लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५७३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५७२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५७३
[[लेखकः :|]]
अध्यायः ५७४ →

श्रीनारायण उवाच--
आकर्णय महालक्ष्मि! शंकरोदितमुत्तमम् ।
सुवर्णद्वीपतीर्थं च नर्मदाजलमध्यतः ।। १ ।।
हारीतो वै महर्षिस्तु पुरा कृतयुगेऽतपत् ।
तत्र हरितवर्णस्य कृष्णनारायणस्य ह ।। २ ।।
दर्शनं जायते रम्यं तपतां योगिनां तथा ।
अथ रेवोत्तरे कूले पर्यंको नाम पर्वतः ।। ३ ।।
तत्र पापहरो विष्णुः स्वयं तिष्ठति माधवः ।
क्रोशमात्रप्रमाणं तत् हरिक्षेत्रं प्रकीर्तितम् ।। ४ ।।
तत्र स्नाता मृताश्चापि प्रयान्ति परमां गतिम् ।
नर्मदायाम्यभागे च माण्डव्याश्रममुत्तम् ।। ५ ।।
विभाण्डकः ऋष्यशृंगस्तथाऽन्ये न्यवसन्पुरा ।
विशोकानर्मदासंगोऽशोकेश्वरश्च शंकरः ।। ६ ।।
शोभने निम्नगे तत्र नर्मदाविन्ध्यसंगमः ।
निवसन्ति मोक्षदाश्च देव्यस्तत्र समागमे ।। ७ ।।
हर्षसिद्धा च सावित्री देवमाताऽदितिस्तथा ।
देवयानी ब्रह्मतन्वी रोहिणी कम्भरायणी ।। ८ ।।
लोपामुद्रा तथेन्द्राणी दाक्षायणी प्रभा ध्रुवा ।
रत्नावली तथा संज्ञा तारा सिद्धिश्च पार्वती ।। ९ ।।
लक्ष्मीः राधा मणिकी च हंसा च मंजुलाऽमृता ।
मंगला सगुणाऽशोका स्वस्वस्वामियुतास्तु ताः ।। 1.573.१ ०।।
दया जया च ललिता मौक्तिकी हेमचम्पिका ।
कस्तूरिका च सविता वसन्ति विन्ध्यनार्मदे ।। ११ ।।
संभेदेऽशोकवनिकाक्षेत्रे गौर्या वरः कृतः ।
आश्विने धवले चतुर्दश्यां व्रतवती च या ।। १ २।।
अपुत्रिणी तथा वन्ध्या दुर्भगा भर्तृवर्जिता ।
पञ्चरत्नफलैः स्नाता दिव्यवस्तुभिरर्चयेत् ।। १३।।
स्नापयेच्च जलैः संभोजयेत् कुमारिकास्तथा ।
अखण्डसौभाग्ययुता पुत्रिणी मानिता भवेत् ।। १४।।
आदौ कृते रविश्चन्द्रः काञ्चीपुरपतिर्नृपः ।
सोमवंशसमुद्भावो नर्मदातीरवासिनम् ।। १५।।
मैत्रावरुणिकं विप्रमगस्त्यं प्रति संययौ ।
शाण्डिल्येन समं राजा पुरोहितेन तेन वै ।
ननामाऽगस्तिकं विप्रं पादौ जग्राह तस्य च ।। १६।।
अगस्तिः कुशलं सर्वं पप्रच्छ चासनं ददौ ।
राजा प्राह तपतस्ते दर्शनात् किल्बिषं गतम् ।। १७।।
अद्य मे सफलं जन्म राज्यं जीवनमित्यपि ।
कस्मिन् स्थाने यजे यज्ञं यथा संसिद्ध्यते क्रतुः ।। १८।।।
सुराणां चाऽक्षया तृप्तिः पितॄणां मोक्षणं भवेत् ।
मुनिः प्राह क्रतोर्योग्या नर्मदा सप्तकल्पगा ।। १९ ।।
अशोकवनिका यज्ञभूमिः ख्याता सुरार्चिता ।
तत्र यज्ञं वैष्णवं त्वं विधेहि पारमेष्यसि ।।1.573.२० ।।
