लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५६८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५६७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५६८
[[लेखकः :|]]
अध्यायः ५६९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! मम भक्तिपराणां चोत्तमां मतिम् ।
यद्यपि स्यान्मम तीर्थे धूलीधूसरता यदि ।। १ ।।
तथाप्यहं महाराज्यं प्रददामि मृतस्य वै ।
पूर्वं कोकाभिधे तीर्थे वाराहावतराश्रये ।। २ ।।
कश्चिल्लुब्धो विहिंसन् वै चाययौ कोकमण्डले ।
तत्र दृष्ट्वा जले मत्स्यं बडिशेनाऽऽजहार सः ।। ३ ।।
तस्य हस्तात्तु बलवान् मत्स्यस्तूर्णं विनिर्गतः ।
अथ श्येनश्च तं वीक्ष्य पद्भ्यां जग्राह सत्वरम् ।। ४ ।।
उड्डीनोऽपि महाभारं वोढुं निर्बल एव सः ।
ततः पद्भ्यां वियुक्तः सन् मत्स्यः कोकामुखेऽपतत् ।। ५ ।।
ममार रजसा स्पृष्टो राजपुत्रोऽभवच्छुचिः ।
अथ कालेन तस्यैव मृगव्याधस्य चांगना ।। ६ ।।
गृहीत्वा मूर्ध्नि मांसानि पद्भ्यां प्रयाति तत्र वै ।
एका चिल्ली मांसक्षुब्धा मांसं हर्तुं समाययौ ।। ७ ।।
व्याधपत्न्या ताडिता सा शरेण पतिता मृता ।
जाता चन्द्रपुरे राज्ञः कन्या तीर्थरजःश्रयात् ।। ८ ।।
युवत्यपि नरं श्रेष्ठं जुगुप्सति न चेच्छति ।
सौम्यं सुरूपं पुरुषं सर्वानपि जुगुप्सति ।। ९ ।।
अथ काले गते तयोः सम्बन्धोऽभूद्विवाहतः ।
तथा च दम्पती नित्यं धर्मं पालयतः स्थितौ ।।1.568.१ ० ।।
मध्याह्ने जायते पत्युः शिरोरुगतिपीडिनी ।
वैद्यौषधैः सहस्रैः सा पीडा नैव न्यवर्तत ।। १ १।।
कदाचिद् दयिता नैजं भर्तारमिदमब्रवीत् ।
का न्वियं वेदना स्वामिन् चिकित्साभिर्न गच्छति ।। १ २।।
पुनः पुनः पृच्छ्यमानः प्रियामुवाच वै पतिः ।
मुञ्चत्वं मानुषं भावं तां जातिं स्मर पौर्विकीम् ।। १३ ।।
यदि ज्ञातुं तवेच्छाऽस्ति गृहाणाऽऽज्ञां तु वृद्धयोः ।
मातापित्रोर्मम गन्तुं तीर्थं कोकामुखं प्रति ।। १४।।
तत्र गत्वा कथयिष्ये मा मोहं कुरु भामिनि ।
ततः प्रसादयामास श्वश्रूश्वशुरकौ वधूः ।। १५ ।।
प्राह कोकामुखे गन्तुमिच्छावस्तीर्थयोगतः ।
कार्यगौरवभावेन न निषिद्धौ कथंचन ।। १६ ।।
अद्य यावत् किमपि वां याचितं न मया क्वचित् ।
पुरस्ताद् युवयोस्तन्मे याचितं दातुमर्हतः ।। १७।।
शिरोवेदनया युक्तः सदा तव सुतो ह्ययम् ।
मध्याह्ने मृतकल्पो वै जायते चातिपीडितः ।। १८।।
कोकामुखं विना कष्टं न निवृत्तं भविष्यति ।
त्वरितं गन्तुमिच्छावो विष्णोस्तत्परमं पदम् ।।१९।।
इति स्नुषावचः श्रुत्वा राजा प्राह शुभं वचः ।
