम् ।।४५।।
भवेत्तस्मान्न वक्तव्यं तव पीडाकरं प्रभो ।
सुखे हि वर्तसे नित्यं महाराजोऽसि सुन्दरः ।।४६।।
बह्व्यो मत्सदृशीभार्यास्तिष्ठन्त्यन्तःपुरे तव ।
सुखं भुंक्ष्व महाराज मामेकां परिहाय च ।।४७।।
गच्छाम्यहं मम स्थानं ततो मृत्युर्हि मे ध्रुवः ।
राजसे देववद् राजन् न मां तत्प्रष्टुमर्हसि ।।४८।।
त्वं मे देवो गुरुः साक्षाद् भर्ता यज्ञः सनातनः ।
धर्मश्चार्थश्च कामश्च यशः स्वर्गश्च मानदः ।।४९।।
पृष्टया मे हितं वाच्यं तथ्यं सत्यं प्रियं तव ।
पतिव्रतानां सर्वासामेष धर्मः सनातनः ।।1.577.५०।।
न संशये नियोक्तव्यः सुखस्थो हि पतिः स्त्रिया ।
एतन्निश्चित्य मे पीडां न प्रष्टुं त्वमिहाऽर्हसि ।।५१ ।।
पतिः प्राह शृणु भद्रे शुभं वा यदि वाऽशुभम् ।
अवश्यमेव वक्तव्यं पृष्टया पतिना स्त्रिया ।।५२।।
अपि गुप्तान्यगुप्तानि गोपयन्ति न सत्स्त्रियः ।
गोपायन्ति तु या गुप्तं भर्त्रग्रे सा न वै सती ।।५३।।
पत्नी प्राह प्रियं वाक्यं सार्थं धर्मान्वितं नृपम् ।
देवो राजा गुरू राजा सोमो राजेति पठ्यते ।।५४।।
राजाग्रे नाऽनृतं वाच्यं गच्छावः सौकरं स्थलम् ।
तीर्थे तत्र कथयिष्ये कृपां विशेषतः कुरु ।।५५।।
बाढमाह ततो राजाऽऽज्ञापयामास मन्त्रिणः ।
तीर्थं सौकरवं गन्तुं बदर्याश्रमनिम्नगम् ।।५६।।
हस्त्यश्वरथलक्षाणि गावो दोग्ध्र्योऽयुतानि च ।
धनधान्यानि रत्नानि भूषाम्बराणि वै तथा ।।।।५७।।
दानार्थं सह नीत्वा च प्रजया वृद्धया युतः ।
ययौ गंगात्मकं तीर्थं न्युवास मासषटक्कम् ।।५८।।
अथ तीर्थविधिं कृत्वा ददौ दानानि सर्वशः ।
उपोष्य तौ त्रिरात्रं च दम्पती नियमान्वितौ ।।५९।।
प्रणम्य भूषितौ विष्णुं कृष्णनारायणं हरिम् ।
स्थितौ चाग्रे हरेस्तत्र पतिं प्राह सती प्रिया ।।1.577.६०।।
एह्येहि नाथ गच्छावः पश्य गोप्यं मनीषितम् ।
सृगाली पूर्वमेवाऽहं तिर्यग्योनिव्यवस्थिता ।।६१।।
विद्धाऽत्र सोमदत्तेन बाणेन मस्तके पुरा ।
यस्य दोषेण मेऽप्येष रुजा शिरसि संस्थिता ।।६२।।
काञ्चीराजकुले जन्म पित्रा दत्ता तव प्रिया ।
क्षेत्रप्रभावान्मे सैषा जाता सिद्धिर्नमोऽस्तु ते ।।६३।।
श्रुत्वा राजाऽपि सस्मार पूर्वजातमुदन्तकम् ।
अहं गृध्रो महाभागे वटेऽत्र वनचारिणा ।।६४।।
सोमदत्तेन विद्धश्च मृतोऽत्र तीर्थपुण्यतः ।
जातोऽस्मि च कलिंगानां राजा तव पतिः प्रिये ।।६५।।
अकाममरणेनाऽपि पश्य क्षेत्रस्य सत्फलम् ।
ते च भागवतश्रेष्ठास्तथा नारायणप्रियाः ।।६६।।।
पौरजानपदास्तत्र ह्यासन् ये सहसंगताः ।
सर्वेऽपि विस्मयं प्राप्ताश्चक्रुस्ते भजनं हरेः ।।६७।।
राजा राज्ञी शरीरे स्वे विहाय दिव्यमूर्तिकौ ।
भूत्वा विमानमारुह्य ब्रह्मलोकं चतुर्भुजौ ।।६८।।
ययतुर्देवपूज्यौ तौ नेदुर्दुन्दुभयो दिवि ।
प्रजाः सहगतास्ताश्च सर्वसंगं विहाय च ।।६९।।
तत्रैव मरणं प्रापुर्नारायणप्रसादतः ।
चतुर्भुजाश्च ते सर्वे ब्रह्मलोकं ययुर्मुदा ।।1.577.७०।।
सर्वे शंखगदापद्ममणिध्राः पार्षदा नराः ।
नार्यश्चतुर्भुजायुक्ताः सर्वभोगसमन्विताः ।।७१।।
पार्षदाण्यो ब्रह्मलोके प्रमोदन्ते हरेर्गृहे ।
एवं तीर्थप्रभावेण मुक्तिं ते शाश्वतीं गताः ।।७२।।
जन्मान्तरकृतं पुण्यं यत्स्वल्पमपि वा बहु ।
तत्कदाचित् फलत्येव येन तीर्थागमो भवेत् ।।७३।।
यदल्पमपि जायेत तन्महत्त्वाय कल्पते ।
य एतत्पठते सुभ्रु शृणुयाच्छ्रावयेच्च वा ।।७४।।
तेन द्वादशवर्षाणि पूजनं मे कृतं भवेत् ।
शंभुः सत्यै पुरा प्राह लक्ष्मि ते कथितं मया ।।७५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वाराहतीर्थमहिम्ना शृगाल्या गृध्रस्य च मरणोत्तरं राजगृहे जन्म, वृत्तान्तप्रकाशोत्तरं मुक्तिर्मस्तकरोगादिकारणकथनं चेतिनिरूपणनामा सप्तसप्तत्यधिकपञ्चशततमोऽध्यायः ।। ५७७ ।।