लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५६७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५६६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५६७
[[लेखकः :|]]
अध्यायः ५६८ →

श्रीनारायाण उवाच-
शृणु लक्ष्मि! च दुःखानि विना भक्तिं जनस्य वै ।
तथा सुखानि वक्ष्यामि मम योगेन सर्वथा ।। १ ।।
अनेकचित्तविभ्रान्तो ममाऽहंकारसंवृतः ।
अजितेन्द्रिय आशास्थस्ततो दुःखतरं नु किम् ।। २ ।।
असन्तुष्टश्चातितृष्ण उद्वेगक्लेशकारकः ।
वासनाकृष्टहृदयस्ततो दुःखतरं नु किम् ।। ३ ।।
अपूतात्मा धर्महीनो दयादानविवर्जितः ।
लक्ष्मीभोगविहीनश्च ततो दुःखतरं नु किम् ।। ४ ।।
रोगो मोहो जरा ग्लानिः सशस्त्रः परवञ्चकः ।
परदुःखप्रदाता चेत् ततो दुःखतरं नु किम् ।। ५ ।।
ममाऽर्चनक्रियाहीनः सतां सेवाविवर्जितः ।
गृहे क्लेशकरः स्याच्चेत् ततो दुःखतरं नु किम् ।। ६ ।।
नास्ति देवो न वै धर्मो परलोको न विद्यते ।
मन्यते न पुनर्जन्म ततो दुःखतरं नु किम् ।। ७ ।।
उचितेनोपचारेण द्रव्ये सत्यपि मानवः ।
यो मां नैव प्रपद्येत ततो दुःखतरं नु किम् ।। ८ ।।
सर्वभक्षी सर्ववस्तुविक्रेता नतिवर्जितः ।
यो न मां प्रतिपद्येत ततो दुःखतरं नु किम् ।। ९ ।।
अभ्यागतं चातिथिं चाऽदत्वा भुंक्ते निजानपि ।
पाकभेदप्रकर्ता चेत् ततो दुःखतरं नु किम् ।। 1.567.१० ।।
परोपताप्यसन्तुष्टो मन्दात्मा देवदूषकः ।
कर्महीनो ह्रासमूले ततो दुःखतरं नु किम् ।। ११ ।।
आत्मश्रेयो ह्यनासाद्य चाऽकृत्वा पापदाहनम् ।
मृत्युकालवशं प्राप्तस्ततो दुःखतरं नु किम् ।। १ २।।
राज्ये सत्यपि याम्यानां हस्ते गत्वा प्रसह्य वै ।
दूतदुःखं समाप्नोति ततो दुःखतरं नु किम् ।। १३।।
हस्त्यश्वरथयानानि सैन्यानि भृत्यवर्गकान् ।
विहायाऽन्यवशो याति ततो दुःखतरं नु किम् ।। १४।।
अश्नन्ति मादकं केचित् केचिच्छालिघृतादिकम् ।
शुष्कान्नं केचिदश्नन्ति केचित् कन्दफलान्यपि ।। १५।।
वरवस्त्रावृतां शय्यां सेवन्ते समभूषिताम् ।
तृणेषु शेरते केचित् कुर्वन्ति नात्मसाधनम् ।। १६ ।।
मरणं सर्वसामान्यं नैकं त्यजति नाऽपरम् ।
ज्ञात्वैवं न भजन्ते मां ततो दुःखतरं नु किम् ।। १७।।
सुरूपो दृश्यते कश्चित् कश्चिद् विरूपकुब्जकः ।
सगुणो निर्गुणः कश्चित् साम्यं चोदरपोषणम् ।। १८।।
विद्वान् मूकस्तथा कश्चिन्न कश्चिच्छाश्वतोऽत्र वै ।
ज्ञात्वैव मां न भजते ततो दुःखतरं नु किम् ।। १९।।
