लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५७५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५७४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५७५
[[लेखकः :|]]
अध्यायः ५७६ →

श्रीलक्ष्मीरुवाच-
कन्यादानं कीदृशं दातव्यं मम पितुः स्थले ।
वद मे श्रीकृष्णनारायणस्वामिन् कृपां कुरु ।। १ ।।
श्रीनारायण उवाच--
स्ववित्तेनाऽनुकर्तव्यं कन्योद्वाहनमुत्तमम् ।
यस्याग्रे नैव वित्तं स्यात्तेन कन्या सुशोभिता ।। २ ।।
वस्त्राद्यैस्तुलसीपत्रं संस्पृष्ट्वा वह्निसन्निधौ ।
कन्या देया जलसाक्ष्ये विप्रसाक्ष्ये च मण्डपे ।। ३ ।।
वरमालां गृहीत्वा च कन्या तं वरयेद् वरम् ।
भोजनाद्यं यथाशक्ति प्रोत्साहश्चेद् ददेच्छुभम् ।। ४ ।।
योग्यं हृद्यं वरं लब्ध्वा प्रदद्याद् विक्रयं विना ।
विक्रयो धनमाहृत्य दीयते पातकं महत् ।। ५ ।।
अभिगम्य प्रदातव्या चोत्तमं तारकं तु तत् ।
आहूय तु प्रदातव्या मध्यमं तारकं तु तत् ।। ६ ।।
प्रसह्य च प्रदातव्या त्वधमं दानमेव तत् ।
किंकरीवत्प्रदातव्या निष्फलं दासिकासमम् ।। ७ ।।
कन्यादाने जायमाने कुर्युः श्रीहरिकीर्तनम् ।
नार्यः कुटुम्बिनां तत्र मण्डपे वाद्यघोषिते ।। ८ ।।
निर्वर्तिते च तद्दाने पूजनं दर्शनं हरेः ।
कुर्यातां दम्पती पश्चाद् विशेतां निजमन्दिरम् ।। ९ ।।
पूजनादि प्रकुर्यातां नित्यं प्रातः सुवस्तुभिः ।
उपचारैः श्रेष्ठतमैः कुर्यातां नाऽपराद्धकम् ।। 1.575.१ ०।।
पूजापराधकर्तॄणां पापमेवोपजायते ।
शृणु लक्ष्मि वच्मि दोषान् प्रायश्चित्तयुतान् यथा ।। ११ ।।
मम भक्तो मम कर्मपरायणः सदा भवेत् ।
गृहे देवगृहं स्वल्पं पृथक् कृत्वाऽर्चयेन्नु माम् ।। १ २।।
मूर्तिं यथेप्सितां न्यस्य स्नानाम्बरसुचन्दनैः ।
पत्रपुष्पजलैर्भोज्यैर्धूपदीपनिवेदनैः ।। १ ३।।
प्रदक्षिणाऽऽर्तिकरणैः स्तुतिक्षमाविसर्जनैः ।
नित्यं प्रपूजयेद् दत्वा ध्यानं वै मत्परायणः ।। १४।।
कथायाः श्रवणं कुर्यात् कीर्तनं चोपदेशनम् ।
नर्तनं वादनं कुर्यादुत्सवं सुमनोहरम् ।। १५।।
शृणु तत्त्वेन मे लक्ष्मि! मम धर्मं सनातनम् ।
देवा एतन्न जानन्ति योगज्ञाः सांख्यवेदिनः ।। १६।।
विना भागवतीं दीक्षां पूजनं मे निरर्थकम् ।
लक्षेषु लभते कश्चिद् दीक्षां मम सुखावहाम् ।। १७।।
मयि शान्तं मनः कृत्वा त्वभिगच्छेद् गुरुं प्रति ।
तदाज्ञां तु पुरस्कृत्य प्रार्थयेत् शाधि मां गुरो! ।। १८।।
गुरुणा दर्शितान् दीक्षाद्रव्यादीन् समुपाहरेत् ।
लाजा मधु कुशाँश्चापि घृतं चामृतमित्यपि ।। १ ९।।