राजाऽगस्तिं सह नीत्वा ययावशोकिकां स्थलीम् ।
रेवाया दक्षिणे कूले यज्ञयूपाँश्च मण्डपम् ।।२१।।
दशक्रोशानाभिव्याप्य कारयामास भूपतिः ।
सप्तर्षयस्तथा वालखिल्याश्चान्येऽपि भूसुराः ।।२२।।
ब्रह्मदृश्यो लोमशश्च कुंकुमवापिकास्थितः ।
सुराश्च ब्राह्मणाश्चान्ये ययुर्यज्ञः प्रवर्तितः ।।२३।।
तृप्तास्तु देवताः सर्वा विप्राः संलब्धदक्षिणाः ।
ततस्तत्र समायातो दुर्वासा मुनिराट् क्रुधा ।।२४।।
उवाच नात्र मे स्थानं वैवस्वतस्य नास्ति च ।
नारदः पर्वतो नास्ति कालो मृत्युर्न विद्यते ।।२५।।
चित्रगुप्तस्तथा नास्ति कथं यज्ञः प्रवर्तितः ।
दुर्वाससं रविश्चन्द्रो नत्वा प्राह तदा वचः ।।२६ ।।
को मे समर्थो विघ्नाय सुरासुरगणेष्वपि ।
अशोकेश्वरदेवस्य नर्मदायाः प्रसादतः ।।२७।।
मया निर्वर्तितो यज्ञो यज्ञे पूज्याः समागताः ।
भवन्तोऽपि मम पूजां गृह्णन्तु दक्षिणास्तथा ।।२८।।
ददामि वो न सन्देहो दुर्वासा नारदादयः ।
यो यं कामयते कामं तं तस्मै प्रददाम्यहम् ।।२९।।
आगताः प्रस्तुतास्तत्र नारदाद्या महर्षयः ।
तोषिता भूभृता ते च यथेष्टादिप्रदानतः ।। 1.573.३० ।।
दुर्वाससा ततः पुनस्त्वर्थितं शृणु पद्मजे ।
पूर्वं पार्वतीशापेन पाटलीपुत्रवासिनः ।।३ १ ।।
शप्ता वै ब्राह्मणाः श्वानो भूत्वा भ्रमन्ति वै क्षितौ ।
तेषां मुक्तिं च राजँस्त्वं कुरु पुण्यप्रदानकैः ।।३२।।
राजा प्राह कथं ते वै शापं प्राप्ता वदस्व मे ।
दुर्वासाः प्राह ते विप्राः पुरा वल्कलधारिणः ।। ३३ ।।
नेपाले वै पशुपतिं पूजयितुं ययुस्तदा ।
पुपूजुः शंकरं भक्त्या गौर्या विरहितं च ते ।।३४।।
अर्धनारीश्वरे नारीभागं हित्वा पुंमात्रकम् ।
चन्दनाद्यैः समानर्चुः पार्वती क्रोधतस्तदा ।।३१।।
शशाप ब्राह्मणाँस्ताँश्च नार्यर्धभेदकारिणः ।
वर्षसहस्रं सर्वे वै श्वयोनिं तु गमिष्यथ ।।३६ ।।
अथ शापेन ते सर्वे श्वयोनिं प्रगतास्तदा ।
वर्तन्ते तान्मोचय त्वं वनादाहूय चात्र वै ।।३७।।
अथ राज्ञा प्रेषिताश्च किंकरास्तद्वनं प्रति ।
श्वानो जातिस्मराः शीघ्रं किंकरैः सह चाययुः ।।३८।।
अशोकवनिकाभूमिं प्राह तान्नृपतिर्मुदा ।
अशोकेश्वरदेवस्य नर्मदायाः प्रभावतः ।।३ ९ ।।
मम दानप्रभावेण महर्षीणां प्रसादतः ।
त्यक्त्वा श्वयोनिं मुनयो ब्रह्मलोकं प्रयान्तु वै ।। 1.573.४० ।।
युष्मत्पापं शापरूपं मयि सर्वं विशाम्यतु ।
तत्क्षणान्मुक्तशापास्ते कामिकं यानमास्थिताः ।।४१ ।।
भूत्वा महर्षयो दिव्या रविश्चन्द्रं प्रतुष्टुवुः ।
त्वं माता त्वं पिताऽस्माकं त्वं गुरुर्मोक्षदायकः ।।४२ ।।
एवमुक्त्वा ययुः स्वर्गं सत्यलोकात्मकं शुभम् ।