गृहाण पुत्र रत्नानि दासान् दासीः रथादिकान् ।।1.568.२०।।
दानार्हाणि च वस्तूनि धनानि विपुलानि च ।
कुरु तीर्थं सुखात्पुत्र पुत्रि रक्ष पतिं तव ।।२१ ।।
अनुजज्ञे शको राजा दम्पती वणिजादिभिः ।
ययतुस्तत्र गत्वा च कोकामुखं हरिं तथा ।।२२।।
देवान् दृष्ट्वा जले स्नात्वा दानानि ददतुस्ततः ।
रजनी संव्यतीता च प्रातः स्नातौ तु दम्पती ।।२३।।
प्रणम्य शिरसा विष्णुं पतिः पत्नीं मृदन्तरे ।
अस्थीनि दर्शयामास मीनस्य पूर्वजन्मनः ।।२४।।
एतानि मम चास्थीनि पूर्वदेहोद्भवानि हि ।
अहं पुराभवं मत्स्यः कोकेषु विचरन् जले ।।२५।।
व्याधेन निगृहीतोऽहं बडिशेन जलेचरः ।
तद्धस्तान्निर्गतस्तत्र बलेन पतितो भुवि ।।२६ ।।
श्येनेनामिषलुब्धेन नखैर्विद्धोऽभवंस्तदा ।
नीतं आकाशमार्गेण तस्माच्च पतितोऽत्र वै ।।२७।।
तेन चातिप्रहारेण जाता शिरसि वेदना ।
अहमेव विजानामि स्मरामि वेदनां ह्यति ।।२८।।
तेन दुःखं न मे शान्तं मध्याह्ने जायते ह्यति ।
श्रुत्वैवं तस्य भार्याऽपि प्राह पूर्वभवं स्वकम् ।।२९।।
अहं पूर्वभवं च चिल्ली क्षुत्तृड्युता द्रुमे ।
समासीना तदा भक्ष्यं विचिन्वाना तदन्तरे ।।1.568.३ ० ।।
अथ कश्चिन्मृगव्याधः प्रियया सह तद्द्रुमे ।
हत्वा मृगान् समायातो मांसान् ररक्ष भूतले ।।३ १ ।।
तावन्मया मांसपिण्डो विद्धो वज्रसमैर्नखैः ।
व्याधो ददर्श मां तत्र जघान च शरेण माम् ।।।३२।।।
अपातयच्च भूमौ मां पतिताऽहं मृतिं गता ।
एतत्क्षेत्रप्रभावेण जाताऽस्मि त्वत्प्रिया नृपी ।।३३।।
एतानि यस्य चास्थीनि शेषाणि च ममापि च ।
गलितान्यल्पशेषाणि स्मरामि सर्वमेव तत् ।।३४।।
अथ चात्र प्रकर्तव्यं धर्मकार्यं प्रमोक्षदम् ।
इतिनिश्चित्य तौ तत्र विष्णुलोके सुखावहम् ।।३५।।
चक्रतुर्भजनाद्यं च द्रव्यरत्नादिदानकम् ।
ददतुः परमप्रीतौ पात्रेभ्यः स्वानि शेषतः ।।३६।।
तत्र स्थित्वा वरारोहे मम सेवाव्यवस्थितौ ।
तस्मात् स्थानाद् वपुस्त्यक्त्वा श्वेतद्वीपमुपागतौ ।।३७।।
शुक्लाम्बरधरौ दिव्यभूषणैश्च विभूषितौ ।
दिव्यरूपधरौ भक्तौ मम भागवतौ सदा ।।३८ ।।
दीप्तिमन्तौ सुरूपौ च स्वर्णवच्छुभदर्शनौ ।
चतुर्भुजौ यथा लक्ष्मीविष्णू सामर्थ्यशोभितौ ।।३९।।
तयोर्योऽभूत्परिजनश्चमत्कारं प्रवीक्ष्य सः ।
मम सेवापरश्चाऽभूत् मम कर्मव्यवस्थितः ।।1.568.४०।
मानुषं भावमुत्सृज्य मम लोकमुपागतः ।
सर्वशो द्युतिमाँस्तत्र मत्सान्निध्यमुपागतः ।।४१ ।।
मम भक्ताः स्त्रियो लक्ष्मि त्वत्स्वरूपो भवन्ति वै ।
तेजसा दीप्तिमत्यश्च शुद्धसत्त्वविभूषिताः ।।४२।।