दुग्धं दधि गवां मूत्रं शकृच्चापि सुशर्कराम् ।
यज्ञोपवीतं गन्धं च कुंकुमं चाक्षतांस्तथा ।।1.575.२०।।
पुष्पाणि तुलसीं धूपं दीपं नैवेद्यकं फलम् ।
जलं मालां च कण्ठीं च कृष्णाजिनं च धोत्रकम् ।।२१।।
दण्डं कमण्डलुं वासं उत्तरीयं घटं तिलान् ।
पादुकेऽर्घपात्रं चरुस्थालीं व्रीहींश्च दर्विकाम् ।।२२।।
यवांश्च गुडधानाँश्च फलानि भोजनानि च ।
भक्ष्यभोज्याऽन्नपानानि कर्मण्यानि च सर्वशः ।। २३।।
यानि कानि च बीजानि रत्नानि विविधानि च ।
काचपात्राणि कलशं चाम्रपात्राणि दोरकम् ।।२४।।
अशोकस्य सुपत्राणि पट्टिकासनमित्यपि ।
त्रिभाणं चाचमनीयं होमपात्रं स्रुवादिकम् ।।२५।।
होमकाष्ठानि सर्वाणि पिप्पलोदुम्बराणि च ।
खादिरं बिल्वकाष्ठं चापामार्गं चार्कमित्यपि ।।२६ ।।
आमलकं च तुलसीं चन्दनं च वटं तथा ।
शालं च मधुकं चेति काष्ठानि समुपाहरेत् ।।२७।।
स्नात्वा मंगलसंयुक्तो वेदिं कुर्यात् सुशोभनाम् ।
ब्राह्मणश्चतुरस्रां षोडशहस्तां समन्ततः ।। २८।।
तत्र धान्यैर्मण्डलं सर्वतोभद्रं प्रकारयेत् ।
नवं जलघटं मध्ये पुष्पपल्लवशोभितम् ।।२९।।
सौवर्णं राजतं ताम्रं स्थापयेद् रत्नगर्भगम् ।
तस्योपरि तिलैः पूर्णां स्थालीं न्यस्य विधानतः ।।1.575.३ ०।।
पूजयेन्मां परब्रह्म गुरुं चापि सुवस्तुभिः ।
वेदिमध्ये सुद्रव्याणि स्थापयेत् संस्कृतानि वै ।।३ १ ।।
चतुरः कलशान् दद्याच्चतुःपार्श्वेषु सुन्दरि ।
वारिपूर्णान्नूत्नपत्रयुक्तान् फलैर्विभूषितान् ।।३२।।
सर्वतः शुक्लवस्त्रैश्च वेष्टितानाम्रशोभितान् ।
उपस्पृश्याऽवसथे च मण्डपे गुरुसन्निधौ ।।३३ ।।
पूर्वमुखाद् गुरोर्मन्त्रं शिष्यश्चोत्तरसन्मुखः ।
वामकर्णेन गृह्णीयान्मन्त्रं भागवतं परम् ।।३४।।
'अनादिश्रीकृष्णनारायणोऽस्तु शरणं मम' ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।३५।।
एतौ मन्त्रौ गुरुः सर्वान् श्रावयेत् स्त्रीर्नरानपि ।
दीक्षांगो मन्त्र एवाऽस्ति ज्ञानात्मको हरिर्हि सः ।।३६।।
एष भागवतो जातः शिष्यो मन्त्रप्रभावतः ।
एतान् भागवतान् दृष्ट्वा चाभ्युत्थानं प्रकारयेत् ।।३७।।
माननीया यथाऽहं वै तथा भागवता जनाः ।
यस्तु भागवतान् दृष्ट्वा स्वयं भागवतः शुचिः ।।३८।।
अभ्युत्थानं न कुर्वीत तेनाऽहं तु प्रहिंसितः ।
कन्यां दत्वा तु भक्ताय पुनस्तां प्रेषयेन्न यः ।।३ ९।।
अष्टौ पितृगणास्तेन हिंसिता नात्र संशयः ।
भार्यां प्रियसखीं यस्तु साध्वीं हिनस्ति निर्घृणः ।।1.575.४०।।
सतीं च वैष्णवीं लक्ष्मीरूपां गृहस्य देवताम् ।
