लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५७६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५७५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५७६
[[लेखकः :|]]
अध्यायः ५७७ →

श्रीलक्ष्मीरुबाच-
अहं दीक्षां शुभां श्रुत्वा नारायण मुखात्तव ।
तव माहात्म्यबोधा च जाताऽस्मि विमला प्रभो ।। १ ।।
अहो देवस्य माहात्म्यं चातुर्वर्ण्यसुखावहम् ।
दीक्षादानेन वै ज्ञातं तथाऽन्यद् भक्तकारणात् ।। २ ।।
पृच्छामि चापराधेषु किं फलं किं निवारणम् ।
तव पूजापराणां त्वं शुद्धिं वद जनार्दन ।। ३ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि प्रवक्ष्यामि चापराधविशोधनम् ।
शुद्धो भागवतो भूत्वा मम पूजापरायणः ।। ४ ।।
आपद्गतोऽपि राजान्नं भुंक्ते यः पापसंभृतम् ।
निरये तेन पापेन वासस्तस्य प्रजापते ।। ५ ।।
राजा प्रवर्तते कुर्वन् कर्म तामसराजसम् ।
दारुणं गर्हितं तस्य चान्नं पापभरं महत् ।। ६ ।।
धार्मिकेन न भोक्तव्यं राजान्नं नरकप्रदम् ।
यद्वा राज्ञां तु भोक्तव्यं भोज्यं भागवतैर्नरैः ।। ७ ।।
स्थापयित्वा तु मां लक्ष्मि! निवेद्य मां च सर्वशः ।
धन्यधान्यसमृद्धानि दत्वा मां स्वीकरोति चेत् ।। ८ ।।
सिद्धं भागवतैर्भक्तैर्मम शेषप्रसादिकम् ।
भुञ्जानस्य न वै पापलेपस्तत्र प्रजायते ।। ९ ।।
अप्रसादं च राजान्नं भुंक्ते तस्य तु पद्मजे ।
चान्द्रायणेन शुद्धिः स्यान्मम भक्तस्य वै तथा ।। 1.576.१ ०।।
दन्तकाष्ठमचर्वित्वा चाऽकृत्वा मुखशोधनम् ।
स्नात्वा स्पृशति मां चेत् स दुर्गन्धिमुखवान् यतः ।।१ १ ।।
पुण्यहीनो भवेद् भक्तो ममाऽपराधतस्ततः ।
मनुष्यः किल्बिषी लक्ष्मि कफपित्तमलान्वितः ।। १२।।
पूयशोणितदुर्गन्धि मुखमस्य यतः सदा ।
शुद्ध वायुं समाचम्य दुर्गन्धं च विमुञ्चति ।। १ ३।।।
तेन मे मूर्तिसामीप्येऽपराधस्तस्य जायते ।
दन्तकाष्ठेन शुद्धिः स्यात्सुगन्ध्यधद्रव्ययोजनात् ।।१४।।
अपराधे तथा जाते व्योमशायी दिनद्वयम् ।
भवेत् ममाऽतिभजनं कुर्यात् कृष्णपरायणः ।। १५।।
शतमालाजपं कुर्यादपराधो न विद्यते ।
अथ कृत्वा मैथुनं चाऽस्नातः शवात्मको हि सः ।। १६।।
तदपराधपाकश्च लालाख्ये निरये पतेत् ।
मनुष्यस्य परो धर्मः स्नानं ध्यानं च पूजनम् ।।१७।।
अस्नातो मलमूत्राढ्यो मलाख्ये निरये पतेत् ।
प्रायश्चित्तं तस्य कार्यं भक्तियुक्तेन चेतसा ।। १८।।
यावकं वा च पिण्याकं भक्षयेद्वै दिनत्रयम् ।
तुर्यं चोपवसेत् तेन शुद्धिर्भक्तस्य जायते ।।१९।।
अथ स्पृष्ट्वा शवं गत्वा श्मशानं स्नाति नैव यः ।
तस्याऽशुद्धस्य पितरः पतन्ति सोऽपि वै पतेत् ।।1.576.२०।।
श्मशाने जम्बुका भूत्वा भवन्ति शवभक्षकाः ।
प्रायश्चित्तं तस्य कार्यं मम भक्तेन चांजसा ।।२१ ।।
एकाहारो दिनैक्यं च दिनैक्यं चाप्युपोषितः ।
पञ्चगव्यं ततः पीत्वा शुद्ध्यत्येव न संशयः ।।२२।।
