लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५७९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५७८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५७९
[[लेखकः :|]]
अध्यायः ५८० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि रवितीर्थस्य यत्फलम् ।
पार्वत्या प्रार्थितः शंभुः समुवाच सतीपुरः ।। १ ।।
एकदा ऋषयो याज्ञवल्क्याद्याः शंसितव्रताः ।
आदित्येशं समायाता नर्मदाकच्छके पुरा ।। २ ।।
प्रविश्य ऋषयः सर्वे वने पुष्पफलाकुले ।
वनान्ते ददृशुः शुभ्रां स्त्रियं रक्ताम्बरान्विताम् ।। ३ ।।
रक्तमाल्यां सुशोभाढ्यां रक्तचन्दनचर्चिताम् ।
रक्ताभरणसंव्याप्तां शशिहस्तां भयप्रदाम् ।। ४ ।।
तस्याः समीपतः कृष्णवर्णं वृद्धं च निर्दयम् ।
महाकायं पाशहस्तं पिंगाक्षं दीर्घजिह्विकम् ।। ५ ।।
तीक्ष्णदृंष्टाऽतिक्रुद्धं च विकरालस्वरूपिणम् ।
ऋषिभिश्च वीक्षितौ तौ संपृष्टौ पापकर्मिणौ ।। ६ ।।
कौ भवन्तौ विकृतौ वै तीर्थस्थौ पापरूपिणौ ।
तावूचतुस्तदा विप्रान् जराऽहं कालपुत्रिका ।। ७ ।।
अहं यमः स्वयं दण्डप्रदाता पापिनां सदा ।
यूयं धर्मचरा विप्रा धर्मं चरत नार्मदे ।। ८ ।।
कच्छे तीर्थे सम्प्रविश्य सुखं तिष्ठत वैष्णवाः ।
न चावां तान् पीडयावो ये तु नार्मदसेवकाः ।। ९ ।।
नर्मदानिन्दकानत्र हरिष्यामो यमालयम् ।
ते श्रुत्वा वचनं तत्र कच्छे च नार्मदे द्रुतम् ।। 1.579.१ ०।।
भृगुणाऽध्यसिते चक्रुर्वासं मोक्षप्रदं शुभम् ।
तावत्तत्र नराश्चान्ये पञ्च दृष्टा महर्षिभिः ।। ११ ।।
स्नानदेवार्चनैर्युक्ताः पुरुषास्ते महाबलाः ।
तैरुक्तं भूसुरेभ्यः प्रस्नातं तीर्थेषु वै क्षितेः ।। १ २।।
न तत्पापं तु नो नष्टं यन्नष्टं त्वत्र चाप्लवात् ।
एकेनाऽस्मत्सु च गुरोर्दाराः पूर्वं प्रदूषिताः ।। १३ ।।
द्वितीयेन सुवर्णं वै मित्रस्य संहृतं पुरा ।
तृतीयेन ब्रह्महत्या कृता घोरा भयंकरी ।। १४।।
चतुर्थेन कृतं पापं सुराया मद्यपानकम् ।
पञ्चमेन गवां हत्या कृता ते च वयं न्विमे ।। १५।।
नर्मदायां भृगुक्षेत्रे स्नात्वा शुद्धाश्च निर्मलाः ।
नत्वाऽनादिकृष्णनारायणं श्रीभार्गवीपतिम् ।। १६।।
कृत्वा प्रदक्षिणं भक्त्या त्यक्त्वा प्राणान् दिवंगताः ।
ब्राह्मणैस्ते तदा दृष्टा रवितीर्थे विमानगाः ।। १७।।
यमेन कालपुत्र्या च न निरुद्धाश्च ते तदा ।
प्रत्युत वै नमस्काराः कृता द्वाभ्यां हृदा मुहुः ।। १८।।
अथाऽन्यत्ते प्रवक्ष्यामि त्वगस्त्येश्वरतीर्थकम् ।
आनन्देश्वरतीर्थं च द्वितीयं वर्तते तथा ।। १९।।
लीनेश्वरं तथा तीर्थं तृतीयं चापि वर्तते ।
एकदा कालबाष्पाख्यो दानवो दुश्चरं तपः ।।1.579.२०।।
आदौ कृतयुगे रेवाजले चचार तस्य तु ।
प्रसन्नः शंकरः साक्षाद् बभूव च जगाद ह ।।२१ ।।
वरं ब्रूहि यथेष्टं ते ददामीति च वै ततः ।
दानवः स परिवव्रे देहि मेऽत्र महेश्वर! ।।२२।।
हस्तं शिरसि यस्यैव दास्यामि स मृतिं व्रजेत् ।
शंभुः प्राह त्वदिष्टं यत्तत्तथैव भविष्यति ।।२३।।