पुनस्तेनैव पापेन नाप्नोति स स्त्रियं क्वचित् ।।४१ ।।
स्त्रीणां दुःखप्रकर्तारो भवन्ति दुःखिनः सदा ।
बिल्ववृक्षोदुम्बरौ तूलसी च्छक्षस्तथाऽम्रकः ।।४२।।
अशोको बकुलश्चाप्यामलकी कर्णिका तथा ।
दैवतरवः कर्मण्या न छेत्तव्या हि मूलतः ।।४३।।
दीक्षितेन तथा लक्ष्मि त्वभक्ष्यं वर्ज्यमेव ह ।
अपेयं च तथा वर्ज्यं निन्दा वर्ज्या च हिंसनम् ।।४४।।
पैशुन्यं स्तैन्यमावर्ज्यं कार्यं चातिथ्यपूजनम् ।
व्यवायः सर्वथा त्याज्यो ब्रह्मचर्यं च निग्रहः ।।४५।।
रक्षणीयं प्रयत्नेन गुरोः सेवनमित्यपि ।
दृष्ट्वा परस्य भाग्यानि द्रव्याणि सम्पदादिकम् ।।४६ ।।
दारिद्र्यं चात्मनो दृष्ट्वा कार्यं नोद्वेजनं क्वचित् ।
एवं वै नियमान् दद्यान्मातापित्रोश्च सेवनम् ।।४७।।
नियमेन प्रदद्याच्च श्रीहरेर्भजनं सदा ।
अथ वेद्यां स्थापयेदौदुम्बरस्य दलद्वयम् ।।४८।।
जलपात्रं क्षुरं चापि तत आवाहयेच्च माम् ।
आगच्छ भगवँश्चात्र मूर्तौ वेद्यां च सन्निधौ ।।४९।।
अर्घ्यं पाद्यं गृहाणैतत् ततः स्ववपनं शुभम् ।
कारयेन्मण्डपपार्श्वे रोमपापानि यान्ति यत् ।।1.575.५०।।
नीरोमं च शिखायुक्तं शोणितेन विवर्जितम् ।
क्षौरं प्रकारयित्वा च स्नात्वा वस्त्रं च धौत्रकम् ।।५१ ।।
उत्तरीयं तथा धृत्वा नमस्कुर्याद् गुरुं हरिम् ।
प्रज्वाल्य वह्निदेवं च होमपात्रेण चानले ।।५२।।
घृतेन मधुमिश्रेण लाजाकृष्णतिलादिभिः ।
दत्वा होमं सप्तवारान् विंशतिं च तिलोदनम् ।।५३।।
ततः सत्यस्वरूपं त्वां वह्निं नमामि संवदेत् ।
तिस्रः प्रदक्षिणाः कृत्वा देवं भागवतं गुरुम् ।।५४।।
गुरुपादौ प्रसंगृह्य प्रार्थयेत् सद्गुरुं तदा ।
गुरुदेवप्रसादेन् लब्धा दीक्षा यदृच्छया ।।५५।।
यच्चैवाऽपकृतं किञ्चिद् गुरुर्मर्षयतां मम ।
इत्युक्तवते शिष्याय दद्याद् यज्ञोपवीतकम् ।।५६।।
कमण्डलुं तथा दद्याज्जलपात्रं तु शुद्धये ।
चन्दनं विष्णवे चापि गन्धं तैलं च वैष्णवम् ।।५७।।
मधुपर्कं तथा दद्याच्छिष्यः पूजाक्रमागतम् ।
वस्त्रं भूषां पुष्पमालां नारायणाय चार्पयेत् ।।५८।।
ततः कण्ठीं तौलसीं च शिष्यकण्ठे गुरुर्ददेत् ।
तिलकं चन्द्रकयुतं ललाटेऽस्य ददेत्तथा ।।५९।।
नाम नारायणनाम्ना कुर्यादाचार्यतान्वितम् ।
दास्यान्वितं च वा कुर्यात्तथा वेषं यथोचितम् ।।1.575.६०।।
यथाव्यक्ति प्रदद्याच्च दानं चापि यथाबलम् ।
होमवह्निं तथा देवं गुरुं नत्वा च वैष्णवान् ।।६ १ ।।
दक्षिणां भोजनं वस्त्रं तेभ्यो दत्वा गृहं सरेत् ।
कृष्णसारस्य चर्माऽत्रासनं विप्रः समर्थयेत् ।।६२।।