विद्यमाने धने केचित् कृपणा भोगवर्जिताः ।
दाता सत्यपि दारिद्र्ये बहुव्ययपरायणः ।।1.567.२० ।।
एवं सत्यपि वर्षान्ते रिक्तं गृहं द्वयोरपि ।
किं फलं धनिनस्तस्य किं फलं निर्धनस्य च ।। २१ ।।
दानयज्ञादिराहित्ये ततो दुःखतरं नु किम् ।
द्विभार्यो बहुभार्यो वा तदा सम्पद्यते जनः ।।२२।।
यदा चैकत्राऽसन्तुष्टश्चापरां स प्रशंसति ।
एका तु दुर्भगा तत्र सदा शापपरायणा ।।२३ ।।
भोगे शापानुलेपश्च परलोकविनाशकृत् ।
ज्ञात्वैवं भजते मां न ततो दुःखतरं नु किम् ।।२४।।
सद्गृहे धृतजन्मानो सर्वसाधनसंभृताः ।
कुर्वन्ति पापकर्माणि ततो दुःखतरं नु किम् ।।२५।।
लब्ध्वा तु मानुषीं संज्ञां सर्वज्ञानसमन्विताम् ।
मामेव न प्रपद्यन्ते ततो दुःखतरं नु किम् ।।२६।।
कृत्वा तु विपुलं कर्म स्वार्थमात्रपरायणः ।
विपरीतमतिं याति स दुःखायोपजायते ।।२७।।
दुःखं स्वेच्छाविरुद्धं स्यात् सुखं स्वेच्छानुकूलता ।
आत्मनश्च परं दुःखं नित्यानन्दविहीनता ।।२८।।
मृत्युत्तरं च यल्लभ्यं मानवेन हि वर्ण्यते ।
कर्मणा शाश्वतं सौख्यं तच्चेन्नाप्तं वृथाजनुः ।। २९।।
जीवन् दुःखसमायुक्तो मृतोऽपि दुःखभाक् पुनः ।
तस्य व्यर्थं गतं जन्म ततो दुःखतरं नु किम् ।।1.567.३ ० ।।
मां पूजयित्वा नैवेद्यं विशिष्टं परिकल्प्य च ।
शेषमन्नं समश्नाति ततः सौख्यतरं नु किम् ।। ३१ ।।
त्रिकालं मे प्रेपद्यन्ते पश्यन्ति प्रतिमां मम ।
भक्तिं कुर्वन्ति मे प्रेम्णा ततः सौख्यतरं नु किम् ।।३२।।
देवतातिथिमर्त्यानां गवां चान्नं विभज्य च ।
आश्रितानां ततः पश्चात् समश्नाति गृहाधिपः ।।३३।।
ते निराशा न गच्छन्ति सन्तुष्टा यान्ति दानतः ।
यस्यैवं वर्तमानस्य ततः सौख्यतरं नु किम् ।।३४।।
मासि मास्येकदिवसस्त्वमावास्येति योच्यते ।
पितरो यस्य तृप्यन्ति ततः सौख्यतरं नु किम् ।।३५।।
भोजनादौ च साधुभ्यः पायसान्नं ददाति यः ।
अभिन्नमुखरागेण ततः सौख्यतरं नु किम् ।।३६ ।।
बह्वीष्वपि स्वपत्नीषु यस्य बुद्धिर्न भिद्यते ।
समं सौख्यं ददात्येव ततः सौख्यतरं नु किम् ।।३७।।
अहिंसनं व्रतं शुद्धान्तरो रक्षेद् रुषं त्यजन् ।
सुरूपं भोग्यवस्त्वादि दृष्ट्वा दृष्टिं ददाति न ।।३८।।
शान्तात्मा कामनाहीनो मोहहीनः समन्ततः ।
लोष्ठवत् पश्यति स्वर्णं ततः सौख्यतरं नु किम् ।।३९।।
पूजायां वर्तमाने च यदि प्राणः प्रगच्छति ।
देवार्थं मरणं स्याच्चेत् ततः सौख्यतरं नु किम् ।।1.567.४० ।।
कुत्सितं नैव कुर्याच्च कुर्यादेवात्ममोक्षणम् ।