नारीं रजस्वलां स्पृष्ट्वा यो मां स्पृशति निर्घृणः ।
तेन पापेन भक्तोऽपि याम्ये याति रजोमये ।।।२३।।
अन्धस्ततः प्रजायेत दरिद्रो बुद्धिवर्जितः ।
शुद्धिस्तस्यापराधस्योपोषणं त्वेकमेव ह ।।।२४।।।
आकाशशयनं स्नानं सवस्त्रं गव्यप्राशनम् ।
कृत्वा मुच्येदशुद्धेः स मम कर्मपरायणः ।।।२५।।
स्पृष्ट्वा तु मृतकं लक्ष्मि! यो मत्क्षेत्रेषु तिष्ठति ।
न स्नाति मां स्पृशत्येषश्चाण्डालजन्म चाप्नुयात् ।।२६।।
अन्धः स जायते पश्चान्मण्डुको मक्षिका भवेत् ।
टिट्टिभो वा मशकश्च कृकलासः खरोऽथवा ।।२७।।
मार्जारो वानरो वापि जायते त्वपराधवान् ।
शुद्यर्थं तादृशो भक्तो मम कर्मपरायणः ।।२८।।
एकाहारं पञ्चदशदिनानि वर्तयेत्ततः ।
पञ्चगव्यं प्राशयेच्च शुद्ध्यत्येवाऽपराधतः ।।२९।।।
स्पृशमानेन मां लश्मि मुञ्चत्यपानवायुकम् ।
तेन दोषेण जायेत मक्षिका मूषकस्तथा ।।1.576.३ ०।।
श्वा वा कूर्मः प्रजायेत ततः स मानवो भवेत् ।
अतो नक्तं त्रीण्यहानि वर्तयेत् तेन शुद्ध्यति ।।३१ ।।
शतमालाजपं कुर्यात् स्नायाद् भक्तिपरायणः ।
पुरीषं मुच्यते यस्तु वातेन सह दोषतः ।।।३२।।
मम पूजास्थितो वापि ममान्यकर्मतत्परः ।
पुरीषनरके याम्ये पतेत् तेन ततः परम् ।।३३।।
मनुष्यो जायते लक्ष्मि मम कर्मपरायणः ।
प्रायश्चित्तं ततः कार्यं जले शयनमित्यपि ।।।३४।।
आकाशशयनं चापि दिनैक्यं प्रसमाचरेत् ।
शतमालाजपं कुर्यादपराधात्प्रमुच्यते ।।३५।।
स्नात्वाऽपि यदि मार्गेषु मलिनेषु प्रगच्छति ।
अप्रक्षालितपादाद्यो यो हि मामुपसर्पति ।।३६।।
सोऽप्यशुद्धः पापवान् स्यान्मम विप्रियकारकः ।
तेन दत्तं गन्धमाल्यं न वै गृह्णामि भावतः ।।३७
तेन प्रक्षालनं कृत्वा पादयोः करयोस्तथा ।
आचम्य च यथान्यायं शुद्धः सन् मामुपस्पृशेत् ।।३८
मलत्यागं तथा कृत्वा सप्तवारं तु मृत्तिकाम् ।
प्रक्षालनेन्द्रिये दत्वा करयोश्च तथा ददेत् ।। ३९
पादयोः पञ्चवारं च ततः पात्रं परिमृजेत् ।
गण्डूषान् सप्त कृत्वा च ततः स्नानं समाचरेत् ।।1.576.४०
मद्भक्तो वै भवेच्छुद्धः पूजको नान्यथा प्रिये ।
गन्धांशहस्तयुक्तश्चेत्स्पृशेन्मां दोषभाग्भबेत् ।।४१ ।
प्राणायामं चाचमनं कृत्वा प्रक्षालयेत् करौ ।
एवं शुद्धिर्भवेल्लक्ष्मि नाऽपराधस्तदा भवेत् ।।४२
यस्तु क्रोधसमायुक्तो मम भक्तोऽपि मानवः ।
प्रस्पृशेन्मम गात्राणि स तदा दोषभाग्भवेत् ।।४३
तेन पापेन चिल्ली स्यात् ततः श्येनो भवेत् स च ।
मृत्कटिको भवेत् कीटः क्रोधेन कृष्णवर्णवान् ।।४४
क्रुद्धेन न च कर्तव्यं लोभेन त्वरया न च ।
मत्पूजनं विधानेन कर्तव्यं मोक्षदं हिं तत् ।।।४५
स्नात्वा मालाशतं कुर्यात् क्रोधशुद्धिस्ततो मता ।
अकर्मण्येन पुष्पेण यो मामर्चयते भुवि ।।४६।
मूर्खो भागवतश्चापि वानरो जायते ततः ।
मार्जारो वा बलीवर्दः छागो बा ग्रामकुक्कुटः ।। ४७.