पालाशं दण्डमेवाऽयं ब्राह्मणो रक्षयेत् सदा ।
क्षत्रियस्त्वायुधं त्यक्त्वा दीक्षां प्रोक्तविधानतः ।।६३ ।।
गृह्णीयाच्छागचर्माऽपि प्लक्षदण्डं विशेषतः ।
वेदिकां द्वादशहस्तां कारयित्वा च पूर्ववत् ।।६४।।
सर्वमन्यत् प्रगृह्णीयाद् दीक्षायां गुरुतः शुभम् ।
नियमान् धारयेन्नाहं शस्त्रं स्पृशामि हिंसकम् ।।६५।।
दीक्षां पूर्वोक्तविधिना प्राप्य भागवतीं ततः ।
शुद्धान् भागवतान् सर्वान् भोजयेद् दानमर्पयेत् ।।६६ ।।
अथ वैश्यः सर्ववस्तून्याहृत्य वेदिकां शुभाम् ।
दशहस्तां कारयेच्च लेपयेद् गोमयेन ताम् ।।६७।।
छागचर्म धारयेच्च दण्डमौदुम्बरं तथा ।
अन्यत् सर्वं पूर्ववच्च कारयेद् दीक्षितो भवेत् ।।६८।।
देवाभिवादनं कृत्वा पुरो भागवतेषु च ।
साधूभ्यो भोजनं दद्यादपराधान् क्षमापयेत् ।।६९।।
शूद्रोऽपि गृह्णीयाद् दीक्षां भागवतीं शुभावहाम् ।
सर्वसंस्कारद्रव्याणि मया पूर्वोदितानि वै ।।1.575.७०।।
तानि प्रकल्पयेद् वेद्यां वेदी चाष्टकरान्विता ।
कर्तव्या तत्र विधिना पूर्ववत् पूजयेद्धरिम् ।।७१ ।।
चर्म नीलस्य छागस्य दण्डश्च वैष्णवोऽस्य वै ।
एवं दीक्षां च गृह्णीयाच्छूद्रो भागवतो भवेत् ।।७२।।
भोजयेद् वैष्णवान् साधून् साध्वीश्चापि यथा घनम् ।
चतुर्णामपि वर्णानां छत्रमाचार्यवेदकम् ।।७३ ।।
ब्राह्मणे पाण्डुरं छत्रं क्षत्रिये रक्तमेव च ।
वैश्ये पीतं तथा शूद्रे नीलं गुरुः प्रदापयेत् ।।७४।।
दीक्षितानां प्रकर्तव्यं लक्ष्मि वदामि तेऽत्र वै ।
सर्वथा चिन्तनीयोऽहं गोमुख्यां मालया प्रिये ।।७५।।।
गणना कारिका माला तौलसी सा गणान्तिका ।
एषा गणान्तिका नाम दीक्षांगबीजरूपिणी ।।७६।।
तया मे भजनं कार्यं दीक्षायाः स्यान्महाफलम् ।
गुप्तां गुणान्तिकां कृत्वा चिन्तयेन्मां बुधोत्तमः ।।७७।।
कार्तिके मार्गशीर्षे च वैशाखे शुक्लपक्षके ।
एकादश्यां निराहारो द्वादश्यां प्रातरेव ह ।।७८।।
दीक्षां प्रगृह्णीयाच्चेद्वै मुच्यते भवबन्धनात् ।
केशप्रसाधनार्थं मे दद्याद्वै कङ्कतीं शुभाम् ।।७९।।
अंजनं दर्पणं दद्यात् तथा दद्याच्च मालिकाम् ।
नोच्छिष्टः संस्पृशेन्मालामाकाशे स्थापयेद्धि ताम् ।।1.575.८०।।
सन्ध्यां कुर्यान्मम भक्तः सम्यग् ध्यानात्मिका तु सा ।
मुहूर्तं ध्यानमाबध्य मम मन्त्रं जपेन्मुहुः ।।८१ ।।
ममाग्रे दीपकं कुर्यात्तेजोराशिविवर्धनम् ।
मल्ललाटे तिलकं सचन्द्रं वै कारयेत्तथा ।।८२।।
धूपं सुगन्धं मे दद्यादिमं श्लोकमुदीरयेत् ।
सुगन्धानि तवाऽङ्गानि स्वभावेनैव केशव ।।।८३ ।।
अमुना शुभधूपेन धूपितानि गृहाण तम् ।