दुर्वासाद्याः ऋषयोऽपि प्रशशंसुर्नृपं तदा ।।४३ ।।
साधु साधु महाभाग! त्वं तु यज्ञतपोनिधिः ।
नान्यस्त्वया समः कश्चित् सोमवंशोद्भवो नृपः ।।४४।।
प्राणत्यागो हि सुकरः पुण्यत्यागोऽति दुष्करः ।
पुण्यं प्रदास्यसि क्ष्माभृत् फलं त्वस्याऽस्ति शाश्वतम् ।। ४५ ।।
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।
राजाऽऽह मम पुण्येन जना दुर्बुद्धयोऽपि च ।।४६ ।।
प्राप्नुवन्तु परं लोकं वर एष मम प्रियः ।
दुर्वासाद्याः ऋषयोऽपि तथाऽस्त्वित्यभिधाय वै ।।४७।।
अन्तर्धानं ययुः सर्वे ततो धर्मः समागतः ।
प्रसन्नः सन् धर्मराजो वरं ददामि चाह तम् ।।४८।।
यमलोको जितो राजन् देवलोको जितस्त्वया ।
यज्ञपुण्यप्रदानेन श्वानो मुक्ताः कृतास्त्वया ।।४९।।
पृथिव्यां दुष्करं कर्म यज्ञपुण्यप्रदानकम् ।
वरयोग्योऽसि राजेन्द्र वृणुष्व च यथेप्सितम् ।।1.573.५०।।
रविश्चन्द्रस्तदा प्राह यमलोकगताश्च ये ।
पापिनो दुःखभोक्तारो नारका यातनार्दिताः ।। ५१ ।।
मम यज्ञशतेनैव दानेन तपसा तथा ।
प्रयान्तु त्वत्प्रसादेन स्वर्गं सत्यं सुखावहम् । । ५२ ।।
यमः प्राह तथैवाऽस्तु पुण्यं ते वर्धते बहु ।
परोद्धारेऽर्पितं पुण्यं सहस्रगुणितं भवेत् ।। ।५३ ।।
तेन पुण्येन राजेन्द्र याहि त्वं ब्रह्मपत्तनम् ।
शाश्वतं धाम यन्नित्यानन्दभृतं पराक्षरम् । । ५४ । ।
यतस्त्वया कश्मलाद्वै मोचिताः पापयोनयः ।
क्षत्रियाः शतशो राजन् अन्ये चापि सहस्रशः ।।५५ ।।
एवमुक्त्वा धर्मराजो दत्वा राज्ञे जपाय वै ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः । । ५६ ।।
षोडशाक्षरमन्त्रं च ययौ स्वभवनं मुदा ।
राजा कालेन दिव्योऽभूद् ययावक्षरतः परम् । । ५७ ।।
ब्रह्मधामोत्तरं धाम परं पुमुत्तमस्य यत् ।
श्रवणात् कीर्तनादस्य गोसहस्रफलं भवेत् । । ५८ ।।
अथ तीर्थं वागुरेवासंगमाख्यं ततः परम् ।
ब्रह्मदत्तोऽभवद् राजा कोशलानां प्रशासकः । । ५९ ।।
सूर्यवंशी क्रतुं रेवावागुयोगे चकार ह ।
दशयोजनपर्यन्ता यज्ञभूमिरभूत्तदा । । 1.573.६० ।।
अस्य यज्ञे चातितृप्ताः प्रेता मुक्तिं परां गताः ।
शृणु प्रेताः कथं जाताः केऽभवँस्ते पुरा यथा । । ६१ ।।
कार्तिक्यां पुष्करे तीर्थे पुरा महर्षयो ययुः ।
अयोगन्धः स्वयंभूश्च पुण्डरीकाक्ष इत्यपि ।। ६२ ।।
ब्रह्मा काव्यस्तथा होता सदनो वेदगर्भकः ।
कृतध्वनः स्वस्तिकश्च सावित्रो वामदेवकः ।।६ ३ ।।
अघमर्षो ब्रह्मतेजास्तथाऽन्ये ब्राह्मणा ययुः ।
सर्वे गार्हस्थ्यधर्मस्थास्तृष्णाहीना हि वैष्णवाः ।। ६४।।
तेषां भार्याः पतिधर्मा भर्तृशुश्रूषणे रताः ।
