लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५७४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५७३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५७४
[[लेखकः :|]]
अध्यायः ५७५ →

श्रीनारायण उवाच--
शृणु लक्ष्मि! ततो गच्छेत्तीर्थं देवमयं शुभम् ।
सतीं शंभुर्जगादैवं नार्मदे चोद्भवे स्थितः ।। १ ।।
सहस्रयज्ञं तीर्थं च जनार्दनाधिवासितम् ।
कृत्वा याम्यां च नगरीं नैव पश्येत् कदाचन ।। २ ।।
शुक्लतीर्थं ततो गच्छेत् सर्वतीर्थमयं परम् ।
तेन शुक्लीकृता देवा ब्रह्मविष्णुमहेश्वराः ।। ३ ।।
तीर्थानां कोटयस्तत्र शुक्लतीर्थे वसन्ति वै ।
इन्द्रः शंभुं स्नापयित्वा बिल्वपत्रैः समार्चयत् ।। ४ ।।
दिक्पालैः श्रीकृष्णनारायणस्तत्रैव पूजितः ।
कश्यपस्याऽऽश्रमं पुण्यं यत्रायुतर्षिमण्डलम् ।। ५ ।।
मुनीनां कोटयश्चापि शुक्लेश्वरमुपासते ।
सर्वतीर्थमयं तीर्थं सर्वदेवमयं हि तत् ।। ६ ।।
पितामहेन यत्रेष्टो यज्ञे यज्ञेश्वरः पुरा ।
सर्वपापानि नश्यन्ति तस्या भूमेर्निषेवणात् ।। ७ ।।
अगत्या तु मृतानां तन्मुक्तिदं शुक्लतीर्थकम् ।
ययातिर्नाम धर्मात्मा चक्रवर्त्यभवन्नृपः ।। ८ ।।
इयाज स महायज्ञैः रेवामधुमतीयुजौ ।
यत्र मध्येश्वरं लिंगं माधवोऽहं नरायणः ।। ९ ।।
तत्र स्नाता दिवं मोक्षं यान्ति ते न पुनर्भवाः ।
ययातिना ब्राह्मणैश्चैकदा यज्ञः प्रवर्तितः ।। 1.574.१ ०।।
यत्र नास्ति हरेः स्थानं शंभोः स्थानं न वै तथा ।
जटासुरस्तदा दैत्यश्छिद्रं दृष्ट्वा ह्युपाययौ ।। ११ ।।
असुरैर्ध्वंसितो यज्ञो यूपाश्च विनिपातिताः ।
भुक्तो हुतपुरोडाशः सोमपानं च तैः कृतम् ।। १ २।।
अष्टोत्तरशतं देवा मृगरूपेण निर्गताः ।
राजाऽस्त्रं प्रतिजग्राह स्मृत्वा हरिं हरं तदा ।। १३ ।।
जघान दानवान् युद्धे आहूताश्च पुनः सुराः ।
पुनः प्रवर्तितो यज्ञो हरविष्णुप्रसादतः ।।१४।।
हरिणा शंभुना तत्र प्रत्यक्षेण स्वतेजसा ।
शुक्लीकृतं जगत्सर्वं यथा गोलोकमक्षरम् ।। १५।।
ययातिना वरेणापि छन्दितौ तु हरो हरिः ।
तिष्ठतं नित्यमत्रैव दिव्यरूपेण चेश्वरौ ।। १६।।
तावदारभ्य तौ श्वेतौ दीप्यमानौ हरो हरिः ।
वर्तेते भक्तकल्याणकरौ तीर्थे हि शुक्लके ।। १७।।
यज्ञदानादिकं सर्वमक्षयं तत्र जायते ।
ये केऽपि देहिनस्तत्र जलं पास्यन्ति वा क्वचित् ।। १८।।
ते सर्वे धाम यास्यन्ति शुक्लतीर्थप्रभावतः ।
कामयन्ते तु यान् कामान् ताँस्तान् प्राप्स्यन्ति मानवाः।। १ ९।।
ययातिस्तु गृहं तत्र कारयित्वा सुमन्दिरम् ।
तत्र देवौ प्रतिष्ठाप्य निजराज्यमुपागतः ।। 1.574.२०।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।