इतिश्रुत्वा वचो दैत्यः शंभुमेवाऽभिदुद्रुवे ।
हस्तं ते मूर्ध्नि दास्यामि न तत्सत्यं वचस्तव ।। २४।।
रुद्रः पलायितस्तेन केशवं शरणं गतः ।
निवेद्य केशवं शंभुस्तत्र जले न्यलीयत ।।२५।।
भक्तदुःखविनाशायाऽनादिकृष्णनरायणः ।
स्त्रीरूपं तत्र धृत्वैव दैत्यसम्मुखमागतः ।।२६।।
कुमारीं युवतीं रम्यां चन्द्रोज्ज्वलां च निर्जने ।
दृष्ट्वाऽऽरेभे परिरब्धुं दानवो मोहविह्वलः ।।२७।।
उवाच भव मे पत्नी तदा प्रत्याह केशवः ।
यदि मां मन्यसे भार्यां प्रत्ययश्चेद् भवेन्मम ।।२८।।
नृत्यं कुरु मया सार्धं जये ते स्यां हि कामिनी ।
तथास्त्विति दानवः स नृत्ये सम्यगवर्तत ।।२९।।
हस्तावुद्धृत्य शिरसि मयूरकलया तदा ।
नृत्यं चकार भगवान् दानवोऽपि तथाऽकरोत् ।।1.579.३० ।।
शनैर्हस्तौ सम्मिलितौ पस्पृशतुः शिरः स्वकम् ।
दानवः स नृत्यमोहाद्भस्मीबभूव तत्क्षणात् ।।३ १ ।।
शंकरस्तत्परिज्ञाय जलाद् बहिर्बभूव ह ।
अनादिश्रीकृष्णनारायणं नत्वा स्थिरोऽभवत् ।।३२।।
तत्तीर्थं नर्मदायां वै लीनेश्वरं समुच्यते ।
कृष्णनारायणेशं च तीर्थं तद् वैष्णवं परम् ।।३३।।
कृत्वा ययौ च भगवानदृश्यतां हरोऽपि च ।
स्नात्वा तत्र लभेन्मर्त्यो भुक्तिं मुक्तिं तथोन्नतिम् ।।३४।।
दक्षिणे नर्मदातीरे तीर्थं गोपालकेश्वरम् ।
कामधेनुस्तपस्तत्र पुत्रार्थं प्रचकार ह ।।३५।।
ध्यायमाना पराभक्त्या देवदेवं महेश्वरम् ।
तुष्टस्तस्या जगन्नाथः कपिलाया महेश्वरः ।।३६।।
कपिलादेहमध्याद्वै निःसृतः शंकरः स्वयम् ।
तुष्टोऽस्मीति समुवाच वरं वृणु यथेप्सितम् ।।३७।।
सुरभिः प्राह पुत्रं मे देहि दिव्यगुणैर्युतम् ।
तथाऽस्त्विति हरः प्राह धर्मः पुत्रो बभूव ह ।।३८।।
चतुष्पाद् वृषभात्मा वै वृषो लोकस्य रक्षकः ।
गोपालेशः शंकरोऽयं सुरभ्या समुदीरितः ।।३९।।
तत्तीर्थे कार्तिके चापि वैशाखे पूर्णिमातिथौ ।
वृषोत्सर्गं कारयेच्च शंकरस्य प्रतुष्टये ।।1.579.४० ।।
वृषभे रोमसंख्या तु सर्वांगेषु च यावती ।
तावद्वर्षसहस्राणि शिवलोके महीयते ।।४१ ।।
ततो यायाद् ब्रह्मलोकं महाभागवतो यदि ।
यद्वा राजा भवेद् भूमौ पुनर्मोक्षमवाप्नुयात् ।।।४२।।।
अथ तीर्थोत्तमं रम्यं पराशराभिधं तथा ।
यत्र तप्तं तपश्चोग्रं पराशरेण वै पुरा ।।४३।।
तस्य तुष्टा महालक्ष्मीर्वरं ददौ सुतार्थकम् ।
पराशरः सुतं लेभे नारायणांशमुत्तमम् ।।४४।।
अथ तीर्थं भयघ्नं वै भीमेश्वरं शुभं तथा ।
तद्वत् तीर्थं नारदेशं यत्र योगोपलब्धये ।।४५।।
नारदो वै तपस्तेपे शंभुं निधाय चान्तरे ।
शंभुः साक्षाद् बभूवाऽस्मै योगसिद्धिं ददौ पराम् ।।४६ ।।
हनूमदीश्वरं तीर्थं ततो गच्छेत् सुखावहम् ।
रावणं त्वजयद्राजा सहस्रार्जुनसंज्ञकः ।।४७।।
कार्तवीर्यं विजिगाय जामदग्निर्महाप्रभुः ।
जामदग्निं जितवोश्च दाशरथिर्महाप्रभुः ।।४८।।
दाशरथिं लब्धती सीता पूर्वाभिपुण्यतः ।
सीतां नीतवतस्तस्य रावणस्य वधः कृतः ।।४९।।
रामेण तस्य भक्तश्च हनूमान् वानरोत्तमः ।
लंकादाहोत्तरं हत्यादोषशान्त्यर्थमेव सः ।।1.579.५०।।