महिषो वा भवेत् पुष्पदाता यन्मे न रोचते ।
तच्छुद्ध्यर्थं चैकभोजी भवेद्वै दिनसप्तकम् ।।४८।
सर्वपापप्रमुक्तः स्यान्मम लोके गतिर्भवेत् ।
रुधिराक्ताम्बरयुक्तो यदि मामुपसर्पति ।।४९।
रजस्वलारजोयुक्तवस्त्राढ्यो मां च सर्पति ।
तेन दोषेण जायेत श्वपचो नात्र संशयः ।।1.576.५०।।
मासमेकान्नभोजी स्यान्मालासहस्रकं जपेत् ।
अन्तिमे तु दिने कुर्यादुपवासं स शुद्ध्यति ।।५१।।
अन्धकारे विना दीपं स्पृशते मां स दोषभाक् ।
अन्धजन्म भवेत् तस्य प्रायश्चित्तं वदामि च ।।५२।
एकाहारं पञ्चदिनं नेत्राच्छादनपूर्वकम् ।
कुर्यान्मालाशतं चापि जपेच्छुद्धो भवेत्तदा ।।५३।।
कृष्णवस्त्रं न वै धार्यं पूजायां मम सर्वथा ।
तेन दोषेण नकुलः कच्छपो वा भवेत्ततः ।।५४।।
पारावतो भवेद्वापि प्रायश्चित्तं वदामि ते ।
सप्ताहं चैकभोजी स्यान्मालाशतं प्रकारयेत् ।।५५।।
ततः शुद्धिर्भवेत्तस्य मम लोकगतो भवेत् ।
वाससा चाऽप्यधौतेन यो मे कर्माणि चाचरेत् ।।५६।।
स च हस्ती तथोष्ट्रो वा हयो वा जम्बुकोऽथवा ।
सारंगो वा भवेत्तस्माच्छुद्धिः कार्या प्रयत्नतः ।।५७।।
उपवासं चरेदेकं जपेच्च शतमालिकाः ।
अथोच्छिष्टं शुनौ यत्तद् दद्याच्चेन्मे च कर्मणि ।।५८।।
सारमेयो भवेत्सोऽपि गोमायुर्घूक एव वा ।
शुद्धिः कार्या शाकमूलफलाशिना दिनत्रयम् ।।५९।।
पञ्चगव्यं चतुर्थे च पिबेदुपवसेत्तथा ।
अपराधो विनश्येद्वै मम लोकगतो भवेत् ।।1.576.६०।।
दीपप्रकाशने कृष्णकज्जला चाङ्गुलिर्भवेत् ।
दग्धवर्तिगन्धयुक्ता क्षालनीया प्रयत्नतः ।।६१ ।।
करस्याऽक्षालने स्पर्शे मम स्यादपराधनम् ।
कुष्ठी तेन भवेद्रोगी तस्माद्धस्तं विशोधयेत् ।।६२।।
अपराधे संजाते शतमालाजपं चरेत् ।
सोपवासं तेन शुद्धिर्भवेत् कर्मण्यको भवेत् ।।६ ३।।
श्मशानं यो जनो गत्वा त्वस्नात्वैव तु मां स्पृशेत् ।
जम्बुको गृध्रको वा स जायते वा पिशाचकः ।।६४।।
ततश्चोपवसेच्चैकदिनं मालासहस्रकम् ।
जपेत्तेन भवेच्छुद्धिर्नान्यथा स्नानमात्रतः ।।६५।।
श्रीलक्ष्मीरुवाच-
श्मशानं त्वपवित्रं चेच्छंभुर्भागवतोत्तमः ।
तव भक्तः कथं चास्ते श्मशाने दोषभाग्यथा ।।६६ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि पुरावृत्तं शंभोस्ते कथयाम्यहम् ।
श्मशानं नास्ति शुद्धं वै यदशुद्धं सदा मतम् ।।६७।।
केनचित्तु निमित्तेन शंभुर्वासमरोचयत् ।
प्रायश्चित्तस्वरूपं तं वासं न मनुते सदा ।।६८।।
यद्यपि शंकरो भक्तोत्तमो मे वर्तते महान् ।