नवयौवनपूराश्च सर्वाश्चोत्पलगन्धिकाः ।
चारुचम्पकवर्णाभा मुक्ताः सर्वाः प्रियव्रताः ।।४३।।
प्रसादान्मम सुश्रोणि नित्ययौवनपूरिताः ।
नित्यानन्दभृताः सर्वाः सर्वसिद्धिसमन्विताः ।।४४।।
एष धर्मश्च कीर्तिश्च शक्तिश्चापि महद्यशः ।
कर्मणां परमं कर्म तपसां च महत्तपः ।।४५।।
कथानां परमं चापि कृतीनां परमा कृतिः ।
वृषाणां परमो धर्मो यन्ममाश्रयणं परम् ।।४६ ।।
मम धर्मं समाश्रित्य रजो धृत्वा च मस्तके ।
प्रसादप्राशनं कृत्वा मम लोके महीयते ।।४७।।
मम पादजलं पीत्वा स्नात्वा मत्तीर्थवारिषु ।
मम साधोरनुवृत्तिं पालयित्वा मुहुर्मुहुः ।।४८।।
सतां सेवां सदा कृत्वा कृत्वा भागवतार्चनम् ।
श्रुत्वा च संहितां लक्ष्मीनारायणीयसंज्ञिताम् ।।४९ ।।
जना यान्ति परां मुक्तिं चिल्लीमत्स्यौ यथा पुरा ।
एतन्मरणकालेऽपि स्मृत्वा मुच्येत बन्धनात् ।।1.568.५०।।
विशेषेणापि ते लक्ष्मि कथयामि शुभक्षणम् ।
कुमुदं मार्गशीर्षं च वैशाखं श्रावणं तथा ।।५१ ।।
ममातिमोदपात्राणि मासाश्चैते ममार्चने ।
कार्तिके द्वादशीकाले नवान्नैर्नवपुष्पकैः ।।५२ ।।
पूजयेन्नववार्भिश्च स मे लोकाय कल्पते ।
गते मेघागमे काले प्रसन्नशरदाश्रये ।।५३।।
अम्बरे विमले जाते विमले शशिमण्डले ।
नातिशीते न चात्युष्णे काले हंसविराविणि ।।५४।।
कुमुदोत्पलकल्हारपद्मसौरभनिर्भरे ।
कुमुदस्य तु मासस्य भवेद्या द्वादशी शुभा ।।५५।।
तस्यां मामर्चयेद् यस्तु व्रतं कुर्यात्तथा मम ।
प्रबोधिनीं पालयेच्च स याति परमां गतिम् ।।५६।।
शिशिरेऽपि मार्गशीर्षे द्वादश्यां कुसुमैर्नवैः ।
ममार्चनं प्रकुर्याद् यः स याति परमां गतिम् ।।५७।।
मासं मार्गशिरं यद्वद् वैशाखं चापि मे प्रियम् ।
तत्र पुष्पादिभिश्चाऽहमर्चनीयो व्रते दिने ।।५८।।
नववर्षसहस्राणि नववर्षशतानि च ।
तिष्ठते मम लोके स यो ददाति च मेऽर्चनम् ।।५९।।
एकेकगन्धपत्रस्य दानमेतन्महत्फलम् ।
कौमुदस्य तु मासस्य मार्गशीर्षस्य वै तथा ।।1.568.६०।।
वैशाखस्य तु मासस्य द्वादश्यां धवले दले ।
एकभक्तिपरो भूत्वा वनमालां विभूषिताम् ।।६ १ ।।
पुष्पाणां च विभूषाश्च गन्धपुष्पाणि यो न्यसेत् ।
वर्षाणि द्वादशैवेह तेन पूजा कृता भवेत् ।।६२।।
शालपुष्पं सुगन्धि कौमुद्यां चन्दनमर्पयेत् ।
उत्पलं चन्दनं चापि दद्यान्मार्गशिरे शुभम् ।।६३।।
वैशाख्यां स्थलकमलं जलं शीतं सशर्करम् ।
इक्षुरसं प्रदद्यान्मे शान्तिदं पुष्टिदं तथा ।।६४।।
प्राप्नोति प्रददानस्तु मम भक्तिपरायणः ।
दिव्यं वर्षसहस्रं वै वैकुण्ठं च ततः परम् ।।६५।।