चीरवल्कलधारिण्यः शाकश्यामाकभक्षिकाः ।। ६५ ।।
दारिद्र्यदोषसन्तप्ता विषण्णाश्चैकदा तु ताः ।
विप्रस्थितिं यजनं याजनं चाध्यापनं तथा । । ६६ ।।
अध्ययनं तथा दानं प्रतिग्रहं व्यगर्हयन् ।
षट्स्वेतेषु विप्रकर्मस्वतिकष्टं विलोक्यते । । ६७ ।।
भूषणं राजसं किञ्चिन्नाप्यते ब्राह्मणगृहे ।
एवं व्यगर्हयँस्तासां श्रुत्वा विप्रा महर्षयः ।। ६८ ।।
विषण्णवदनास्तासां पूरयितुं मनोगतम् ।
सस्त्रीपुत्रा ययुः सूर्यग्रहे क्षेत्रे च कौरवे ।।६ ९ ।।
यत्र दानं ददाति स्म हरिश्चन्द्रो रवेर्ग्रहे ।
प्रतिग्रहेच्छया समागतान् दृष्ट्वा स भूपतिः ।।1.573.७०।।
प्रसन्नवदनो दानसाफल्यं प्रशशंस ह ।
धन्या मे सफला यात्रा कुरुक्षेत्रेऽद्य वर्तते ।।७१ ।।
क्षुधार्ता दुःखिताश्चापि बाला वृद्धाः कृशाऽऽतुराः ।
वल्कलाजिनवस्त्राश्च दुर्बला मे ह्युपागताः ।।७२।।
एवमुक्त्वा नमस्कृत्यैकैकस्य च पृथक्पृथक् ।
लक्षं लक्षं हिरण्यस्य तथा गावः सहस्रशः ।।७३।।
सहस्रं तुरगाणां च दन्तिनां शतमित्यपि ।
साप्तभौमान् गृहान्रम्यान् हेमप्राकारतोरणान् ।।७४।।
यानवाहनदासाँश्च दासीस्तथा समार्पयत् ।
राजप्रतिग्रहं प्राप्ताः पापभोक्तार एव ते ।।७५।।
षट्कर्माणि परित्यज्य विलासेष्वभवन् हृताः ।
कालान्तरे मृता जाताः प्रेतरूपा भयावहाः ।।७६।।
प्रतिग्रहप्रभावोऽयं विप्रस्य पतनं यतः ।
ते च जातिस्मराः सर्वे दानदग्धाः सबान्धवाः ।।७७।।
दुःखिनस्त्वागतास्तीर्थं पुष्करं यत्र नारदः ।
बदरीं प्रति संयास्यन्निर्गतस्तत्प्रदेशतः ।।७८।।
प्रेतरूपान् मुनीन् दृष्ट्वा विषादं परमं गतः ।
पप्रच्छ च कथं प्रेता जाता इति ततश्च ते ।।७९।।
ऊचुर्वयं हरिश्चन्द्रनृपतेर्वै प्रतिग्रहम् ।
कुरुक्षेत्रे लब्धवन्तो लोभेन तत्फलं गताः ।।1.573.८०।।
प्रेतभावं समापन्ना मोक्षोऽस्माकं विधीयताम् ।
श्रुत्वा तान्नारदः प्राह नर्मदां यात पावनीम् ।।८ १ ।।
वागीशं च पुरं तत्र नर्मदातटमाश्रितम् ।
अध्वरे ब्रह्मदत्तस्य मोक्षणं वो भविष्यति ।।८२।।
इत्युक्त्वा नारदो नारायणाश्रमं ययौ ततः ।
प्रेता ययुस्तमुद्देशं वागीशपुरमुत्तमम् ।।८३।।
स्नात्वा सूर्यं हरिं शंभुं पूजयित्वा ययुर्मखम् ।
मखप्रासादिकं प्राश्य पापहीनाः सुरूपिणः ।।८४।।
बभूवुस्तान् विलोक्यैतान् विमलान् सूर्यवर्चसः ।
ब्रह्मदत्तादयो नत्वा पप्रच्छुर्यूयमत्र के ।।८५।।
कथं प्रेतत्वमापन्ना बभूव मुक्तता कथम् ।
अथ तैर्निजवृत्तान्तस्तेभ्यस्तत्र निवेदितः ।।८६।।
चक्रुश्चोपरि राज्ञस्ते पुष्पवृष्टिं दिवंगताः ।
ब्रह्मयानं समारुह्य ब्रह्मलोकं ययुस्ततः ।।८७।।