दीपं दद्याद् घृतजन्यं पितॄणां तारकं शुभम् ।।८४।।
सौवर्णं राजतं कांस्यं पात्रं मम प्रशस्यते ।
तानि त्यक्त्वेह सर्वाणि ताम्रं हि मम रोचते ।।८५।।
शृणु तत्त्वेन मे लक्ष्मि येन ताम्रं मम प्रियम् ।
पूर्वं कमलपत्राक्षि गुडाकेशो महासुरः ।।८६ ।।
ताम्ररूपं समादाय ममैवाराधने रतः ।
वर्षाणां तु सहस्राणि चतुर्दश सुनिश्चलः ।।८७।।
तस्य ताम्राश्रमं चाहं ययौ प्रसन्नतायुतः ।
चतुर्बाहुं स मां दृष्ट्वा प्रणनाम स वै मुहुः ।।८८।।
मयोक्तं ते प्रसन्नोऽस्मि वरं ब्रूहि हृदीप्सितम् ।
गुडाकेशस्तदा प्राह विशुद्धेनान्तरात्मना ।।८९।।
जन्मनां तु सहस्राणि त्वयि भक्तिर्दृढाऽस्तु मे ।
चक्रेण वधमिच्छामि त्वया मुक्तेन माधव ।।1.575.९० ।।
मम चक्रहतस्यैतद्वसामांसादिकं च यत् ।
ताम्रं नाम भवेद् देव पवित्रीकरणं शुभम् ।।९१ ।।
ताम्रपात्रेऽर्पिते तेऽस्तु प्रीतिः सर्वाधिका प्रभो ।
बाढमिति मयोक्तः स यावल्लोकस्य संस्थितिः ।।९२।।
तावत्ताम्रस्वरूपस्त्वं मम पात्रं भविष्यसि ।
तत्ताम्रभाजने मह्यं दीयते यत् सुपुष्कलम् ।।९३ ।।
मङ्गल्यं च पवित्रं च मया ताम्रं कृतं तदा ।
वैशाखशुक्लपक्षस्य द्वादश्यां मध्यगे रवौ ।।९४।।
चक्राद्वधमभीप्सन् वै शुभं कुर्वन् मदर्थकम् ।
विष्णुसंस्थो भविष्यामि कदाऽहमिति चिन्तयन् ।। ९५।।
मम पूजां तदा कृत्वा प्रार्थयामास मां प्रति ।
मुञ्च मुञ्च प्रभो चक्रमपि वह्निसमप्रभम् ।। ९६ ।।
आत्मा मे नीयतां शीघ्रं निकृत्त्याऽङ्गानि सर्वशः ।
मया चक्रेण च हतः प्राप्तो मां परमेश्वरम् ।।९७।।
ताम्रं तन्मांसमस्रक्व कतं मया यथोदितम् ।
ताम्रे प्रापणकं दद्यात् पूजाभोजनप्रभृति ।।९८।।
सिक्थे सिक्थे फलं तस्य शताश्वमेधजं भवेत् ।
तावद्वर्षसहस्राणि दिव्यानि मम धामनि ।।९९।।
मोदते स ततो धाम परं याति परं पदम् ।
एवं मां भोजयित्वैव ताम्रपात्रे च कानके ।। 1.575.१०० ।।
राजतेऽपि च ताम्बूलं दत्वा विसर्जनं चरेत् ।
इत्येवं मम भक्तो वै दीक्षितोऽर्चनमाचरेत् ।। १०१ ।।
नित्यं नित्यं प्रिये लक्ष्मि सत्यैतच्छंभुनोदितम् ।
श्रवणात्पठनाच्चापि मम धामगतो भवेत् ।। १ ०२।।
नरो नारी तथाऽन्यश्च दीक्षां लब्ध्वा विधानतः ।
मां भजेदात्मनो मोक्षं लभेज्जन्मफलं हि तत् ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृयुगसन्ताने कन्यादानं भागवतीदीक्षाविधानं गुडाकेशाख्यासुरस्य चक्रेण नाशोत्तरं तद्वसाऽसृक्प्रभृतीनां ताम्रधातुत्वं चेत्यादिनिरूपणनामा पञ्चसप्तत्यधिकपञ्चशततमोऽध्यायः ।। ५७५ ।।