लाभाऽलब्धावपि तुष्टस्ततः सौख्यतरं नु किम् ।।४१।।
भर्ता व्रतं सदा स्त्रीणां साक्षान्मूर्तं प्रविद्यते ।
भर्तारं समनुसृत्य वर्तते या पतिव्रता ।।४२।।
पत्नीव्रतं तथा पत्युः साक्षान्मूर्तिः पतिव्रता ।
पत्नीं सन्तुष्य च पतिर्वर्तते सुखदायकः ।।४३ ।।
दम्पती प्रेमपूर्णौ चेत् ततः सौख्यतरं नु किम् ।
विभवाढ्यो जनो यश्च विधाविनयवाँस्तथा ।।४४।।
निगृहीतेन्द्रियः स्याच्चेत् ततः सौख्यतरं नु किम् ।
सहते चाऽवमानानि व्यसने दुर्मनाः सदा ।।४५।।
मम भक्तौ चातिसक्तस्ततः सुखतरं नु किम् ।
जलं मिलति निर्मूल्यं भिक्षया चान्नमाप्यते ।।४६ ।।
न चिन्ता द्रव्यरक्षायास्ततः सुखतरं नु किम् ।
शरीरं रोगहीनं च पाचनाग्निः समुज्ज्वलः ।।४७।।
पक्वाऽपक्वं पचत्येव ततः सुखतरं नु किम् ।
शीतं न बाधते चाति औष्ण्यं नाभिभवत्यपि ।।४८ ।।
वृक्षवायुकृतावासस्ततः सुखतरं नु किम् ।
लोकाः कुटुम्बं सर्वत्र आधारः परमेश्वरः ।।४९।।
चिन्तनं श्रीहरेर्नित्यं ततः सुखतरं नु किम् ।
गृहं यस्य तु पारक्यं गुहाप्रख्यं निरामयम् ।।1.567.५०।।
पोषणं परभृत्तुल्यं भोजनं शुकवत्तथा ।
भजनं सहजं यस्य ततः सौख्यतरं नु किम् ।।५१ ।।
सकामो वा ह्यकामो वा ममालयनिवासकृत् ।
यस्तु प्राणाद् वियुज्येत ततः सुखतरं नु किम् ।।५२।।
मातरं पितरं भार्यां गुरुं देवं च बालकान् ।
देवतामिव पश्येद् यस्ततः सौख्यतरं नु किम् ।।५३।।
शान्तिर्ज्ञानं विचारश्चाऽनुद्वेगश्च विवेकिता ।
धैर्यं स्थैर्यं निस्पृहत्वं ततः सौख्यतरं नु किम् ।।५४।।
पूजयेद् देवदेवेशं कृष्णनारायणं हरिम् ।
निपतेद् दण्डवद् भूमौ ज्ञानी भागवतः शुचिः ।। ५५।।
शिरसा चांजलिं कृत्वा प्रसीदेति वदेद्धरिम् ।
क्षमापयेद्धरिं नित्यं ततः सौख्यतरं नु किम् ।।५६।।
अभ्यञ्जनं च मे दद्याद् दद्याद् वा तैलमर्दनम् ।
सर्वं शरीरं चाऽभ्यज्याद् घृतेनापि च मस्तकम् ।।५७।।
आज्यमानमपि तथा यावन्तस्तैलबिन्दवः ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।५८।।
ततः पुण्यकृताँल्लोकान् सुखान् विन्दति मानवः ।
ततः परं पुमांसं मां विन्दत्यक्षरसंज्ञके ।।५९।।
उद्वर्तनं च मे दद्याच्छुद्ध्यन्त्यंगानि येन मे ।
पिप्पलिका मधुकश्च अश्वपर्णश्च कर्कटः ।।1.567.६० ।।
एतेषां तु शुभं चूर्णं मम गात्रसुखावहम् ।
एवमुद्वर्तनं कृत्वा घर्षयित्वा शनैः शनैः ।।६ १ ।।
नैर्मल्यं मे प्रकुर्याच्च भक्तः करेण सर्वथा ।
तत आमलकं चैव सुगन्धचूर्णमुत्तमम् ।।६२।।