जपन् धाम ययौ चान्ते श्रोता वक्ताऽपि मोक्षगः ।। २१ ।।
द्वीपेश्वरं तथा तीर्थं नर्मदायास्तटे स्थितम् ।
ततो गच्छेत्तु कार्तिक्यां वैष्णवं तीर्थमुत्तमम् ।।२२।।
नाभागेन स्तुतो विष्णुर्यत्र प्रत्यक्षतां गतः ।
ततो गच्छेन्मेघनादाभिधं श्रीशंकरं प्रिये! ।।२३।।
पुरा वै रावणो रक्षः पर्यटन् पृथिवीमिमाम् ।
ययौ देवगिरौ यत्र मयो नामाऽस्ति दानवः ।।२४।।
पौलस्त्यस्तं मयं प्राह केयं कन्याऽस्ति कस्य च ।
किन्नामधेया तपति तप उग्रं तवाऽऽश्रमे ।।२५।।
मयः प्राह मम पत्न्यां तेजोवत्यां सुपुत्रिका ।
जन्म प्राप च पत्यर्थं तपते दारुणं तपः ।।२६।।
नाम्ना मन्दोदरीं विद्धि गृहाण स्वागतं शुभम् ।
रावणस्तु तदा प्राह राजाऽहं देहि मेऽत्र ताम् ।।२७।।
मयो ददौ सुतां तस्मै विधिना रावणस्ततः ।
ययौ स्वं सिंहलं द्वीपं यत्र सा सुषुवे सुतम् ।।२८।।
जातमात्रेण बालेन रवः कण्ठात् प्रकाशितः ।
मेघवत् तेन नाम्नाऽसौ मेघनाद इतिकृतः ।। २९।।
मेघनादः शंकरस्य भक्तोऽभवद् यथा पिता ।
भावयामास देवेशं पार्वत्या सह शंकरम् ।।1.574.३०।।
तपोभिश्चोपवासाद्यैः क्लिश्यते तत्कलेवरम् ।
मेघनादस्त्वेकदा वै ययौ कैलासपर्वतम् ।। ३१ ।।
लिंगं पाषाणकं नीत्वा प्रययौ नार्मदं तटम् ।
मेघनादेन सलिले स्थापितं पूजितं तथा ।।३२।।
मेघारवाख्यो ग्रामश्च गर्जनाख्यस्तथाऽपरः ।
मेघनादसमाख्यातं क्षेत्रं तच्चाऽभवत्ततः ।।३३।।
शंकरस्तपसा तस्य तत्र प्रत्यक्षतां गतः ।
ततो मुक्तिं गतः कालान्तरेण विष्णुघातितः ।। ३४।।
अथ दारुवनं तीर्थं वर्तते पुण्यदायकम् ।
मातलिश्च महेन्द्रस्य दारुकाख्यः पुराऽभवत् ।।३५।।
स चागत्य जले तत्र रेवायां सुतपोऽतपत् ।
अभजत्परया भक्त्या शंकरं दारुकेश्वरम् ।।३६।।।
शंभुस्तुतोष प्रददौ वरं मन्त्रं च वैष्णवम् ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।। ३७।।
अंशाऽवतरणे विष्णोः सारथिस्त्वं भविष्यसि ।
तोषयित्वा जगन्नाथं ततो यास्यसि सद्गतिम् ।।३८।।
ततः शंभुस्तिरोधानं ययौ दिवं च मातलिः ।
वासुदेवसुतः कालान्तरेऽभवत्स मातलिः ।। २९।।
कृष्णयोगेन वै मुक्तिं गतो गोलोकधामनि ।
अथाऽन्यद् वर्तते तीर्थं करञ्जेश्वरमुत्तमम् ।।1.574.४०।।
कश्यपात्तु दनोः पुत्रः करञ्जस्त्वभवत्पुरा ।
तपश्चचार यत्राऽयं करञ्जेश्वरमेव तत् ।।४१ ।।
महादेवः प्रसन्नोऽभूद् ददौ तस्मै वरं शुभम् ।
अत्र करञ्जशंभुर्वै निवत्स्यामि सुतीर्थके ।।४२।।
ततो ययौ दिवं सोऽपि करञ्जः शंभ्वनुग्रहात् ।
अथ वै पिप्पलेशस्य तीर्थं मुक्तिप्रदं शुभम् ।।४३।।
पिप्पलादकृतं चास्ते गन्तव्यं तत्र वै ततः ।
गुह्यतीर्थं ततो गच्छेद् बालहत्याविनाशनम् ।।४४।।