श्मशाने वसतस्तस्य गृह्णामि नाऽर्चनादिकम् ।।६९।।
प्रायश्चित्तोत्तरं सर्वं गृह्णामि नान्यथा क्वचित् ।
शंकरो नाशयामास त्रिपुराणि तथाऽसुरम् ।।1.576.७०।।
बालान् वृद्धाँस्तथा स्त्रीश्च त्रिपुरे वासिनस्ततः ।
तेन पापेन संलिप्तो नष्टैश्वर्यश्च शंकरः ।।७१ ।।
नष्टयोगबलो नष्टमायाबलो बभूव ह ।
विवर्णवदनो भूत्वा न शक्नोति विचेष्टितुम् ।।७२।।
मृतप्रायोऽभवच्छापैरासुरस्त्रीसमर्पितैः ।
नष्टसंज्ञो हतज्ञानो नष्टानन्दो यथाऽबलः ।।७३ ।।
ततोऽहं तं समापन्नो विलोक्य शंकरं ततः ।
अवोचं मा शुचः श्रेयः करिष्ये तव वै द्रुतम् ।।७४।।
मया दृष्टः शंकरश्च तदा दिव्येन चक्षुषा ।
तावद्रुद्रस्य सामर्थ्यं प्रकाशमगमत्पुनः ।।७५।।
मयोक्तं तव पापस्य नाशार्थमहमागतः ।
श्रुत्वोवाच हरो मां च पापसन्तप्तलोचनः ।।७६ ।।
हे विष्णो त्वत्प्रसादेन हतस्त्रिपुरकाऽसुरः ।
निहता दानवास्तत्र गर्भिण्यश्च निपातिताः ।।७७।।
बालवृद्धा हताश्चापि दग्धानि त्रिपुराणि च ।
तत्पापस्य प्रभावेण न शक्नोमि विचेष्टितुम् ।।७८।।
प्रणष्टैश्वर्यमायश्च नष्टज्ञानात्मसद्बलः ।
किं कर्तव्यं मया विष्णो पापावस्थेन साम्प्रतम् ।।७९।।
विष्णो तत्त्वेन मां ब्रूहि पापस्याऽस्य विशोधनम् ।
एवं प्रार्थयमानस्य मया रुद्रस्य भाषितम् ।।1.576.८०।।
कपालमालां सन्धार्य समलो विहर क्षितौ ।
शंभुः पप्रच्छ मां कीदृक् समलत्वं प्रकीर्त्यते ।।८१ ।।
मयोक्तं वै श्मशानं च मलं पूतिकमुच्यते ।
श्मशाने वास एवाऽत्र समलत्वं प्रकीर्त्यते ।।८२।।
तत्राऽऽदाय कपालानि रम तत्रैव शंकर ।
भूतप्रेतादिभृत्यैश्च सार्धं वस समाशतम् ।।८३।।
तावत्पूजा मम नैव कर्तव्या बाह्यतः क्वचित् ।
मानसं पूजनं कार्यं नापराधो भविष्यति ।।८४।।
पूर्णे वर्षशते याते गौतमस्याश्रमं व्रज ।
प्रसादाद् गौतममुनेर्भविता गतकिल्बिषः ।।८५।।
ततः पापविनाशेन शरीरशुद्धिमाचर ।
वर्षमात्रं व्रतं पयोव्रतं गृहाण शुद्धिकृत् ।।८६ ।।
ब्रह्मकूर्चं च वा श्रेष्ठं व्रतं मासिकमित्यपि ।
करिष्यसि तथा शुद्धः पूजनार्हो भविष्यसि ।।८७।।
पश्चात् त्वया श्मशाने न वस्तव्यं कर्हिचिच्छव! ।
यदीच्छसि मम पूजायोग्यत्वं वैष्णवं वृषम् ।।८८।।
रुद्रायैवं वरं दत्वा तत्रैवाऽन्तर्हितोऽभवम् ।
रुद्रोपि भ्रमते वर्षशतं श्मशानके स्थले ।।८९।।
विना तु कृतसंस्कारो ममादेशपरायणः ।
वर्षशते गते रुद्रो ययौ वै गौतमाश्रमम् ।।1.576.९०।।