तेन मे सर्वगात्राणि मर्दयित्वा दृढव्रतः ।
यद्वा क्षारस्नेहगन्धगूटिकाभिः प्रमार्जनम् ।।६३।।
स्नपनं जलधाराभिः कारयेन्मां सुखावहम् ।
पश्चाद् गन्धं प्रदद्याच्च पुष्पसारादिकं तथा ।।६४।।
कर्मण्यान्यपि माल्यानि पुष्पांञ्जलिं प्रदापयेत्। ।
पश्चाद् धूपं च मे दद्यात् सुगन्धद्रव्यमिश्रितम् ।।६५।।
पश्चाद् वस्त्रं च मे दद्यात् क्षौमं शुक्लं च पीतकम् ।
पश्चाद् भूषां मम दत्वा त्वासनं चोपकल्पयेत् ।।६६।।
पश्चाद्वै भोजनं दत्वा प्रसादं संग्रसेत् ततः ।
पश्चाज्जलं सुताम्बूलं दद्यान्मे शयनादिकम् ।।६७।।
एवं भक्तिं प्रकुर्यान्मे पादसंवाहनं चरेत् ।
रञ्जयेन्मां कथालापैर्हासयेच्च हसेत्तथा ।।६८।।
आनन्दं कारयेन्मां च ततः सौख्यतरं नु किम् ।
भक्तो भक्ता च वा कृष्णे सर्वस्वार्पणमाचरेत् ।।६९।।
फलं तस्य च गोलोके कृष्णः सर्वं ददाति वै ।
एवं मुक्तेः परे लाभे ततः सौख्यतरं नु किम् ।।1.567.७०।।
राधावत् सेवने कृष्णं लक्ष्मीवच्च नरायणम् ।
पार्वतीवच्छंकरं च प्रभावद्भास्करं प्रभुम् ।।७१ ।।
माणिक्यावत् स्वामिनं चानादिकृष्णनरायणम् ।
सेवते सर्वथा धाम्नि ततः सौख्यतरं नु किम् ।।७२।।
य एतेन विधानेन यक्ष्यन्ते खलु मां प्रिये ।
प्राप्स्यन्ति ते परां सिद्धिं मम धामगतां ध्रुवाम् ।।७३।।
अहमेव वरारोहे सर्वभूतसनातनः ।
अधश्चोर्ध्वंं च तिर्यक् च कोणेषूपरि संस्थितः ।।७४।।
नरे नार्यां कुमार्यां च विधवायां जरायुते ।
देहे देहिन्यपि चास्मि बाले युनि च गर्भगे ।।७५।।
एवं मां यो विजानीयाद् भजन्मां सर्वभावनः ।
संसारे विजयस्तस्य ततः सौख्यतरं नु किम् ।।७६।।
येन गर्भं न गच्छेद्वै तच्छृणुष्व समुद्रजे ।
कृत्वापि विपुलं कर्म चात्मानं न प्रशंसति ।।७७।।
करोति सर्वकर्माणि शुद्धेनैवाऽन्तरात्मना ।
ऐश्वर्ययुक्तो भवति समर्थोऽनुग्रहादिके ।।७८।।
कार्याऽकार्ये विजानाति कृष्णधर्मे विनिष्ठितः ।
शीतोष्णवातवर्षादिक्षुत्पिपासासहस्तथा ।।७९।।
कृष्णधनो निरालस्यः सत्यवागनसूयकः ।
ब्रह्मचर्यपरो नित्यं स्वदारनिरतस्तथा ।।1.567.८०।।
सत्याचारो विशुद्धात्मा नित्यं च भगवत्प्रियः ।
संविभज्य विशेषज्ञः साधुभक्तसुवत्सलः ।।८१।।
प्रियभाषी प्रभक्तानां मम सेवापरायणः ।
एवं यो मे भवेद्भक्तः कुयोनिं नहि गच्छति ।।८२।।
नाभिलषति स्वर्गादीन् मम लोकं स गच्छति ।
जीवहिंसानिवृत्तश्च सर्वभूतहितकरः ।।८३।।
सर्वत्र समतायुक्तः समलोष्ठाश्मकाञ्चनः ।