गोविन्दाख्योऽभवद्विप्रस्तस्य भार्या पतिव्रता ।
तस्यां स जनयामास पुत्रमेकं सुसुन्दरम् ।।४५।।
कदाचिद् ब्राह्मणः सोऽपि काष्ठान्यानेतुमुत्सुकः ।
वनं यातस्ततो नीत्वा काष्ठभारं गृहागतः ।।४६।।
गृहे तमसि बालस्तु सुप्तोऽभूद् यत्र पार्श्वके ।
काष्ठभारं निचिक्षेप विप्रश्चाऽज्ञात एव सः ।।४७।।
बालो ममार भारेण द्विजो जानाति नैव तत् ।
ब्राह्मण्यपि क्षणादूर्ध्वं ज्ञातवती तथापि तम् ।।४८।।
न शशंस भयात्तस्य सोऽपि पुनर्वनं गतः ।
ततः सा विललापाऽथ गोविन्दे त्वागते पुनः ।।४९।।
मौनमास्थाय च ददौ भोजनं शयनं ददौ ।
रात्रौ स्वपन्तं कान्तं सा कृमिव्याप्तं ददर्श ह ।।1.574.५०।।
बालहत्यात्मकाः सर्वे कृमयस्तं ववल्गिरे ।
ब्राह्मणी स्वपतिं रात्रौ पापकृमिसमावृतम् ।।५१ ।।
शुशोच वीक्ष्य मनसा बहिर्नैवाऽप्रकाशयत् ।
अथ प्रातर्ब्राह्मणोऽपि शीघ्रमुत्थाय नर्मदाम् ।।५२।।
प्रत्यरण्यं ययौ काष्ठान्यानेतुं तृषितोऽभवत् ।
जलं पीत्वा वनदारुण्यादाय निशिथे गृहम् ।।५३।।
आययौ भोजनं जग्ध्वा शयने निद्रितोऽभवत् ।
पुनर्विप्रा कृमिशून्यं दृष्ट्वा देहं स्वस्वामिनः ।।५४।।
कथनीयं स्वामिने मे सुतस्य मरणं प्रगे ।
विचार्येत्थं च सुष्वाप प्रातश्चाह पतिं ततः ।।५५।।
पुत्रोऽयं घातितः काष्ठभारैर्नाथ त्वया तु तत् ।
गतेह्नि पातकं घोरं कृमिरूपं तनौ तव ।।।५६।।
लोकितं पूर्वनिशिथे नात्र रात्रौ क्व तद्गतम् ।
वद पुण्यं कृतं किञ्चित् किं वा जातं शुभं प्रभो ।।५७।।
विप्रः प्राह मया पीतं जलं नार्मदमत्र यत् ।
तदा मयाऽपि ते दृष्टाः कीटा देहाद्विनिःसृताः ।।।५८।।।
किमिदं किमिदं चैतन्मत्वा चाहं मुमोह च ।
किन्तु नात्यवधार्यं तन्मत्वा तुभ्यं न वोदितम् ।।५९।।
ईश्वरेच्छा सुखदुःखप्रवाहे कारणं प्रिये! ।
एहि पुत्रं निधायैव गच्छावो नर्मदातटम् ।।1.574.६०।।
स्नापयित्वा करिष्यावः संस्कारं जलवाहनम् ।
इति निर्णीय तौ पुत्रशवमादाय मौनतः ।।६ १ ।।
ययतुर्नर्मदातीरं स्नापयामासतुः शवम् ।
सस्नतुश्च तदा तौ द्वौ तावत्पुत्रः सचेतनः ।।६२।।
सप्राणस्त्वभवच्छीघ्रं ब्रह्महत्याऽपि भूसुरान् ।
विनिर्गत्य द्रुतं नष्टा जज्वाल वह्निना तदा ।।६३।।
इत्याश्चर्यं परं दृष्ट्वा तुतुषतुर्द्विजौ सुतम् ।
गृहीत्वा स्वगृहं तुष्टौ ययतुर्नार्मदाद् बलात् ।।६४।।
जीवनाख्यं परं तीर्थं बालहत्याप्रणाशनम् ।
तत्र स्नात्वा परां सिद्धिं लभेन्नात्र विचारणा ।।६५।।
अथ तीर्थं विश्वरूपानर्मदासंगमात्मकम् ।
तत्र पूर्वं महेन्द्रस्य शापादप्सरसां वरा ।।६६ ।।
विश्वरूपा सारिका चाऽभवच्चूतनिवासिनी ।