परं पदं स मे याति पुण्यस्याऽन्तो न विद्यते ।
न जन्ममरणे तस्य न ग्लानिर्न क्षुधा तृषा ।।६६ ।।
एवंविधं परं लोकं प्राप्नुयान्मम पूजकः ।
फाल्गुनस्य तु मासस्य शुक्लद्वादशिकातिथौ ।।६७।।
रम्यवासन्तिकैः पुष्पैः पूजयेन्मां सुभावतः ।
श्वेतं पाण्डुरकं चापि सुगन्धं शोभनं बहु ।।६८।।
न स गच्छति संसारं मम लोकं स गच्छति ।
वैशाख्यां शालपुष्पाणि शुभानि तरुणानि च ।।६९।।
दत्वा मह्यं च भक्तेभ्यो जनो मोक्षाय कल्प्यते ।
प्रपूज्य श्रीभागवतान् स्थापयित्वाऽग्रतश्च माम् ।।1.568.७ ०।।
पूजयेत् परया प्रीत्या नरो नारी सुभावतः ।
सस्तुवन्त्यृषयो मन्त्रैर्भक्ताः स्तवैः स्त्रियो हृदा ।।७१ ।।
गन्धर्वाऽप्सरश्चापि गीतनृत्यैः सवादनैः ।
स्तुवन्ति देवलोकाश्च पुराणं पुरुषोत्तमम् ।।७२।।
सिद्धा विद्याधरा यक्षाः पिशाचोरगराक्षसाः ।
स्तुवन्ति देवं सर्वेषां मां श्रीकृष्णनरायणम् ।।७३।।
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ।
स्तुवन्ति देवदेवेशं युगानां संक्षयेऽपि च ।।७४।।
पृथ्वी वायुश्च विश्वे च तेजः सूर्यादयो ग्रहाः ।
समन्विताः स्तुवन्त्येनं श्रीकृष्णं पुरुषोत्तमम् ।।७५।।
स्वयं ब्रह्मा च सोमश्च शक्रश्चाग्निश्चिदम्बरम् ।
स्तुवन्ति श्रीकृष्णनारायणं लोकमहेश्वरम् ।।७६।।
नारदः पर्वताश्चाप्यसितश्च देवलो मुनिः ।
पुलहश्च पुलस्त्यश्च भृगुश्चांगिर इत्यपि ।।७७।।
एते चान्ये च बहवो मित्रावसुपरावसू ।
स्तुवन्ति मां रमेशं वै योगिनां परमं गुरुम् ।।७८।।
सत्यलोकनिवासाश्चाष्टावरणधृताश्रयाः ।
वैराजा ईश्वराश्चापि मां भजन्ते हिं माधवि! ।।७९।।
पितरस्त्वर्यमाद्याश्च याम्याः श्रवणसंज्ञकाः ।
संवत्सराश्च कालाख्या मां स्तुवन्ति तु नित्यशः ।।1.568.८०।।
ऋषयो मुनयः सर्वे दिक्पाला लोकपालकाः ।
निधयः कृत्तिकाः काष्ठा अनंगो मनवस्तथा ।।८ १ ।।
कलाश्च तिथयः सर्वास्तत्त्वान्यपि स्तुवन्ति माम् ।
नक्षत्राणि सुराः सर्वे गुणा वर्णा भजन्ति माम् ।।८२।।
भोगाश्च भोगिनः सर्वे योगिन्यश्चाप्सरोगणाः ।
तीर्थानि च नदा नद्यो नाडिकाः खनिकास्तथा ।।८३ ।।
वालखिल्याः पिशाचाद्या भूताः प्रेताः स्तुवन्ति माम् ।
कूष्माण्डाश्चण्डिकाः सर्वा वेतालाश्च विनायकाः ।।८४।।
डाकिन्यश्चापि शाकिन्यस्तथा कृत्या भजन्ति माम् ।
जरायूजा अण्डजाश्च स्वेदजाः पार्थिवांकुराः ।।८५।।
मानवा जलजाश्चापि स्थलजा देहिनश्च माम् ।
स्तुवन्ति दुःख्यवस्थायामाश्रमस्था निरन्तरम् ।।८६।।
गृहदेवा ग्रामदेवा वनारण्यादिदेवताः ।
वनानि पर्वताद्याश्च तडागानि स्रवाणि च ।।८७।।