नर्मदायां भृगुक्षेत्रे समागत्य स्थिरोऽभवत् ।
हनूमदीश्वरं नाम तीर्थं तत्परमं स्मृतम् ।।५१ ।।
चमत्कारं शृणु लक्ष्मि! पुरा तत्राऽभवत्परम् ।
सुपर्णो नाम राजर्षिर्बभूव वसुधातले ।।५२।।
शतबाहुर्बभूवाऽस्य कुमारो वैष्णवोत्तमः ।
विचरन् स ययौ विन्ध्याचलं यदृच्छया क्वचित् ।।५३।।
वने दृष्ट्वा कुमारोऽयं पिंगलं चैकलं द्विजम् ।
पप्रच्छ त्वं कथं चास्ते भ्रमसेऽत्र सपुस्तकः ।।५४।।
विप्रः प्राह समायातः कान्यकुब्जादितो वने ।
प्रेषितो राजपुत्र्या च श्रेष्ठवराऽभिकांक्षया ।।५५।।
राजा नाम्ना शिखण्डी यस्त्वपुत्रश्चाकरोत्तपः ।
कन्यां स प्राप्तवान् तस्या विवाहं स समीहते ।।५६।।
कन्या सा पितरं प्राह नर्मदायास्तटे पुरा ।
मयूरी चाऽभवं तत्र मयूरेण समन्विता ।।५७।।
तत्रागतः कदाचित्तु व्याधस्तेन शरैर्मुहुः ।
हता निपातिता सार्धं स्वामिनाऽहं मृता तदा ।।५८।।
प्रच्छिद्य मस्तकं मे स देहं वह्नौ प्रपच्य च ।
भक्षयामास चार्धं तु चार्धं चिक्षेप वै जले ।।५९।।
नर्मदायास्तेन पुण्यबलेनाऽहं तव गृहे ।
जाताऽस्मि राजपुत्रीति सशिखा देहसुन्दरी ।।1.579.६०।।
जातिस्मरा स्मराम्येतत्स्थलं पुण्यप्रदं पितः ।
तत्र प्रेषय विप्रं च हनूमदीश्वरे स्थले ।।६१।।
पिशंगपत्रत्रिशाखवटस्याऽधः पिशंगिनी ।
शिला वै वर्तते तत्र पत्राण्यस्थीनि मे तदा ।।६२।।
क्षिप्तानि सन्ति पाषाणकूटे जीर्णानि सन्ति च ।
नर्मदाया जले तानि निक्षिप्तव्यानि सर्वथा ।।६३।।
तेन मुक्तिर्भवेन्मे वै नारायणं पतिं प्रति ।
इत्याज्ञया नृपतेश्च मार्गणाय द्विजोऽप्यहम् ।।६४।।
समायातोऽस्मि लिखितं वाचयामि स्थलं हि तत् ।
इत्युक्त्वा तत्स्थलं लब्ध्वा प्राप्याऽस्थीनि यथातथम् ।।६५।।
निचिक्षेप जले विप्रस्तावत् कन्या मृताऽभवत् ।
शतबाहुस्तु तत्रैव स्मृत्वा निजां मयूरताम् ।।६६।।
शुशोच तत्र वै तीर्थे मृतः सोऽपि च तत्क्षणम् ।
दिव्यं यानं समायातं स्थितस्तत्र ततः स च ।।६७।।
ययौ मृता च सा यत्र राजपुत्री च तत्स्थलम् ।
सापि दिव्यस्वरूपा च देवी भूत्वा विमानकम् ।।६८।।
समारुरोह च तदा यानं ययौ च नर्मदाम् ।
तावद् विप्रः प्रसस्मार व्याधं स्वं पूर्वजन्मनि ।।६९।।
जलं पीत्वा नर्मदाया ममार तत्र तीर्थके ।
दिव्यदेहस्वरूपः सन् समारुरोह यानकम् ।।1.579.७०।।
ययुस्ते च त्रयः स्वर्गं नत्वा श्रीहनुमन्तकम् ।
नर्मदायाः प्रतापोऽयं हनूमत्तीर्थकेऽभवत् ।।७१ ।।
स्वर्गमोक्षप्रदो लक्ष्मि! पापतापप्रणाशनः ।
मयूरी च मयूरश्च व्याधश्चेति त्रयः खलु ।।७२।।
रेवाजलं प्रपीत्वा च ययुर्मुक्तिं ततः परम् ।
इत्येवं कथितं लक्ष्मि! पुण्याख्यानं हरोदितम् ।।७३।।
पार्वत्या श्रूयमाणं तत् पठनाच्छ्रवणादपि ।
भुक्तिमुक्तिप्रदं दिव्यं संसारभ्रमवारकम् ।।७४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आदित्येशतीर्थं लीनेश्वरतीर्थं गोपालेश्वरतीर्थं पराशरतीर्थं हनुमदीश्वरतीर्थं चेत्यादिसोपाख्यानतीर्थनिरूपणनामैकोनाशीत्यधिकपञ्चशततमोऽध्यायः ।। ५७९ ।।