शंकरं सा समुपास्य प्रत्यक्षं प्राकरोद्धरम् ।।६७।।
यत्र प्रादुर्भूत ईशस्तत्र सा मोक्षणं गता ।
सारिकारूपमुत्सृज्याऽप्सरो रूपवती शुभा ।।६८।।
जाता तत्र नदी चापि विश्वरूपाऽभिधानिका ।
शंकरस्य प्रसादेन संजाता नर्मदांगता ।।६९।।
तत्तीर्थे शापनाशार्थं स्नातव्यमृद्धिमिच्छता ।
शापस्य कारणं चित्रांगदं गन्धर्वमुत्तमम् ।।1.574.७० ।।
नर्तने देवसदसि कामयामास वै हृदा ।
नृत्यं क्षतिं तदा प्रापत् तेन दोषेण शापिता ।।७१ ।।
सा च स्वर्गं पुनर्गत्वा ययौ कैलासमित्यपि ।
अथ राजा धर्मसेनः सारिकातीर्थमाययौ ।।७२।।
कैलासाधिपतिर्भक्तो वैष्णवो वाजिराजितः ।
नर्मदायां जले स्वाश्वं समाप्लाव्य जलं पपौ ।।7७३ ।।
तावदश्वोऽभवत्तत्र चतुर्भुजो मनोहरः ।
दिव्ययानसमारूढो ययौ वैकुण्ठमेव सः ।।७४।।
विष्णुदूतो नृपं प्राह राजँस्ते पृष्ठमागता ।
शुनी चेयं जलं पीत्वा स्नात्वा चायाति पश्य ताम् ।।७५।।
इत्युक्तो नृपतिर्यावच्छुनीं पश्यति तावता ।
श्वदेहं सा परित्यज्याऽप्सरोवरा बभूव ह ।।७६।।
विमाने तत्र संरुह्य ययौ वैकुण्ठमेव सा ।
व्योमवाणी च राजानं तदोवाच धृतिं वह ।। ७७।।
शरीरजेन कष्टेन तपःसाध्या विभूतयः ।
पादचारी हि गच्छ त्वं परपादैः समागतः ।।७८।।
पादचारी समायाद् यस्तस्य मुक्तिर्ध्रुवाऽत्र भो ।
भूयो यात्रां प्रकुरुषे पद्भ्यां स्वनगरान्नृप ।।७९।।
तदा मुक्तिस्तु ते स्याद्वै पुण्यमादाय याहि भो ।
श्रुत्वा राजा धर्मसेनो ययौ ततः पुनर्गृहम् ।।1.574.८०।।
त्रयोदश्यां पादचारी नर्मदायामुपागमत् ।
चतुर्दश्यां प्रगे स्नात्वा सारिकेशं ददर्श ह ।।८ १ ।।
विष्णुं नारायणं कृष्णं साक्षात् कृत्वा स्मरन् हरिम् ।
ययौ विमानमारुह्य वैकुण्ठं पारमेश्वरम् ।।।८२।।
अथ तीर्थं चन्द्रमत्या नर्मदायां समागमम् ।
चन्द्रेश्वरः सदाशंभुर्विराजतेऽत्र सर्वदा ।।८३ ।।
अथ तीर्थं हारिणं च लुब्धकेन मृगः पुरा ।
हतो मध्यन्दिने श्रेष्ठः कुरंगो नर्मदातटे ।।८४।।
पतितो गतजीवश्च दिव्यदेहधरोऽभवत् ।
विमानेन तु दिव्येन ब्रह्मलोकं जगाम सः ।।८५।।
दृष्ट्वा वैराग्यमापन्नो लुब्धको मरणाय ह ।
निर्णयं कृतवाँस्तत्र सलिले निममज्ज ह ।।८६ ।।
तत्क्षणाद् दिव्यदेहोऽसौ गन्धर्वपुरमाययौ ।
हरिणेश्वरमेवैतल्लिंगं लुब्धेश्वरं तथा ।।८७।।
तीर्थं बाणेश्वरं चापि धनुरीश्वरमित्यपि ।
रमेश्वरं पञ्चमं च तीर्थं मुक्तिप्रदं हि तत्। ।।८८।।
तत्र देवाय भावेन प्रदद्यादष्टपुष्पकम् ।
वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं तथा ।।८९।।
वानस्पत्यं प्राजापत्यं शिवपुष्पं तथाऽष्टमम् ।
वारिजं सलिलं ज्ञेयं सौम्यं मधुयुतं पयः ।।1.574.९०।।