बाल्ये स्थितोऽपि वयसि क्षान्तो दान्तः शुभे रतः ।।८४।।
परेणापकृते नैव गणयत्येव मानसे ।
मम सेवां संस्मरेच्च मम सत्यं च जल्पति ।।८५।।
व्यलीकाद् विनिवृत्तो यस्तथ्येतिकृतनिश्चयः ।
नित्यं मौनविशेषस्थः परोक्षेऽपि न चाक्षिपेत् ।।८६ ।।
ऋतुकाले स्त्रियं गच्छेदपत्यार्थी न कामतः ।
ईदृशास्तु जना भद्रा मम भक्तिपरायणाः ।।८७।।
गर्भवासं न ते यान्ति यन्ति वासं ममाश्रये ।
आत्मना निश्चितं कुर्यात् साक्षिणं मां प्रदिश्य च ।।८८।।
परवादं न कुर्वीत शाठ्यधौर्त्यं विवर्जयेत् ।
न निन्देद्धर्मकार्याणि मम धर्मपथे स्थितः ।।८९।।
एभिर्गुणैः समायुक्तो मम सेवां करोति चेत् ।
मामेव स समाप्नोति ततः सौख्यतमं नु किम् ।। 1.567.९० ।।
पुनरन्यत्तु वक्ष्यामि कमले शृणु मे प्रिये ।
तरन्ति पुरुषा येन गर्भसंसारसागरम् ।।९ १।।
जितेन्द्रिया जितक्रोधा लोभमोहविवर्जिताः ।
आत्मोपकारका नित्यं देवाऽतिथिगुरुप्रियाः ।।९२।।
कपिलापूजका नित्यं तीर्थयात्राकरास्तथा ।
साधुसाध्वीपूजकाश्च वृद्धसन्मानकारकाः ।।९३।।
अनाथान् पालयेद् यश्च भेदभावं करोति न ।
सर्वेषामपि पुत्राणां विशेषं न करोति यः ।।९४।।
संक्रुद्धं स्वगुरुं दृष्ट्वा यस्तु तत्र प्रसादयेत्। ।
पूजयेत् कपिलां भक्त्या पालयेत् स्त्रीं पतिव्रताम् ।।९५।।
अग्निं नहि क्रमेत् पद्भ्यां मेहयेन्न जले क्वचित् ।
गुरुभक्तो भवेन्नित्यं ज्ञानवान्न च जल्पकः ।।९६।।
एवं धर्मेण संयुक्तो यो नु मां प्रतिपद्यते ।
स च गर्भं न गच्छेद्वै मम लोकं स गच्छति ।।९७।।
भुक्त्वा परस्य चान्नानि यश्चैव न विकुत्सति ।
बाल्ये वयस्यपि च यो मम नित्यमनुव्रतः ।।९८।।
येन केनापि सन्तुष्टो मातापितृप्रपूजकः ।
दाता भोक्ता न्यायतश्च स्वतन्त्रो नित्यसंयतः ।।९९।।
विकर्म नाभिकुर्वीत कौमारव्रतमास्थितः ।
सर्वभूतदयायुक्तः सत्त्वेन च समन्वितः ।। 1.567.१० ०।।
मत्या च निस्पृहोऽत्यन्तं परार्थेष्वस्पृहः सदा ।
ईदृग्भक्तो मम शिष्यो मम लोकं प्रगच्छति ।। १०१ ।।
इमं गुह्यं वरारोहे देवैरपि दुरासदम् ।
त्वं मे शिष्या च दासी च भक्ता पत्नीति कीर्तितम् ।। १ ०२।।
इत्येवं शंकरस्तत्र पार्वतीम् ऋक्षपर्वते ।
मम भक्तिं पुरा प्राह तैर्थभावे च नार्मदे ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सुखभावो दुःखभावः श्रीकृष्णनारायणपूजा सर्वकर्मसमर्पणतादिफलं जन्माभावश्चेत्यादिनिरूपणनामा सप्तषष्ट्यधिकपञ्चशततमोऽध्यायः ।।५६७।।