अखातानि च खातानि चाब्धयोऽपि स्तुवन्ति माम् ।
आलया ग्रामसंस्थानाश्चेतना वै भजन्ति माम् ।।८८।।
यमलोककृतावासाः कर्मिणस्तु मुहुर्मुहुः ।
मां स्मरन्ति कृपानाथं समुद्धाराय दुःखतः ।।८९।।
आर्ताः स्तुवन्ति मां शश्वज्जिज्ञासवः क्वचित् क्वचित् ।
अर्थार्थी यावदर्थस्य लाभो भवति तावता ।।1.568.९०।।
मज्ज्ञा नित्यं स्मरन्त्येव स्तुवन्ति च भजन्ति च ।
सूताश्च मागधाश्चापि बन्दिनश्चारणादयः ।।९१ ।।
स्तावकाः कथकाः सर्वे पण्डावन्तो भजन्ति माम् ।
न्यायदाः शासकाश्चापि चौराश्चापहरास्तथा ।।९२।।
तामसाः सात्त्विका यद्वा राजसाश्च स्तुवन्ति माम् ।
भाट्टा गान्धर्वकुशलाः किन्नराः किंपुमर्थकाः ।।९३ ।।
साध्याः साध्व्यस्तथा सत्यो ब्रह्मचारिण्य इत्यपि ।
आभिचारिण्य एवापि मां स्तुवन्ति भजन्ति माम् ।। ९४।।
नागाः सर्पा उरगाश्च सरीसृपा मृगादयः ।
धर्मे निजे वर्तमानाः सर्वे भजन्ति मां खलु ।।९५।।
यथाभावं ददाम्येभ्यः फलं कर्मानुसारि वै ।
मुक्ता भजन्ति सततं हृदि वासं प्रदाय मे ।।९६।।
तेभ्यो ददामि हृदयं भक्तेभ्यो मम ते यथा ।
एवं लक्ष्मि सदा सर्वे जीवाः प्रोता मयि ध्रुवम् ।।९७।।
मां विना नैव तिष्ठन्ति कम्पन्ते नैव मां विना ।
प्रकाशं नैवाप्नुवन्ति मां विना हृदयस्थितम् ।।९८।।
अनादिश्रीकृष्णनारायणश्चाहं परेश्वरः ।
काम्भरेयो महाराजः संराजे सर्वदेहिषु ।।९९।।
मम भासा प्रभासन्ते सर्वेषां हृदयानि वै ।
मम शक्त्या प्रकुर्वन्तीन्द्रियाणि ग्रहणानि च ।। 1.568.१०० ।।
ममान्वयेन संसारो याति वियाति वर्तते ।
ममोपस्थानहेत्वैतत् सर्वमानन्दभूमिकम् ।। १०१ ।।
अतो लक्ष्मि! सदा सेव्यो नारायणः परात्परः ।
सर्वर्तुजन्यसद्द्रव्यैर्मानसैर्भवनैस्तथा ।। १ ०२।।
तेषामुद्धरणार्थाय जाग्रतो न स्वपिम्यपि ।
न मे निद्रा हि भक्तार्थं नौदासीन्यं मदाश्रिते ।। १ ०३।।
न चालस्यं स्वावनार्थे न मूर्तिः प्रेमशून्यके ।
इति ज्ञात्वा ये भजन्ति स्तुवन्ति च स्मरन्ति माम् ।। १ ०४।।
त एव मोक्षभागा वै नरा नार्यः प्रियेऽब्धिजे ।
पाठकाः श्रावकाश्चापि श्रोतारो मननार्थिनः ।।१ ०५।।
सर्वे भावभराः स्युश्चेत् प्रयान्ति परमं पदम् ।
सर्वयज्ञफलं तेषां मम वाक्येऽनुवर्तिनाम् ।। १ ०६।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विष्णोस्तीर्थरजोमाहात्म्यं श्वेतद्वीपमुक्ताः कार्तिकमार्गशीर्षवैशाखादिद्वादशीषु कृतभगवत्पूजाफलं सर्वभूतप्राणिमात्रकृतस्तुत्यादिभिर्भगवत्प्राप्तिरित्यादिनिरूपणनामाऽष्टषष्ट्यधिकपञ्चशततमोऽध्यायः ।।५६८।।