आग्नेयं धूपदीपादि वायव्यं चन्दनादिकम् ।
पार्थिवं कन्दमूलादि वानस्पत्यं फलादिकम् ।।९१ ।।
प्राजापत्यं शुभाऽन्नादि शिवपुष्पमुपासनम् ।
अहिंसा प्रथमं पुष्पं द्वितीयमिन्द्रियग्रहः ।।।९२।।
तृतीयं तु दयापुष्पं चतुर्थं स्मरणं हरेः ।
पञ्चमं सद्गुरोः सेवा षष्ठं वै पितृपूजनम् ।।९३।।
सप्तमं स्वामिनः सेवाऽष्टमं नारायणाश्रयः ।
एभिर्वै प्राप्यतेऽनादिकृष्णनारायणः प्रभुः ।।९४।।
राधा वै प्रथमं पुष्पं लक्ष्मीः पुष्पं द्वितीयकम् ।
तृतीयं पार्वती पुष्पं प्रभा पुष्पं चतुर्थकम् ।।९५।।
पञ्चमं माणिकी पुष्पं जया पुष्पं च षष्ठकम् ।
ललिता सप्तमं पुष्पं मंजुला पुष्पमष्टमम् ।।९६।।
एता मे पुष्परूपा वै सन्ति पुष्पेषु संस्थिताः ।
विना ता नैव गृह्णामि पुष्पाणि पद्मजे क्वचित् ।।९७।।
हंसा पुष्पं च सगुणा पुष्पं चम्पा सुपुष्पकम् ।
दया पुष्पं देविका संपुष्पं मुक्ता सुपुष्पकम् ।।९८।।
षोडशेषूपचारेषु सहस्राण्यपि षोडश ।
कला मे संप्रविष्टा हि सन्ति गृह्णामि तांस्तदा ।।९९।।
वस्तुना मत्स्वरूपेण पूजां गृह्णामि नित्यदा ।
एवं विष्णुमयो भूत्वा पूजयेत् स गतिं लभेत् ।। 1.574.१ ००।।
कृत्वा वै हरिणं तीर्थं ततो यायात्तु भार्गवम् ।
तीर्थोत्तमं परं तीर्थं यत्र कैलासवासिनः ।। १०१ ।।
अन्धकासुरमाहत्य शंकरेण समं सुराः ।
नर्मदायां यदा स्नातुं तीर्थार्थं समुपाययुः ।। १ ०२।।
उत्तरं दक्षिणं कूलमवगाह्य प्रयत्नतः ।
गत्वा तु दक्षिणे कूले पर्वतं भृगुसंज्ञितम् ।। १ ०३।।
हरो बिभेद शूलेन तेन भिन्नं रसातलम् ।
पातालान्निःसृता गंगा नाम्ना भोगवती हि सा ।। १ ०४।।
तत्र तीर्थं समुत्पन्नं शूलभेदाभिधं तथा ।
तत्र ब्रह्मा स्वयं विष्णुः शिवस्तिष्ठन्ति सर्वदा ।। १०५।।
यत्र गंगा च यमुना नर्मदा च सरस्वती ।
संगता दिव्यरूपेण शूलभेदे व्यवस्थिताः ।। १ ०६।।
चक्रतीर्थं परं तीर्थं तत्र वै वर्तते सदा ।
सर्वतीर्थमयं तीर्थं सर्वतीर्थाधिकं परम् ।। १ ०७।।
सर्वपुण्याधिकं पुण्यं सर्वदुःखघ्नमुत्तमम् ।
भृगुतीर्थं परं श्रेष्ठं यत्र लक्ष्मीर्हि भार्गवी ।। १ ०८।।।
विष्णवे भृगुणा दत्ता विवाहविधिना पुरा ।
वैकुण्ठसदृशं तीर्थं भृगुतीर्थं तदुच्यते ।। १ ०९।।
कन्यादानं पूजनं श्रीहरेः कार्यं हि तत्स्थले ।
श्रवणात्पठनाच्चास्य दानपूजाफलं लभेत् ।। 1.574.११० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सहस्रयज्ञतीर्थशुक्लतीर्थद्वीपेश्वरतीर्थमेघनादतीर्थदारुवनतीर्थकरंजेश्वरतीर्थजीवनतीर्थविश्वरूपारेवासंगमचन्द्रावतीनर्मदासंगमहरिणेश्वरादिशूलभेदभृगु-
क्षेत्रादितीर्थनिरूपण नामा चतुःसप्तत्यधिकपञ्चशततमोऽध्यायः ।। ५७४ ।।