राजानं शंशमाना वै मखं च नार्मदं जलम् ।
देवा विप्रा ययुर्नैजं देशं यज्ञे प्रतोषिताः ।।८८।।
श्रवणात्कीर्तनादस्य गोसहस्रफलं भवेत् ।
अन्यच्चापि सहस्रावर्तकं तीर्थं प्रविद्यते ।।८९।।
तत्र स्नातस्य विधिवद् वृषोत्सर्गफलं भवेत् ।
करावनं तथा तीर्थं सौगन्धिकं वनं तथा ।। 1.573.९०।।
तत्र सरस्वती चास्ते पित्रुद्धारकरी शुभा ।
त्रिशूलाख्यं तथाऽन्यच्च तीर्थ गणेशताप्रदम् ।। ९१।।
ब्रह्मोदं चापरं तीर्थं सप्तर्षिस्नानकारितम् ।
कपिञ्जलो मुनिश्रेष्ठो हव्यवाहश्च देवता ।।९२।।।
भगवान् देवयानश्च विश्वावसुर्महामुनिः ।
अस्य तीर्थस्य माहात्म्याद् ब्रह्मलोकमुपागताः ।।९३।।
वस्वाश्रमं तथा रम्यं तीर्थं परममस्ति च ।
सप्तसारस्वतं तीर्थं यत्र कृष्णनरायणः ।।९४।।
साक्षाद् विराजते ब्रह्मा स्तुतिं तस्य चकार ह ।
अनादिश्रीकृष्णनारायणो भवतु मे गतिः ।।९५।।
अक्षराधिपतिर्मुक्तपतिः श्रीपुरुषोत्तमः ।
राधापतिश्च लक्ष्मीशः पार्वतीशोऽस्तु मे गतिः ।।९६।।
जयापतिर्ललितेशो माणिकीशोऽस्तु मे गतिः ।
वासुदेवः स्वयं स्वामी नारायणोऽस्तु मे गतिः ।।९७।।
भूमा विष्णुर्महाकृष्णो वैराजेशोऽस्तु मे गतिः ।
उपेन्द्रो हंसनाथश्च भूश्रीशोऽस्तु च मे गतिः ।।९८।।
प्रभापतिर्मंजुलेशो हंसेशः सगुणापतिः ।
कांभरेयश्च भगवान् हरिकृष्णोऽस्तु मे गतिः ।।९९।।
हृषीकेशो माधवश्च देवीनाथोऽस्तु मे गतिः ।
शंखचक्रगदापद्मायुधः श्रीगरुडासनः ।। 1.573.१० ०।।
सर्वाविर्भावमूलं च जनार्दनोऽस्तु मे गतिः ।
परमात्मा परब्रह्म गोपालबालकः प्रभुः ।। १० १।।
विश्वात्मा चान्तरात्मा च हृदयस्थोऽस्तु मे गतिः ।
भक्तस्य भगवान् कृष्णः प्रीयतां सवितापतिः ।। १०२।।
सीतारमाप्रपुष्पेशो भक्तपतिः प्रसीदतु ।
जन्मप्रभृति यत्किञ्चिदर्जितं मे त्वदर्पितम् ।। १०३ ।।
नान्यः पुण्यतरो देवो नास्ति विष्णुपरं तपः ।
नास्ति स्वामिपरं ज्ञानं सर्वं स्वामिमयं जगत् ।। १ ०४।।
एतत्स्तवरवेणापि जना यास्यन्ति मोक्षणम् ।
श्रवणात्कीर्तनादस्य हयमेधफलं लभेत् ।। १०५ ।।
ब्रह्मा स्तुत्वा जले स्नात्वा कार्तिक्यां यानमास्थितः ।
अनादिश्रीकृष्णनारायणं रटन् ययौ दिवम् ।। १०६ ।।
एतत् तीर्थं कृष्णनारायणोदं मोक्षदं स्मृतम् ।
शंभूदितं च यत्सत्यै मया लक्ष्मि! तवोदितम् ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहिताया' प्रथमे कृतयुगसन्ताने सुवर्णद्वीपतीर्थं विशोकानर्मदासंगमः, अशोकेश्वरे रविश्चन्द्रयज्ञे प्रेतोद्धारः, वागुरेवासंगमः, श्रीकृष्णनारायणतीर्थादि चेतिनिरूपणनामा त्रिसप्त-
त्यधिकपञ्चशततमोऽध्यायः ।।५७३।।