गौतमेन तदा तस्योपदेशः सम्प्रकीर्तितः ।
रूपद्वयं सदा रुद्र प्रधारय क्रियावशात् ।।९१।।
पापं सर्वं गतं तेऽत्र शुद्धोऽसि वैष्णवो महान् ।
महाभागवतं रूपं सदा गृहाण सात्त्विकम् ।।९२।।
कैलासे सर्वदा तिष्ठ भक्तेष्वपि च सात्त्विकः ।
छायात्मकं द्वितीयं च रूपं धारय भैरवम् ।।१३।।
भूतप्रेतपिशाचानामुपास्यं समलं च तत् ।
श्मशानवासयोग्यं च तामसानां सदाश्रयम् ।।९४।।
इत्युक्तः शंकरो धृत्वा रूपद्वयं ततः पुनः ।
श्मशानस्थो न मे भक्तो न वा वैष्णव इत्यपि ।।९५।।
कैलासस्थो हि मे भक्तः पूजार्हो वैष्णवोत्तमः ।
इत्येतत् कथितं लक्ष्मि! श्मशानं समलं सदा ।। ९६।।
श्मशानस्थाः समला वै न वै शुद्धाः शवस्थले ।
पश्चाद् रुद्रस्य भूताद्यैस्तामसैस्तादृशैर्जनैः ।।९७।।
शंकरस्य तु कैलासं श्मशानं चेति वर्ण्यते ।
वस्तुतो नैवमेवाऽस्ति श्मशानं शंकरप्रियम् ।।९८।।
श्मशानं नैव कस्यापि लक्ष्मि वै भवति प्रियम् ।
देवानां तु कथं तत् स्यात् प्रियं सत्त्वक्रियावताम् ।।९९।।
इति ते कथितं तत्त्वं प्रायश्चित्तं वदामि ते ।
पञ्चगव्यं प्राशनीयं सोपवासं दिनैकके ।। 1.576.१ ००।।
सवस्त्रं स्नानमाप्तव्यं तुलसीपत्रभोजनम् ।
विमुक्तस्तेन पापेन मम कर्मार्हणो भवेत् ।। १०१ ।।
मद्यपानप्रकर्ता तु भ्रष्टो भवति देहतः ।
ब्रह्मकूर्चव्रतेनाऽस्य शुद्धिर्भवति सर्वथा ।। १०२।।
उलूकः स्यादन्यथा सः कीटो भवति वै पुनः ।
ब्रह्मकूर्चव्रतं वच्मि शृणु लक्ष्मि! प्रशोधकम् ।। १ ०३।।
मासं वा पक्षकं वा तत् कर्तव्यं देहधारिणा ।
पयस्यामलकं शुण्ठीं पलाशपत्रमित्यपि ।। १ ०४।।
शर्करां तुलसीपत्रं क्वाथयेच्च पिबेद् दिने ।
यथापच्यं भवेत् तद्वद् विकृतं न यथा भवेत् ।। १ ०५।।
अन्यत् किञ्चिद् भक्षयेन्न जलं पिबेत्तु शान्तये ।
ब्रह्मकूर्चव्रतं त्वेतत् पाक्षिकं मासिकं च वा ।। १ ०६।।
यानि कानि च पत्राणि पावनानि हि शाखिनाम् ।
क्वाथयेच्च पिबेन्नित्यं पालाशं तत्र निश्चितम् ।।१ ०७।।
पञ्चगव्यं पिबेद्वापि पाक्षिकं मासिकं च वा ।
ब्रह्मकूर्चसमं तच्च सर्वपापप्रशोधकम् ।। १ ०८।।
कायाकल्पकरं त्वेतन्मोक्षदं मरणे सति ।
शरीरधातुशुद्ध्यर्थं रेचनं क्वाथनं तु तत् ।। १ ०९।।
ब्रह्मभक्त्या कृतं तद्वै मोक्षणार्थं प्रकल्प्यते ।
प्रायश्चित्तीकृतं तद्वै पापक्षालनकं भवेत् ।। 1.576.११ ०।।
रोगनाशकृते चेत्तद्धातुशुद्धिकरं भवेत् ।
अपच्यं चेत् क्वचित्तद्वै मरणाय प्रकल्प्यते ।। १११ ।।
पलाण्डुशाकपत्रादिभक्षकः स्याद्धि सूकरः ।
श्वा भवेजम्बुको वापि ममापराधकृन्नरः ।। १ १२।।
ब्रह्मकूर्चव्रतं कृत्वा शतमालाजपांश्चरेत् ।
तेन शुद्धिर्भवेत्तस्य मम कर्मार्हणो भवेत् ।। ११ ३।।
यः पारक्येन वस्त्रेण न धौतेनापि मां स्पृशेत् ।
मृगजन्म ह्यवाप्नोति हीनपादैकको भवेत् ।। १ १४।।
माघमासे जले तिष्ठेत्प्रहरद्वयमेव ह ।
तेन शुद्धिः शतमाला जपेद् भवति निर्मलः ।। १ १५।।
नवान्नं यो नाऽर्पयेन्मे स्वयं भुंक्ते रसाहृतः ।
पापभोक्ता भवेत्तेन कर्तव्यं समुपोषणम् ।। १ १६।।
शतमालाजपश्चापि तेन शुद्ध्यति मानवः ।
अदत्त्वा गन्धमाल्यानि यो मे धूपं प्रयच्छति ।। १ १७।।
यातुधानो भवेत्तेन कर्तव्यं समुपोषणम् ।
शतमालाजपश्चापि तेन शुद्ध्यति वैष्णवः ।। १ १८।।
वहन्नुपानहौ पद्भ्यां यस्तु मामुपसंक्रमेत् ।
चर्मकारः स जायेत ततः श्वा सूकरो भवेत् ।। १ १९।।
पाक्षिकं चैकभुक्तं च शतमालाः समाचरेत् ।
तेन शुद्धिर्भवेत् तस्य मम भक्तस्य पद्मजे ।। 1.576. १२०।।
विना घण्टादिशब्दं तु यो वै मां प्रतिबोधयेत् ।
बधिरो जायते तेन कर्तव्यं समुपोषणम् ।। १२१ ।।
शतमालाजपश्चापि मम भक्तः स शुद्ध्यति ।
अन्नं भुक्त्वा बहुतरमजीर्णेन परिप्लुतः ।। १२२।।
उद्गारेण समावृत्तोऽस्नातश्चाप्युपसर्पति ।
वानरो वा शृगालः श्वा छागो वा जायते हि सः ।। १२३।।
त्रिदिनं चोपवासी स्यान्मालाशतं च वर्तयेत् ।
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।। १ २४।।
न स लिप्येत पापेन मम लोकं स गच्छति ।
यस्तु भागवतो नित्यं कल्यमुत्थाय वाचयेत् ।। १ २५।।
पठेद्वा शृणुयाच्चापि मम लोकं स गच्छति ।
शंभुनोक्तं हि यत् सत्यै मयोक्तं तव पद्मजे ।। १ २६।।
आरोग्याणां महारोग्यं मोक्षाणां मोक्षणं परम् ।
शोधनानां परा शुद्धिः प्रसन्नानां च पात्रता ।। १ २७।।
तपः परमं तपसां भक्त्यात्मकं मयोदितम् ।
मम भक्तेन कर्तव्यं रक्षसां न विचारणा ।। १ २८।।
मुमुक्षूणां योगिनां च साध्वीनां च सतामपि ।
मम भक्तियुतानां च कृते मयात्र कीर्तितम् ।।१ २९।।
गर्भविषप्रसक्तानां वासनासंहृतहृदाम् ।
नास्तिकानां कृते नैतन्मयोक्तं लक्ष्मि! शोधनम् ।। 1.576.१ ३०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भगवत्पूजनेऽपराधा ये ते तेषां शुद्धिः शरीरान्तरयोन्यन्तराप्तिर्वा चेत्यादि, शंकरस्य श्मशानप्रियत्वाख्यानमश्मशानवासिता चेत्यादिनिरूपणनामा षटसप्तत्यधिकपञ्चशततमोऽध्यायः ।। ५७६ ।।